(७)
अन्ये भ्रातृर: किञ्चित् पूर्वं गृहं प्राप्तवन्त:, आवां प्रतीक्ष्य चातिष्ठन्। अस्माकमुपस्थिते: परं मात्रे शुभसंवादज्ञापनेच्छया सर्वेऽधीरा:। अल्पीयसा समयेनावामपि समागतौ। जीर्णकुटीरस्याङ्गने गन्तुं वयं पूर्णत: शिरो मेरुदण्डं च संनमय्याभ्यन्तरे पादमग्रेसारितवन्त:। हठान्मे मनो विषण्णमभवत्—अचिन्तयम्, अहह! एतादृशि जीर्णकुटीरे अस्माकमश्वा: श्वानोऽपि न निवसन्ति। पतिर्मे वीर इति नास्ति सन्देह:, किन्तु स पुनरेवं दीनदरिद्ररूपेण कालं यापयतीति कल्पनायामपि मे नासीत्।
वस्तुत: कुमारीमनसि कल्पनावास्तवयोर्मध्ये न कियान् भेद:? क्व हस्तिनाराजप्रासाद: क्व चैकचक्रिनगरस्य कुम्भकारगृहम्? अत्रैव पुनर्मया जीवनं यापनीयम्।
परक्षणे स्वमनोऽशासम्—अरे मूढमन:, प्रकृतिस्थं तावद् भव। राजकुमारीकृष्णाया: वधूकृष्णायै विचलितत्वव्यथिततादिकं निर्बोधतातिरिक्तं नान्यत् किमपि। वधू: कृष्णाऽस्मिन् कुम्भकारकार्यगृहे सम्यक् वत्स्यति।
एते पञ्च पुत्रा:। किन्तु नैते पञ्च पाण्डवा:। न भवन्तु नाम पाण्डवा:, तथापि सर्वे सुखदु:खविपदापत्सु एकमनस एकप्राणा वर्तन्त इतीदं मे महत् सौभाग्यम्। ममैक एव भ्राता। स पुनर्मे यमज: सहोदर:। मम न कोऽप्यग्रजो न चानुज:। अत: बाल्यात्, कस्यचिदपि भ्रातृरोऽनेके सन्तीति श्रुत्वा ममापीच्छा भवति यन्मेऽग्रजा अनुजाश्चानेकेऽभविष्यन् चेत्! अग्रजा मयि पितृस्नेहं व्यतरिष्यन्, अहं चानुजेषु स्नेहमवर्षिष्यम्। धृष्टद्युम्नस्तु मम समानवया: बन्धुरिवात्यन्तमात्मिक:।
अद्य पञ्चभ्रातृन् एकत्रावलोक्याचिन्तयम्—परमेश्वरो मे निवेदनमशृणोत्। सर्वेषु दैन्येषु एतावन्मात्रमैश्वर्यं प्राददात् यन्मम द्वावग्रजाविव द्वौ ज्येष्ठौ, अपत्यतुल्यौ च देवरौ। मम पुन: कोऽभाव:? एतेषां बाहुबलमेव मम धनं, सम्पत्ति:, आभिजात्यञ्च। अहं क्षत्रियकन्या। ममाधिकतरं किमावश्यकम्?
प्रत्येकं परिस्थितौ सुखी भवितुं प्रयास: प्रायेण मनुष्यस्य सहजा प्रवृत्ति:। तत: कुम्भकारस्य जीर्णवासगृहसम्मुखे स्थिताऽहं स्वयमैश्वर्यमयीं मत्वा सुखिनी भवितुं प्रयते।
ज्येष्ठो भ्राता शान्तमधुरदृष्ट्या मां सकृत् पश्यन् रुद्धद्वारि कराघातपूर्वकं मातरमाकारयत्। तस्य स दृष्टिपातो मम हृदयमेवं स्नेहस्निग्धं समपादयद् यदहं मनसाऽचिन्तयम्—धर्मवतेऽस्मै पुरुषाय भक्तिव्याहृर्तिं विना मे नान्या गति:। स मे भक्ते: परमयोग्य: पुरुष:।
महतोल्लासेन ज्येष्ठभ्राता समुदगीरत्—''मात:, अद्यास्माभिर्दुर्लभमेकं द्रव्यं सहानीतमस्ति। कपाटमुद्घाट्य पश्य, तव पुत्रा रिक्तहस्तेन नैव प्रत्यावर्त्तिता:।’’
अहं लज्जयाऽधोमुखी दण्डायमानाऽस्मि। ज्येष्ठभ्राता मां दुर्लभवस्तुत्वेन वर्णयतीति मनसाऽहमानन्दमनुभवामि। अन्तरालादलसेनाथ च दृढेन च कण्ठेन मातुरादेशोऽश्रूयत—''आयुष्मन्त:, यदानीतं तत् पञ्चभि: समानतया भुज्यताम्।’’
श्रुत्वा ज्येष्ठभ्राता स्तब्ध:, गभीरभावनया निमज्जितश्च। अन्ये भ्रातृर: परस्परं मुखानि विलोक्य निरुत्तरा:। मम पतिर्गम्भीरोऽन्यमनस्कश्च बभूव। अहं च लज्जया, विस्मयेन, विरक्त्या च मस्तकं संनमय्य कवरीभारं वस्त्राञ्चलेनावृणवम्।
कुटीरद्वारमुद्घाटितम्। सम्मुखे स्नेहमयी, करुणामयी, सौन्दर्यमयी च जननी समुपस्थिता। माताऽन्नपूर्णेव परिपूर्णा, धरित्रीव काऽपि सर्वंसहा मूर्त्ति: स्तब्धविस्मितानुतप्तदृष्ट्या मुग्धतया मां निरीक्षते।
अहं मातु: पदे स्पृष्ट्वा प्राणमम्। निपतितपुष्पस्य कोमलहस्तस्पर्शेनाधस्तादुत्तोलनमिव माता मामतियत्नेनादृत्यालिङ्गितवती। क्षीणेनानुतप्तेनापि कण्ठेनाह—''अहमधमा किमिदमब्रवम्? अहं त्वचिन्तयम्—पुत्रा भिक्षां सङ्गृह्य प्रत्यावर्त्तिता:। किन्तु, इयं तु दिव्यसुन्दरी राजकन्या!’’
ज्येष्ठो भ्राता नतमस्तक उवाच—''आम् मात:, इयं द्रुपदराजनन्दिनी कृष्णा। स्वयंवरस्य पणं लक्ष्यभेदं सम्पाद्य भवत्या मध्यमपुत्रो राजनन्दिनीमलभत। विवाहात्पूर्वं भवदाशीर्वादं स्वीकर्त्तुं सा समुपस्थिता।’’
''हे भगवन्, किमिदं जातम्? अधुना किं करणीयम्? यदि यूयं मे वचनं न रक्षत, तन्मिथ्या भवेत्, ममापि घोरमपमानं स्यात्। जननीवचनमन्यथयन्तो यूयं धर्मद्रोहिण: स्या:। यदि मम वचनरक्षार्थं द्रोपदीमङ्गीकुरुत, तर्हि द्रौपद्या लज्जापमाने असीमे सम्पद्येताम्। सम्प्रति केन मम सत्यं सुरक्षितं भवेत्, युष्माकं धर्मरक्षा सम्भवेत्, द्रौपद्याश्च सम्मानं यथावत् स्यादिति नाहं निर्णेतुं शक्नोमि।’’
ज्येष्ठो भ्राता उवाच—''अम्ब, भवत्या आदेशपालनमस्माकं जीवनस्य प्रथम: परमश्च धर्म:। भवद्वचनमवश्यं पालयिष्यते। वयं द्रौपदीं परिणेष्याम:।’’
अन्ये नीरवसम्मतिमददु:। मम पतिर्निरुत्तर:, किन्तु विषण्णश्चान्वभूयत। मम मनसि च विद्रोह: समजनि। अचिन्तयम्—किं मम किमप्यभिमतं नास्ति? कोऽर्थस्तत: स्वयंवरस्य? किमर्थं तर्हि पित्रा स्वयंवरस्यैवं गुरुतर: पण उद्घोषित:?
एतै: भ्रातृभि: का नाम स्वयंवरप्रतिज्ञा पूरिता? मया तु एकस्यैव गले वरणमाला समर्पिता। न्यायत: धर्मतश्च स एव मे पति:। स मां जितवान्। अपरान् भ्रातृन् किमर्थमहं पतित्वेन वरिष्यामि? अनेन किं मम धर्मो न नङ्क्ष्यति? एकस्या नार्या: पञ्चपुरुषनायिकात्वदृष्टान्तो मामन्तरेण पृथिव्यां नान्यस्या अस्ति, न च भविष्यति। इदमसम्मानं शान्त्या कथमहमङ्गीकरिष्यामि? किमहं काचित् प्राणहीना प्रतिमा? मम सौन्दर्येण कामातुरा एते विचारबुद्धिशून्या: भ्रातृरो मदुपरि यथेच्छमधिकारं स्थापयिष्यन्तीति तदेतदहं स्वीकरिष्यामि?
अग्रजं प्रति मे मनसि घृणा जायते। तस्य दृष्टौ कामनाया गोपनीयामग्रिशिखामहं स्पष्टमुत्पश्यामि। अन्येऽपि भ्रातृरस्तं न प्रतिवदन्तीति तानपि घृणयेक्षितुं न शक्नोमि। समेषां तेषां नयनेषु कामनाया अग्रिकणमहं प्रत्यक्षीकरोमि।
मम पत्यै मे भीषण: क्नोध उत्पद्यते। किमयं वीरपुरुष:! तस्य पत्नीं ज्येष्ठकनिष्ठसहोदरा उपभोक्ष्यन्त इति शृण्वन्नपि तिलमपि न विद्रुह्यति कथम्? एकेनैव वाक्येनास्य हास्यकरघृणानाटकस्य यवनिकां न पातयति कथम्? कोऽपि पुरुष: किं स्वस्त्रियमन्यै: सह समानरूपेणोपभोक्तुं प्रस्तुतो भवेत्? किमयं पौरुषपरिचय:?
अहमनुक्षणं क्रुद्धतरा भवामीति न ते ज्ञातुं प्रभवन्ति। माता दु:खदग्धकण्ठेनावदत्—''यूयं मे वचनं पालयिष्यथेति जानामि। यूयं सर्वे धर्मवन्त:। मम वचनमपाकर्त्तुं नार्हथ। किन्तु, राजकुमारीं कृष्णां मध्यमपुत्रो जितवानिति न्यायत: स एव कृष्णाया: पति:। अतस्तस्य किं मतम्?’’
ज्येष्ठो भ्रातोदारकण्ठेन सममन्यत—''वस्तुत इदमुचितम्। स कृष्णामजयत्। ततस्तस्यैव कृष्णाया: पाणिग्रहणमुचितम्। वरं वयं मातुर्वचनलङ्घनेन पापभाज: स्याम, किन्तु स कृष्णां परिणयतु इति जगति अङ्गीकृतो न्याय:। अत: अनुज! त्वं ह्यस्या: समस्याया: समाधानं कुरु?’’
मम पतिरधोमुख: स्पष्टमाह—''यन्मातुर्मुखात् निर्देशरूपेण नि:सृतम्, यच्च भवता सविनयं स्वीकृतं, तदेव हि मे धर्म:। एक एवाहं कृष्णां स्वीकृत्य सुखी स्याम्, परन्तु तेन मे धर्मद्रोहो भवेत्, यतोहि तेन हि मया मातुर्भवतश्च वचनं लङ्घनीयम्। भवतोक्तञ्च—कृष्णां वयं सर्वे पञ्च भ्रातृर: परिणेष्याम:। तस्मिन्नसम्मत: सन् पापभाग् भवितुं नेच्छामि। भवाँस्तु ज्येष्ठो भ्राता। भवत: पूर्वं कथमहं विवाहित: स्याम्? वरं सुखं मे नश्यतु, धर्मो न यातु। धर्मं त्यक्त्वा मातुरग्रजस्य च वचनलङ्घनेन यत्सुखं लभ्येत, तन्न प्रकृतं सुखम्। तेन च मनसो निर्मल: सन्तोषो नैवासाद्यते। अत: राजकुमारीं वयं समानरूपेणोपभोक्ष्याम:। सा भविष्यति पञ्चानां धर्मपत्नी।’’
पत्युर्वचनं निशम्याहमनुबेलं हुताशनशिखेव ज्वलामि। चिन्तयामि—यज्ञकुण्डस्य लेलिहानशिखेव तस्मिन्नेव क्षणे पृथिवीं ध्वंसयिष्यामि, तस्मिँश्च ध्वंसकाण्डे भस्मीकरिष्यामि स्वार्थपरानेतान् पञ्चान्। तन्मध्ये च मम पतिर्भस्मत्वेन परिणमति चेन्न तिलमपि दोष्यामि। स्वस्य धर्मनाशभयात् पत्नीं निर्विकारतया योऽन्यपुरुषेभ्य: प्रयच्छति, स पृथिव्यां श्रेष्ठो धर्मवान् पुरुषो भवतु नाम, कदाचिदपि तु स कस्याश्चन विचारशीलाया नायिकाया: समुचित: पतिर्भवितुं नार्हति।
मनस: क्षोभेणाहमन्तर्दहामि। अभ्यन्तरे भूयसि जायमाने विद्रोहेऽपि मुखे मे भाषा नास्ति। प्रायेण मम मनो माता वेत्ति। साऽप्येका नारी। अत: क्षणेऽस्मिन् कस्याश्चित् नार्या मनोभावं वेदितुं सा स्वभावत: शक्नोति।
सा कोमलेन सहानुभूतिसहितेन च स्वरेणावादीत्—''जानामि, राजकुमारी कृष्णा ज्ञानवती, बुद्धिमती, बहुशास्त्रविशारदा च। एवम्भूताया विषमाया: सङ्कटोत्पादिकाया: परिस्थिते: समाधानं सा स्वयं करोतु। तस्यां बलादस्माकमभिमतन्यासो नोचित:।
तदानीमेव तत्र बहुशास्त्रविशारदो भगवान् व्यासदेव: समुपस्थित:। अहं मनसाऽचिन्तयम्—व्यासदेवस्यानेन परिवारेण सह क: सम्बन्ध:? अस्यां परिस्थितावत्र कथं समागत:? यदीश्वरकृपया स इहागतस्ततस्तेनैवास्या: समस्याया: समाधानं करणीयम्। मदुपरि समाधानक्लेशं निक्षिपन्ती माता स्वयं दोषमुक्तां कर्त्तुं वाञ्छति। मम पतिरपि ''न म्रियतां सर्प:, न त्रुट्यतां दण्ड:’’ इति नीत्या व्यवहरति। सोऽपि दोषादात्मानं मोक्तुं व्याकुलित:। अस्यां परिस्थितौ किमहं कुर्याम्?
भगवान् व्यासदेव: सर्वं निशम्य गम्भीरो बभूव। भावमग्नोऽपि समपद्यत। माता नम्रकण्ठेनोपास्थापयत्—''मूलत: कृष्णा लब्धेति कथनेनेयती विषमता नोदपत्स्यत। सम्प्रत्येवमुपायो विधीयतां येन मम वचनमन्यथा न स्यात्, मम पुत्रा मातृसत्यलङ्घनपापपङ्कपतिता न भवेयु:। राजकुमारी कृष्णा चास्पृष्टपापा सम्पद्येत।’’
अहं चिन्तितवती—द्वौ विरोधभावापन्नौ प्रसङ्गौ युगपत्कथं सम्भवेताम्? द्वन्द्वोऽपि मे मनसि समुदितो यत्—अग्रजो जानन्नपि एवं द्व्यर्थबोधकं वाक्यमुपस्थाप्य मात्रे ममागमनसमाचारं ज्ञापितवान्। स जानाति यत् प्रत्यहं भिक्षालब्धं धनं समानरूपेण भोक्तुं पुत्रान् माता निर्दिशति। अत: मातुरेवं निर्देशप्राप्तौ सोऽत्यन्तमभ्यस्त:। अन्यथा स कथमिदं नाज्ञापयत् यत्—''मात:, स्वयंवरे तव मध्यमपुत्रो राजकुमारीं कृष्णां विजित्य तद्वरणमालामलभत। पश्य, तव मध्यमा पुत्रवधूस्त्वदाशीर्वादलब्धये प्रतीक्षते।’’ तत: यदि स प्रसङ्गमिममुन्मुक्ततया न प्रकाशितवान्, तर्हीदमत्र स्पष्टमनुमेयं यत्तद्वाक्यमभिसन्धिमूलकम्। द्वारोद्घाटनात् पूर्वं सुन्दरं पदार्थं पञ्चोपभुञ्जेति माता कथयिष्यतीति ज्ञात्वा स एवं वाक्यं व्यज्ञापयत्। प्रायेण मम रूपेण विमुग्धो मां लब्धुं कुचक्रं रचितवान्। अन्येऽपि भ्रातृरो मां प्रत्याकृष्टा अवश्यं स्यु:। ततस्तेऽपि सुयोगमिमं कथं हस्तादन्तरयेयु:?
अहमाकाशात्पातालं यावच्चिन्तयामि। अशृणवम्, व्यासदेवो मात्रे ब्रूवन्नस्ति—''त्वं तु जानासि यन्मया तुभ्यं समाचार: प्रेषितो राजनन्दिनी स्वयंवरे पञ्चपुत्रान् पाञ्चालेषु प्रेषयितुम्। त्वमप्येतत् सम्यक् जानासि यत् स्वयंवरस्य विषमां प्रतिज्ञां त्वन्मध्यमपुत्रातिरिक्तोऽपर: कोऽपि पूरयितुमसमर्थ:। तत: सर्वं ज्ञात्वाऽपि यदि तव पुत्रान् प्रत्येवं निर्देश: प्रकाशित:, किं पुन: करणीयमन्यत्? इदमपि जानीहि यदासन्नेऽपि महाप्रलये तव पुत्रास्ते वचनं न लङ्घयिष्यन्ति। यद् जातं तद् जातम्। अनुशोचनायां न वाक्यं प्रत्यावर्त्तिष्यते। अत: कृष्णायां सर्वं त्यज्यताम्। पतिनिर्वाचने स्वातन्त्र्यमार्यकन्यानामस्ति। वयं तत्र किमर्थं हस्तक्षेपं कुर्याम?’’
केवलं गुरुदेवव्यासदेवस्य सिद्धान्तो मां नाव्यथयत्, हतचकितां च चकार। अचिन्तयम्पृथिव्यामस्यां न कोऽप्यात्मने दोषान् आकर्षति। सर्वेऽन्येषु दायित्वं संन्यस्य स्वयं दोषान्मोक्तुं तत्परा:। माता किमिच्छति, अग्रज: किमभिलषति, गुरुदेव: किं काङ्क्षति—अहं वेद्मि। अहं स्पष्टं प्रतिवक्तुमिच्छामि यन्मम पतिरेक एव येनाहं विजिता, यं चाहमवृणवम्। परन्त्वेतेन मातु: सत्यरक्षा न स्यात्। भ्रातृरो मातृवचनलङ्घनदोषेणाभियुक्ताश्च स्यु:। तेषु मम पतिरपि अधिकदोषभाग् भवेत्। अस्यां परिस्थितौ किमहं स्वपत्या सह सुखेन संसारं यापयिष्यामि? मूलतो हि मातुरग्रजस्य च वचनापाकरणापराधेन समेषां विद्वेषपात्रं भविष्यामि। अन्ततो मम पतिर्मां दूषयिष्यति यत् स मत्कारणान्मातृवचनद्रोही जात इति। आसु विषमतासु कथमहं स्वाभिमतमुपस्थापयेयम्?
यदि तन्न भवेत्, तर्हि तद्विपरीतं कथमङ्गीकुर्याम्? एकस्या नार्या: पञ्चपतिवरणस्यास्ति किं कोऽपि दृष्टान्त:? एतेन, स्त्रीजातेर्यशो न वर्धिष्यते, अपितु, आगामिनि समये द्रौपदी निन्दितलाञ्छितघृण्यनारीरूपेणेतिहासे चित्रिता भवेत्। किं बहुना, कलियुगस्य बहुपुरुषयुक्ता: भ्रष्टा नारी: सर्वे ''कलियुगद्रौपदी’’ इत्याख्ययोपहसिष्यन्ति। ते किमवगमिष्यन्ति यत् कया परिस्थित्या हता पाञ्चाली पञ्चपतिनायिका समपद्यत? अन्यस्य सत्यधर्मरक्षार्थं किमर्थमहं निन्दिता स्याम्? मात्रेऽक्रुध्यम्। तां प्रति विद्वेषोऽपि मे जात:। अथ च तां दृष्ट्वा स्वमातृविरहशोकं विस्मृतवती। सा सर्वं ज्ञात्वा वाक्यमिदं किमर्थमुदचारयत्? सैव पुत्रान् पाञ्चालेषु सम्प्रेष्यापि सम्यग् विदितवती यत्तस्या मध्यमपुत्रो निश्चयेन मां जेष्यतीति। परन्तु प्रसङ्गस्यास्य पृष्ठभूमौ किमुद्देश्यं रहसि वर्त्तते?
प्रत्येकं माता कामयते यत् स्वस्या: पुत्रवधू: रूपवती, ज्ञानवती, विद्यावती च स्याद्वा न वा, परन्तु चरित्रवती, सती, साध्वी च भवेत्। सूर्यमुखीव केवलमेकमेव पतिभास्करं ध्यायं ध्यायं जीवनं वाहयेत्। किन्तु, अत्रेदं वैपरीत्यं कुत:? स्ववचनरक्षार्थं सा कथं स्वपुत्रवधूं पञ्चपतिवरणाय प्रेरयति?
अचिन्तयम्—आमूलात्प्रसङ्गोऽयं न सरल:। पृष्ठतोऽस्य किमपि गूढं रहस्यमवश्यं वर्त्तते। प्रायेण किमपि महत्तरमुद्देश्यं स्यात्। परन्तु यदस्तु नाम, उद्देेश्यं यावन्महदस्तु नाम, अहं किमर्थं पञ्चपतिवरणं स्वीकरिष्यामि? मया त्वेको वृतपूर्व एव।
अन्तर्मनसा कृष्णमस्मरम्। मनस: सकला: क्षोभा: क्षणेन तस्मायर्पिता:। अनुमितं मया च—यदि सोऽत्रोपस्थितो भवेत्तर्हि अवश्यं मां विषमसङ्कटादुद्धरेत्। एते सर्वे मया स्वोद्देश्यं पूरयितुं वाञ्छन्ति, किन्तु स्वयं दूषयितुं न कामयन्ते। कृष्णस्तु न तथा। इङ्गितेनावश्यं स ज्ञापयेत् किं मया करणीयमिति। स्वस्त्रीधर्मो महान् अथवा मातु: सत्यरक्षा महती उताहो भ्रातृणां धर्मरक्षा ज्यायसी! आत्मानमन्यधर्मरक्षार्थं समापयितुं मम कर्त्तव्यम्, अथ स्वात्मसम्मानानन्दलाभायैकपतिवरणं मया करणीयमिति स्वयं न निर्णेतुं प्रभवामि। मनसाऽकथयम्—''हे गोविन्द! त्वं मया प्रियसखत्वेन स्वीकृत:, आत्मा च त्वयि समर्पित:। आर्यावर्ते त्वं सर्वतो ज्ञानवान्, गुणवान्, विचारवाँश्च। किमेतन्न त्वया ज्ञातं, ब्राह्मणा एते स्वधर्मयज्ञे कृष्णां बलिरूपेणार्पयितुमेवं नाटकं रचयिष्यन्तीति! यदीदं त्वया विदितपूर्वं, किमर्थं मह्यं नेङ्गितेन ज्ञापितं तत्? अधुना किमहं कुर्याम्?’’
कादाचित्कतयैवमाकस्मिकी घटना घटते। मम स्मरणमात्रेण द्वारि कृष्णबलरामावुपस्थितौ।
तौ मातरं प्राणमताम्। माताऽत्यन्तं स्नेहेन कृष्णबलरामावङ्कयन्ती कृतज्ञतां च प्रदर्श्योवाच—''गोविन्द! तवाशेषदूरदर्शिताकारणाद् दुर्योधनस्य भीषणकूटनीतेर्वयं परित्राता:, राजकुमारी कृष्णा चास्माभिरुपलब्धा। सम्प्रति कृष्णाविषये विषमा परिस्थितिरुत्पन्ना। केनोपायेन समेषां धर्मरक्षा सम्भवेत्, त्वमेवावश्यं वक्तुमर्हसि।’’
मम समग्रं शरीरं रोमाञ्चितम्। आनन्दविस्मयाऽऽशातीतसुखकल्पनाभिरहं सद्यो विमूढा। मध्यमपाण्डवोऽर्जुन एव मां जयति। यच्चरणयोरहं समर्पितपूर्वा, स एव मयाऽन्ततो लब्ध:। गोविन्द एव सर्वं जानन् नाटकमिदं व्यरचयत्। अन्यस्य सुखदु:खे प्रसङ्गीकृत्य नाटकरचनायां गोविन्द: सिद्धहस्त:। तस्मायहं केन भावेन कृतज्ञतां ज्ञापयिष्यामि?
कृष्णश्चतुरताया: स्मितं प्रकाश्यावादीत्—''वरवर्णिनीकृष्णां प्रति को वाऽऽकृष्टो न स्यात्? यो नाकृष्ट: स प्रायेण पुरुष एव न स्यात्। स क्लीबो जडो वा। तत: कृष्णाकारणात् सम्प्रति समग्रे भारतभूमण्डले घोरविवादस्य सूत्रपात एव जात:। अर्जुन: कृष्णां लब्धवानिति समस्तदेशान्तराणां राजानोऽसहिष्णव:। ईर्ष्यया विफलताया ग्लान्या च ते विद्रोहसूत्रमन्विषन्ति। तेषां वा को दोष:? कृष्णां य: सकृद् नयनविषयीकृतवान्, स तामलब्ध्वा कथं शान्त्योपवेष्टुं शक्नुयात्! अत: पञ्चपाण्डवेष्वपि कालान्तरे कृष्णाहेतो: भ्रातृविवादस्य समुत्पत्ते: भृशं सम्भावना वर्त्तते। लज्जया पुरतोऽकथयन्नपि को बत धर्मप्रतिज्ञया प्रकाशयितुं शक्नुयाद् यत् स कृष्णां प्रति नासक्त:, केवलमर्जुनस्य कृष्णाधिकारेण न स ईर्ष्यान्वित: स्यादिति! अयि भीमसेन! त्वं किं स्वराक्षसीपत्नीं हिडिम्बां कृष्णया तुलयित्वा निजभाग्यं न धिक्करोसि, अर्जुनाय च नेर्ष्यसि? वरं, मातुर्मुखाद्भ्रमेणैवं वाक्यप्रकाशनं सर्वेषां कृते शुभप्रदमस्ति। निश्चयेन युधिष्ठिर: सर्वमेतद्विचार्य समेषां धर्मरक्षार्थं, पृथिव्यां धर्मस्थापनार्थं चेदृशीं परिस्थितिमसृजत्। वस्तुत: पञ्चानां पाण्डवानामेकत्वाभावेन दुराचाराणां शतं कौरवभ्रातृणां दमनमसम्भवं सम्पद्येत। एकता नाम सफलताया: सङ्घटनस्य च मूलमन्त्र:। स्त्रीकारणात् परिवारस्यैकता नश्यति। अत: पञ्चपाण्डवान् एकतासूत्रेणाबद्धुकामो युधिष्ठिर: कृष्णां सर्वेषां पञ्चानां पाण्डवानामर्धाङ्गिनीत्वेन कामयते। अत्र मयान्यत् किं करणीयम्? अहं तु न पञ्चानां भारं स्वीकरिष्यामि। ये स्वीकरिष्यन्ति, ते विचारयन्तु, इदं तै: सम्भवं न वा—।’’
मम महनीयतां, ज्ञानं, विचारबुद्धिं, सतीत्वपराकाष्ठां च परीक्षितुं मह्यमिदमेकमाह्वानमिव। इयमेका विषमा परिस्थिति:। अहमत्यन्तमानन्दिता यन्मयाऽर्जुन: पतिरूपेण लब्ध:, पुनरहं विचलिता यन्मयाऽर्जुनसमेता: पञ्चपतयोऽङ्गीकार्या:।
पञ्चपाण्डवेषु ऐक्यस्थापनायाहं भविष्यामि पञ्चानां पत्नी। पृथिव्यां धर्मं स्थापयिष्यन्ति पाण्डवा: पञ्च भ्रातृर:। तेषामनैक्ये पृथिव्यां धर्मपराजयो निश्चित एव। अतोऽत्र मे भूमिकाऽत्यन्तं गुरुत्वपूर्णा।
एकदा प्रभू रामचन्द्र: पृथिव्यामवततार धर्मसंस्थापनार्थम्। ते आसन् चत्वारो भ्रातृर:। सती सीता तु एतादृक्परिस्थिते: सम्मुखीना तदानीं नाभूत्। रामलक्ष्मणभरतशत्रुघ्नेषु एकतारक्षार्थं सीता कुतश्चतुर: सहोदरान्नावृणोत्? प्रायेण साऽऽसीज्जगज्जननी माता लक्ष्मी:, अहं तु दीना साधारणमर्त्त्यमानवी। ततो मे परीक्षा—विडम्बितं पतिनिर्वाचनम्।
सीतां सहधर्मिणीत्वेनाप्राप्यापि लक्ष्मणभरतशत्रुघ्ना: रामचन्द्रस्यानुगता अनुजा आसन्। मामन्तरेण पाण्डवा: पञ्च परस्परमनुगता न स्यु: कथम्?
सती सीताऽस्यां परिस्थितौ किमकरिष्यत्? प्रायेण स धरित्रीशरणमयाचिष्यताकथयिष्यच्च—''मात: धरित्रि, त्वं मह्यं शरणं प्रयच्छन्ती लज्जां मे दूरीकुरु।’’ परन्तु नाहं सीतेव सहनशीला, सर्वंसहा चाथवा दु:खेन लज्जया च मुखमावृत्य पलायनं न मे स्वाभाविको गुण:। आवश्यकतायां सत्यां विप्लवमहं स्वीकर्त्तुं शक्नोमि, प्रतिहिंसामपि प्रतियच्छामि। अतोऽतिशीघ्रमहं सिद्धान्तमुपनीता। सर्वे मे सिद्धान्तं प्रतीक्षन्ते। कृष्णस्येङ्गितेन मया ज्ञातं यद् बृहत्तरस्वार्थपूर्त्तिये क्षुद्रतरो विसृज्य:। अहं यदि पञ्चपतिवरणं न स्वीकरोमि, तेन मे यशो वर्धिष्यते, परन्तु मातुर्वचनरक्षा न स्यात्, पाण्डवानां सत्यरक्षा न सम्म्भवेत्, पृथिव्यां धर्मसंस्थापनायां बाधा चापद्येत। अतोऽत्र 'अहम्’ इत्यस्य बलिरुचित:।
अहं याज्ञसेनी। धर्मरक्षायै मे जन्म। अस्मै नश्वरशरीराय लोभातुरा: पाण्डवा: पञ्च वीरा:, विचारवन्त:, ज्ञानिन: सुपुरुषाश्च मातु: प्रतिज्ञया बद्धा:। तेषां धर्मयज्ञे ममेदं शरीरं हव्यं भवतु। वस्तुत: किमिदं शरीरम्? कुत इदमायाति? कुत्र च प्रयाति?—नाहं जानामि। 'अहं’ तु नेदं शरीरम्। मम हस्तपादाद्यङ्गानि तु नैव कृष्णा। मम शरीरस्य कोऽप्यंशश्च तु न कृष्णा। अत: शरीरमिदं लब्ध्वा सर्वे सुखिनो भवन्तु। ऐक्यबद्धाश्च भवन्तु। किमर्थमहमपवारयिष्यामि? क्षित्यप्तेजोमरुद्व्योमभि: पञ्चभूतैर्जातमिदं शरीरं पञ्चपतिभ्य उत्सर्गीकृत्य किमहं सती भवितुं न शक्नोमि? का पतिव्रताया: संज्ञा? अहमेतावद् वेद्मि यत् पतिं प्रति विश्वस्तत्वमेव सतीत्वम्। मम पञ्चपतिषु विश्वस्तताऽऽवश्यकी। एकस्मिन्नात्मसमर्पणकाले सम्पूर्णसमर्पणं करणीयम्। यदि तथा न स्यात्तर्हि असती स्यामहम्। अचिन्तयम्—मानवस्य मन एतावदविश्वस्तं रहस्यमयं च यत् सम्पूर्णतया कस्मिंश्चित् समर्प्यते वा न वेति स्वयमपि ज्ञातुं दुरुहम्। अत: यद्यहं तत्कारणादसती भवामि, ततो न दु:खम्। पञ्चपतिषु अर्जुनमपि पतिरूपेण लप्स्य इत्येतत् सर्वान् दु:खग्लानिक्षोभादीन् मेऽपासारयत्।
अहं स्थिरनिष्कम्पस्वरेण स्वसिद्धान्तमश्रावयम्—''पञ्च पाण्डवसहोदरान् पतिरूपेणाहं वरिष्यामी’’ति।
अपश्यम्—मातुर्मुखमुज्ज्वलमभूत्। साऽऽशीर्वादमदात्—''यशस्विनी भव।’’ आगामिनि युगे नरनार्य: पञ्चपतिवरणकारणात् पाञ्चाल्या यशोगानं करिष्यन्ति न वेति विचिन्त्याहमन्यमनस्का सञ्जाता, स्वचिन्तया म्लाना चाभूवम्।
मम जीवनस्य सर्वा: घटना एवं नाटकीया भविष्यन्तीति कदापि मे कल्पनायामपि नासीत्। अद्यारभ्य जीवनस्यान्तिममुहूर्त्तं यावन्मया पञ्चसु भूमिकासु अभिनेयम्। पञ्चपतीनां व्यक्तिरुच्यनुरूपं ममेदं पञ्चभूतरचितं शरीरं, मनश्च प्रस्तोतव्ये।
(८)
मधुशय्या। जीवने सकृदायाति। परन्तु मम जीवने तस्या: पुनरावृत्ति:—पञ्चवारम्। पञ्चपतीनां पत्नी अहम्—पाञ्चाली। मधुशय्यानुभूति: प्रतिजनमेकान्तनिजस्वं, गोपनीया च। परन्तु ममानुभूतिरनन्या—असाधारणा—अन्याभ्यो भिन्ना। अतस्तामप्रकाश्य मम परिस्थितिं कथं ज्ञापयामि?
तस्मिन् दिने कुम्भकारगृहे मम प्रथमरात्रियापनं पतिभि: सह, श्वश्रवा सह च।
एकमात्रं प्रकोष्ठम्। तृणशय्यायामस्वपन् क्रमशो मम पञ्च पतय:। श्वश्रूरस्वपत् पुत्राणां मस्तकानि स्पृशन्ती शय्याया ऊर्ध्वभागे। मम शय्या तु पतीनां पदतले।
मम पञ्चभूतशरीरमुपधानीकृत्य पञ्चपतिभिर्दशचरणा: स्थापयिष्यन्ते। स एव हि स्यान्मे समुचित: स्त्रीधर्म:।
किन्तु, एकस्या नार्या युगपदेकाधिकपुरुषै: सह शय्याग्रहणं कियल्लज्जाकरं दु:खदायकञ्च, तन्मद्भिन्ना काऽन्याऽधिकं जानीयात्! पञ्चपतीनां तद्द्विगुणपदस्पर्शस्य समानसमयेऽनुभव: घोरलज्जाकर:।
अहं नतमुखी चिन्तयन्त्यासम्—अधुनाऽपि मम विधिपूर्वकं विवाहो न सम्पन्न:, अतो मम स्थानं मातुश्चरणतले। अहं विलम्बितायामपि रात्रौ मातु: पदसेवां करोमि, न जाने केन दु:खेनाप्रतिहताश्रुधारया गृहतलं सेचयामि। मातु: पदसेवां कुर्वत्या मम चक्षुषोरश्रु तस्याश्चरणावस्पृशत्। माता तु चकिता नाभवत्। पूर्वं साऽजानात् यदहं रोदिमीति। क्षीणकण्ठेनावोचत्—''कुतस्ते दु:खमित्यहं जानामि। एकदा स्वयंवरे ते श्वशुरं वृत्वाऽहं कियत् सुखं कल्पितवती। परन्तु सोऽभूत् शापग्रस्त:। तेनापि मे दु:खं नासीत्। जननीत्वावाप्तेर्निष्फलकामनया कदापि नाहं भाग्यं धिक्कृतवती। पत्यु: पादपद्मे ध्यायं ध्यायं तं प्रसादयामि स्म। परन्तु वंशरक्षार्थं, राज्यसुरक्षानिमित्तं समुचितवंशधरोत्पादनाय तदनुरोधेनाहं धर्मदेवपवनदेवदेवराजाऽश्विनीकुमाराणां पृथक् पृथक् संसर्गेण पुत्रान् गर्भे धारयित्वाऽजनयम्। कदा कदा च तत्कारणादहमुपहासस्य व्यङ्ग्यस्य च न सम्मुखीनाऽभवमिति मा चिन्तय। अहं सर्वमसहे—मया किमपि पापं न कृतमपितु पुण्यमाचरितमिति स्वात्मानं प्रबोधयामि। यतोहि यन्मया कृतं तत् पृथिव्या मङ्गलसाधनायावश्यकमासीत्। अद्य त्वं यस्या: परिस्थिते: सम्मुखीना, साऽपि धरित्र्या धर्मरक्षार्थमेव। अतस्त्वं पुण्यवतीति त्वया सर्वथा चिन्तनीयम्। पृथिवीकल्याणाय कियतां बतात्मबलिर्भाग्ये फलति?’’
हठादहमचिन्तयम्—माता सर्वं ज्ञात्वा मामस्यां परिस्थितौ निपातितवती।
पत्युरनुरोधेनास्तु नाम, पृथक् पृथग् देवानां संसर्गात् पुत्रवतीत्वान्मातुर्मनोऽवश्यं मध्ये मध्ये प्रायेण पापबोधेन लज्जया सङ्कोचेन च भाराक्रान्तं भवेत्। अन्यनारीभि: सहात्मतुलनया प्रायेण ग्लानिं मन्येत। प्रायेणास्माद्धेतो: सा कदाचिद् व्यङ्ग्योपहासयो: पात्रतां गच्छेत्। क्वचित् स्वपुत्रवधूसम्मुखे स्वयं लज्जितां मन्यते—एतदर्थं किं मात्रा ज्ञात्वाऽपि स्वपुत्रवध्वै पञ्चपतिवरणाय बाध्यताऽऽपादिता? अपत्यवती भवितुं सा भिन्नपुरुषाणां संसर्गमलभतेति कदाचित् पुत्रवधू: कटाक्षं कुर्यात्, श्वश्रूं च हीनदृष्ट्या पश्येदिति किमियं तस्या: कूटनीति:? अथवा, ज्येष्ठाया गान्धार्या: शतपुत्राणां दमनपूर्वकं स्वपुत्राणां राजसिंहासनलब्धये तेषामेकमनसैकहृदयेन च स्थातव्यमिति पुत्रवधूं कृष्णामस्यां विषमायां समस्यायां निक्षिप्तवती? कारणं किमपि स्यान्नाम, प्रसङ्गोऽयं न कदाप्याकस्मिक इति विज्ञाय मनो मे भिन्नं शतधाऽभूत्।
मम भ्राता धृष्टद्युम्नो गोपनेनास्माननुससार। ब्राह्मणानां पञ्चभ्रातृणां परिचयं वेदितुं पित्रा स: प्रेषित:। समस्तं विवरणं सङ्गृह्य धृष्टद्युम्न: सन्तुष्ट: पाञ्चालराजधानीं परावर्त्तित:। परेद्यु: पिता प्रत्यूषात् शिबिकावाजिरथादींश्च प्रेषयामास। पञ्चपाण्डवा:, माता कुन्ती, अहं च पञ्चालेषु गता:। पाण्डवानां परिचयमवाप्य पिताऽत्यन्तमानन्दित आसीत्। यतोहि तद्द्वारा तदभीष्टं पूर्णं बभूव।
महाडम्बरेण विवाहोत्सवं तात आयोजयामास। पञ्च विवाहवेदिका: निर्मातुं मातु: कुन्त्या निवेदनात् पिता सविस्मयमपृच्छत्—''भवत्या मध्यमपुत्रायापराश्चतस्र: कन्या: स्थिरीकृता: अथवा अन्येषां चतुर्ण्णां पुत्राणां कृते चतस्रो राजकन्या: निर्णीतपूर्वा:?’’
माता कुन्ती शान्तस्वरेण प्रत्युवाच—''भवत: कन्या राजकुमारी कृष्णा मम पञ्चपुत्रान् वृणुते। अत: मम पञ्चपुत्रै: सह कृष्णाया विवाहो यथाक्रमं सम्पत्स्यते।’’
मातुरनेन मन्तव्येन पिता विस्मितो विचलितश्च। स ससम्भ्रममाह—''किमिदमभूतपूर्वम्? एक: पुरुषोऽनेका नारी: अङ्गीकर्त्तुं शक्नुयात् परन्तु एकस्या नायिकाया एकाधिकपतिवरणेन स्त्रीधर्मो नश्यति। मम कन्याया: पञ्चपतिवरणेन जगत्तां परिहसिष्यति। तस्या: धर्मश्च नङ्क्ष्यति।’’
युधिष्ठिरो विनम्रोऽवादीत्—''गुरुजनाज्ञापालनमेव मनुष्यस्य परमो धर्म:। पित्राज्ञां पालयित्वा पर्शुरामो मातृघातको बभूव। वयमाबाल्यात् पितृहीना:। माता ह्यस्माकं सर्वमयी कर्त्री। तस्या आज्ञां पालयन्तो यदि वयं पञ्च भ्रातृर: कृष्णामङ्गीकुर्म:, तर्हि वयं धर्ममाचराम इति मन्तव्यम्।’’
धृष्टद्युम्न: प्रतिवदन्नाह—''गुरुजनानामाज्ञा यद्यन्यायं ब्रूयात्, तर्हि किं तत्पालनं धर्माचरणमित्यभिधीयते?’’
युधिष्ठिर: सशमविनयमुवाच—''माता कुन्ती आर्यावर्त्तस्यान्यतमा धर्मपरायणा विदुषी च महिला। तस्या आज्ञा कथञ्चिदपि अन्यायालिङ्गिता नैव सम्भवेत्।’’
द्वयोर्वाग्विवादं रुद्ध्वा पिता मध्यस्थो जात:। शान्तभावेन प्रस्तावयामास—''प्रथमपाण्डव युधिष्ठिर! ममाद्य गर्वानन्दौ निस्सीमानौ यदर्जुन: कृष्णामजयत्। कृष्णाया: पञ्चपतिवरणे यदि अर्जुनस्य न काऽप्यापत्तिस्तर्हि ममापि सा नास्ति। किन्तु, ईदृशं क्वापि किमु भूतपूर्वम्?’’
पितु: सम्मत्यै युधिष्ठिर: पुराणानामनेकान्युदाहरणान्युपास्थापयत् यद्—''जटिलाऽपि धर्मरक्षार्थं सप्तपतिवरणमङ्गीचकार। धर्मरक्षायै बहुपतिस्वीकारो न पापाय कल्पते।’’
तदानीमेव कृष्णद्वैपायनस्तत्र समुपस्थित:। पितुर्द्वन्द्वकारणं विदन्नाह—''महाराज द्रुपद! मुक्ता: वा पुष्पाणि वा भवन्तु, देवस्य कण्ठस्थले तदुत्कर्षाय तन्माला ग्रथ्यते। सूक्ष्मसूत्रं विना न तानि मालायामेकत्रितानि भवन्ति। अद्य तद्वद्धर्मरक्षार्थमार्यावर्त्ते पञ्चपाण्डवानां मालेवैकत्रीभवनं महदावश्यकं वर्त्तते। तेषामेकत्र बन्धने समर्था केवलं ते रूपवती विदुषी कन्या कृष्णा। देवगले शोभितस्य पुष्पहारस्याभ्यन्तरे गूढस्य सूत्रस्य महत्त्वमस्वीकार्यं किमु? तथैव पञ्चपाण्डवानामार्यावर्त्ते धर्मराज्यप्रतिष्ठायां कृष्णाया महनीया भूमिका पवित्राक्षरैर्लिपिबद्धा स्यादितिहास इति नात्र संशयलेश:। यज्ञसम्भूताया: कृष्णाया जीवनं स्वतन्त्रमनन्यं च स्यात्। तत एतदर्थं मनसि द्वन्द्व: कुत:?’’
सकलद्वन्द्वानामवसानं सञ्जातम्, अहमभूवं पञ्चपुष्पाणामेकत्र बन्धाय सूक्ष्मं किमपि सूत्रं यन्न कोऽपि द्रक्ष्यति, ज्ञास्यति, तद्दु:खयन्त्रणादीनां सूत्रमपि न प्राप्स्यति।
(९)
पञ्चदिनानि यावद् विवाहोत्सव: प्रचलित:। राजपुरोहितो धौम्यो मम करं पञ्चपाण्डवानां पाणिभि: क्रमश एकैकशश्च संयोजितवान्। एकैकश: पञ्चवारमग्निं प्रमाणीकृत्याहं पञ्चपतीन् वृतवती—पञ्चवारं चैकैकश: प्रत्यजानम्—''कायमनोवाक्यैरहं तवैव, एकान्ततस्तवैव, अहं त्वय्यसत्यं नाचरिष्यामि, अविश्वस्ता च न भविष्यामि। सत्यंसत्यंत्रिवारं सत्यम्।’’
स्वमनसि प्रश्न उट्टङ्कित:—''किमिदं सम्भवम्? इदं सत्यमात्मप्रवञ्चना वा?’’
प्रथमतो विवाहवेदिकायां युधिष्ठिरपाणिना मे पाणिं पुरोहित: समयोजयत्। तस्यामेव रात्रौ तेन सह मे साक्षात्कारो विधिसम्मत:। तदेवाभूत्। पित्रा च स्वतन्त्रतया पञ्चपतीनां निवासाय पञ्चभवनानां व्यवस्थाऽकारि। मधुरमिलनयामिन्यै पञ्चकेलिकुञ्जानामप्यायोजनमभूत् पञ्चप्रासादेषु स्वतन्त्राडम्बरेण।
प्रथमरात्रौ युधिष्ठिराय भक्तिं न्यवेदयम्। भक्तिं विना तस्मै किमन्यद्वोपहरेयम्? युधिष्ठिरोऽत्यन्तं रूपवान्। सौम्या शान्ता च मुखाकृति:। प्रथमदर्शने सकलो विरागो मे धूत:। वस्तुतो यदि स मां प्रत्याकर्षित ईदृशं विवाहमायोजितवान्, तर्हि तत्र को दोषस्तस्य? दोषस्तु तस्य, येन नारीदेहे खचितमपूर्वं रूपयौवनं, पुरुषदृष्टौ च विन्यस्ताऽसीमा सौन्दर्यपिपासा।
अहं तं प्राणमम्। स शान्तकोमलस्वरेणाब्रवीत्—''मनसि ते न किमपि दु:खं नु द्रुपदनन्दिनि! एतस्मै विवाहाय पारोक्ष्येण त्वं मया प्रेरितेति मां त्वन्यथा न चिन्तयसि? एतदर्थं त्वं क्षुण्णा न किम्?’’
अहं नतमुखी सत्यचिन्तयम्—अधुनाऽयं प्रश्न: कुत:? यदि वाऽहं क्षुण्णा, तर्हि क उपाय:? प्रकाशितवती—''भवान् धर्मराज:। भवान् यत्किमपि कुरुते, तत्पृष्ठभूमौ कोऽपि धार्मिको विचारो निधीयते। तेन य: क्षुण्णो भवति, स धर्मं न श्रद्दधाति। अहं तु धर्मयज्ञकुण्डात् सम्भूता। अत: धर्मं प्रति मे प्रगाढाऽनुरक्ति:।’’
युधिष्ठिर: प्रफुल्लितोऽदृश्यत। क्षुद्रशिशो: सरसं मुखमिव तस्य कोमलं मुखमण्डलं निष्पापसौन्दर्येणानुपममुदभासत। अत्यन्तमादरेणाह—''याज्ञसेनि! तव जन्मवृत्तान्तश्रवणदिनादारभ्याहं त्वयि आकृष्ट आसम्। अहं ज्ञातवान् यत् त्वां विना धर्मरक्षणमसम्भवम्। अतस्त्वं मयाऽङ्गीकृता। अग्ने: पुरस्तात् त्वं मां स्वीकृतवतीति तदेव मे पर्याप्तम्। मम नान्यत् किमप्यावश्यकम्। त्वमर्जुनप्राप्या। स त्वां जयति। अतस्तेन सह ते वास्तविकसंसाररचनायां न मे काऽप्यापत्ति:। आवयोरयं पवित्र: सम्बन्धो वर्तताम्। अनेन मातुर्वाक्यमन्यथा न स्यात्, न च ते नारीत्वस्यावमानना। अन्ये च भ्रातृरो ममाभिमतेन सम्मता अपि भविष्यन्ति। किं पुनस्ते मतम्?’’
अहं क्रोधेनापमानेन च जर्जरिता जाता। तीव्रदृष्ट्या युधिष्ठिरं वीक्ष्य प्रत्यवदम्—''भवान् धर्मराजरूपेण जगति पूजार्हो भविष्यति, अहं तु आजीवनमसत्यजीवनं निर्वाहयन्ती पापमॢजष्यामि? अग्निं साक्षीकृत्य पञ्चपतिवरणात् परं केवलमेकस्मिन् पत्नीकर्त्तव्यमाचरिष्यामि, अन्यै: सह तु मिथ्याभिनेष्यामि? जगन्मामसतीत्वेनाभिदध्यात्, परन्तु पतिषु आजीवनमसत्यमविश्वस्तं च जीवनं यापयन्ती किमर्थमहं ग्लानिं सहिष्ये?’’
प्रायेण युधिष्ठिर एवमुत्तरमाशासते स्म। मधुरस्वरेण प्रत्याह—''त्वदर्थं कस्य वा मनसि प्रलोभनं नोदेति? किन्तु, पञ्चानस्मान् तोषयितुं न सरलम्। अस्माकं पञ्चानां पञ्चप्रकारा रुचय:, पञ्चविंशतिश्च प्रवृत्तय:। यन्मह्यं राचेते, तदन्येभ्यो रुचिकरमिति न। त्वामहं यथा व्यवहर्तुमिच्छामि, तथैव तु न सर्वे। अहं यदि कथयामि मन्दिराय गन्तुं, भीमस्तु आदिशति पाकशालायां प्रवेष्टुं, किन्तु तत्रैवार्जुनो वदति मृगयां विहर्तुम्। नकुलोऽश्वपृष्ठं उपविश्य वनविहाराय यदेच्छेत्, तदा सहदेव: कामयेत गृहाङ्गने निभृतमुपविश्याकाशस्य तारका गणयित्वा भविष्यत्स्वप्नदर्शनाय। तदा त्वं किं करिष्यसि? कस्य विचारं स्वीकरिष्यसि?’’
अहं वस्तुतश्चिन्तासमुद्रे निमग्ना। परन्तु तदप्रकाश्य एतावन्मात्रमुक्तवती—''भवान् यथाऽऽज्ञापयिष्यति, तथा प्रथममेव करिष्यामि। यतोहि भवत आज्ञामपरे भ्रातृर: पालयन्ति।’’
युधिष्ठिर आन्तरिकतापूर्णस्वरेणाह—''समाधानं नैतावत् सरलं, यथोक्तम्। अनेन त्वं दोष्यसि। पुरुषस्य प्रकृतिं न त्वं जानासि। पुरुष: स्वप्रियपदार्थेऽन्याधिकारं कथञ्चिदपि न सहते। त्वं सर्वेषां तु प्रियतमा। अस्मासु न कोऽपि त्वां स्वान्तिकाद् दूरयितुं कामयिष्यते। कं प्रत्यपि सामान्यतममवहेलनं न सहिष्यामहे। तदानीं काऽवस्था भविष्यतीति चिन्तयसि कच्चित्?’’
मया चिन्तितं, न सकृत्, अपि त्वसकृत्। परन्तु किं मूल्यं मे चिन्तनस्य? मातु: कुन्त्या वचनरक्षार्थमहमात्मानं त्यक्तवती। युधिष्ठिराय मनस्यक्रुध्यम्। सर्वमारभ्याद्यात्मपरिष्कारं किमर्थं परिवेषयति? स जानाति यन्न किमपि परिवर्तिष्यते। तथाप्यस्य प्रसङ्गहीनविचारस्यावतारणा कथम्?
अहं स्थिरकण्ठेनावदम्—''मत्कारणादन्ततो न भवतां सर्वेषां किमपि कष्टं भवेत्। सर्वे मां सम्पूर्णरूपेणोपलप्स्यन्त इति प्रतिजानामि। कृष्णा धरित्रीव न सर्वंसहा, परन्तु सा कुटिलताया अविश्वस्ततायाश्च जुगुप्सते।’’
ममेदमुत्तरं युधिष्ठिर: प्रतीक्षमाण इवासीत्। विना वाक्यव्ययेन मम स्कन्धे हस्तं संन्यस्यावोचत्—''आयाहि याज्ञसेनि! मम जीवनस्य धर्मयज्ञेऽशाधिकारिणीरूपेण मम धर्मपत्नी भव—मम जीवनस्य त्वमेवाद्या नारी।
प्रतीता मे मनसि दृढता। धर्मराजस्य युधिष्ठिरस्य धर्मपत्नी भवितुमार्यावर्त्तेऽनेका राजकन्यास्तपस्यां कुर्यु:। अहं तमलभे तपस्यां विना। किन्त्वधुनाऽहमर्धकुमारी। मम विवाहोऽपि न समाप्त:। अग्ने: पुरतश्चतुर: पतीन् पुनर्वरिष्ये। तत: पूर्वं मम कुमारीत्वत्यागो नोचित:। मम सम्मुखे दण्डायमानो मे पतिर्धर्मवान्, सौम्यो, वीरो, ज्ञानवाँश्च हस्तिनापुरयुवराज:। अद्य मे प्रथममिलनरात्रि: । परन्तु, अहमात्मानं न तच्चरणयो: समर्पयितुं शक्नोमि। पञ्चपतीनां वरणपर्यन्तं मम कुमारीत्वमक्षुण्णं संरक्षणीयम्। जीवने एतादृशी विडम्बना, ईदृशो द्वन्द्व:, एवम्प्रकारा विषमा सङ्कटमयी परिस्थितिश्च मदतिरिक्ताया: कस्याश्चनापि भाग्ये न घटितपूर्वा:, न च घटिष्यन्ते।
अहमात्मानं दृढीकृतवती। नम्रेण स्थिरेण च कण्ठेनागदम्—''क्षम्यतां धर्मराज! अधुनापि मे विवाहो न सम्पन्न:। प्रभातात् पूर्वं शुचिस्नानं कृत्वाऽहं पुनर्विवाहवेदिकायामुपवेक्ष्यामि। अग्निं साक्षीकृत्य वैदिकरीत्या पतिवरणयोग्यता केवलं कुमारीकन्याया एव सम्मता। आशासे, भवान् मां सम्यगवगन्तुं शक्नोति।’’
अहसद् युधिष्ठिर:। तस्मिन् हास्ये नास्ति छलना, नानुशोचना, न कारुण्यम्, नापि हाहाकार:। शान्त्याऽब्रवीत्—''जीवनस्य प्रथमपरीक्षायामतिसरलतया त्वमुत्तीर्णा याज्ञसेनि! तव सत्यनिष्ठता, आत्मसंयमश्चोभौ मे काम्यौ। कथय, रात्रिरियं कथं यापयिष्यते?’’
अहं मनसा दु:खिता वस्तुत: पतिकारणात्। कियताऽनायासेन स्वकामवासनाऽऽयत्तीकृता तेन! स किं कष्टं नानुभवति? स मनसा तु मां नाभिशपति?
अहं शान्तकोमलस्वरेण न्यवेदयम्—''भवान् विश्राम्यतु। भवत: सुखनिद्रार्थमहमुपविश्य पदसेवां करोमि। रात्रिरतिवक्ष्यति।’’
स प्रतिवादमकरोत्। अवदत्—''वरं त्वया विश्रम्यताम्। त्वं क्लान्ता। अरण्यमार्गेणास्माभि: सह पदव्रजेनागमनकारणात्त्वमवश्यं कष्टमनुभवे:। मदर्थं व्यस्ता मा भव। अहमुपविश्य क्रीडामि।’’
—''क्रीडिष्यति।’’
—''अथकिम्। द्यूतक्रीडाम्—’’
—''केन सह?’’
—''स्वयमेकाकी’’—स अहसत्।
अहं साश्चर्यमपृच्छम्—''एकाकी कोऽपि किमु क्रीडति?’’
—''सर्वे क्रीडन्ति।’’
—''सर्वे इति?’’
—''सर्वे इति—त्वम्, अहं, पृथिव्यां सर्वे नारीनरा:, कीटपतङ्गाश्च। वयं तु स्वयं न क्रीडाम:, अपितु कोऽप्यस्मान् क्रीडितुं निर्दिशति। पृथिव्यां सर्वे स्वस्वजीवनं यापयन्ति, स्वयं स्वस्मै जीवति।’’ युधिष्ठिरो भावाविष्टोऽभूत्। अहमनुच्चस्वरेणावदम्—''द्यूतक्रीडा त्वेकेन न सम्पद्यते।’’
युधिष्ठिरस्तथैव शान्तकोमलस्वर: स्वाभिमतं व्याहरत्—''याज्ञसेनि! अद्य प्रथममिलनरात्रौ मम जीवनस्य दुर्बलताप्रकाशनं हि मम धर्म:। मम जीवनस्य चरमा दुर्बलता हि द्यूतक्रीडा। द्यूतक्रीडां विना सर्वत्राहं संयमं प्रदर्शयितुं शक्नोमि। अवश्यमस्या दुर्बलताया: कारणमस्ति।’’
अहं जिज्ञासुदृष्ट्या तमपश्यम्। अचिन्तयम्—द्यूतक्रीडा राजकीया विलासपूर्णाऽऽमोददायिनी काऽपि क्रीडा। राजानो द्यूतक्रीडया मोदन्ते। परन्तु, तदर्थमेकस्य राज्ञो (युधिष्ठिरस्य) मनसि दुर्बलता कुत:? राज्यजयशत्रुक्षयधनरत्नलाभमद्यसुन्दरनार्यादीन् प्रति राज्ञां मनस्यपारा दुर्बलता स्वाभाविकी। किन्तु, द्यूतक्रीडार्थं धर्मराजयुधिष्ठिरस्य मनसि दुर्बलताया: किं कारणमन्तर्निलीयेत?
द्यूतक्रीडां प्रति युधिष्ठिरस्य दुर्बलताया मूले आसीत् कैशोरस्य काऽपि प्रतिज्ञा, याऽद्य दुर्बलतया परिणता। बाल्ये गुरोद्रोणाचार्यस्यान्तिके शिक्षाग्रहणसमये पञ्च पाण्डवा: कदापि कस्मिन्नपि विषये पराजयं न स्वीकुर्वन्ति स्म। छात्रजीवने समस्तपरीक्षासु सुयोग्यतयोत्तीर्णताकारणाद् गुरुपादानामत्यन्तं प्रियपात्राण्यासन्। अत: शतं कौरवभ्रातृणां मन:सु हिंसाद्वेषौ भूयांसावास्ताम्। ते केनापि विषयेण पाण्डवान् पराजेतुमसमर्था द्यूतक्रीडामश्रयन्। वस्तुतो द्यूतक्रीडायाश्च्छात्रजीवने विशिष्टं स्थानमासीत्। अतस्तस्यां युधिष्ठिरस्य तेभ्य: पराजय: स्वाभाविक:। कौरवास्तु तस्मिन् वयस्यध्ययनं विस्मृत्य द्यूतक्रीडायां निमग्ना अभूवन्। अतोऽध्ययने दुर्बला अपि द्यूतक्रीडायां भूयोऽग्रेसारिण आसन्। कौरवा: सम्यग् जानन्ति यत् पाण्डवा वीरा विचारवन्तश्चापि द्यूतक्रीडायां कौरवाणां समकक्षा न स्यु:। अन्यासु क्रीडासु तु पाण्डवा: कौरवान् पराजयन्ते स्म। भीम: शारीरिकबलेनेयान् बलीयानासीद्यत् कस्यामपि क्रीडायां कौरवानतिदु:खितान् चक्रे। जलक्रीडायां भीमसेन एकत्र दशपञ्चदश कौरवान् जले चिरं निमज्जयति येन ते श्वासरुद्धा: छटपटायन्ते। लौहकन्दुकं गृहीत्वां वने क्रीडायामेतावत्तीव्रतरं कौरवपक्षाय निक्षिपति येन तेषु कतिपये आहता रुधिराक्ताश्च भवन्ति। कौरवभ्रातरो निष्ठुरवीभत्सानन्दस्य समुपासका इति वृक्षेष्वारुह्य पक्षिनीडान् त्रोटयन्ति, विना कारणं च पक्षिशावकानां गलामवरुद्ध्य तान् नाशयन्ति। मातापितृणां पुरस्तात् तन्मृतशावकान् निक्षिप्यानन्दमनुभवन्ति। नीडहीना: पक्षिदम्पतयो यदा शावकशोकेन विलपन्ति, तदा कौरवा अट्टहास्यं कुर्वन्ति वर्वरहृदया:। तदानीं सहसैव भीमसेनो वृक्षमूलमेवमान्दोलयति येन ते पतिता नीचैराहता भवन्ति। कदाचित् वृक्षं मूलादुत्पाट्य वृक्षेण सह तानपि जलस्रोतसि निक्षिपति। किन्तु द्यूतक्रीडायां शारीरिकबलमनावश्यकम्। क्रीडाकौश्लेन कूटबुद्ध्या च द्यूतक्रीडायामनायासं विजीयते। अत: कौरवा: पाण्डवानवकाशेषु प्रतियोगितामूलकद्यूतक्रीडार्थमावाहयन्ति। परन्तु भीमसेनोऽन्ये भ्रातृरश्च तै: सह क्रीडितुं नाभिलषन्ति।
युधिष्ठिरस्तु बाल्यादात्मसम्मानतत्पर:। स तै: सह द्यूतं क्रीडति, प्रतिवारं पराजीयते च। पराजयात् परमपि पुनस्तेषामामन्त्रणं युधिष्ठिर: स्वीकरोति। पराजयभयाद् युधिष्ठिर आमन्त्रणं न स्वीकरोतीति कदाचित् कौरवाश्चिन्तयेयुरिति युधिष्ठिर: पुन: पुन: पराजितोऽपि क्रीडां स्वीकरोति। द्यूतक्रीडायां पारङ्गमतामासाद्यैकदाऽवश्यं कौरवान् पराजेष्यतीति स मनसा चिन्तयति। तया प्रतिज्ञया स सति समये एकाकी द्यूतमभ्यस्यति, फलतो द्यूतक्रीडा तस्य जीवनस्यान्यतमप्रमोदरूपेण परिणता। द्यूतक्रीडां प्रति तस्य मनसि कापि अहैतुकी दुर्बलताऽपि जायते। यदापि समयो लभ्यते तदा स द्यूतक्रीडया सह मोदते। किं बहुना, द्यूतक्रीडायां जयपराजयौ तेन राजकीयसम्मानरूपेणागृहीतौ। यथा द्यूतक्रीडायां जयो राज्यजय इव! कैशोरस्य पराजयग्लानिस्तस्मिन्नस्पष्ट उत्साह इव सन्निधीयते।
सर्वं निशम्याहमचिन्तयम्—प्रत्येकं मानवस्य प्रतिज्ञा, दुर्बलता, उत्साहो, दुर्व्यसनञ्च वर्त्तन्ते। तत्तुलनया युधिष्ठिरस्येयं निरीहप्रतिज्ञा निश्चयेन क्षमणीया। हस्तिनापुरस्य भाविसम्राजोऽपरा: अनेका भयङ्करा: प्रतिज्ञा अभविष्यन्, लज्जाकराश्च दुर्बलता अगणिता अभविष्यन्, परन्तु तत्तुलनया राजकीयामोदस्येयं निरीहदुर्बलता न विशिष्टा, न च चिन्तावर्धयित्री। पुन: पत्न्या: पुरस्तात् प्रथममिलनरात्रौ तत्प्रकाशनेन दुर्बलता महनीयतारूपेण परिणता। स्वनायिकान्तिके स्वजीवनस्य सामान्यतमदुर्बलताप्रकाशनाय हस्तिनापुरस्य राजकुमारो बाध्य इति न। अतस्तद्दृष्ट्या युधिष्ठिर एक आदर्शवान् पुरुष:।
अहं तस्य पदवन्दनां कृत्वा प्रणामं ज्ञापितवती। स कोमलकण्ठेनादिशत्—''विश्राम्यतां राजनन्दिनि! प्रभातात् पूर्वमहं तव निद्राभङ्गं करिष्यामि। अहं त्वद्य कदापि शयितुं न शक्नोमि। त्वल्लाभस्यानन्दो मे चक्षुषोर्निद्रामहरत्, अहमेकाकी क्रीडिष्यामि—पुनश्चतुर्दिनेभ्य: परं तु त्वन्मिलनेन एकाकी न क्रीडिष्यामि।’’
स मां विलोक्याहसत्। अहं तु मनोऽभ्यन्तरे शक्तिसञ्चयमकरवम्। अभिनयस्य प्रथमा रजनी प्रभाता।
अभिनयस्य द्वितीया रजनी। मया घटपरिवर्तनं न क्रियते, अपितु स्वव्यक्ति: परिवर्त्यते, रूपान्तरीक्रियते। रूपान्तरणस्य तात्पर्यं त्वभिनय:।
भीमसेनो युधिष्ठिराद्भिन्न:। रूपगुणाचारव्यवहारवार्तालापादिषु सोऽन्यभ्रातृभ्य: स्वतन्त्र:। मिलनगृहे प्रवेशमात्रेण मम हस्तयोस्तस्य शिरस्त्राणाभरणालङ्कारादीन् प्रासारयत्। अवदत्—''सर्वमेतत्तवैव कर्त्तव्यम्। शृणु, उदरं विहायावशिष्टे शरीरे, वेषपरिच्छदेषु, स्वस्य प्रत्येकं व्यवहारेषु चाहमत्यन्तमयत्नशील:। अत: प्रथमं त्वं म उदराय यत्नं करिष्यसि। तत: परमन्येषु विषयेषु ध्यानं प्रदेयम्। इदं सावधानतया मनसीक्रियतां यदहमत्यन्तं भोजनप्रिय:। इयं मे प्रथमा दुर्बलता। द्वितीया मे दुर्बलता यदहं पत्नीप्रियोऽपि। पत्नी नाम द्रौपदी। हिडिम्बा सम्प्रत्यत्र न वर्त्तते, हस्तिनापुरे कदापि समागत्य नावस्थास्यते च। तया सह ममायं पण:। त्वां विलोक्याहमाकर्षितो यतोहि त्वं सुन्दरी, धीरमति:, स्थिरचित्ता च। अन्यच्च श्रुतं मया त्वं सुपाचिकेति। तव हस्तस्पर्शेणाखाद्यमपि सुस्वादुकरं भवति। मम पुनरधिकं किमावश्यकम््? त्वं सम्यक् पक्त्वा मां भोजयिष्यसि, ममावश्यकतामात्रेण मह्यं साहचर्यं दास्यसि च। त्वं जानासि—सर्वेभ्यो भ्रातृभ्यो मे भागोऽधिकतम:। अयं च मातुर्निर्देश:। तथैव त्वत्प्राप्तौ ममाधिकतमो भाग: स्यात्। मनुष्यस्य सकला: क्षुधा: मयि प्रबला:। तासां शान्तिकरणभारस्तवैव!’’ भीमसेनोऽहसत्। नयनयोस्तस्य कुटिलमिङ्गितम्।
मयाऽन्तर्विमृष्टम्—मम शरीरं मनश्च कथं विभाजयिष्यामि? कथं वा युगपद् भीमसेनस्यातिरिक्तां क्षुधां प्रशमयन्ती चतुर्ण्णां पतीनां च समुचितं कर्त्तव्यं सम्पादयिष्यामि?
भीमसेनो मे कामपि प्रतिक्रियां न लक्ष्यीकरोति। तदभिव्यक्तिप्रकाशने स व्यस्त:। मयाऽधुनापि मुखं नोद्घाटितं, तद्वाक्यानि मया गृह्यन्ते वा न वा, ममात्र किमभिमतं चेत्यादिविषयेषु न तस्य कश्चिदपि भू्रक्षेप:। स पुन: वक्तुमारभत—''शृणु द्रौपदि! अहमत्यन्तं सुलभक्नोध:। कस्यापि क्रोधाभिमानान् नाहं सहे। किन्तु कर्त्तव्ये सामान्यतमदोषदर्शनेनाऽपि भयङ्करं प्रतिशोधमहं विदधामि। मद्विधाने क्षमाया:स्थानमेव नास्ति। परन्तु मम मनसि गोपनीयत्वेन किमपि वस्तु न तिष्ठति। यच्चिन्तयामि तत्प्रकाशयामि। क्षणात् परं सर्वान् क्रोधान् विस्मरामि। अतो मे क्नोधस्त्वया सर्वथा सोढव्य:। अहं जानामि यत्त्वमत्यन्तं चारुशीला, विदुषी, सुधीरा च। स्त्रीभिरेवं भाव्यम्। पत्नी यदि सर्वंसहा न भवति, तर्हि पारिवारिकं बन्धनं शिथिलीभवति। मम क्रोधं त्वं न सहिष्यसे चेत् क्षतिस्तवैव। यतोहि अहं त्वत्तो निर्गत्य राक्षसीपत्नीहिडिम्बान्तिके निवत्स्यामि। हिडिम्बा राक्षसकुलोत्पन्नाऽपि पत्नीत्वेन ममानुगता। स्वप्नाणेभ्योऽपि मम क्रोधात्तस्या अधिकतरं भयम्। सा स्वपुरत: तद्भ्रातरं हिडिम्बासुरमेकेन प्रहारेण निपातितवानहमिति स्वयं ददर्श। संसारे कस्य प्राणभयं नास्ति?’’—भीमसेन आत्मप्रसादेनाहसत्।
अहं मौनेनोपविष्टाऽस्मि। सपत्न्या हिडिम्बाया: प्रशंसा पतिमुखान्मे कर्णरञ्जनं कुरुते। पुन: भीमसेनस्य तीक्ष्ण आलापो मां क्लेशयति। तथापि, मम किमपि कथनं नोचितम्। नार्या: सर्वंसहात्वं वाञ्छनीयं किल। मम किमपि कथनेन भीमसेन: कुप्येत, हिडिम्बां प्रति गमिष्यति च। परन्तु युधिष्ठिरो न मह्यं क्षमां प्रदास्यति, यतोहि पञ्चभ्रातृणामेकसूत्रेणाऽऽबन्धनं मे प्रथमं कर्त्तव्यम्। यदि भीमसेनो हस्तिनां त्यक्षति, तर्हि पाण्डवा: कौरवाणामन्यायात्याचारादीनां विरोधे स्वरमुत्तोलयिष्यन्ति कस्य बलेन?
परस्तादचिन्तयम्—यद्यहं भीमसेनस्य क्रोधासन्तोषयोर्भयात्तस्मायधिकं समयं व्यये, अधिकतममाग्रहं यत्नं च भीमसेनाय प्रदर्शयामि, ततोऽपरे पतयो मां प्रति विमुखा: स्यु:, भीमसेनं प्रति च ते विरज्येरन्। अन्ततस्तत्कारणात्पाण्डवानामकेता नङ्क्ष्यति। तदानीमपि मे न निष्कृति:। तत: किं मे वाञ्छनीयम्? मम द्वन्द्वस्यावसानं क्व?
भीमसेनो मे वस्त्राञ्चलमाकृष्य पर्यहसत्—''भो! मृण्मयी मूर्त्तिरिवैवमुपविशसि कथम्? मयि नैतच्छोभनम्। विदुष्य: स्वल्पभाषिण्य:। किन्तु, मम विदुषी पत्नी अनावश्यकी। पत्न्या विदुष्या को लाभ:? तस्या: सुन्दरीत्वमेव पर्याप्तम्। अहमभिलषामि—मम सहधर्मिणी सम्यक् पक्ष्यति, सुष्ठु सेविष्यते, मया सह हसिष्यति, रमणीयमालपिष्यति, मनोरञ्जकं गास्यति, ममाज्ञां च सद्य: पालयिष्यति। अवगतं न वा? नोचेत् गच्छामि हिडिम्बान्तिकम्। सा मे मार्गं प्रतीक्ष्य निर्मिमेषं तिष्ठति। ममाज्ञया मन्मनोरञ्जनाय मम पुरो नृत्यति। किं त्वं सेव सम्भविष्यसि? शृणु, मुखं गम्भीरीकृत्योपवेष्टुं नार्हसि। स्त्रीणामेवं मुखदर्शनेन मे मस्तिष्के क्नोध उच्छलति। अरे! एतवन्मात्रेण विभेषि?’’
भीमसेन उच्चैरहसत्। आनन्देन कौतुकेन च स उल्लसित:। किन्तु, मम नयनकोणेऽश्रुबिन्दु: पतनोन्मुख:। चिन्तयन्त्यासम्—''केयं विषमा परीक्षा? युधिष्ठिरस्य विदुषी पत्नी आवश्यकी, या धर्माधर्मयोर्विचारं कर्त्तुं शक्नुयात्। धर्मरक्षार्थं जीवनस्य श्रेष्ठमपि वस्तु उत्स्रष्टुं प्रभवेत्, शास्त्रपुराणादीनां सारमर्मावगत्य जीवनस्य प्रतिपदं पालयेच्च। किन्तु, भीमसेनस्य रुचि: साक्षाद्विपरीता। अन्येषां पुनस्त्रयाणां पतीनां किम्भूता रुचय इति का जानाति?
पञ्चभूतानां शरीरेऽहं पञ्चाभिव्यक्तीनामधिकारिणी भवेयम्। किमिदं सम्भवम्?
द्वन्द्वावसानात् पूर्वं निशावसानमभूत्।
(१०)
सम्पूर्णे प्रकोष्ठे कृष्णसुरभि: प्रसरति। क्षणात्पूर्वं कृष्णोऽत्रोपस्थित आसीत्। कृष्णामिलनात् पूर्वं सख्ययर्जुनाय कं परामर्शमददात्?
अद्य वीरेणार्जुनेन सह मम प्रथमा मिलनरात्रि:। मम जीवने पञ्च मिलनयामिन्य:। प्रत्येकं यामिनी सगभीरसंयमान्तर्द्वन्द्वं प्रभाता।
अद्यतननिशाया: प्रसङ्गस्तु स्वतन्त्र:। अद्यतनी मिलनशर्वरी स्यान्मे जीवनस्य परमकाम्या। अर्जुन: स्यान्मे एक एव पति:। अथ च नाटकस्यावास्तवं दृश्यमिव किं किं न घटितं मे जीवने! एवं किमु कस्यचन जीवने घटते?
अद्य मे तृतीया मिलननिशा। अथ च, अहं चिन्तयामि यदियं रात्रिर्मम जीवनस्य सर्वश्रेष्ठा भविष्यति। मनुष्यो बाध्यतया कार्याण्यनेकानि कुरुते। देशजातिधर्मरक्षार्थं मनुष्य: स्वेच्छावैरुद्ध्येऽपि रोमाञ्चकराण्यनेकानि कार्याणि सम्पादयति। तेन, तस्य सम्मानं वर्धते, प्रतिष्ठा च वर्धते, परन्तु, आत्मानन्दो लभ्यते वा न वेत्यहं न जानामि। किन्तु, यत्र हृदयानुमोदनमस्ति, तत्र तदात्मा तृप्यते। ममावस्था साक्षात् तद्वत्।
अर्जुनायात्मसमर्पणात् परं पञ्चपतिवरणायाहं बलात् प्रणोदिता। यतोह्यनेन मे धर्मरक्षा सम्भवेत्। पञ्चपतिष्वर्जुनमात्र एव म आत्मा निबद्ध इत्यस्वीकार्यं कुत:?
ममाभ्यन्तरं सखी नितम्बिनी जानाति। तस्मादद्य मिलनगृहं तया साडम्बरं सज्जीकृतम्। नीलकुमुदनीलतमालचम्पकादिसुगन्धिपुष्पाणां मालाभिर्द्वारवातायनादिनि शोभितीकृतानि। नितम्बिनी स्वेच्छया हीरामणिमुक्तादिभिर्मे मिलनपुरं मण्डयितुं शक्नोति स्म। परन्तु सा मम रुचिं जानाति। राजकन्याया ममैवं रुचि: कुतोऽजायत? प्रायेण मेऽदृष्टेङ्गितं तत्पृष्ठभूमौ वर्त्तते। पट्टमहिषी भूत्वाऽप्यनेकवर्षाणि यावदहमरण्यवासिनी भविष्यामीति न मया ज्ञातपूर्वमपितु नियत्या ज्ञातमासीत्।
अहं तु नितम्बिन्या रत्नैर्मण्डिता। मम प्रतिवादमवज्ञाय सोवाच—''अद्य संन्यासिजीवनं समाप्तम्, अद्यारभ्य महिषी। हस्तिनापुरमहिष्या: सुवर्णसूत्रग्रथितं पटवास: परिधाय रत्नालङ्कारभूषिताया हीरामौक्तिकनूपुरनिक्वणैर्मिलनकक्षे प्रवेश उचित:—’’
सख्यो मां गृहे सन्त्यज्य द्वारमवरोधयामासु:। मुक्ताविलसितावगुण्ठनाभ्यन्तरादवालोकयम् यन्मम प्रियतमपुरुषो वीर: फाल्गुनो मां प्रतीक्षमाण उपविष्ट:। अद्य तस्य कोऽयमपूर्वो वेष:? दीर्घो बलिष्ठश्च देह:, सौम्या कान्ति:, उज्ज्वले चक्षूंषि, चन्दनचर्चिता मुखशोभा, गलायां शुभ्रपुष्पाणां माला, कुञ्चितघनकेशेषु मेघस्याभिषेक:, नयननीलसागरे स्वप्नानां स्थिरास्तरङ्गाश्च। तं सकृद्विलोक्य लज्जया नयनेऽवनतीकृते मया। इच्छामि स्म—अनन्तकालं यावदेतन्मनोग्राहि रूपं निरीक्ष्यै। किन्तु, लज्जेदं नासहत। सा म इहारित्वं गता।
अर्जुनोऽतिकोमलमधुरशैल्या स्वासनं विहाय ममाभिमुखमग्रेसरति। अहं तु वेपथुहृदयोपविष्टाऽस्मि। अद्य यदि परमकाम्यस्यास्य पुरुषस्य चरणयो: सर्वस्वमुत्सृजामि, तर्हि द्वाभ्यामन्याभ्यां पतिभ्यां सह विवाहात्पूर्वं पुन: कुमारीत्वं प्राप्स्यामि कुत:?
किन्तु, अस्य कन्दर्पसुन्दरस्य काम्यपुरुषस्य हृदयद्वारदेशात् प्रतिनिवर्तनं कथं कारयिष्यामि? यदि तथा कारयिष्यामि, तर्हि तस्य प्रेमिकहृदयस्याहते: पूर्वं मम हृदयं शतधा विभङ्क्ष्यतीति नास्तीह सन्देह:।
दृष्टिं स्वहृदये स्थिरीकृत्य चिन्तयामि केन प्रकारेण विपन्नहृदयमेनं तोषयिष्यामि? तत्क्षणादहमाश्चर्येणाकम्पे। हृदये कस्येयं चन्दनचर्चिता मुखशोभा? स तु दूरेऽस्ति। मम हृदये तमहं पश्यामि कथम्? हन्त, नितम्बिनी कियती दुष्टा! मम गलाया रत्नहारस्य पदके उज्ज्वलहीरकदर्पणस्तया खचित: कदा? तस्मिन् दर्पणे दृश्यतेऽर्जुनस्य मुखच्छवि:। स मृदु हसति। लज्जया दर्पणाद् दृष्टिं परावृत्य हस्तपद्मे स्वदृष्टिं न्यबर्ध्नम्। हस्तपद्मस्य प्रत्येकं दलेषु सन्निहितरत्नखण्डेष्वर्जुनस्य प्रतिच्छविरपि विद्योतते। मम रत्नकङ्कणेषु, अङ्गुरीयकेषु, ममाप्रत्यक्षयो: कर्णपुष्पयो:, कपालस्य केतक्यां, नासाग्रस्य रत्ननक्षत्रे चार्जुनस्य मणिप्रभा रूपशोभा विलसति। मम प्रत्यङ्गमर्जुनस्य प्रतिच्छविश्चित्रिता प्रतीयते। मम प्रत्येकं रोमकूपेषु रोमाञ्चो जागर्ति, शरीरस्य स्वेदबिन्दुष्वपि संदृश्यतेऽर्जुन:। अचिन्तयम्—स्वयं संयतां सम्पादयामि कथम्? कथं वा स्वधर्ममक्षुण्णं धारयिष्यामि? मया तु पुनर्द्विवारमग्ने: पुरस्ताद् विवाहो रचनीय:। अचिन्तयम् च—अर्जुनस्य स्पर्शमात्रेण मूर्च्छिताऽवश्यं भविष्यामि। ततो यद् भवेत्, तत्र को ममोपाय:!
मनुष्यो यदा स्वस्मादास्थां त्यजति, स भिन्नं मार्गमन्विषति, आत्मानमपाकृत्य दु:खं विस्मर्तुं, यन्त्रणामुक्तश्च भवितुम्।
मम हृदयं स कथमजानात्? कोमलकण्ठेनाह—''कृष्णे!’’ कस्येदमाह्वानम्? अयं तु कृष्णस्य कण्ठस्वर एव! एवं कोमलमधुरस्वरेण कृष्णो मामाकारयति 'कृष्णे!’ इति। तस्य सखाऽर्जुन: कथं ज्ञातवान् यदनेकेषु मे नामसु कृष्णेत्यभिधानं मह्यमधिकतमं स्वदत इति?
मम ध्यानमाकृष्यार्जुन: पुनरुवाच—''कृष्णे! किमर्थं ते चिन्ता? अहं तव प्रतिज्ञां जानामि। पत्न्या: प्रतिज्ञापूरणं पत्युरपि धर्मो नाम। तव पञ्चपतिवरणात्पूर्वं तव पवित्रकुमारीत्वे न कोऽपि पतिरस्पष्टमपि किञ्चिच्चिह्नमाधातुं न प्रयतिष्यते। पञ्चपाण्डवानामेतदेव वैशिष्ट्यम्। परन्तु, 'कृष्णे’—इत्यर्धमुक्त्वा स तूष्णीं बभूव। दु:खावसादयो: कृष्णमेघेन तस्य प्रसन्नं मुखमीषद्विषण्णमकारि। तस्य दु:खं किमर्थम्? अहं तु न तस्य दु:खकारणं कच्चित्? यदि तथा, तर्हि जीवितुं मेऽधिकार: कुत:?
स रुद्धकण्ठ उवाद—त्वया सह मम चरमसुखमुहूर्त्तोऽतिक्रान्त:। त्वामेकान्ततो नैजरूपेण यावते समयायोपलब्ध:, स एव मे जीवनस्य सर्वश्रेष्ठो मुहूर्त्त:। अवशिष्टं च यज्जीवनमावयोर्वर्तते, तत्केवलं धर्मरक्षार्थं संस्कृतिरक्षार्थं, जगन्मङ्गलाय चोत्सर्गीकृतम्। तत: स्वस्मादास्थाविसर्जनं तव नोचितम्। त्वं तु न सम्प्रति त्वदीया, अपितु जगते जगत:। जगतो धर्मरक्षार्थं त्वमात्मानमुदसृज:। अहं किमर्थं त्वां दूषयामि?
अहं चकिता स्वपतिमपश्यम्। लज्जासङ्कोचादयो दूरीभूता: स्वत:। ममाभ्यन्तराऽभिसारिका नववधूश्चापसृता दूरम्। अचिन्तयम्—अर्जुन एतत् सर्वं किं ब्रूते? मया सह तस्य जीवनस्यारम्भस्त्वद्यारभ्य—अस्मादेव मधुरमिलनलग्नात्। मया सह तस्य सुखक्षणमतिवाहितपूर्वमिति यदुक्तं तेन, तस्य कोऽभिप्राय:? स पुनर्मां दूषयेद् वा कस्मात्कारणात्?
अर्जुनो मे मनोभावमवेत्। मम हस्तं हस्तावलम्बेन प्रसादयन् रत्नपल्यङ्के मामुपावेशयत्। वक्तुं चारेभे—''स्वयंवरसभाया यदा वयं वन्यपथमतिक्रम्य प्रत्यावर्त्तामहि, तदा केनेदं ज्ञातं यत्त्वमेकान्ततो मन्मात्रस्य न भविष्यसीति! तस्मिन्नेव क्षणेऽहमात्मानं पृथिव्यां श्रेष्ठ: पुरुष इति मत्वा गर्वमन्वभवम्। चिन्तितं च तदा मया—सूर्यचन्द्रकिरणेषु त्वयि पतिष्यत्सु सूर्यचन्द्रावहं हनिष्यामि। अस्माकं पालिता: हरिणशुकसारिकादयो यदि त्वां स्नेहेनालिङ्गन्ति तर्हि तेषां शिरांसि छेत्स्यामि। किं बहुना, तव गलाया रत्नहारायापि अहमीर्ष्यिष्यामि, अनुरोत्स्ये च—कृष्णे! मम चक्षुषो: पुरस्तात् त्वं कृपया ते रत्नहारं कर्णपुष्पे च दूरीकुरु। रत्नहारो वक्षसि ते शोभते, कर्णपुष्पे ते गण्डस्थले स्पृशत:, पतिरूपेणैतदहं कथं सहिष्ये? परन्तु, कोऽजानात्—त्वया सह मे मिलनं भविष्यति तृतीयरजन्यां, पुनश्च मया प्रतीक्षणीयानि कतिपयदिनानि, नकुलसहदेवविवाहाभ्यां परं पुनस्तृतीयां रजनीं यावत्।’’
अहं साभियोगमवदम्—''भवाँस्तु वक्तुमशक्ष्यत् यदर्जुनातिरिक्तस्यान्यस्य कस्यचित् कृष्णायामधिकारो नास्तीति! भवता किमर्थं सर्वं प्रकाशयितुं भारस्तदा मयि संन्यस्त:?’’
अर्जुन: सविषादमाह—''अग्रजवर्यस्य तथोक्ते:, मातुश्च प्रत्युत्तराच्च परं मया यदुत्तरितं तत्पुत्रत्वेनानुजत्वेन च धर्मतो वक्तव्यमासीत्। तदतिरिक्तं किमपि उच्चरितुं नाहं शक्तस्तदानीम्। ममोत्तरं किं स्यादिति मात्राऽग्रजपादेन च निरूपितपूर्वमासीन्मनसा। किन्तु त्वं किमुत्तरिष्यसीति तत्तु ते पूर्णतोऽधिकार एवासीत्। त्वं निस्सङ्कोचं निर्विघ्नं च प्रकाशयितुं समर्थाऽऽसी: स्वाभिमतं निर्भीकतया।’’
क्रोधाभिमानक्षोभादिभिस्तदानीं मे कण्ठो रुद्ध इवाभवत्। अहमश्रूणि संनियम्यागदम्—पृथिव्यामस्यां पञ्च पाण्डवा:, तेषां जननी, गुरुदेव: कृष्णद्वैपायन:, भवत: सखा कृष्णश्च धर्मरक्षार्थं सर्वमपि विधातुं शक्नुवन्ति। किन्तु, द्रौपदी स्वसुखसम्मानात्माहङ्कारगरिमार्थं सर्वेषामभिमतमस्वीकृत्य समग्रपृथिव्या अश्रद्धाऽभिशापादीन् अवरिष्यत्—किमेतद् भवता काङ्क्षितमासीत्? तथा सति भवत इच्छा पूर्णा भवेन्नाम, अथ च मध्ये दूषिता स्यात् कृष्णाइत्यर्धं प्रसङ्गादुक्त्वाऽऽत्मक्षोभं गोपयितुमयते।
अर्जुनो मे स्कन्धे स्वहस्तं न्यास्त। शान्तस्वरेणावोचत्—''विगतप्रसङ्गेऽनुशोचना नोचिता कृष्णे! कतिपयक्षणेभ्यस्त्वं मया मदीयात्वेनोपलब्धेति नायमल्पीयस्सौभाग्यस्य विषय:। पृथिव्यां बृहत्तरस्वार्थाय वयक्तिकस्वार्थानां तिलाञ्जलेरनेके दृष्टान्ता वर्त्तन्ते। सम्प्रति मही विपन्ना। जानीहि—वयं पृथिव्यामागता बृहत्तरलक्ष्यपूर्त्तियै, न तु स्वात्मने—अहं च न मे भ्रातृभ्य: पृथक्। केनापि निमित्तेन यद्यहं तेभ्य: पृथग् भवितुं कामये, तर्हि तन्मेऽन्त:करणे पशुत्वोपद्रव एव। त्वदुपलब्धेर्जातो मेऽभिमानो मम पुरुषत्वस्याहङ्कार एव। वस्तुतस्तु त्वं का? कोऽहम्? के च मे चत्वार: सहोदरा:? वयं कुत आगता:? कुत्र गमिष्याम:?—इति नास्माभिर्विदितम्। धरित्र्यामस्यां कतिपयदिनानामेकत्र निवासे यदि त्वं समेषां सुखसमृद्ध्यादीन् वर्धयितुं क्षमा, तेनाहं दु:खित: किमर्थं स्याम्? किमेतन्मे स्वार्थपरता नाभिधीयेत?’’
अहं तस्य नीतिपूर्णानुपदेशान् शृणोमि स्म, अवगन्तुं शक्नोमि स्म च। मम प्रबोधनापेक्षया स आत्मानमधिकतरं प्रबोधयतीति प्रतीयते स्म। मदपेक्षया सोऽधिकतरो मर्माहतोऽसहायश्च। समवेदनया हृदयं सद्य: प्रपूरितम्। अकुप्यम् च गोविन्दाय। यो गोविन्द: शास्त्रज्ञो, विचारवान् आर्यावर्त्तस्य श्रेष्ठ: पुरुष:, पुनरर्जुनस्य प्रियतम: सखा, केनापराधेन सति तस्मिन्नर्जुनस्य पत्न्यां समानभागभाज: स्युरन्ये तद्भ्रातर:? भवन्तु नाम ते सहोदरा:, तथापि मयि अर्जुनपत्न्यामन्यपुरुषा एव। किमर्थमयं दण्डोऽर्जुने निपतित:?
कोपाभिमानादीन् विस्मृत्यार्जुनदु:खेनाहमियती द्रवीभूता जाता यन्मम नयनयोरश्रुबन्दिू अनायत्तौ तत्पदयोर्मुक्ताबिन्दू इव निपतितौ।
अर्जुनो व्यथितोऽगदत्—''कृष्णे! न केवलं त्वं साधारणरूपवती राजकन्या, अपि तु विद्यावती, ज्ञानवती, सुकवयित्री च। जीवनेऽश्रुधाराभि: भूय: प्रयोजनं वर्त्तते। जीवने तथाभूत: समय उपतिष्ठते, यदा अश्रुपातातिरिक्तो मूर्धपातोऽपि सम्भव:। तत: प्रत्येकमल्पीयसि दु:खेऽश्रु विसृज्याश्रूणामवमाननां मा कुरु। जीवने दुर्दिनानां मित्रं श्रेष्ठ:, स चाश्रु एव। तस्यापव्ययं कर्त्तुं नार्हसि।’’
अश्रु प्रोञ्छ्याहं तमेव निरीक्षितवती। मेघाच्छन्नाऽपि आकाशस्योदारविस्तृतिर्यथा बाधिता न भवति, तथैव विषण्णताया: स्पर्शेऽपि तस्य सौन्दर्यं तिलमपि न्यूनं न प्रतीयते। वरं विषादकालिम्नोऽस्पष्ट: स्पर्शस्तस्य पुरुषत्वमधिकतरं गम्भीरं महनीयं च प्रतिपादयति। अहं दु:खं विस्मृत्य मुग्धदृष्ट्या तस्य मुखशोभां निरीक्षितवती, चिन्तितवती—निन्दापवाददु:खद्वन्द्वादिषु जीवनं मे वरमतिवाहयेयम्, किन्तु, अर्जुनं प्राप्याहं नितरां धन्या। क्षणेनैव मे कालिमा मनसोऽपसृत:। अर्जुनोऽपि स्वप्नसन्नतायै प्रायतत। यदस्माकं नियन्त्रणे सम्प्रति नास्ति, तदर्थमनुशोचना कुत:?
अर्जुनो मदन्तिक उपाविशत्। अन्तरङ्गबन्धुरिव उवाच—''त्वया सह विवाहाकाङ्क्षाऽऽसीन्मे कारणद्वयात्। प्रथमं कारणमिदं यत्—तव नाम 'कृष्णा’। मम प्रियसख्यु: कृष्णस्य नाम्ना सह तव नाम्न: सामञ्जस्यकारणात्तव नामप्रेमिकोऽहं जात:। द्वितीयं तु—त्वं विदुषी, कवयित्री च। श्रुतं मया यत् त्वं मम प्रियसखायमाधारीकृत्य कतिपयकविता: लिखितवतीति। अहं पठितुं शक्ष्यामि किम्?’’
अहं लज्जया म्लानेवावदम्—''केनायं संवाद: भवन्तं प्रापित:?’’
अर्जुनो हसन्नाह—''मम सखाऽनेकविषयान् ज्योतिषगणनया ज्ञातुं शक्नोति। सा शक्तिस्तस्य वर्त्तते। बाल्येऽनेका अलौकिकतास्तेन रचिता:। समग्र आर्यावर्त्ते तस्य पुरुषत्वमलौकिकम्। सोऽपि तव कवितानां पङ्क्तिरपि उद्धरति। श्रोष्यसि तव कविताया: काश्चित् पङ्क्ती:?
सागर एव बध्नाति गगनस्य समस्तनीलाभां
तस्य स्वीयसुविस्तृतहृदयमुकुरे
कदापि न स्प्रष्टुं शक्ता तं सा नीलनीलाभा
इयत्ततोऽङ्गीकरोति तां रे॥ १॥
स्वीकरोति राकापतिर्दूरस्थित: कुमुदिनीमपि
निश्यतन्द्र: समर्पयन् यावतीं स्वहृदयममतां
यतोहि न सा प्राप्स्यति कदापि च तं
शक्त: को वा ज्ञातुं, तस्मिन् प्रेम्णि कियती पवित्रता॥ २॥
नास्ति यदि लिप्साया: कणिकाऽपि मनसि,
अनाविल: स: प्रेमा, नास्ति यदि प्रतिदानस्याशा
न लप्स्ये जानामीति स्निह्यामि कियत्तस्मिन्
न प्राप्नोमि रचयितुं कवितायां मम प्रेम्णो भाषाम्॥ ३॥
लज्जया मम मुखमण्डलं रञ्जितम्। मम कविता वस्तुत: कृष्णायोद्दिष्टमासीत्। अर्जुनेन कथमियं कवितोपलब्धा? नूनमिदं नितम्बिन्या: कार्यम्। बहूनि दिनानि मम कवितापुस्तिका तस्या: सविध आसीत्। पठितुं च पुस्तिकां धृत्वा सा भ्रमन्ती उद्याने एकदा तामत्यजत्। परेद्यु: श्रीकृष्ण उद्यानभ्रमणाय गतस्तत्र कवितापुस्तिकां लब्ध्वा मह्यं प्रत्यावर्तयामास। प्रायेण तदानीं नितम्बिनी कपटेनेयं कृतवती। यदस्तु नाम, मम कविताऽर्जुनकण्ठेन मेऽत्यन्तं कर्णमधुराऽश्रूयत। स यदेवं कवितां गायति, तदहमश्रुत्वा कथं विश्वस्याम्?
अहं नतमुखी उपविष्टाऽऽसम्। अर्जुनोऽवदत्—''कृष्णे! कवितेयमत्यन्तं चमत्कारिण्यपि श्रीकृष्णातिरिक्ताय कस्मैचिदुद्दिष्टा स्याच्चेत् कदाप्यहं न त्वां क्षमेय। यदस्तु, ममानुरोधात् पूर्वमपि स्वमन:प्राणैस्तं त्वं स्वीकृतवती। न जाने, तस्मिन् का कला वर्त्तते यत् काऽपि नारी प्रथमदर्शन एव तमङ्गीकुरुते। यदि तुभ्यं न स स्वदेत, तर्हि आवयोर्मनोमालिन्यमवश्यम्भावि भवेत्। कदा कदा स एवं प्रेरयति यत् सद्य: प्रतीयते—स कस्मिँश्चिद् गर्त्ते त्वां निपातयतीति। किन्तु धैर्येण परिस्थिते: सहनेन ज्ञास्यसि यत् स यद् विदधाति तत्पृष्ठत: काऽपि मङ्गलकामना रहसि विद्यते। तस्य संवादप्रापणाभावे न वयं ते स्वयंवरवार्त्तामज्ञास्याम, न च त्वां प्राप्स्याम। एतदर्थं तस्मिन् चिरकृतज्ञताऽस्माकं किमु नोचिता?’’
अहं परिहासेनावदम्—''जाने, कृष्णापेक्षया कृष्णस्ते प्रियतर इति।’’
अर्जुनो हसन्नाह—''कृष्णा मे प्रिया, कृष्णस्तु कृष्णाया: प्रिय:, अत: कृष्णो मेऽतीव प्रिय:—’’
कविताचर्च्चायां कृष्णस्य गुणान् गायतोरावयो: रजन्युद्यापिता।
अश्विनीकुमारस्य यमजपुत्रौ नकुलसहदेवौ। द्वौ कन्दर्पसुन्दरौ। पूर्णचन्द्रनिभे प्रफुल्ले वदने। स्निग्धप्रशान्ते उभयो: दृष्टी। उभौ अग्रजयुधिष्ठिरस्याज्ञावहौ, मातु: कुन्त्याश्चानुगतौ। लज्जाशीलौ, नम्रौ, विनयिनौ, शिष्टौ च। मां पत्नीरूपेणासाद्योभावानन्दितौ, यतोहि मद्विवाह: मातुरादेशेन, ज्येष्ठभ्रातुर्युधिष्ठिरस्येच्छया सम्पन्न:।
द्वयोर्नकुल: सुन्दरतर:। नकुलस्य सौन्दर्येऽधिकतरं सौकुमार्यं, लालित्यं च। विकशितपुष्पदले प्रात:सूर्यालोक इव कोमलसुन्दरवदने नम्रताया: स्पर्शश्चित्तमाकर्षति। नकुल: शिशुरिव सरल: प्रफुल्लश्च। प्रथमदर्शने सोऽभणत्—देवि पाञ्चालि! त्वां परिणेतुं मे वासना जागृता यदा त्वामहं ज्ञातवान्। कारणं किमु जानासि? तस्य सरलसहजस्वीकारोक्त्याऽहं मृदु हसामि स्म। क्रीडासखेव मम हस्तं धृत्वा गवाक्षान्तिकं मामाकर्षत्। अवदच्च—''पश्य पाञ्चालि! ममाश्वान्। एत एव मे प्रमोदस्थानानि। अहं स्वयमेव तेषां यत्नं करोमि। श्रुतपूर्वं मया यत् पशुपक्षिषु ते भूयानादर:, भूयसी श्रद्धा च। पित्रालये तवावास एकमभयारण्यं किल। त्वं पशुपक्षिणां भाषामपि ज्ञातुं शक्नोसीङ्गितमपि। मत्तवारणोऽपि तव दर्शनमात्रेण शान्तो जायते। तव पादाहतो विषधर: सर्पोऽपि न त्वयि प्रत्याघातं कुरुते। अहं निश्चयेनानन्दितो यत्त्वमद्यारभ्य मेऽश्वानां यत्नं विधास्यसि। तव स्नेहादरैस्ते पृथिव्यां सर्वश्रेष्ठा अश्वा: सम्पत्स्यन्ते। त्वमिच्छसि चेत्तव पालितजीवानत्रानेतुमर्हसि। वयं कदाचिद् हस्तिनां प्रतिगमिष्यामश्चेत्त्वं भविष्यसि महादेवी। तव पालितजीवा राजकीयसुखस्वाच्छन्द्येन स्थास्यन्ति। एतदपि मया विदितं यत् तेष्वखादितेषु त्वं भोजनकणमपि ग्रहीतुं न व्यवस्यसि। तव शारिकाऽपि त्वया सह सुखदु:खालापमकृत्वा जलमपि न स्पृशति। ताँस्त्वं त्यक्ष्यसि कुत:?’’
''भवता सर्वमेतत् कुतो ज्ञातम्?’’ अहं सकौतुकमपृच्छम्। नकुल उवाच—''तव जन्मवृत्तान्तादारभ्याद्यावधि घटिता: समस्तविषया गोविन्देनास्माकं पुरस्तात् श्राविता:। तव समस्तसुगुणा: तस्य मुखेनाऽतीव मधुरा: श्रूयन्ते। वस्तुतस्तस्य मुखात्तव रूपगुणख्याती: श्रावं श्रावं वयमन्तर्मनसा त्वां कामयमाना आस्म:। त्वमस्माभिरुपलब्धेति वयं गोविन्दे चिरकृतज्ञा:।’’
अचिन्तयम्, अस्यां सुचिन्तितयोजनायां गोविन्दस्य किमुद्देश्यमन्तर्निहितमस्तीति को जानीयात्?
नकुलो दर्पणे प्रतिविम्बितां स्वीयमुखच्छविं पुन: पुनर्विलोक्य मोमुद्यते। मिलनगृहे नववध्वा अभिसारिकावेषात्तस्य वरवेषस्तमधिकतरं प्रमोदयति। स स्वालङ्कारान् परिधेयानि च वारंवारं चारु विन्यस्यात्मानं दर्पणे दर्शं दर्शमात्मप्रसादं भूयांसमनुभवति। तस्य शिशुसुलभाऽऽत्मकैन्द्रिकता मां चातीव प्रसादयति। इच्छामि, तत् कोमलानुपमसौन्दर्योद्भासितं मुखमण्डलमञ्जलीकृत्य सादरमात्मसात्कर्तुं, स्नेहेन च चुम्बितुम्। अनेन पत्या नाहं विशेषतो द्वन्द्वसम्मुखीना भविष्यामि। ''तव वाजिन: सुन्दरा:, त्वमपि सुन्दर:’’ इत्येतावता कथनेन स प्रसत्स्यतीति नास्ति सन्देह:। नकुलो मामपृच्छत्—''अहं ते योग्य: किल? मद्रूपं तवानुरूपं न वा? अहं वेद्मि यत् काऽपि सुन्दरी रूपवन्तं स्वभर्त्तारं कामयते। तद्दृष्ट्याऽहं ते योग्यो न वेति त्वयैव विचारणीयम्।’’
एतेषां वृतान्तानामाशयोऽवगतो मया। नकुल एतदेव प्रतिपादयितुमिच्छति यदनुपमसौन्दर्यदृष्ट्या पञ्चपतिषु स एव श्रेष्ठ:। तदेव मन्मुखात् स शुश्रूषति। मिलनगृहे पतिमुखे पत्नीरूपवर्णना शोभते। परन्तु मया कथितमिदं यत् ''भवतां सौन्दर्यस्य पुरस्तादहं निष्प्रभा सम्पद्ये। वरं तु भवानेव कथयतु ''अहं’’ भवतोऽनुरूपा न वा? विवाहोऽयं मात्रा युधिष्ठिरेण च भवत्यपातित:। अत: भवतो रुच्यरुचिज्ञानाय कुतो मयावकाश उपलब्ध:?’’
नकुलो मां मुग्धदृष्ट्या विलोकयामास। भावभावितकण्ठेनावोचत्—''कृष्णे! मया चिन्तितं यत् सृष्टे: समस्तं सौन्दर्यमीश्वरेण मय्येवोपन्यस्तम्। चिन्ता म आसीद्यत् कदाचित् मम जीवनसङ्गिन्यै ईश्वरस्य सौन्दर्याभाव आपतेत् किल! किन्तु, वेद्मि, प्रजापते:, समताज्ञानमस्त्येव। तव भुवनमोहिरूपतुलनया कदाचिदहं निष्प्रभ: स्यामिति मित्रेण मेऽद्य यत्नपूर्वकमहं विविधवसनभूषणै: सज्जीकृत:।’’
अहं स्मितमकरवम्। रुचिकरो नकुलस्य सरलोऽकलुषश्चात्मप्रकाश:। अचिन्तयम्—अद्यारभ्य नकुल: स्यान्मे सुखदु:खयो: सहचर:। मनस: सर्वो वृतान्तोऽस्मिन् प्रकाशयितुं शक्य:।