(११)
नकुल इव सहदेवो लज्जाशील: किन्तु स्वल्पभाषी। असत्यामत्यन्तमावश्यकतायां स मुखं नोद्घाटयति। कथनं किमावश्यकम्? तस्य मधुरेष्वङ्गेषु कवितानां पङ्क्तयो सुनिबद्धा:। दृष्टौ तस्य स्वप्नो घनीभूत: सन् सन्ततमभिसारं रचयति। गभीरगहनभावनायामविरतमग्नस्य तस्य दर्शनमात्रेण मनसि कविताया: छन्द:पात: श्रूयते।
मम दर्शनमात्रेण भावुकदृष्ट्या स कवितां स्फुटयन्निव कियत्क्षणं पश्यन् स्थित:। अहं लज्जाहतेव प्रतीये। मुग्धभावुकदृष्ट्या मां बहुतरं दर्शं दर्शमुदासीनो जातो, गभीरं दीर्घश्वासमप्यत्यजत्। अहं चिन्तापतितेव विचारितवती—किमस्य शोचनं नाम? किं च तस्य कारणम्?
स तथापि किमपि न ब्रूते। मिलनगृहे मया कथमालाप: प्रारभ्येत?
स आदौ स्वमुखे आलापस्य पुटं समयोजयत्। उवाच—''कृष्णे! पृथिव्यामस्यां मनुष्य एव मृत्युभविष्यचिन्तावान्। तत: स बिभेति, दुश्चिन्तां कुरुते, स्वप्नं पश्यति, भविष्यकल्पनया सुखमाप्नोति। दु:खमपि भुङ्क्ते। पशोर्भविष्यचिन्ता नास्ति। वर्तमानमेव तस्य श्रेष्ठ: समय:। पशुमनुष्ययोरियानेव भेदो यत् मनुष्यो भविष्ययोजनया पापं कुरुते। पुण्यमपि कुरुते। भविष्यविषये मनुष्यमनसि आदिमकालाददम्यं कौतूहलमुद्वेगश्च। स्वयंवरसभायां त्वां विलोक्य तव भविष्यं मम नयनयो: पुरस्तात् चित्रितमासीत्। तव भविष्यमियद्रोमाञ्चकरं यत्तत्र भागभाग् भवितुं मे मनसि तदारभ्यैव प्रलोभनं जागृतम्। वयं हस्तिनाया राजकुमारा: सन्तोऽपि अद्य परीक्षाया: सम्मुखीना:। अस्माकं जीवनै: सह तव संयोजने गोविन्दस्य का इच्छा वर्त्तते?—इति तदतिरक्त: कोऽन्यो ज्ञातुं शक्नुयात्? परन्तु, निश्चयेनैतज्जानामि यदस्माकं जीवनानां बन्धुरमार्गे त्वं समुचिता सहयात्रिणी भवितुं शक्नोसि। एतदवगमनात् परं त्वां लब्धुं याऽदम्येच्छा मनसि जागृता, साऽद्य पूर्णा। एतदेव त्वया ध्येयं यदहं न किमपि मनस उन्मुक्तं प्रकाशयामि। कारणम्—अहं बाल्यादेवात्यन्तं साभिमान:। मातुर्माद्र्या आवां यमजौ नकुलसहदेवौ। नकुलो मत्त: सुन्दरतरश्चपलतर:, शक्तिमत्तरश्चेति प्रत्येकं कार्यं मत्पूर्वं सम्पादयितुं समर्थो भवति। किं बहुना, पित्रो: स्नेहप्राप्तावपि सोऽग्रेसर:। बाल्य एवावां मातापितृहीनौ। ततस्तयो: स्थानं पूरयामास माता कुन्ती। अहं बाल्यादत्यन्तं नीरवस्वभाव इति को मेऽभाव:, किं मह्यं रोचते, इति न कोऽपि जानाति। मातरं कुन्तीमेक एव भीमसेन एवं व्यस्तां व्याकुलितां च कुरुते यत्तां व्याकुलितरां सम्पादयितुं मे विवेको नानुमन्यते। अतो यदा यल्लब्धं, तेनाहं सन्तुष्ट:। त्वं मे पत्नी। न केवलं ममापितु चतुर्णामन्येषां भ्रातृणामपि त्वयि समानोऽधिकारो वर्त्तते। किन्तु, बलं यस्य देशस्तस्येति नीत्या सर्वैर्यदि तव स्नेहश्रद्धाऽऽदरयत्नसान्निध्याद्यासादनेऽहं पश्चात्क्रिये, तर्हि जानीहि, नाहं त्वां दूषयिष्यामि। बलात् स्वाधिकारं नोपस्थापयिष्यामि। यदृच्छालाभेन सन्तोषो मे नीति:। किन्तु, भ्रातृहृदयज्ञानं पत्नीकर्त्तव्यम्। यदि त्वं स्वकर्त्तव्यं साधु सम्पादयिष्यसि तत: किमर्थमहं मुखमुद्घाटयेयम्?’’
अहं शान्त्योपविश्य चिन्तयामि—इयन्तो गुणा ईश्वरेण किमर्थं मयि ग्रथिता:, यैरेते पञ्च सहोदरा मय्येव स्वस्वरुच्यानुरूप्यादिनि अन्विष्य मां लब्धवन्त:। अहं सर्वान् समानतया सम्पूर्णतश्च सन्तोषयितुं शक्ष्यामि किल!
संसारे नैक: सर्वान् तोषयितुं शक्त:। किं बहुना, ईश्वरोऽपि न सर्वान् सन्तोषयति। सर्वान् तोषयितुं क्रियमाणेऽपि प्रयत्ने न सर्वस्तुष्यते। अनेन तु स्वमनोऽसन्तोषभाराक्रान्तं भवति।
सर्वमेवं विचिन्त्यात्मविश्वासहीनतामनुभूतवती। विपन्नमसहायं च प्रत्यैय्यत मन:। अन्तरात्मनाऽऽश्रयमन्विष्टवती—कोऽत्र सहायक: स्यात्? अकस्माद्य: स्मरणपथमारूढ: स एवास्य नाटकस्य सूत्रधार:। मनसा न्यवेदयम्—गोविन्द! जीवनं मे प्रहसनेन परिणमय्य यदि त्वं सुखी, ततोऽहं सुखिता स्याम्। यतोहि त्वं मे भर्त्तु: प्रिय: सखा! तव सौख्येन पतिर्मे प्रसन्न: स्यात्। इयमेव तु मे जीवनस्य सार्थकता।
(१२)
विवाहोत्सव: पञ्चदिनात्मक आसीत्। नृत्यगीतवाद्यद्युतिदानभोजनादिभि: पाञ्चालराजधानी पुरन्दरनगरीवानन्दमुखरा समपद्यत।
विवाहकार्यक्रम: समाप्त:। ततो वरा: कन्या च विश्लेषणीया:। पितृभ्यां निस्सृत्य कन्यया श्वशुरालये गमनीयम्। परन्तु, भाग्यस्य मे विडम्बनेयं यन्मम भर्त्तारो राज्याद् विताडिता:। स्वप्नाणैर्जीवितुमरण्यवासिनोऽटन्ति। पितुरियन्त उपहारा:, धनरत्नानि—एतावन्ति सर्वाणि अरण्येषु कुत्र ते सयत्नं स्थापयिष्यन्ति? मम पिता प्रत्येकं जामात्रे स्वर्णाभरणरचितानश्वाकृष्टान् सहस्रं स्वर्णपताकामण्डितान् रथान्, सहस्रं श्वेतगजेषु स्वर्णाभरणानि, तदुपरि कनकपर्वततुल्यानि हीरामुक्तामाणिक्यादिनि, नानाविलासद्रव्याणि, सुन्दरयुवती: परिचारिका उपहाररूपेण प्रादात्। जामातृभ्यश्च नानामूल्यवद्वसनभूषणान्युपहृतानि। मम कृते पृथग्रूपेण सहस्रं रथा मम प्रियै: पुष्पलतिकाकुण्डै:, ममादृतजीवजन्तुभि:, मम ग्रन्थागारेण, सङ्गीतवाद्ययन्त्रै:, नानाप्रकारैर्वस्त्रै:, अलङ्कारैश्च सुसज्जिता: प्रस्थातुं प्रस्तुता:। पितुर्मित्रराज्येभ्योऽनेकेऽप्युपहारा उपलब्धा:। द्वारकाधीश्वर: श्रीकृष्णोऽपि नानौपढौकनानि मह्यमयच्छत्। तेषु नीलकान्तमणिनिर्मितमङ्गुलीयकम्, परिचारिका 'माया’ चोल्लेखयोग्ये।
उपहारार्पणकाले द्वारकाधीश आह—''एते द्वे मम परमप्रिये। नीलकान्तमणिखचितमिदमङ्गुलीयकं मम तुभ्यमाशीर्वादस्य प्रतीकभूतम्। मुद्रिकेयं मेऽतीव प्रिया। अहं तां स्वयं व्यवहरामि। अस्या एकाऽलौकिकी शक्तिरस्ति। अनन्यदृष्ट्या खचितस्य मणे: केन्द्रस्थलनिरीक्षणेन मनसोऽनेकद्वन्द्वानां समाधानं सम्भवति।’’
अत्यन्तं लावण्यमयीं युवतीं परिचारिकां 'मायां’ प्रदर्श्य गोविन्द उवाच—''आबाल्यादद्यावधि मायेयं मम निकटेऽस्ति। मत्सुखार्थं सौविध्यार्थं च सर्वदेयं तत्परा। सा मयीयत्यनुरक्ता यन्मां प्रति कस्याप्यन्यस्यानुरागं न सहते। कदाचित् कोऽपि मां कोपयेत्—अत: सा मदन्तिक एव भवति, सा तन्मार्गमवरुणद्धि यथा स मां समागन्तुं न शक्नुयात्। किन्तु, इदं निश्चितं यद् यस्तां हृदये स्थापयति, सा तमेवं प्रेम्णाऽऽच्छादयति यत्तां विना संसारे न किमप्यन्यद् दृश्यते। ममेयं परिचारिका 'माया’ यथा दु:खस्य कारणं तथा दु:खहारिण्यपि। तया ममानेकानि कार्याणि साध्यन्तेऽपि। तां विना द्वारकाया:, हस्तिनाया:, पञ्चपाण्डवानां च समस्यासमाधानं न कर्त्तुमहं शक्नुयाम्। अर्जुनो ममानुज:, प्रिय: सखाऽपि। तस्य प्रियपत्नीति त्वं मेऽद्यारभ्य प्रियसखी। तत: तुभ्यं मम प्रथम उपहार इयं मे प्रियसखी 'माया’।
अहं कृतज्ञतापूर्वकमवदम्—''या सहचरी आजन्मनो भवता सहैव वर्त्तते, भवतो नानासमस्यानां समाधाने सहायिका च भवति, तां मह्यं विसृज्य भवत: कार्याणि कथं सञ्चलिष्यन्ति? का च ते सहचारिणी स्यात्?’’
गोविन्दो गम्भीर: सन्नाह—''परस्ताद् यद् भवेत्तद् भवेत्। मम समस्यापेक्षया सम्प्रति ते समस्या गुरुतरा। सम्प्रति त्वं पञ्चपतिभि: सह प्रतिदिनं नूतनजटिलसमस्यानां सम्मुखीना भविष्यसि। तासां समाधानाय 'माया’ निश्चयेन तव सहायिका भविष्यति। केवलमेतदर्थमहं मायाया मायां जहामि। अन्यथा तेऽसौविध्यं स्यात्! जाने पञ्चपतिज्वालाभिस्त्वं कदाचित् संन्यासिनी सती अरण्यवासिनी भवितुं प्रतिज्ञास्यसि। तदानीं का ते मार्गरोधं करिष्यति?’’ गोविन्दो मृदु हसन्नासीत्। तस्य हासस्य मायया सर्वमहं विस्मृत्य तं मनसा प्रशंसामि स्म, तस्मै कृतज्ञतां च ज्ञापयामि स्म। वस्तुतो ममासहायतां स एव जानाति। मुखे मे यावान् दम्भ: स्पष्टीभूतोऽपि, अहं पञ्चभि: पतिभिर्विषमसङ्कटे पतितेति सखा कृष्ण एवावगच्छति। नितम्बिन्यपि सखीभ्यो मे प्रियतमा। परन्तु, न सा मायेव बुद्धिमती। एतदपि सखा गोविन्द: सम्यग् जानाति। तत: स मह्यमन्यैरुपहारै: सह 'माया’मप्युपहाररूपेण प्रयच्छति।
किन्तु, एतावत उपहारान् नीत्वा क्वाहं गच्छेयम्?
अनुभूय सर्वं पितृपादा म इच्छन्ति यद् पाण्डवा: स्वमात्रा सह यावन्ति दिनानि पाञ्चालेषु स्थातुमिच्छति, अतिथित्वेन निवसन्त्विति। न सम्भविष्यति काऽपि त्रुटिस्तेषामातिथ्ये। अपितु, पाञ्चाला: गर्विता: स्यु:, स्वयं तेऽपि प्रसन्ना भवेयु:।
परन्तु, कथमहं स्याम् प्रसन्नाऽनेन? को विषयोऽत्र गर्वस्य? वरं तु बाधाप्राप्त: स्यान्मे सम्मान:। मंस्ये तद्राज्ये स्वयमाश्रयप्रार्थिनीति। पितृभ्रात्रोश्च दयया प्रतिपालितेति खेत्स्ये भृशं दु:खेन।
अहह:, समाजस्य चलनं कियद् वस्तुतो विचित्रं नाम? ह्यो यन्मे राज्यम्, तत्राद्याहमतिथि:!
अतिथि: कोऽपि राज्येऽन्यस्य स्थातुं शक्नुयाद् वा कियन्ति दिनानि? अनेन, पतीनां मे न वर्धिष्यते गौरवमपितु कतिपयदिनेभ्य: परं हेयाँस्तान् मंस्यन्ते सर्वे। नियमस्त्वयं संसारस्य। सम्प्रति पितृराज्ये भर्तृणां मे यथा न नश्येद् यशस्तथा प्रयतितव्यं मया। यश:क्षये नाहं तु तिलमपि शक्नुयाम् सोढुम्। पितृगृहे दुहितृधर्मो मयाऽक्षरश: आचरित:। सम्प्रति तु स्त्रीधर्माचरणकाल उपस्थित:। मम पञ्चपतय: सम्प्रति हृतराज्या:, निर्धना:, वासशून्याश्च, तथापि तेषां शौर्यवीरत्वव्यक्तयो न सङ्कटा:। नाहं कथं स्याम् गर्विता तै:?
धनवत्त्वं गौरवपौरुषयो: परिचायकं स्यान्नाम, असदुपायेन तु धनवत्त्वं न पौरुष एव। कौरवा: पाण्डवानसदुपायेन राज्याद् बहिष्कृत्य विशालहस्तिनाराज्यस्याधिकारिण: सम्प्रति। परन्तु, नानेन तेषां पौरुष: पाण्डवेभ्यो महनीयतर:। सम्प्रति ते समग्नार्यावर्ते निन्दिता:। धर्मवतां पाण्डवानां तु सर्वत्र जयगानम्। अतोऽद्य नाहं महिषीति न मे क्षुण्णं गौरवम्। वस्तुतोऽहं गर्विताऽद्य पञ्चपतिभि: स्वीयै:।
पतीनां शौर्येण गर्व:, पतिभिश्च सुखाप्ति:, इति परस्परं पृथक्। पत्नीकारणात् पतीनां सुखिजीवनं तु जटिलतरो व्यापार:।
उपस्थिता सम्प्रति मत्समक्षं सैव समस्या। विवाहोत्सवसम्पादनात् परमाप्स्यते सम्प्रति मे वास्तविकं दाम्पत्यजीवनम्। पञ्चपतिभि: सहैकैकशो विवाहात् सर्वैरेतै: साकं दाम्पत्यजीवनातिवाह: पृथक्। कयापि कदाचिदतीते सप्तैकादश वा पतय: परिणीता: स्यु:। किन्तु, आर्यावर्ते सम्प्रति मदतिरिक्ता काऽपि वृतपञ्चपतिका स्वीकृतैकाधिकभर्तृका वा नास्ति। अत: समस्त आर्यावर्त्त: विस्मयेन प्रतीक्षमाण इव द्रष्टुं मम दाम्पत्यप्रहसनम्। अहमपि चिन्तयामि यदन्त्ये तु न मे जीवनं प्रहसनरूपेण परिणतं स्यात्! 'सर्वेषामभिलाषो मया स्वीकार्य’ इति भावावेगेनानेन जीवनस्य गुरुत्वपूर्ण: सिद्धान्तो मया कश्चनाङ्गीकृत:। न क्वचिन्मया तदा चिन्तितं यत् पञ्चानां वीरपुरुषाणां व्यक्तीच्छाऽऽशारुचिप्रभृतय: परस्परं पृथक् स्युरिति। तद् विचिन्त्य तु सम्प्रति ममासहायता प्रतीयते।
एकस्मै पत्यै प्रहरमेकं यद्युत्सृजामि रजन्या:, तथापि पत्युरेकस्य रजनी स्याद् व्यर्था। क्व बत रजन्या: प्रहरचतुष्टयं पञ्चभिर्विभाजयिष्यामि, आत्मानमपि!
अयमारम्भोऽद्य मे दाम्पत्यस्य। प्रात: शुचिस्नानं सम्पाद्य नववधूविभूषणा सुसज्जिता मातरं कुन्तीं प्राणमम्। आशीर्वादं प्रादाज्जननी—''कृष्णे! दिष्ट्या सुखिनी भव। पूरितं त्वया कन्याया: स्थानं मम। सर्वान्त:करणेन पतीनां सुखं विदध्या:। ध्यायं ध्यायं तेषां चरणकमलानि अतिथीनामपरिचितानामभ्यागतानां चेश्वरतुल्यानां कार्या त्वया यत्नत: सेवा। वस्तुतोऽहं धन्या त्वादृशीं विदुषीं रूपवतीं च वधूमवाप्य।’’
मातुराशिषमासाद्याहं युधिष्ठिरशयनकक्षे प्रविष्टा। कृष्णोऽपि तत्र सहास्ते। तस्मै प्रणामो विज्ञापनीय इति मातुर्निर्देश:। प्रायशो युधिष्ठिरस्य शयनकक्षे कोऽप्यन्योऽतिथि: समागतपूर्वो मेऽपरिचित:। तस्यालापस्वर: श्रूयते। स एवं ब्रूते—किन्तु गोविन्द! विषमायामस्यां परिस्थितौ कृष्णाया आपातने किमुद्देश्यमन्तर्निहितं भवत:? देवलोके सर्वे द्रौपद्या: प्रेमविरहद्वन्द्वादिगाथां श्रोतुं विस्मिता: प्रतीक्षन्त इव। देव्या: कृष्णाया: किमर्थमियं लज्जाकरी परिस्थिति:? पुरुषाणां बहुपत्नीविवाहविधानं देवानां सम्मतम्। तद्द्वारा तेषां पौरुषमहिमा वर्धते। परन्तु, एकस्या नायिकाया बहुपतिग्रहणं यावल्लज्जाकरं तावच्च निन्दनीयम्। तेन नार्या: महिमा क्षीयते। न जानाति किमिदं द्वारिकापति:?
सहसा मे चरणौ स्थिरौ तेन। अहं स्थाणुवत् स्वात्मलज्जापमानप्रसङ्गं शृणोमि। कोऽपि नामातिथि: स्यात्, तदभिमुखे ह्रियोपस्थातुं नैच्छम्। प्रतिनिवृत्ताऽहं विश्रामकक्षम्। अधिपल्यङ्कमवशोपाविशम्। स्निग्धमसृणस्वच्छशिलाभित्तौ मद्रूपं प्रतिविम्बितम्। तत्राहमवालोकयम्—अहं त्रुट्यामि दु:खेन, लज्जया, दुश्चिन्तया चेति। परक्षणे नववधूकृष्णाया अन्तरालाद् यज्ञानलसम्भूता याज्ञसेनी विदुद्रोह, देवलोकस्य विधानविरोधे विप्लवमुद्घोषयितुमारेभे च। देवलोकस्य विधानानुसारेणैक: पुरुषो यथेच्छं पत्नी: ग्रहीतुं शक्त:, परन्तु एकाधिकपतिवरणेन कस्याश्चन नायिकाया: पापिनीत्वं बत! विधानमिदं केनोद्धृतमनुमतञ्च? कोऽपि दिव्यपुरुष एव स्यात्! अन्यथा स्त्रीपुरुषयो: पापपुण्यविचारे तारतम्यं कुतो भवेत्?
प्रभेदकरणे धनाढ्यधनहीनयो:, वरावरयो:, ब्राह्मणश्वपाकयो:, नारीपुरुषयोश्च समाजस्य नीतिनियमप्रचलनपापपुण्यादीनां विचारेषु यद् घोरं वैषम्यं मनुष्यै: सृष्टम्, तद्विरोधे आजन्मनो मम 'युद्धं देही’त्यावाहनम्।
वस्तुत: पञ्चपतिवरणं न केवलं मम, अपितु समग्रस्य नारीसमाजस्य कृते आसीदेकमाह्वानम्। युगपद् बहुपतिवरणेनाऽप्येकस्या नार्याश्चारित्रिकी शुद्धताऽमलिना सम्भवेत्—इति प्रमाणयितुं संयोगोऽयं सुवर्णसुयोग इवासीत्।
नान्यपुरुषम्पश्या काचिदन्त:पुरवासिनी नारी यदि पतिव्रता सम्भवेत्तर्हि तस्या: पातिव्रत्येऽपि सन्देहावकाशो वर्त्तते। किन्तु, बहुपुरुषेषूषित्वा, बहुपुरुषाणां सङ्गतिमवाप्यापि काचित् पतिव्रता चेद् भवेत्, तत: सा सतीत्यभिधीयते। प्रायेणैतस्मात् कारणात्तारामन्दोदर्यावेकाधिकपतिवरणेनापि सतीत्वमासाद्य प्रात:स्मरणीये। उर्मिला लक्ष्मणपत्नी चतुर्दशवर्षाणि ब्रह्मचारिणीजीवनमतिवाह्य पतिं प्रत्यैक्षत। परन्तु, अयोध्यानगर्यां नैव कदाचित् डिण्डिमघोष: सकृदपि सतीत्वमुर्मिलाया: प्रचार्य। देवी सीता रावणापहृताऽशोकवननिरुद्धा परितो दैत्यैर्दैत्यराजरावणेन परिवेष्टिता, तेभ्यो लब्धानेकाश्लीलेङ्गिताऽपि भर्त्तारं प्रतीक्ष्यैकाग्रत: कालं यापितवतीति सती सीतेति पौरजानपदेषु प्रचारितो घोष:। अथ च, उर्मिला दीना लोकलोचनान्तराले निलीना।
मूल्यबोधाङ्गीकारातिरिक्तगत्यन्तराभावात् कोऽपि चेन्मूल्यबोधं वृणुते, न तत्र किमपि वैचित्र्यम्। प्रतिकूलपरिस्थितौ यस्तत् कुरुते, स एव वस्तुतो महान्। पापपुण्ययो: पृथिव्यां पापं विना पुण्यस्यास्वादनं नैवानुभूयते। असति पापे पुण्यप्रतिष्ठाया: काऽऽवश्यकता? अविद्यमानेऽधर्मे किं तात्पर्यं धर्मसंस्थापनस्य? असत्यन्धकारे आलोकस्योज्ज्वलतां को वाऽनुभवेत्? दुष्टविनाशाय तु युगे युगे भगवान् भुव्यवतरति। अत: प्रशंसा पुण्यस्य यदा भवति, तदाऽहं तद्विपरीतं पापं चिन्तयामि यत्—पापेन हि पुण्यं महत्तरीकृतम्, दुष्टै: सन्तो महामानवासनमधिस्थीयन्ते। अयमेव हि व्यतिक्रमो मेऽन्यराजकन्याभ्य:।
अहं यदा यदा शृणोमि पश्यामि च यत् प्रत्येकं राज्ञोऽन्त:पुरे नैका राज्ञ्यो विनिद्रा राजागमनं प्रतीक्षमाणा वर्त्तन्ते, अथ च स्वमनोरञ्जनेच्छया राज्ञ: क्वचित् कस्याश्चिद्राज्ञ्या अन्त:पुरे मिथो मिलनस्य वंशीस्वन: श्रूयेत, न श्रूयते वा—तदानीमहं चिन्तयामि, घटनाया अस्या वैपरीत्ये किं स्यात्? एका महिषी—सहस्रं राजान:! कियत्यो निशा: प्रतीक्षया व्यतीयेरन् राज्ञाम्! राज्ञी यत्र राजन्यधिकप्रेमिका स सम्भवेत् प्रियतम:। अभिमतं मे निशम्य सख्यो हसन्ति, वदन्ति च—''राजकुमारि, सर्वं मनसि विचार्यतां नाम, मुखेन तु मा प्रकाशय। अनेन लोकनिन्दा स्यात्। जना एवं ब्रूयु:—''शरीरेण न भवतु नाम, मनसा राजकन्याऽसतीति। एकस्या नार्या बहुपुरुषग्रहणरूपमप्रासङ्गिकं विषयं किमर्थमियं च चिन्तयतीति।’’
अनेनाहं क्षोभे। सखीनां पुरस्तात् पूर्वपक्षमुपस्थापयामि—''सती नारी’’ ''असती नारी’’ इव ''सत्यपुरुष:’’ ''असत्यपुरुष:’’ इत्यादिशब्दावली शास्त्रपुराणेषु न वर्त्तते कुत:? किमु पुरुषहृदयं सुवर्णनिर्मितं, यत् कदाचिदपि पापस्पर्शेन नैव मलिनीभवति? शास्त्रकारै: किमु नारीसमाजमात्रायायं पापक्रम: प्रस्तुत:?
सहसा मनसि भासन्ते कतिपयानि दृश्यानि। प्रोच्छलद्यमुनायां धर्मनौकया नदीपारं गच्छन् महामुनि: पराशरो धीवरकन्याया मत्स्यगन्धाया रूपलावण्येन कामातुरस्तद्रतिं ययाचे। सुकुमारकुमार्या मत्स्यगन्धाया: शतवारणैरपि महामुनि: पराशरस्तां बलान्नौकायां जग्राह।
परिपूर्णा यमुना। उभयोस्तटयोर्यात्रिकाणां कोलाहल:। नौकायां भयभीताऽपापबिद्धा कुमारी सत्यवती। मुनि: पराशरोऽलौकिकशक्तेरधिकारी। ससर्ज स घनकुज्झटिकावलयं पलकमात्रेण यात्रिकाणां नेत्रविषयाद्दूरे स्वकामक्रीडां गोपयितुम्। तस्मिन्नेवान्धकारवलयमध्ये मुने: कामवासना पूरिता, जज्ञे च महाज्ञानी दिव्यद्रष्टा कृष्णद्वैपायनो व्यासदेव:। पुत्रं सहैव नीत्वा महामुनि: पराशरो मत्स्यगन्धाया अपसृत:, तया च तृप्तिदानकारणात्तेन सा मत्स्यगन्धा योजनगन्धारूपेण परिणमिता। योजनगन्धासत्यवतीशरीरान्मत्स्यगन्धो दूरीभूत:, निस्सृत: सुगन्धो योजनेषु व्याप्तश्च।
समयक्रमेण सैव योजनगन्धा सत्यवती पत्नी बभूव कुरुवंशजस्य राज्ञ: शन्तनो:। तस्या गर्भादजायेतां चित्राङ्गदविचित्रवीर्यौ शन्तनुपुत्रौ।
परमज्ञानवती माता सत्यवती समाजे व्यतीतजीवनस्य लोकनिन्दामपि सहते—अथच महर्षि: पराशर: सर्वजनपूज्य:। श्रीमद्व्यासदेवमुखात्तज्जनन्या: जीवनवृत्तान्तं शृण्वन्त्या मम मनसि विद्रोहदुन्दुभिरनुस्वनति। रक्ताभं भवति सहसा मे मुखमण्डलं क्रोधेन। व्यासदेव: स्थितप्रज्ञ:। स: सस्मितं गदति— नारी सर्वंसहा धरित्री। नारीणां सहनशीलता न विलोक्यते पुरुषेषु। अत: नार्यां दोषारोपणं सुकरं समाजे। पुरुषे एतादृशि दोषारोपणे प्रत्यहं पृथिव्यामसङ्ख्या हिंसा: सङ्घटेरन्। अत: पुरुषस्य निन्दायै न कोऽपि साहसं कुरुते। निन्दापवादकुत्सासु निजचारित्रिकदृढतां परिचाययन्ती माता सत्यवती सम्प्रत्यार्यावर्तस्य परमपूजनीया महीयसी महिला।
ममाग्रजस्य शिखण्डिनो जन्मवृत्तान्तं निशम्याहं क्रोधेन ज्वलामि।
काशीराजकन्यां तिसृणामम्बाऽम्बिकाऽम्बालिकानां स्वयंवरसभाऽऽयोजिता। स्वयंवरसमाचारं प्राप गङ्गापुत्रो देवव्रतोऽटलप्रतिज्ञो भीष्म:। तदानीं चित्राङ्गदोऽविवाहितो मृत:, विचित्रवीर्यश्चोपनीतपरिणयवया:। भीष्मदेवो विचित्रवीर्येण सह काशीराजकन्यानां स्वयंवरसभायामुपस्थित:। आर्यावर्त्तस्य सर्वे राजानस्तत्रासीनपूर्वा:। वेद भीष्मदेवो यत् काशीराजकन्या: कदाचिदपि विचित्रवीर्यं न वरिष्यन्ति। क्षत्रियधर्मप्रतिज्ञया भीष्मदेवस्ता विचित्रवीर्येण सह परिणयाकाङ्क्षया बलप्रयोगपूर्वकमुत्थाप्य निनाय। भीष्मस्य बाहुबलाद् भयेन न केनापि बलप्रयोगस्य कृत: प्रतिवाद:।
हस्तिनाप्रवेशात्परं ज्येष्ठा राजकन्याऽम्बा भीष्मं स्पष्टं जगाद यत् सा कस्मैचित् समर्पिता, वृतपूर्वा। मद्रराज: शाल्वो पूर्वं तस्या हृदयाधिष्ठित:, स्वयंवरसभायां च तं दृष्ट्वा समर्पितं तया स्वहृदयमिति। नियमत: शाल्व एव तया परिणेय:। भीष्मदेवोऽत्यन्तमुदारतया राजकन्यामम्बां राजपुरोहितेन विश्वस्तसेविकाभिश्च सह शाल्वान्तिके ससम्मानं प्रेषयामास। किन्तु, अम्बोपेक्षिताऽदूरदर्शिणा राज्ञा शाल्वेन निरपराधा।
राजा शाल्वस्तामुपहसन्नाह—''सर्वेषां समक्षं भीष्म: सर्वान् पराजित्य त्वामपाहरत्। तस्मादेव क्षणात् त्वं भीष्मस्योच्छिष्टभूता मम सहधर्मिणी भवितुमयोग्या। नाहं त्वामधुना कामये।
निष्ठुरयाऽनया वाचाऽम्बाऽत्रुट्यत्। अनुनिनाय च शाल्वम्—भीष्मदेव आजन्मनो ब्रह्मचारी। जीवने न कदापि परिणेष्यतीति पितरि स कृतप्रतिज्ञ:। नारी कदाचिदपि न तस्य चारित्रिकस्खलनस्य कारणत्वं गता। भीष्मदेवो न स्वात्मने, अपि तु स्वानुजाय मामपजहार। अतस्तदा तन्मनसि मदर्थं निर्मलश्रद्धाऽऽशीर्वादातिरिक्तं कुत्सितकामनाया लेशमात्रमपि नासीत्। किन्तु, पुरुषकारस्याहङ्कारेण शाल्वोऽसहायामम्बां तस्या भविष्यमनालोक्य प्रत्याख्यातवान्।
निराश्रया राजकन्याऽम्बा घोरऽरण्ये ऋषिमुनीनां परामर्शं जिज्ञासितवती। पितृगृहं प्रत्यावर्त्तितुं सा नैच्छत्। तस्या दुर्दशाया: कारणं शन्तनुपुत्रं मन्वाना प्रतिशोधकामनया कठोरं तपश्चचार। आर्यावर्त्तस्य न कोऽपि वीरस्तत्संरक्षणार्थमुपातिष्ठत्। आशुतोष: शङ्कर एव केवलोऽन्त्ये सदय उपकर्तुम्। किन्तु, इह जन्मनि भीष्मस्य प्रतिशोधायाम्बायै न वरो दत्त: शङ्करेण। परजन्मनि भीष्मं पराजेष्यत्यवश्यमिति वरोऽर्पत:। परजन्म? तदपि कदा? निराश्रयाया उपेक्षिताया उपहसिताया विरहिण्या अम्बाया विडम्बितं जीवनं नगनदीस्रोत इव भूयो दीर्घतरम्। किन्तु, सुकुमारी राजकन्याऽतिदु:खिता कियन्ति दिनानि बत जीवेत्? अधीराऽम्बाऽनले आत्माहुतिमदात्।
परजन्मनि विडम्बनाऽपि न स्वल्पाऽम्बाया:। नारीशरीरा केन प्रकारेण भीष्मं पराजयेत्? अत: परजन्मनि मम पितुरौरसपुत्ररूपेण जज्ञे, किन्तु सोऽपि नपुंसक:। तस्य जन्ममात्रेण पुत्रलाभमहोत्सवं विस्मृत्य तच्छिरश्च्छेत्तुं राजा द्रुपद आदिदेश।
ममाग्रजं शिखण्डिनं दृष्ट्वा मनसि मेऽनुकम्पाया: स्थाने क्षोभो जागर्ति। उपेक्षितोपहसिता राजकन्याऽम्बा शिखण्डिन: कान्तकोमलरूपशोभायां वर्त्तते। अम्बैका नारी, अत: विनापराधं तस्या द्वे जन्मनी अभिशापग्रस्ते। मनसि विद्रोह उदेति। अम्बा समाजस्याविचारं नतशिरसा सेहे। अनले प्राणान् विससर्ज। अत: कथं वा न जागृयाद् विद्रोहस्तदात्माहूत्या मे?
अम्बा त्वात्माहूत्या नारीजन्मनो विमुक्ता। किन्तु, तद्भगिन्योरन्ययोरम्बिकाऽम्बालिकयोर्जीवनगाथाऽधिकविषादमयी।
दिवं जगामाकस्मादपुत्रिको विचित्रवीर्य:। कुरुवंशे एक एव दायादोऽवशिष्टो भीष्मदेवो यश्चिरकुमार:। कुरवंशस्य कथं स्यात् सुरक्षा? किमु वंशनाशो भवेत्? मातु: सत्यवत्या उपदेशेन वंशरक्षार्थं पुरुषान्तरेण पुत्रं जनयितुमम्बिकाऽम्बालिके कथञ्चित् प्रस्तुते। पुराणनिदर्शनान्युत्थाप्य सत्यवती प्रणुनोद—''तपोवतोऽप्यनपत्यस्य नास्ति सद्गति:।’’ पुन: सा नानादृष्टान्तै: कथयामास यत् पतिद्वारेण यदि पुत्रलाभोऽसम्भवस्तर्हि अष्टभिरन्यै: प्रकारैर्नारी पुत्रमुत्पादयितुं क्षमा। मानवसमाजेनापि स पुत्रोऽङ्गीक्रियते। एषूपायेषु परपुरुषेण पुत्रोत्पादनमन्यतम: पन्था:। अत: भवतु नाम व्यासदेवो युवयो: पत्युरग्रजस्तथापि स एव सम्प्रत्यङ्गीकरणीय:। सुरक्षणीयश्च हस्तिनाराजवंश उत्तरदायादोत्पादनेन। तदेवाभूत्। व्यासदेववीर्येण जज्ञाते अम्बिकाऽम्बालिकागर्भाभ्यां क्रमशो धृतराष्ट्रपाण्डू। धृतराष्ट्रो जन्मान्ध:, पाण्डुश्च रुग्ण इति पुनरम्बिकामाज्ञापितवती व्यासदेवञ्च, तनयमुत्पादयितुम्। प्रथमतस्तु अम्बिकाया एवं पुत्रलाभोऽनभीष्ट आसीत्। अत: पुनर्व्यासदेवेन मिलनमनिच्छन्ती सा स्वसेविकां स्ववेशेन तन्निकटे प्रेषयामास। सेविकाया गर्भादजायतासाधारणबुद्धिमान् धार्मिक: सुतो विदुर:। भयेन, लज्जया, दु:खेन च यमुनायां स्वप्नाणान् विससर्जाम्बिका। तथापि, समाजेऽम्बिकाऽम्बालिके उपहसिते भवत:। अन्यपुरुषस्य पुत्रौ स्वगर्भे धारितौ इति पुन: पुनर्निन्द्येते। पत्युपदेशं शिरसा निधाय माता कुन्ती पृथक् पृथक् देवै: पुत्रानुत्पादितवतीति बहुवारं साऽप्युपहस्यते। सर्वमेतद् विचार्याहमिच्छामि यत् पापपुण्यविचारो नारीपुरुषयोर्न समान: कुत:? तथा सति नारी सामाजिकात्याचारेण नोत्पीड्येत। सखीभि: सह विविधप्रसङ्गचर्च्चायां मयाऽनेकवारमिदमप्युक्तं यत्—आवश्यकतायां सत्यामहमेकाधिकभर्तन् वृत्वाऽपि प्रमाणयितुं समर्था यद् बहुपतिकाऽपि नारी सर्वेषु पतिषु समानतया विश्वस्ता, अनुगता, पतिव्रता च सम्भवेदिति। परन्तु, तदानीं मया समस्येयं न साधु विमृष्टा। आवेगप्रणोदिततया क्रोधेन सहसा किमपि किमपि प्रजल्पनं मे सहजातोऽभ्यास:।
मम पक्षं निशम्य तदानीं व्यासदेवोऽस्पष्टस्मितं चकार। ममादृष्टं यन्मया प्रतिस्पर्धते स्म, तदहं कथं जानीयाम्?
मम जीवने यदा सा विडम्बिता घटना समुपस्थिता तदेयं नारीत्वस्य परीक्षेति मत्वा समग्रनारीजात्यै एकमाह्वानमाजानाम्। अत: मातु:कुन्त्या: युधिष्ठिरस्य च निर्देशमहं शिरसा शान्त्या स्वीकृतवती।
किन्तु सम्प्रति वास्तविकदाम्पत्यजीवनस्यायमारम्भक्षणेऽनुभवामि यत् वाचोयुक्त्या स्त्रीपुरुषयो: समत्वं प्रतिपादितमपि वस्तुतो व्यावहारिकदृष्ट्या विमर्शोऽयं न सत्यतां वहति। नारीशरीरसंरचनमिव नारीमनोऽपि पुरुषमनसो भिद्यते। तत: समाज: काले काले भिन्नान् नियमान् प्रणयति। एकाधिकपत्नीकस्य पुरुषस्य हृदयं जेतुं तत्पत्न्य: प्रयतन्ते। किन्तु, या तस्मायधिकं रोचते, तामेवाधिकं ध्यायति। परन्तु बहुपतिका नारी समेषां पतीनां रुची: सम्यक् विमृश्य समेषां हृदयानि जेतुं चेष्टते। अन्यथा, तस्या जीवनं दु:सहं सम्पद्यते। तामेव दु:सहां परिस्थितिं पुरस्कर्तुं गच्छामि सम्प्रति।
अहमाकाशत्पातालं यावच्चिन्तयामि—तदानीं सखी नितम्बिनी समाचारमदात्—नारद: समागत:, युधिष्ठिरगोविन्दाभ्यां सहालपति। आरचिताऽपि द्यूतक्रीडा। युधिष्ठिरो मामाकारयतीति प्रस्थातुमुद्यता भवामि—सहसा दासी वार्तां व्याहरत्—''भीमसेन: शयनकक्षे प्रतीक्षते। अद्य तस्य प्रातर्भोजने मात्राधिक्याद् भृशमसुस्थं शरीरमिति स विश्राममिच्छन् त्वामाकारयति।’’ विश्रामकाले मम साहचर्यमावश्यकमिति।
किं कुर्याम्, कस्यादेश: प्रथमत: पालनीय इति विचारयामि, सहसैका सखी अर्जुनसन्देशमानीयोपस्थिता—''पुस्तकालयेऽर्जुनो मे प्रतीक्षया वर्त्तते। कोऽपि विद्वान् समागत:। शास्त्रचर्यायां ममोपस्थितिर्वाञ्छनीयेति सोऽनुभवतीति।’’
अहं तूष्णीं स्थिता तद् विमृशामि। सद्य: काऽप्यन्या सखी नकुलनिर्देशं प्रापितवती। उपहाररूपेण लब्धानश्वान् परीक्षतेऽश्वशालायां नकुल: तत्र मदुपस्थितिं च कामयते स इति। तत: सहदेवस्यापि समागताऽऽज्ञा यत् सम्प्रति पाञ्चालेषु न: कतिपयदिवसनिवास: समुचित: स्यान्न वेति तद्गणनायां मम परामर्शं काङ्क्षतीति। यतोहि अहं दिव्यदर्शिनीति व्यासदेवस्याभिमतं पञ्च पाण्डवा जानन्ति।
अहमचिन्तयं यत्—विडम्बितजीवनस्यायमारम्भोऽस्मात्क्षणादेवेति। सर्वेषां पतीनां निर्देशा: सम्प्रति मया पालनीया:, सर्वेषां यथाविधि सम्मानोऽपि विधेय:। कस्याप्यवज्ञा न युज्यते। अहमपि कस्याप्यवज्ञां नेच्छाम्यन्तत:।
प्रप्रथमं युधिष्ठिरनिर्देश: पालनीय:। यतोहि स ज्येष्ठ:, पाण्डवपरिवारस्य कर्त्ताऽपि। अहं युधिष्ठिरकक्षमभिसरामि, सहसा साम्प्रतिकी प्रियसखी माया मार्गमवरुध्योवाच—''सखि! भीमसेनश्चिरात् प्रतीक्षते। किं त्वं तस्य क्रोधं सोढुं शक्ष्यसि? पुनरर्जुनो महाभिमान:। अन्तर्दु:खेन कोपिष्यति। किन्तु, न किमपि प्रकाशयिष्यति। युधिष्ठिराज्ञा पश्चात् पालनीया। प्रथमं तु भीमसेन: सन्तोषयितव्य’’ इति। अहं तु द्वन्द्वग्रस्ताऽवोचम्—''सर्वमहं वेद्मि। किन्तु न्यायत: युधिष्ठिरनिर्देश: शिरोधार्य एव। ततो भीमसेनस्यपुनरर्जुनस्येति।’’
''न्यायनियमैर्दाम्पत्यस्य मिलनविरहरोषप्रसादादीनां रागरक्षा न सम्भवति। मन्दिरे, विद्यालये, सभामण्डपे, रणक्षेत्रे च नीत्यनीत्योर्धर्माधर्मयोश्चर्चा भवति, साऽप्यङ्गीक्रियते, परन्तु न प्रेमव्यापारे। कदाचिदपि सरलमार्गात् किञ्चिद् वक्रताऽप्युररीक्रियते। दाम्पत्यं तु न भ्रातृभाज्यं यस्य ज्येष्ठकनिष्ठाद्यनुपातेन स्नेहममताप्रेमाऽभिमानादय: पञ्चभ्रातृषु विभाज्या:?’’ मायैतद्वदन्ती स्मितं चक्रे। तेनाहं किञ्चिद् विचलिता। चिन्ताकुलहृदया युधिष्ठिरकक्षे प्राविशम्।
देवर्षिं नारदं, गोविन्दं च प्राणमम्। नारद: कल्याणमुच्चचार। गोविन्द: सस्नेहदृष्ट्या शुभच्छां व्यज्ञापयत्।
द्यूतक्रीडां पूर्णत आयोज्य युधिष्ठिरो मां प्रतीक्षते। मृदु हसन्नाह—''उपविश पाञ्चालि! अद्य भवत्या: समक्षं गोविन्दस्य मम च मध्ये द्यूतप्रतियोगिताऽऽरप्स्यते। गोविन्दो वदति यत् संसारस्तस्य खेल इव प्रतीयते। तत्तुलनया तु द्यूतक्रीडा नितान्तं नगण्यैव। अत: स एवात्र जेता स्यात्। अद्य तस्य परीक्षा तवैव पुरस्ताद् भवतु।
अहं ससम्भ्रममवदम्—''मह्यं कृपया किञ्चिदवसर: प्रदेयो भवद्भि:। भवतामनुजा ममोपस्थितिं सम्प्रति सर्वे कामयन्ते। तेषां सकाशात् प्रत्यावर्तनात् परं भवतां द्यूतक्रीडां वीक्ष्यानन्दमनुभवितुं शक्ष्यामि।’’
अन्ये भ्रातृर: किमर्थं मदुपस्थितिं कामयन्त इति गोविन्दस्य जिज्ञासायां कारणानि तेषामहं प्रकाशितवती। मदुत्तरं निशम्य नारदो हसितुमारेभे। सव्यङ्ग्यस्वरेणाह—''युधिष्ठिर! भ्रातृणामेकतासूत्रेण बन्धनाय देवीद्रौपद्या: पञ्चपतिग्रहणं भवता बलात् कारितमेव। किन्तु, मयाऽनुमीयते यद् देवीद्रौपदीकारणात् पञ्चपाण्डवेषु ईर्ष्या-प्रतियोगिता-विराग-शत्रुता-मतान्तरादिन्यवश्यं सम्भविष्यन्ति, किं बहुना, अन्ततो भ्रातृभागोऽपि सम्पद्येत। सम्प्रति द्रौपद्या: सर्वान् मिलित्वा प्रत्यावर्तने सायंकालो भविष्यति। कदाचिद् भीमसेन: पूर्णं दिवसमेको न नयेत्? तव द्यूतक्रीडा तत: कुत: सम्भवेत्? अयं त्वयमारम्भ एव। प्रतिदिनं प्रतिमुहूर्त्तं द्रौपद्या: सेवासाहचर्यसान्निध्यसङ्गलाभं पाण्डवा: कामयिष्यन्ते। तत्र क्व पुनरस्वाभाविकता नाम? सैव सङ्गलाभकामना भाविन्येकदा पाण्डवैकतानाशकारणतां यास्यति।’’ युधिष्ठिरो दृढतापूर्वकमाह—''मदनुजा मामीश्वरमिव जानन्ति। अतोऽस्मासु तथाभूतो विवाद उत्पत्स्यत इति नाहं विश्वसिमि। ममादेशेन मत्सहोदरा राज्यधनवैभवादिनि सन्त्यज्य वनवासगमनाय नावज्ञास्यन्ति।’’
नारदस्तु हसन् जगाद—''राज्यधनादीनां त्यागस्तु सुकर:। किन्तु, वरनारीं द्रौपदीं त्यक्तुं न कोऽपि सारल्येनोत्सहिष्यते। त्वं तु सुन्दोपसुन्दगाथां वेत्सि। सहोदरौ सुन्दोपसुन्दौ पात्र एकस्मिन् बुभुजतु:। एकस्मिन् कक्षे, एकस्मिन्नेव पल्यङ्के, एकत्रैव शय्यायां शिश्याते। राज्यस्यैकताऽक्षुण्णा बभूव। परन्तु, पत्नीतिलोत्तमाकारणात् सहोदरौ तौ परस्परं जघ्रतु:।’’ ममान्तरात्मा भयाशङ्काभ्यां प्रचकम्पे। युधिष्ठिरो गम्भीरो बभूव। गोविन्द: शान्तस्वरेणाह—नारदवचनं पूर्णत: सत्यमेव।
नारद: सचिन्तमुवाच—''आविर्भावकाले कृष्णाया इयं दैववाणी बभूव यदनेकक्षत्रियसंहारहेतुरियं भविष्यतीति। त एव क्षत्रिया: पाण्डवा: कच्चिन्न स्यु:! मम भयमुत्पद्यते। किमधिकेन, एक एव भीमसेनो द्रौपदीकृतया तदवज्ञया सह द्रौपद्या पाण्डवान् गदाप्रहारेण चूर्णयिष्यति। क्नोधस्तु भयावह:। यदि भीमसेन: कु्रध्येत्..................... अलमधिकवक्तव्येन।
अहं कातरेव न्यवेदयम्—''देवर्षे! भवत उक्तिर्मां विचलितां कुरुते। अहमपीदमनुभवामि यद् युगपदेकाधिकपतीनां कर्त्तव्यसम्पादनं कयापि पत्न्या नितान्तं कठिनम्। विज्ञपुरुषस्य गोविन्दस्योपस्थितौ यदि किमपि व्यवस्थीयेत, तर्हि वरं स्यात्। अनेन, परस्तात् पञ्चपाण्डवान् नीत्वा मम किमपि काठिन्यं न सम्भवेत्। तेषां कृते प्रतिमुहूर्त्तमात्मविभाजनस्य मम विफलप्रयासेनास्माकं दाम्पत्यं च नैव विषादितं सम्भवेत्।’’
नारदो हसन्नाह—''कन्यके! सर्वमेतत्ते वयक्तिकम्। दाम्पत्ये तृतीयस्य भूमिकाऽप्रशस्या। पुन:, दाम्पत्यस्य नारीजीवनस्य वा द्वन्द्वविषये नितान्तमहमयोग्य: प्रवेशशून्यश्च। किन्तु, विषयेऽस्मिन् गोविन्दस्य पर्याप्ताऽभिज्ञता विद्यते। पतिप्रेमिकयोर्भूमिकायां स भूयानभिज्ञ: किल। केचन तु तं नारीविशारदं वदन्ति। स एवात्र किमपि सूत्रमुपस्थापयितुं शक्नोति।’’
अहं गोविन्दमपश्यम्। मम नेत्रयोरसहायता गोविन्दमामोदयतीव। सोऽपि मृदु हसति। अहमवोचम्—''गोविन्द! भवानस्माकं सुखदु:खयो: सहचर एव। मातु: सकाशादाकर्णितं मया यद् भवान् यत् किमपि विदधाति तत्रावश्यं मङ्गलं न: सन्निधीयते। अत: सम्प्रति भवानेव व्याहरतु—अहं किं कुर्यामिति?’’
गोविन्दस्तु साञ्जलि प्राह—''क्षमस्व कृष्णे! एतत् सर्वं ते दाम्पत्यगतम्। अत्र क: पुनर्मे परामर्श: स्यात्? त्वं तु विदुषी। यदुचितं त्वं मंस्यसे, तदेव करिष्यसि। अन्यच्च, सत्यां ते प्रियसख्यां मायायां न मे परामर्शाकाङ्क्षाऽऽवश्यकी स्यात्।’’
माया मयि संलग्नेव तिष्ठति। विवाहात् परं सा मे छायेव सन्निकटे वर्त्तते। प्रतिपदं च मे सहायतां कुरुते। दृष्टवत्यहं यद् गोविन्दो मायामिङ्गितेन किमपि ब्रूते। तदिङ्गितं कथमहं जानीयाम्?
माया गोविन्दान्नेत्रे परावृत्य मां ददर्श। जगाद च—''सखि! युगपदेकाधिकपुरुषाणां पत्नीत्वमत्यन्तं पीडादायकं निन्दनीयं च। अतस्त्वमेकैकश एकवर्षात्मकं कालमेकस्य पाण्डुपुत्रस्य सेवायां नियोजयिष्यसि पत्नीत्वेनात्मानम्। नारी नाम जननी, जाया, भगिनी च। त्वं जननीभगिनीभूमिकाभ्यां सर्वदा पाण्डवानां कर्त्तव्यं सम्पादयिष्यसि। परन्तु पत्नीरूपेण वर्षमेकमेकस्य। पञ्चानां पाण्डवानां स्वभावश्च पञ्चप्रकारक:। एकस्मिन् वर्षे एकस्यैव पत्नीरूपेण तव मानसिकप्रस्तुत्यै लप्स्यतेऽप्यवसर:।’’
मायाया अभिमतं सर्वैरनुमोदितम्। युधिष्ठिरेणापि सम्मतमिदम्। नारद: प्रस्तावान्तरं प्रतुष्टाव यत्—''द्रौपद्या: पत्नीरूपेण कस्यापि भ्रातुरवस्थानकाले यदि कोऽप्यन्य: सहोदरस्तत्र प्रविशति, तर्हि द्वादशवर्षाणि वनवासेन सह ब्रह्मचर्यं चाङ्गीकरिष्यति स इति।’’ तन्मतेनानेन दाम्पत्यं शृङ्खलितं स्यादिति।
परामर्शोऽयं सर्वसम्मत्या गृहीत:। अहमप्याश्वस्ता यत् निर्दिष्टावधौ पुरुषस्यैकस्याहं पत्नीरूपेण स्थित्वा तस्मिन् विश्वस्ता स्यामिति। मायायै कृतज्ञतां विज्ञाप्य युधिष्ठिरानुमत्या भ्रातृणामन्येषां सकाशायाहं गता। अहं सम्प्रति तेषां जननी, भगिनी वा। अनेनाभिनयेनाहं सर्वेषां तेषामभिमानावश्यकतारागविरागादीनां वात्सल्यसंवलितं प्रत्युत्तरं निर्द्वन्द्वं प्रदातुं शक्ष्यामि।
किन्तु, अद्यारभ्य द्वाभ्यां वर्षाभ्यां परं ममार्जुनस्य च परस्परं मिलनं सम्भविष्यति। अथ च, अद्योषसि वधूवेशसुसज्जिता दर्पणस्य पुरस्ताद् यदाहं दण्डायमाना, तदा तु मम प्रतिविम्बं प्रतिफलितं दर्पणे, किन्तु हृदयदर्पणे प्रतिफलितोऽर्जुन: सौम्य:। अहमात्मविमुग्धा जाताऽर्जुनभावनया, न तु मद्रूपलावण्येन। इच्छा मनसि जागृता—'यद्यनुष्ठीयेताद्यैवार्जुनेन सह मम मधुरमिलनमहोत्सव:!’
प्रातर्भोजने सर्वेषामगोचरतयाऽर्जुनो धीरस्वरेण मामाह—''यामिन्यास्तृतीयप्रहरे त्वां प्रतीक्षिष्ये। ममादृष्टं मां सन्तापयितुं बद्धपरिकरमिति तृतीयप्रहरं यावत् विना का पुनर्मे गति:?’’
अहं लज्जयाऽरुणाभा सम्पन्ना। भीमसेनो मामालक्ष्य ज्ञातुं प्रयेते यत् केन संलापेनार्जुनस्य, द्रौपदीमुखवर्णं परिवर्त्तते इति। तत्क्षणं भीमसेनस्य मिष्टान्नेच्छयाऽहं गत्वा परिवेषितवती। प्रायेण भीमसेनोऽर्जुनस्य निभृतवाक्यालापं न सेहे।
सम्प्रत्येकं वर्षं यावद् भीमसेनस्य प्रतीक्षा। किमु भीमसेनोऽस्माकं दाम्पत्यनियमान् पालयिष्यति? सहिष्णुताया: स्पर्शमपि स नानुभवति। परन्तु तदर्थं न मे तथा प्रगाढा चिन्ता। स स्वेच्छया हिडिम्बान्तिकं गमिष्यति। नकुलसहदेवौ तु शान्तनम्रौ, अग्रजाद् युधिष्ठिराच्च बिभीत:। स्वाभाविकतया सर्वं तावङ्गीकरिष्यत:। परन्तु, अर्जुन: कथमेतान् नियमान् पालयिष्यति? यदस्तु, न किमपि विधातव्यमवशिष्यते। सर्वेषां पुरस्तान्मया नियमा एते स्वीकृता:, युधिष्ठिरेणापि। स्वीकारस्यास्य पृष्ठभूमौ गोविन्दस्य प्रच्छन्नमिङ्गितमस्ति। अत: मनसि नावश्यकी अनुशोचना।
अहं तु निश्चिन्ता यदधुना दाम्पत्ये भारसाम्यं कर्त्तुं प्रभविष्यामीति।
(१३)
सौभाग्यस्य सूर्योदय इयच्छीघ्रमनाहूततयाऽऽयास्यतीति नाहं, न च पाण्डवा विदु:। विवाहमहोत्सवस्यैकमासादपि पूर्वं हस्तिनापुराद् पितामहाद् ज्येष्ठपितुश्च सादरनिमन्त्रणमादाय रथाश्वदासदासीपरिवृत: पाण्डवपितृव्यो हस्तिनामहामन्त्री महात्मा विदुरोऽस्मान् नेतुं समाजगाम।
पाण्डवा जीविता:, मामपि प्राप्तवन्त इति विज्ञाय महाराजो धृतराष्ट्रो माता गान्धारी चात्यन्तं मोदेते। माता सत्यवत्यपि आाशीर्वादं प्रयच्छति। हस्तिनापुरस्य पौरजानपदा:, कौरवा: शतं भ्रातृर:, गुरुदेवो द्रोणाचार्य:, कुलगुरु: कृपाचार्य:, कौरवबान्धव: कर्ण इत्यादय: सर्वेऽस्मान् सोद्वेगं प्रतीक्षन्ते। अस्माकं सुस्वागताय राज्यवासिनो विपुलायोजनतत्परा:। जतुगृहघटनाया: परं पाण्डवा: प्रजानां स्नेहसमर्थनसंवेदना अनायासमासादितवन्त:। सम्प्रति तत्र प्रत्यावर्तनात् परं राज्यार्धं पिता धृतराष्ट्र: पाण्डवेभ्य: समर्पयिष्यतीति निर्णयात् परमपि युधिष्ठिरस्य हस्तिनाराजसिंहासनलाभं प्रजा इच्छन्ति। एतेन, देशस्य मङ्गलं वर्धिष्यते। सम्पूर्णार्यावर्तस्य वीरान् विजित्य स्वशौर्यं पौरुषं च प्रतिपाद्य पाण्डवा मां प्रापुरिति राज्ये पाण्डवानां गौरवं गुणात्मिकां वृद्धिं लेभे। अत: सर्वेषां हस्तिनाप्रत्यावर्तनं स्थिरीभूतम्।
माता कुन्ती पुत्राणां स्वत आपतितेन सौभाग्येन विह्वलिता मामभ्यनन्दयत्। मम सौभाग्यकारणात् सुलक्षणाच्च श्रीहीनै: पाण्डवै: पुनरधिगता श्रीरिति माता पाञ्चालाश्च विश्वसन्ति स्म।
यै: कूटनीत्या पाण्डवा मरणयन्त्रे प्रक्षिप्ता:, तै: पाण्डवेभ्य: सवैभवं राज्यार्धं पुनरर्पयितुं स्वत:प्रवृत्तै: रथ: प्रेषित इति नेदं स्वल्पविस्मयकरम्। घटनायामस्यां याऽलौकिकी शक्तिरन्तर्निहिता, सैव मे सौभाग्यशक्ति:। मायैतदेव सर्वत्र ब्रूते। पतीनां राज्यप्राप्त्याऽत्यन्तमानन्दिता, स्वात्मप्रशंसया च विस्मृतहृदया भवामि। पाण्डवा मत्कारणात् पुनरपि स्वराज्यधनसम्मानादीन् लेभिर इति विचिन्त्य मे मनस्यहङ्कार उदपद्यत। एकतो मे सौभाग्यजैत्री प्रसरति, अपरतस्तु निश्शब्दमट्टहास्यं कुरुतेऽदृष्टमिति तदा नाहमवेदम्। अन्यथा, हस्तिनापुरीमायायां न प्रवेष्टुं युधिष्ठिरमन्वरोत्स्यम्। हस्तिनापुर्यामप्रत्यावर्तने मम जीवनस्येयल्लज्जाकरं दु:खदं च नाटकमभिनीतं नाभविष्यत्। किन्तु ममानुरोधं किमु युधिष्ठिरोऽरक्षिष्यत्! जीवने न कोऽपि परामर्शो युधिष्ठिरेण गृहीत:। तद्दिनेऽपि स कदापि नाश्रोष्यत्। अहो, कियान् निर्बोधो मनुष्य:! वर्तमानसुखस्यानन्दलाभायागमिष्यद् विकटमपीङ्गितमपाकृत्य जीवनस्य चरमां दुर्दशामाकारयति!
पितृगृहात् प्रत्यावर्त्तितुं श्वशुरालयमहमपि तदानीं व्यग्राऽऽसमत्यन्तम्। यतोहि कदाचिदपि श्वशुरालयं गन्तुमाशैव नासीत्, अत: पितृगृहाश्रयो मां क्लेशयति स्म। बलरामगोविन्दाभ्यां तु द्वारकापुर्यां प्रस्थातव्यमासीत्। किन्तु, विवाहमहोत्सवात् परं पित्रनुरोधेन पाञ्चालेषु कतिपयदिनानि आतिथ्यं स्वीचक्रतु:। अस्माकं हस्तिनाप्रत्यावर्तनात् परं तौ पाञ्चालान् त्वक्त्वा द्वारकामागमिष्यत:।
गोविन्दबलरामाभ्यां साकमर्जुनोऽपि द्वारकापुरीं गन्तुमैच्छत्। अहं ज्ञातुं न प्राभवम्—अर्जुनस्य द्वारकापुर्यां किमाकर्षणमस्ति यत् स स्वनववधूं विहाय ताभ्यां सह बान्धवगेहं जिगमिषतीति। गोविन्दोपस्थितौ तदेवाहमर्जुनायापृच्छम्, यद्यपि रसिकताच्छलेन तदासीत्। परन्तु, एवम्प्रकारकप्रश्नस्योत्तरायार्जुन: सुयोगमन्विषतीव स्म। स साभिमानमाह—द्वारकापुर्यां सखायं विनाऽऽकर्षणान्तरं न किमपि तथा वर्त्तते। परन्तु सम्प्रति चिन्तयामि—''द्वारकापुरी वा नर्कपुरी वाऽन्यत्र वा, कुत्रचित् किमप्याकर्षणं चेत्, तन्मे लाघवाय कल्पेत। अन्ततो वर्षद्वयं विना कष्टं यापयेयम्।’’
अस्य किमुत्तरं मया प्रदेयम्? अर्जुनस्याभिमान: स्वाभाविक:। अहं तु किंकर्त्तव्यशून्या। इह नीरवतैव मे श्रेयसी। गोविन्द: स्मितं कुर्वन्नाह—''सखे! भीमेनापि हिडिम्बान्तिके गन्तुं पूर्वं स्थिरीकृतम्। परन्तु हस्तिनानिमन्त्रणमवाप्य स्वमतं परिवर्तितं तेन। पञ्चपाण्डवानेकत्रानवलोक्य कौरवा अवश्यं मनसा प्रसन्ना: सन्तश्चिन्तयिष्यन्ति यत् पाण्डवेषु मतान्तरं परस्परमारब्धमिति। सुयोगेऽस्मिन् ते राज्यवासिन: प्रेरयिष्यन्ति यत् पाण्डवभ्रातृरऐक्याभावात् प्रजापालनाय न समर्था:। राज्ये ऐक्याभावाद् बाह्यशत्रूणामाक्रमणादेते कथं स्वराज्यं रक्षिष्यन्ति? भीमेन सर्वान् क्रोधाभिमानादीन् विस्मृत्य समूहकल्याणाय स्वसिद्धान्त: परिवर्तित:, अथ च त्वं पाण्डवान् विहाय बन्धुपत्नीभि: सह प्रमोदाय द्वारकापुर्यां गमिष्यसि? जना हसेयुर्यदर्जुन: स्त्रीसङ्गसुखवञ्चित: स्त्रैणस्वभावाद्राज्यं परित्यज्य बन्धुगृहे निवसतीति। पुन:, कृष्णा किं चिन्तयिष्यति?’’
अर्जुन: साभिमानमुवाच—''प्रतिज्ञाकाले किमु चिन्तितवती यत् सिद्धान्तोऽयं मे कियान् रुचिकर: स्यादिति? किमु सा ममाभिमतं पप्रच्छ? अस्यायमर्थ: फलति यत्तस्या: सिद्धान्तं वयं तूष्णीं पालयिष्याम इति।’’
अहं शान्तस्वरेणावदम्—''नायं सिद्धान्तो मम, अपि तु गोविन्दस्य। गोविन्दो यद् विदधाति तन्मङ्गलाय कल्पत इति मात्रुक्ति:। गोविन्दविहितात् सिद्धान्तात् परं नान्यस्य मतमावश्यकमिति तदपि जानामि। अतस्तस्य सिद्धान्तो मयाऽङ्गीकृत:। यदि मे कोऽप्यपराधस्तर्हि क्षन्तव्याऽहम्।’’
गोविन्दोऽज्ञातास्मदालाप इव साश्चर्यं जगाद—''कृष्णे! अर्जुनो मे प्रियसखा। तेन सह ते परिणय इति त्वमपि मे प्रियसखी। किन्तु, सख्युर्मे मानभञ्जनायाऽसफलाऽगत्या सर्वथा निर्दोषमेनं जनं कथं दूषयसि? तव दाम्पत्यस्यायं वर्षावधि: पणो मया कदोपस्थापित:? प्रसङ्गेऽस्मिन् ते प्रियसहचरी माया त्वत्पक्षत: प्रस्तावमिममुपस्थापयामास, मया तु केवलं स्वसमर्थनमत्र व्याहृतम्। सम्प्रति सखा मे विचारयतु यन्मेऽयं सिद्धान्त: कुत:?’’
अर्जुनस्तु सगाम्भीर्यमुवाच—''सिद्धान्तो यस्य कस्यापि स्यान्नाम, परिस्थितिस्तु मे नितान्तं दु:खदायिनी। यो यत् किमपि चिन्तयतु नाम, अहं तु द्वारकापुर्यां गमिष्यामि, न तु हस्तिनापुर्याम्। मयि हस्तिनापुर्यामगतेऽपि कृष्णायास्तत्र राज्ञीरूपेणाभिनन्दने न कोऽपि व्याघात आपत्स्यते। अद्याहमेतच्चिन्तयामि यन्मम केवलस्य पत्नीरूपेण राज्ञी सा भवितुं नाशक्ष्यत्। अत: मात्राज्ञापालनं कृष्णाया बुद्धिमतीत्वपरिचय एव।’’
अहमवगतवती यदर्जुन: स्वमनोऽभिमानकारणान्मामालक्ष्यैवं ब्रूत इति। अत: क्षुब्धतया मनसोऽलक्ष्यास्रैर्नयने रुद्धे बभूवतु:। कुतो वा ज्ञास्यत्यर्जुनो मेऽसहायताम्?
कथमपि हस्तिनाप्रस्थानायार्जुनस्य सम्मतिरपेक्ष्यते। अन्यथाऽन्येषां सर्वेषां भ्रातृणां हस्तिनाप्रवेशमात्रेणैव वादोऽयं प्रचरिष्यति यत्कृष्णाया: कृते पाण्डवेषु विभेद: समारब्ध इति। किञ्च, अर्जुनविहीनायां हस्तिनापुर्यां किं वा मे सुखं स्यात्?।
अर्जुनस्यैतादृगभिमानभङ्गाय कृष्ण एव प्रमुखाश्रय:। जीवने प्रतिपदं कृष्णं विना मे गत्यन्तरं नास्त्येव।
माया मामवागमयत्—''कृष्णो यदि हस्तिनापुर्यामस्माभि: सह गमिष्यति, अर्जुन: पुन: कथं द्वारकापुर्यां जिगमिषति? स निश्चयेन कृष्णमनुसरिष्यति। सख्यु: सङ्गलाभं स कदाचिदपि न त्यजति।’’
ममानुनयो गोविन्देन सदयं स्वीकृत:। हसँश्चोवाच—''बन्धुपत्न्यनुरोधाग्रे स्वपत्नीमोहस्तुच्छ एव। द्वारकाकर्षणापेक्षयाऽद्य हस्तिनाकर्षणं बलीयस्तरम्। हस्तिनापुरीमगत्वा मे गत्यन्तरं नास्ति।’’ अहं मनसा मुदिताऽचिन्तयम्—सखाऽस्माकं न सामान्यो रसिक:! अर्जुन: सम्प्रति निरुपाय:। कृष्णविरहितायां स द्वारवत्यां किमर्थं का गच्छेत्?
मनसा चाहं मायाया बुद्ध्युपस्थितिं प्रशंसितवती। अचिन्तयम्—मायां विना संसारसंरचना सर्वथाऽसम्भवा। जीवनमाययो: परस्परं नैसर्गिक: सम्बन्ध:।
स्वर्गराज्यं तु मया प्राक् न कदाचिद् विलोकितं, किन्तु स्वप्नराज्यं बहुशो दृष्टम्। तस्मिन् स्वप्नराज्येऽप्यनेकशो गोचरीभूता हस्तिनापुर्या: काल्पनिकी रूपशोभा। स्वयंवरसभाया: प्रागपि मम हृदये आयात: पार्थोऽर्जुन:, हस्तिनापुरी च। किन्तु, धनञ्जयं लब्ध्वाऽपि स्वप्न एवासीद् हस्तिनापुरी। अहं विज्ञातवती यदिह जन्मनि हस्तिनाराजवधूत्वसौभाग्यं कदापि नागमिष्यति। किन्तु, स एव सुन्दर: स्वप्नोऽद्य मे सार्थकतामाप्त:।
वैभवैरिन्द्रभुवनमिव हस्तिनाराज्यम्। मन्ये स्वर्गराज्येऽहमुपस्थितेति। यत्रैतावदैश्वर्यं, सौन्दर्यं च, तस्मिन् राज्येऽभाव: कस्मिन् क्षेत्रे? यदि नाम कोऽप्यभाव: स्यात्, तर्हि स दु:खदैन्याऽभावादीनामेव स्यात्। आत्मानं धन्यमन्वभवम्। मां राजवधूरूपेणाभिनन्दयितुमेतावदाडम्बरमयं विपुलमायोजनं वीक्ष्याहमनुमितवती यदस्मिन् राज्ये सुखसीमां मे निर्णेतुं शक्तिरेव नास्ति। एतादृशां सुखसम्मानानां भार: कदाचिन्मे दु:सहस्तु नैव भवेत्? वस्तुतस्तदानीं मयेदं नैव ज्ञातं यत्तत् सुखं जीवने मे केवलं प्रहेलिकाया: कुज्झटिकां स्रक्ष्यतीति। अपसृते कुज्झटिकाऽऽवरणे यथोत्तप्तरौद्रेण वृक्षलता: ध्वंसाय भवन्ति, तथैव मे दु:खलाञ्छना: मां दाहयितुं प्रतीक्षन्त इति नापि मया विदितमासीत् पूर्वम्।
शुभ्रं वसनं परिधाय, शुभ्रपुष्पैर्मण्डितकुन्तलाऽष्टालङ्कारभूषिताऽहं हस्तिनाराजवधू: साहङ्कारं सानन्दं सगाम्भीर्यं साडम्बरं चोपविष्टाऽस्मि स्यन्दने। रथो मे प्रसरति। मामुभयत आसीने प्रियसख्यौ माया, नितम्बिनी च। मम रथस्याग्रे चलति गोविन्दबलरामयो: रथ:। मत्पश्चात् मम पञ्चपतीनां रथास्ततोऽन्तिम: मातु: कुन्त्या: सुसज्जितं स्यन्दनम्। हस्तिनाराजमार्गे जयध्वनिभिर्वाद्यनादैश्च रथा: राजप्रासादाभिमुखं क्रमश: प्रसरन्ति। क्षणायाहमचिन्तयम्—यस्या मे सम्मुखे आर्यावर्त्तस्य श्रेष्ठ: पुरुष: सखा कृष्ण:, बलरामश्च, पृष्ठतो धर्मवन्तो वीरा: पञ्चपतय:, विचारशीला ज्ञानवती पुण्यवती सहृदया कुन्ती च, तस्या: पुन: का चिन्ता जगति? कियती सौभाग्यवती सैषा नारी कृष्णा! किञ्चिदन्यमानसाऽऽत्मन ईर्ष्यामि। किन्तु, क्षणात्परं चिन्तितवती—अन्यस्मायीर्ष्या स्वसुखं चाङ्गाङ्गितया जडिते परस्परम्। कस्यचन मह्यमीर्ष्ययाऽहं मोदे यतोहि, अन्यस्येर्ष्यया मे सौभाग्यं (सुखम्) विद्योततेतराम्, अन्यं दाहयति च।
पुराङ्गनानामर्घ्यावलीभिर्वन्दनात् परं वयं स्वस्वरथेभ्योऽवातराम। चतुर्दिग्भ्य: पुष्पाणां वृष्टिर्भवति। सा च बाहुल्यात् राजमार्गे पुष्पास्तरणभ्रान्तिमुत्पादयति। वस्तुतो यत्र हस्तिनापुर्यां मदर्थमेतावत्यो लाञ्छना: भाण्डागारे सञ्चिता आसन्, तत्र कौरवा: क्लेशराशिप्रदाने प्रथमतो मितव्ययं विधाय विज्ञताया: परिचयं किमु नोपस्थापयामासु:? आयोजनायास्मै साधुवादान् विज्ञापयितुमहं सुयोगप्रतीक्षारता।
स्वरथादवतरणात्परं सहसा यस्मिन् मे दृष्टि: स्थिरीभूता, स कौरवै: परिवेष्टितोऽपि पृथक् प्रतीयते। कौरवा हृदयनिहितकैतवा अपि प्रफुल्लितवदनताया अभिनयं कुर्वन्तो दृश्यन्ते। परन्तु तस्य मुखं तु विषण्णम्। नेत्रयोर्निषण्णाऽपि स्थिरा दृष्टि:। समग्रे मुखमण्डलेऽव्यक्ताभिमानस्य कारुणिकी छवि:। स मां निर्निमेषं पश्यति। क: स:? किं तस्य दु:खमिहास्थाने परमानन्दमुखरमुहूर्त्ते?
माया मे कर्णेऽसूचयत्—''सखि! अयं कर्ण:। राधापते: सारथेरधिरस्य पुत्र:। तस्मिन् दिने स्वयंवरे सोऽवश्यं त्वां जयेत्। परन्तु, स न उच्चवंशज इति धृष्टद्युम्नेनापमानित:। स स्वजन्मकारणात्तु नापसार्य:! किन्तु, उत्पत्तिहेतोस्तस्य शौयवीर्यपौरुषादय: सर्वे गुणा अभिशप्ता:।’’
मायायाश्चमत्कार्युपस्थापनेनाकस्मान्मोहाविष्टं मे मन:। अस्याभिशप्ताय वीरपुरुषाय सहानुभूत्या हृदयं मे क्षणाय परिवर्तितम्। तन्मुखविषाद-कालिम्ना मे सरसं मुखं कृष्णमेघेनाच्छन्नमिवाकारि।
कोऽपि हसतीति विलोक्य तदानन्दकारणमविदित्वा विलोकयिता जनो न हसितुमारभते। किन्तु करुणे न तथा। दु:खं, शोकम् अश्रु वा वीक्ष्य तद्व्यथाकारणमज्ञात्वाऽपि क्षणेनैव जनो व्यथते, अश्रु मुञ्चति, द्रवीभवति च। विषादो वर्षर्तुरिवान्यमेवं द्रावयति। यथा गगनस्याश्रुणाऽऽर्द्रपृष्ठा भवति मही, यथा च मेघाच्छन्नेन रविणा धरित्री कृष्णच्छायावृता सम्पद्यते तथैव तस्य दु:खकारणमनवगम्यापि व्यथासिक्तं मे मनोऽभूत्। तस्य सुन्दरमुखमण्डलस्य विषण्णता मे वदनं कृष्णच्छायावरणेनाच्छादितवती। अचिन्तयम्—किमर्थमयं क्षत्रियकुले नोत्पन्न:? किमर्थमयं न कुन्तीपुत्रोऽभूत्? तथा सति मां जयेन्न वा, किन्तु स्वयंवरसभायां त्वपमानितो नैवाभविष्यत्? अपूर्णता यथा पुरुषं बाधते, अपमानं तथा न। स्थिरीकृतं मया यत् समुचितावसरे वीरादस्मादवश्यं क्षमां साञ्जलि याचिष्ये। वीरस्य तदुचितसम्मानं यद्यहं न कुर्वे, ततोऽलं मे वैदुष्येण।
अस्मासु कृष्णबलरामावग्रेसरत:। सर्वेषां तत्रैव दृष्टिर्निबद्धा। कौरवभ्रातृरोऽन्ये च पुष्पाञ्जलिभिस्तयो: पदवन्दनां कुर्वन्ति। कर्णस्य हस्तयोरपि पुष्पगुच्छम्। परन्तु कस्मै निवेदयितुम्?
कर्णस्य हस्तयोर्नीलपाटलगुच्छम्। पत्रवृन्तकोमलशाखाभि: सम्बद्धेषु पाटलेषु मे लुब्धा दृष्टिर्निबद्धा। माया मम कर्णे उवाच—''सखि! कर्णेन कथं ज्ञातं यन्नीलपाटलं तेऽत्यन्तं प्रियमिति? पश्य, तुभ्यमुपहर्त्तुं कियता यत्नेन सङ्गृहीतानि पुष्पाण्येतानि तेन!’’
अहं शनैरवदम्—''नैतन्मदर्थम्। सर्वे कृष्णस्य पदवन्दनाय पुष्पाञ्जलिभि: स्थिता:। कर्ण: प्रायेणैतज्जानाति यन्नीलपुष्पाणि कृष्णस्य श्यामवर्णेऽधिकतरं शोभिष्यन्ते। स प्रायश: कृष्णस्य मुकुटे एतत्पुष्पगुच्छस्य संनिधिमिच्छति। त्वं प्रतीक्षस्व तावत्।’’
मायामेवं कथयन्त्या अपि मे मनो वदति यथेदं पुष्पगुच्छं मदर्थमुद्दिष्टमिति। हृदयस्याधीरं स्पन्दनं बलाद् दाम्यामि। कदाचिन्माया ज्ञात्वैतदन्यत्र प्रकाश्य परिहासयेन्माम्!
श्वेतवस्त्राणि श्वेतपुष्पाणि च मेऽत्यन्तं प्रियाणि। परन्तु नीलपाटलानि मम प्राणतुल्यानीति कर्ण: कुतोऽजानात्? मन्ये, स्वयंवरसभायां मां पूर्णतो निरीक्षितवानिति। परिहितं तदा मया श्वेतवस्त्रम्। शुभ्रपुष्पैश्चाहं मण्डिताऽऽसम्। किन्तु, मम कवरीकुण्डलीविलसितायां शुभ्रमल्लिकानां मालायां मध्यभागेऽर्धविकसितनीलपाटलमेकं नितम्बिनी संन्यस्तवती। मम हस्तेऽपि प्रदत्तं तया नीलपाटलस्तवकं तदानीम्। सभामण्डपे उपविश्य नतमुखी तदेव नीलपाटलं निरैक्ष्ये। तेनैव सह गोपनालापेन स्वव्रीडां गोपयितुं च प्रायते। मध्ये मध्ये तस्य नीलपाटलस्य कोरकाणि गण्डस्थले स्पर्शयन्ती रोमाञ्चिता नीलस्वप्नानपि विलोकयामि स्म। कर्णेन प्रायेण लक्षितं यन्मे शुभ्रपुष्पमण्डनाया अपि नीलपाटलं पुष्पेषु प्रियतममिति।
शूरो वीर ऐश्वर्यवान् रूपगुणाधिकारी च पुरुषो नारीणां तु काम्य:, परन्तु एतेषु यो नारीमनोभावमवगन्तुं क्षम: स एव नारीणां काम्यो ध्येयश्च। नार्या मनो विज्ञातुं कियन्त: पुरुषा बत वर्त्तन्ते महीतले? मम पञ्चपतिषु न कोऽप्येतद्विजानाति यन्मे नीलपाटलं प्रियतममिति। किं बहुना, सम्प्रति मया सह दाम्पत्यं यापयतो युधिष्ठिरस्याप्यस्मिन् विषये किञ्चिदपि न ज्ञानमस्ति। परिणयात्परं व्यतीतेष्वप्येतावत्सु दिवसेषु न केनचिन्मे पत्या मह्यं तदुपहृतम्। तथापि, कर्णेन मदर्थमेव पाटलं सङ्गृहीतमित्यत्र को निश्चय:?
कृष्णबलरामयोश्चरणेषु कौरवा: पुष्पाञ्जलिं समर्प्य प्रणमन्ति। परन्तु कर्णो निश्चलस्तम्भ इव धृतपाटलगुच्छो मम पदपातच्छन्दो निरीक्षते। कुण्ठया लज्जया च मम चरणौ स्तब्धाविव मध्ये मध्ये। पुष्पवृष्टिमध्येऽहमग्रेसर्तुं प्रयते, हठात् पदतले मम नीलपाटलस्तवकमपतत्। अहं क्षणेन सम्भ्रान्ता पुष्पगुच्छमुत्थापयितुं चिन्तयन्ती, क्षिप्रमग्रेऽसरम्। चरणश्च मे पुष्पगुच्छोपर्यपतत्। 'अहह’ इत्यस्पष्टं शब्दमकरवम् सहसा, केवलं पाटलकण्टकेन भिन्नौ मे चरणाविति न, अपि तु मम पदपातेन पाटलस्य मन्थनादपि। परस्ताद् यन्त्रणाऽन्वभूयत चरणयो:। किं जातमिति मायया कराग्रे पदं म उत्थापितम्। तदापि कण्टकं बिद्धं मत्पदे। विचलित: सन् कर्ण: किं करणीयमिति प्रायेण चिन्तयति। माया शनै: कण्टकं तन्मे पदान्नि:सारितवती। बिन्दुमात्रं रुधिरं मेऽलक्तकरञ्जितपदान्निस्सृतम्। यन्त्रणया सास्रे मे नयने। कर्णो मायाया निकटतरो भूत्वा तत्कर्णेऽभाषत—''राजवध्वाऽयं जन: क्षम्यताम्। ज्ञात्वा न मया क्लेश: प्रदत्त:। सर्वेषां समक्षं प्रापितपीडाया यन्त्रणामहं जानामि। मम प्रीत्युपहारो राजवधूं पीडयिष्यतीति न मया विदितम्। तथापि मनसो ज्वालापेक्षया शरीरज्वालाऽवश्यं न्यूनतरेति विज्ञाय राजवधूर्मां क्षमिष्यतीति।’’
जनसंमर्दानन्दकलरवमध्ये यदेतत् सर्वमभवत् तत् सर्वं मायैव केवलं जानाति, नान्य: कोऽपि। कर्ण इङ्गितेनेदं स्मारयितुं प्रायतत यत् तस्मिन् दिने स्वयंवरसभायां यत्तस्यापमानमभूत् तन्मत्कारितमिति। कदाचिन्मम प्रयासेन तस्यापमानं नाभविष्यदिति तद्वाद:। वस्तुतो वादोऽयं पूर्णत: सत्यात्मक:। स्वयंवरसभायां शौर्यवीर्यपरीक्षाकाले कथमहं पितु: सङ्कीर्णमपि पणं शिरसा नीरवतया स्वीकृतवती?
माया वदति—''कर्ण: सुपुरुषोऽप्यत्यन्तं साहङ्कार:। एतावदमपानज्वालां स न विस्मरति, न विस्मरिष्यति च। प्रतिशोधस्य प्रथमपर्याये तव चरणो रुधिराक्तो जात:। को जानाति, अन्तिमपर्याये तव हृदयस्य काऽवस्था स्यात्? सखि! कर्णस्य वीरत्वं तदानीं यदि ससम्मानमङ्गीकृतमभविष्यत्, तर्हि तव पञ्चपतिग्रहणस्य दु:सहा परिस्थितिर्जीवने नागमिष्यत्। पञ्चपतिभिस्तव जीवनं दु:सहतरमेव भविष्यति।
मायावचनं सत्यमपि मनसाऽहं किञ्चिदसन्तुष्टा जाता। पुन: पुन: माया मे मनो दुर्बलं विचलितं लक्ष्यभ्रष्टं च कारयति कथम्? यन्न जातं तद्विषये मनसि स्मृत्वा किमर्थं तत् कलुषितं सम्पादयिष्यामि? अहं कर्णाद् दृष्टिं परावृत्य कृष्णचरणयो: स्थिरीकृतवती, पादमेकं चाग्रेऽसरम् कृष्णमनुसृत्य।
अहं हस्तिनापुरीराजवधू:—कृष्णा। किमपि किमपि मनसीकृत्यात्मभ्रान्तिजननं न मयि शोभनीयम्। कर्णो यद्यहङ्कारवान्, तर्हि अहं ततो न न्यूनतरा। अहं याज्ञसेनी। हुताशनजाताऽनलाद् विभीयात् कच्चित्?
(१४)
हस्तिनापुर्या अर्धं खाण्डवप्रस्थं पाण्डवेभ्य: समर्पितं धृतराष्ट्रेण। खाण्डवप्रस्थे वासोपयोगि कुटीरमेकमपि नास्त्यस्माकं कृते। हस्तिनापुर्यामैश्वर्यं, विलास:, राजप्रासादादयश्च कदाचिदपि मे कामनापरिधौ नासन्। परन्तु काम्य आसीन्मे राजवध्वा अधिकार:। सोऽपि मयोपलब्ध:। अत: खाण्डवप्रस्थस्य सामान्यमपि कुटीरं मह्यमवश्यं प्रदास्यति सुखं परिपूर्णतां च।
किन्तु, कृष्णो येषां सखा, तै: खाण्डवप्रस्थमिन्द्रप्रस्थीकर्त्तुं नैव दु:साध्यमासीत्। कतिपयदिनेषु हर्म्यमालानां सौन्दर्येण, ऐश्वर्येण चेन्द्रप्रस्थं हस्तिनापुरीमप्यतिशेते। इन्द्रप्रस्थस्य सभागृहं तेष्वत्यन्तं लोभनीयमाकर्षणीयं चासीत्।
खाण्डवप्रस्थदहनकालेऽर्जुनानुकम्पया मयराक्षसस्य जीवनरक्षा सम्बभूव। कृतज्ञतां विज्ञापयितुं मयराक्षस: श्रीकृष्णपरामर्शेण युधिष्ठिरानुमत्या च निर्ममे सभागृहम्। पृथिव्यां कस्मिंश्चिदपि राज्ये नैवं सभागृहं निर्मितपूर्वम्। सहस्रचतुष्टयहस्तदैर्घ्यपरिमितायां भूमौ सप्ततिहस्तदैर्घ्यप्रस्थविशिष्टस्यास्य सभागृहस्य भित्ति: छत्रं च मुक्तास्फटिकादिभि: खचिते। सभागृहस्य माणिक्यादिनि नभसो ग्रहनक्षत्रादीनां भ्रान्तिं जनयन्ति स्म। छत्रमेवं रञ्जितं यत् प्रात:सन्ध्याकाशमिव तस्य वर्ण: सूर्यालोकानुसारेण मुहुर्मुहु: परिवर्त्तते स्म। गृहाभ्यन्तरं मुक्तमाकाशमिव प्रतीयते। गृहस्य तलं स्फटिकनिर्मिततया जलमिव स्वच्छं दृश्यते, छत्रस्य ग्रहनक्षत्राणां तत्र प्रतिफलनात्तज्जलभागभ्रममुत्पादयति। भित्तिषु दर्पणा एवं सन्निधापिता: यै: प्रत्येकं दर्शक: स्वमुभयत: सभासीनं राजानं युधिष्ठिरं द्रष्टुं शक्नुयात्। पुरस्तान्महाराजो युधिष्ठिर आसनासीन:। उभयत: पृष्ठतश्च दर्पणेषु तस्य प्रतिविम्बम्। कश्चिदपि सभागृहसन्निहितस्य युधिष्ठिरस्य व्यक्तिवैभव आत्मानं विस्मारयिष्यतीति नास्त्यत्र लेशोऽपि सन्देहस्य।
सभागृहसम्मुखोद्याने प्राकृतिकपुष्पवृक्षान्तरालेषु सौवर्णपादपेषु माणिक्यपुष्पाणि खचितानि। दूराद् दर्शनेनेदं प्रतीयते यत् प्रायेण कस्मिंश्चित् स्वप्नराज्योद्याने सुखसौभाग्यपुष्पाणि माणिक्यादिरूपेण विकसितानीति। उद्यानमध्यस्थले हाटकबन्धपरिधि: पुष्करिणी। तत्सोपानानि स्फटिकनिर्मितानि। पुष्करिणीस्वच्छजलराशौ हैमशतदलानि। हीरकमुक्तादिनिर्मिता: कृत्रिममीना: भासमाना अदृश्यन्त। पुष्करिण्या: सौवर्णबन्धतीरे तीरे शङ्खाभप्रस्तरा:, तेषु च मुक्ताशकलानि विद्योतन्ते। पुष्करिणीजलस्य स्वच्छतया स्फटिकसोपानानि आप्रथमान्तं दृश्यन्ते। जलविहाराय हीरकनिर्मिता नौकैका जले भासते पुष्करिण्या: सौन्दर्यं प्रगुणीकुर्वन्ती।
सभागृहस्य मध्यस्थले युधिष्ठिरस्योपवेशनाय मयनिर्मितस्य सिंहासनस्य निर्माणकौशलं वर्णनातीतं, सौन्दर्यमपि। स्वर्गराज्यस्य देवराजोऽपि तल्लब्धुमाशान्वित: स्यादिति कथने नात्युक्ति:।
छायया समग्रं सभागृहं वारितोष्णं सम्पादयितुं नानावर्णा नित्यफलपुष्पा: पादपा रोपिता:। पुष्पाणां सुरभिणा सभागृहं सर्वदाऽऽमोदान्वितम्। खाण्डवप्रस्थसभागृहस्येन्द्रभुवनसदृशतया जनेषु नचिरात्तदिन्द्रप्रस्थनाम्ना प्रसिद्धिमाप। तस्य राजसिंहासनेऽभिषिक्तो महाराजो युधिष्ठिर:। अहं तत इन्द्रभुवनमतिशयितस्यैश्वर्यमयस्येन्द्रप्रस्थस्य महाराजपत्नी महाराज्ञी।
इन्द्रप्रस्थस्य निर्माणे पञ्चभ्रातृरो यावच्छक्यं स्वस्वसामर्थ्यं समर्पयामासु:। इन्द्रप्रस्थस्य निर्माणसम्पूर्णतायां पाण्डवा आनन्दोत्फुल्लिता:। किन्तु शतं कौरवभ्रातृरो हिंसयेर्ष्यया च जज्वलु:। हस्तिनापुर्या अनेके विद्वांस: प्रजाश्च युधिष्ठिरस्य धर्मराज्यमिन्द्रप्रस्थमुचितं मन्यमाना तत्रैवागत्योषु:। क्रमश: श्रीहीना जनविरला च जाता हस्तिनापुरी। इन्द्रप्रस्थस्य सुखसुविचारप्रमोदमहोत्सवादय: पारोक्ष्येण जनान् हस्तिनाविमुखांश्चक्रु:। कौरवाणां हिंसासूयादिप्रचण्डतायां सत्यामपि नूतनसभागृहप्रवेशतिथिरुद्धघोषिता युधिष्ठिरेण।
सभागृहप्रवेशस्य विपुलमायोजनं विलोक्य मनसि मे शङ्का जागृता। गृहप्रवेशमहोत्सवे दशसहस्रब्राह्मणेभ्य: प्रत्येकं भूरिभोजननूतनवस्त्रैकसहस्रगोदाने सदक्षिणे नासीन्मे काचिदापत्ति:। किन्तु, गृहप्रवेशव्याजेन कौरवशतसहोदरकर्णजयद्रथादीन् निमन्त्र्य तानीर्ष्यातुरतरान् कर्त्तुमहं पाण्डवविचारपक्षपातिनी नासम्। ईर्ष्यापरायणेभ्यो दुष्टेभ्य: स्वैश्वर्यप्रदर्शनं नैव कथञ्चिद् विज्ञत्वं विदुषाम्। अनेन शत्रुता वर्धतेतराम्। अन्येषां प्रमोदाय महोत्सव: सम्पाद्यते, न दु:खाय, न चेर्ष्यायै। इन्द्रप्रस्थसभागृहप्रवेशमहोत्सव: कौरवाणामशेषदु:खकारणं भविष्यतीति नास्ति सन्देह:। अत: को लाभो महोत्सवस्याडम्बरपूर्णतया? अहं युधिष्ठिराय स्वमतं ज्ञापितवती। परन्तु, स उत्तरमदात्—''गृहप्रवेशे आत्मीयानतिरिच्यान्यातिथिसत्कारो नोचित:। अन्यच्च, कौरवाणामनादरं निशम्य जना: किं वदेयु:? यो न स्वजनान् पृच्छति, तस्य प्रजासु कथं सम्भाव्येतात्मीयत्वम्? कस्यचनेर्ष्यया तु जगति आनन्दमहोत्सवा न लुप्येरन्। य ईर्ष्यातुर: सोऽवश्यं दु:खवान्। अनिमन्त्रणेनापि कौरवा अवश्यं महोत्सवसमाचारं परस्तान्निशम्येर्ष्यातुरतरा भविष्यन्ति। अतस्तानादृत्य तै: सह सौहार्दस्थापनमेव बुद्धिमत: कार्यम्।’’
युधिष्ठिरस्य निर्णयोऽनुल्लङ्घ्य:। किं वा पुनर्मूल्यं मेऽभिमतस्य? युधिष्ठिरो यदेकवारं स्थिरीकुरुते, तत्पत्नीबुद्ध्या पुनर्नैव परिवर्तयति। इदं जानन्त्यहं तूष्णीं जाता। किन्तु, कौरवै: सह तेषां परममित्रं कर्ण: किमर्थमायास्यति? तेभ्य: पुन: स्वहस्तेन पाकं विधाय स्वयं भोजनं परिवेषयिष्यामि कस्मात्कारणात्?
कौरवा: सर्वे मम देवरा:। मम पतीनां तै: सह सहोदरत्वसम्बन्ध:। तेऽस्माकं स्वजना:। भ्रातृजायारूपेण तेषामादरो ममोचित:। किन्तु कर्णो न स्वजन:। यदि स आयास्यति तर्हि बहि:स्थेऽतिथिभवने कथं न स्थास्यति? परिचारिका: कथं तं न सेविष्यन्ते? न जाने, तस्यैव पुरतो गन्तुं मे बलवत्यनिच्छा। तस्य सुन्दरनेत्रयोर्मध्ये संसारस्य समस्ता: घृणा: प्रतिहिंसाश्च मदर्थं सन्निहिता:। तस्य नयने तथैव, अथवाऽहं तेऽसुन्दरतया वर्णयामीति न तदहं ज्ञातुं क्षमा।
कर्णं प्रति युधिष्ठिरस्यातिथ्यातिरेकप्रदर्शनेनाहमसन्तुष्टेति मायां व्यज्ञापयम्। माया झटिति मां स्मारितवती यत् कर्णो न बाह्य:। स पाण्डवपरिवारान्यतम इति। कुन्त्या: प्रसादाय युधिष्ठिरस्यैवं व्यवस्था। मायावचनात् कियद्दिनातीता घटना स्मरणपथमागता काचित्।
खाडवप्रस्थे निर्माणकार्यं सञ्चलति। एकदा माता कुन्ती तद्बाल्यबान्धव्या राधाया गृहे भ्रमणाय गन्तुं मां प्रस्तुता भवितुं निर्दिष्टवती। अहं सद्य: प्रस्तुता, परन्तु राजमातु: कुन्त्या अधिरथपत्नीराधानिवासभ्रमणप्रयोजनकारणं सहसाऽवगन्तुं न समर्था। कुन्ती स्वेच्छया राधां स्वभवन आकारयिष्यत्। परन्तु, माता कुन्ती स्वराजकीयमहङ्कारं विस्मृत्य बाल्यसखीराधाया गृहे नानोपायनैर्मिष्टान्नैश्च सह मामेव नीत्वा गच्छतीति तस्या महानुभवत्वातिरिक्तं किमन्यत् सम्भाव्येत?
मात्रुपमा राधा प्रसन्ना मह्यमाशीर्वादं प्रदायास्माकमातिथ्यसत्काराय व्यस्ता जाता। कुन्तीं प्रणन्तुं पुत्रं कर्णमाकारयत्। कर्णेन सह पुन: साक्षात्कारो भविष्यतीति न मया ज्ञातपूर्वमासीत्। नार्य: समययापनाय बन्धुपरिजनानां गृहेषु यान्ति। पुरुषाणां प्रायेणोपस्थितिर्नावश्यकी तत्र भवति। परन्तु माता कुन्ती कर्णं द्रष्टुमाशान्विता कथम्?
राधादेव्यामस्माकं सत्कारायान्यत्र गतायां माता कुन्ती मां मन्दमाह—पुत्रि! अपरोऽपि पुत्रो मेऽस्ति। वयसा युधिष्ठिरादपि स ज्यायान्। यथा रूपवान्, तथैव वीर: सुपुरुषश्च। परन्तु दु:खमिदं यत् तस्य राधापालितत्वात् स स्वाधिकाराद् दूरीभूत:। तस्मादेव कारणात् स त्वामपि नालभत। अन्यथा, अक्लेशेन लक्ष्यभेदमकरिष्यत्। इदं मनो मे ब्रवीति।
अहमवाक् मातरमपश्यम्। नावगन्तुं क्षमाऽहं यन्मातु: स वीरपुत्र: क:? स किमु कर्ण:? परन्तु कर्ण: कुन्तीपुत्र: कथं स्यात्?
संशयं मे दूरीकर्त्तुं मातोवाच—''कर्णो मे धर्मपुत्र:। येन भावेन त्वं पाण्डवानवेक्षसे, तेनैव ते कर्णावेक्षणमुचितम्। परन्तु, तस्येदं दुर्भाग्यं यत् स सारथिपालित:।’’ इति वर्णयन्त्या मातु: कण्ठोऽश्रुरुद्धोऽभवत्। अहं तु विस्मयविमूढा तत्रैव तथोपविष्टा तत् सर्वं प्रत्यक्षीकरोमि।
माता कुन्ती पुनरुवाच—''केन प्रकारेण कर्णो मे पुत्र इति जिज्ञाससि? प्रकाशयामि यत् कर्णो मे धर्मपुत्र:—अर्थात् स मया धर्मपुत्ररूपेणाङ्गीकृत:। औरसपुत्रासनाद् धर्मपुत्रासनं श्रेष्ठम्। अत: तं प्रति मम स्नेहममतावात्सल्यशुभकामना नैव पाण्डवेभ्यो न्यूनतरा:।’’
अहं तथैवावाक् स्थिता। किमपि वक्तुं न मे मुखे काऽपि भाषा, न च हृदि किमपि सूत्रम्। सत्सु पञ्चपुत्रेषु मात्रा किमर्थं धर्मपुत्रत्वेन कर्ण: स्वीकृत:? कर्णस्तु कौरवाणां नेदीयान् मित्रम्! ममाश्चर्यमवगतवती माता कुन्ती। सहानुभूतिसंवलितस्वरेणावोचत्—''प्रायेण कर्ण: कस्याश्चन कुमार्या मातुरपत्यम्। समाजे लोकनिन्दाभयात् सा हतभाग्या जननी स्वहृदयं पाषाणीकृत्य शिशुमिमं नदीप्रवाहे निचिक्षेप। राधाऽधिरथौ प्राप्येमं पालितवन्तौ। राधाऽपि सुतहीनाऽऽसीत्। राधा मातृवात्सल्येन कर्णं पालयामास, परन्तु विडम्बिताभिशप्तजन्मरहस्यकारणात् कर्ण: प्रतिपदं लाञ्छितोऽपमानितोऽलब्धस्वाधिकारश्च। तस्य पौरुषं प्रतिपलं विपर्यस्तम्। विद्याबुद्धिपराक्रमेषु कर्ण: पाण्डवसमकक्षोऽपि तदुचितं स्थानं नालभत। राधामुखात् कर्णस्य लाञ्छनां विपर्ययं च श्रावं श्रावं मे मातृहृदयं तं प्रति करुणावात्सल्यद्रवीभूतम्। प्रथमदर्शनादारभ्य न जाने, कर्णं विलोक्य मे हृदयवात्सल्यं तरङ्गितं भवति। जाने तदानीं, कर्ण: कोऽपि राजपुत्रोऽथवाऽभिशप्तो देवशिशु: कश्चित्। मनुष्यशरीरेण कस्यचन देवस्याशीर्वादमादाय धरायामवतीर्ण: स:। मन्ये, मानवजन्म हि तस्याभिशाप:। यतोहि कर्णस्य पिता स देव: कदापि तस्य पितृपरिचयप्रदानाय धराधाम्नि नावतरिष्यति। अत एव आजीवनं पितृपरिचयरहित:। सर्वमेतद् विचिन्त्येच्छामि—कर्णं पुत्ररूपेण स्वीकरिष्यामीति। मम पञ्च तनया:। कर्णागमेन षट् स्यु:। का क्षति:? वात्सल्यार्णवस्तु जननीहृदयम्। सन्ततिसङ्ख्यावर्धने वात्सल्यमपि वर्धते। किन्तु, कर्णोऽहङ्काराभिमानवान् भावप्रवणश्च। स कथं मे सन्निधावागच्छतु? स इदं प्रत्याययितुमिच्छति यन्मानवस्य नियन्त्रणं जन्मनि न स्यात्, तथापि कर्मण्यवश्यमेव तन्नियन्त्रणमस्ति। कर्मणा स स्वपौरुषस्य विजयप्रदर्शनाय दृढप्रतिज्ञ:। कुन्तीपुत्रपरिचयं विनापि स जगत्यात्मानं प्रतिस्थापयितुं बाल्यादेव प्रतिज्ञावान्।’’
माता कुन्ती कर्णचरितं वर्णयन्ती क्रमशो भावप्रवणा बभूव। तस्या: प्रशान्ते नयने करुणाद्रे। तयोर्नयनयो: प्रत्यक्षीकृतवती तदीयहृदयविशालतामहम्। वस्तुतो जननीहृदयं कियदुदारं कोमलञ्च! अहमपि नारी, कर्णस्य विडम्बितजीवनगाथा मम हृदयं स्पृशति, किन्तु, मम हृत्स्पन्दने तद्वदेकाकारतां नैव भजते। कस्याश्चन तनयाय मातु: कुन्त्या इव मम हृदि ममतामन्दाकिनी नैव प्रवहति। प्रायेणैतस्मादेव कारणान्मातु: कर्णं प्रति सकरुणवात्सल्यं मे चक्षुषोरस्वाभाविकं प्रतीयते।
हठात् स्मृतिपथमागता मायाश्राविता कर्णजीवनस्य दारुणविपर्ययगाथा। तस्मादेव विपर्ययात् परं मात्रा कुन्त्या कर्णो धर्मपुत्रत्वेनाङ्गीकृत:, तं प्रति च तददम्यममत्ववात्सल्यमपि तस्य समक्षं प्रकाशितम्। पूर्वं मायोक्तिं तथ्यपूर्णां नामन्ये। किन्तु, अद्य सर्वं पुरतो विलोक्य निश्चिनोमि यन्माया बहु जानाति, बहूनां कल्पनामपि कर्त्तुं शक्ता।
समाप्ताऽस्त्रशिक्षा राजपुत्राणाम्। राज्यस्य गुणविद्यावतां पुरस्ताच्छिष्याणां विद्यापरीक्षामहोत्सव आयोजित:। दैशिका वैदेशिकाश्च राजानो योद्धारो वीराश्च राजपुत्राणां वीरत्वकौश्लसमीक्षणाय निमन्त्रिता:। विशाले सुसज्जिते मञ्चे आसीना विचारका:। तथैवान्यस्मिन् मञ्चे विराजिता: जननीसत्यवतीपितामहभीष्मगान्धारीकुन्तीविदुरसञ्जयधृतराष्ट्रकृपाचार्यप्रभृतय:।
न केवलं राजपुत्रा:, अन्ये विशिष्टा: शिष्या अपि विद्याकौश्लप्रदर्शनाय निर्वाचिता:। तेषु कर्ण:, द्रोणपुत्रोऽश्वत्थामाऽप्यन्यतमौ।
द्रोणाचार्योऽस्योत्सवस्य सञ्चालक:। शिष्याणां कुश्लता तस्यैव कीर्ति:। विद्यापरीक्षायां यो जेता स्यान्नाम, यशस्तु द्रोणाचार्यस्य। यद्यस्त्रकौश्लेन परस्परं विजयोऽसम्भवस्तर्हि गुरोद्रोणाचार्यस्य कीर्तिविश्वे सर्वत्र प्रसरिष्यति।
द्रोणाचार्य उपासनापूर्वकं नूतनवस्त्रं परिधाय सभायां समुपस्थित:। राजपुत्राश्च नववस्त्रालङ्कारभूषिता: सहास्यवदना: सभाशोभां संवर्धयन्ति। सर्वेषां मस्तकेषु स्वस्वमात्रङ्कितं विजयतिलकं, देव्या भवान्या: प्रसादसिन्दूरम्। विजिगीषया सर्वेषां मुखमण्डलं रविसुन्दरं दृश्यते। चतुर्दिशं जयध्वनिशुभशङ्खनादा: श्रूयन्ते। ब्राह्मणा वेदपाठं विदधति। अस्त्रशस्त्रादिपूजनं प्रथमतोऽनुष्ठितं, तत: राजपुत्राणां कौश्लप्रदर्शनायोद्घोषणा जाता।
असिसञ्चालनम्, गदायुद्धम्, मल्लयुद्धम्, अश्वधावनम्, शरसन्धानम्, वस्त्रेण चक्षुषी पिधाय लक्ष्यभेद: इत्यादिन्यनेकान्यस्त्रकौशलानि प्रदर्शितानि राजपुत्रै:। तत: परमारब्धं भीमदुर्योधनयोर्गदायुद्धं, मल्लयुद्धञ्च। क्षणेभ्य: कतिचिन्मेदिनी चकम्पे। विश्ववासिनो भूकम्पमिवानुबभूवु:। तथापि न कोपि जयति, न कोऽपि पराजयते। सभामञ्चस्य पतनमाशङ्क्य द्रोणाचार्यस्यादेशेनैषा प्रतियोगिता समापिता। तत: परं स्वास्त्रकौश्लप्रदर्शनाय पुरस्तादुपस्थित आर्यावर्त्तस्य श्रेष्ठो वीरोऽर्जुन:। करतालिकाजयध्वनिभि: सभास्थलं प्रकम्पितमभूत्। वस्तुतोऽर्जुनास्त्रकौशलं वीक्षितुं विदेशेभ्योऽतिथयो बहव: समागता:। छात्रजीवनादर्जुनस्यास्त्रकौशलं पृथिव्यां प्रचारितमासीत्। अत आर्यावर्त्तस्यास्य वीरस्यास्त्रकौश्लदर्शनस्य महार्घसुयोगं जनां न तत्यजु:। धनञ्जयो गुरुं द्रोणाचार्यं साञ्जलि प्रणम्य, अन्यांश्च वरीयसोऽभिवादयन् प्रदर्शयितुमस्त्रकौश्लमारेभे।
अर्जुनस्यास्त्रकौश्लप्रदर्शनमियदलौकिकं विस्मयकरं चासीद् यद् जना: स्वनेत्रै: पश्यन्तोऽपि स्वयं न विश्वसन्ति स्म। केचनैवं मेनिरे यदर्जुन इन्द्रजालं कुरुत इति। केचित्तु चिन्तयामासुरेवं यत् स्वेषामयं मतिभ्रमो येनादृष्टपूर्वमद्भुतं सर्वं पुरस्तात् प्रतीयत इति। अर्जुनस्य युद्धकौशलं दर्शकाणां यथाऽबोध्यं, तद्वर्णनं च ततो दुरुहतरम्।
अर्जुनो यदाऽऽग्रेयास्त्रं निचिक्षेप तदा हस्तिनापुरीं परितो हुताशन: प्रजल्वाल। एतादृगाकस्मिकाग्न्युत्पातेन कातरा दर्शका मेनिरे—प्रायेण हस्तिनाराजपुत्रा: स्वनिष्कण्टकत्वहेतवे वीरान् समस्तानेकत्र नाशयितुं कपटोत्सवमिममाचरन्तीति। अनेके योद्धारो बाला इव चीच्चक्रु:। बहवस्तु मरणाशङ्कया संज्ञाहीना बभूवु:। तस्मिन्नेव मुहूर्त्ते तृतीयपाण्डवो वारुणास्त्रं तत्याज, येन वर्षाधाराभिरग्निर्निर्वापित:। किन्तु, क्षणेनैव प्रलयकारी जलप्लव आजगाम। विनाशमनिवार्यमाशङ्क्य सर्वे स्वेष्टदेवमस्मरन्। तान् समस्तान् विलोक्यार्जुनेन वायवास्त्रनिक्षेपोऽकारि। झटिति प्रबलप्रभञ्जनप्रवाहेन प्लवजलमपसारितमभूत्। अनेन दर्शकाश्चमत्कृता: कृतज्ञाश्च बभूवु:। करतालिकाभिर्जुगुञ्ज सभास्थलम्। करतालिकावादनसमाप्ते: पूर्वं सहसा दर्शका: परस्परं प्रसभमालिङ्ग्य स्वभारसाम्यस्थापनाय प्रयेतिरे। अनेके तु मञ्चस्तम्भानासनानि च गाढमाश्लिष्य प्राणरक्षाप्रयासं चक्रु:। बहवोऽपि पृथिव्यां मुखमधस्तात्कृत्वाऽस्वपन्। वायवास्त्रप्रभावेन पवनवेग: क्रमश: प्रबलतरतां वव्राज। अर्जुनस्तु दर्शकाणां शोच्यामवस्थामालक्ष्य पर्जन्यास्त्रेण सम्पूर्ण आकाशे मेघानसृजत्। सहसा मेघावरणेन मही आच्छादिता। पवन: सम्प्रति सुस्थिर: कालमेघावरणान्तराले। दर्शका इदानीं स्वस्वासनेषूपाविशन् शान्ता:। भयमपसृतम्। अर्जुनस्य कौश्लेन सह सर्वे स्वात्मनियन्त्रणप्रयासमपि कुर्वन्ति। परन्तु किमेतत्? वायुप्रवाहस्य स्थिरतया सर्वेषां श्वासरोधो जायते। कतिपयक्षणेभ्य: परमेवं सति सभास्थलेऽर्जुनस्यायुधकौश्लदर्शनाय न कोऽपि जीवितोऽवशिष्ट: स्यात्। परन्तु, एष विना दोषं कस्यापि विनाशहेतुर्न भवति। सहसैव सौरभास्त्रं प्रयुज्य सुरभितं पवनं मन्दं मन्दं नोदयन् ससर्जाश्चर्यम्। एवं सुगन्धिनि पुष्पाणि कस्य राज्यस्योद्याने विकसितानि? कुतोऽयमेति मन्दानिल: पुष्पगन्धानादायेति दर्शका ज्ञातुं न पारयन्ति। जना अर्जुनमभिनन्दयितुमग्रेसरा भवन्ति, किन्तु स भौमास्त्रं सन्धाय भूमिगर्भे निलिल्ये। परस्ताच्च पर्वतास्त्रेण सर्वान् स्तम्भीभूतांश्चक्रे पार्थो धनञ्जय:। समस्ता हस्तिनापुरी पर्वतस्यैकस्योपरि क्षणेनावस्थापिता। पर्वतस्था हस्तिनावासिनो दर्शका: स्वासनेषूपविश्यावालोकयन् यदर्जुनस्तुङ्गसानौ सर्वान् सविनयं प्रणमति। दर्शकाणां तं प्रति नमस्कारात्पूर्वं सोऽदृश्यास्त्रेण निमेषेणान्तर्हित:। किमु जना: शैलशिखरे स्थास्यन्ति? हठान्निम्नास्त्रेण विजयो हस्तिनापुरीं पाताले प्रापितवान्। विलोकयितणां भयचीत्कारेण स सर्वान् पातालोदरान्निस्सार्य शून्यास्त्रेणाकाशे दोलयामास। केयं विषमा परिस्थिति:? सत्येवं सङ्कटेऽर्जुनास्त्रकौश्लदर्शनायानागम एव वरमासीत्। सर्वेषां कातरस्वरान् निशम्य स्थिरास्त्रेण पुन: समस्तान् पूर्वस्थितौ प्रत्यावर्तयामास धनञ्जय:। सर्वे निश्चिन्ता: स्वस्वासनेषूपविश्य मन्त्रमुग्धा इवाभिभूतास्तस्य गुणगानं चक्रु:।
अर्जुनस्यानया प्रतिभया मातु: कुन्त्या नयने आनन्दास्रपरिपूर्णे बभूवतु:। किन्तु, पुरस्तात् परस्तात् कर्णस्य क्नोधजर्जरितं मुखं विलोक्य स्तम्भीभूता जाता। कर्णो महावीर इति सा जानाति। आजन्मन: कस्यापि दिवौकस आशिषा सामृतकुण्डलकवचो बलीयान् स: हुङ्कारेणार्जुनप्रतिद्वन्द्वाय प्रतिस्पर्धते। कर्णोऽपि अर्जुनस्य समकक्षयोद्धा। परन्तु, भेदोऽयमनयोर्यदेको हस्तिनाराजपुत्र:, अपरस्तु अधिरथसारथिपुत्र इति। कर्णार्जुनौ परस्परमपराजेयपराक्रमौ। कर्णोऽप्येतत् सम्यग् जानाति यत् तस्याराजपुत्रत्वाद् द्रोणाचार्यस्य करुणान्यापेक्षयेषन्न्यूना। प्रत्यहं स्वपुत्राश्वत्थाम—स्वप्रियशिष्यार्जुनाभ्यां गुरुद्रोणाचार्य: किञ्चिदधिकं कौश्लमपि शिक्षयति। कर्णस्तु चिरात् स्पष्टवक्ता न्यायवांश्च। तत: स: कस्मादपि न बिभेति। गुरोरन्यायविचारमपि प्रतिवदति। स्वस्मै किञ्चिदधिकं शिक्षणीयमित्यावेदितं तेन पूर्वं गुरौ। परन्तु, गुरुरुत्ततार—''भाविनि हस्तिनारक्षको भविष्यत्यर्जुन:, हस्तिनाया भाविराज्ञां गुरुर्भविष्यति अश्वत्थामा। अतस्ताभ्यामधिकास्त्रकौश्लशिक्षादानस्य याथार्थ्यमप्यस्ति। काऽऽवश्यकता कर्णस्याधिकास्त्रविद्यया? स तु कदाचिदपि राजत्वं नाङ्गीकरिष्यति।’’
तदानीं कर्णो नीरव आसीत्। परन्तु, तस्यार्जुनं प्रति असहिष्णुत्वमनुदिनं वर्धते स्म। कालान्तरेऽर्जुनादधिकतरास्त्रशस्त्रविद्रूपेण प्रतिष्ठापयितुमात्मानं प्रतिज्ञायैकाग्रसाधनानिरतो बभूव।
अद्यात्मप्रतिष्ठाया: सुयोग उपपन्न:। जन्मन: कर्म बलीयस्तरमिति प्रमाणयितुमभीष्टोऽवसर आगत:। अस्त्रकौशलं प्रादर्शयत् कर्ण:। केनापि गुणेनार्जुनान्न न्यून:। किन्तु, अर्जुनास्त्रचालनाया अलौकिकतया दर्शका एवं मोहाच्छन्ना आसन् यत् कर्णास्त्रकौश्लेन तथा न विस्मयाभिभूता:। अनन्तरं कर्णोऽर्जुनेन सह द्वन्द्वयुद्धाह्वानं चक्रे। सर्वेषां समक्षमिदं प्रमाणयितुं स ऐच्छद्यत् सोऽप्यर्जुनात् केनापि गुणेन न न्यून इति।
अर्जुनोऽपि युद्धाय प्रस्तुत: सद्य:, अघोषयच्च रणस्यास्यान्तिमफलं कर्णस्य समाप्तिरेवेति। अनेन सभामञ्चे माता कुन्ती हठात् संज्ञाहीना कथमजायत? द्वयो: कर्णार्जुनयो: रणस्य परिणतिर्मृत्युरेव कर्णस्यार्जुनस्य वा। माता कुन्ती कस्य निधनाशङ्कया चेतनाशून्येति सा स्वयं न जानाति। अर्जुनस्तस्या: सुत:, कर्णोऽपि तस्या: सुतवत् प्रिय:। अत: अनयो: कस्यचनापि एकस्यामङ्गलमसह्यम्। दर्शकमण्डली तदेवावधार्य कुन्त्या महानुभवतामनुमाय तस्या धन्यवादं मनसा चकार।
अत्रापि कर्णस्य सम्मानपुरुषकारौ विपर्यस्तौ। कुलगुरु: कृपाचार्य: साध्वेतज्जानाति यत् कर्णार्जुनयोर्युद्धस्य परिणतिरत्यन्तं भयावहा। तत: स कर्णस्य दुर्बलतांशे कुठाराघाताय स्थिरीकृत्य पप्रच्छ—''राजपुत्रस्य राजपुत्रेण सह द्वन्द्वयुद्धं शास्त्राभिमतम्। अर्जुनो हस्तिनाराजवंशज:। भवान् कस्य राज्यस्य राजपुत्र:? कौ भवत: पितरौ? त्वमवश्यं वीरो योद्धा च। परन्तु अर्जुनेन सह सङ्ग्रामाय स्वाभिजात्यपरिचयं प्रयच्छ।’’
कर्णो निरुत्तर:। दु:खापमानाभ्यां धरित्रीसाद् भवितुं कामयते। यस्यां पृथिव्यां पुरुषकारस्य न काऽपि मर्यादा, तत्र जीवनधारणं न सम्मानाय कल्पते। परन्तु तदानीं दुर्योधन उद्घोषयद् यत् स स्वमित्रं कर्णं महाराजपदेऽभिसेचयिष्यतीति। तत्क्षणादुपस्थापितं रत्नसिंहासनम्। पुरोहितो मन्त्रपाठपूर्वकमङ्गराज्यस्य तं महाराजपदमध्यस्थापयत्। क्षणेनैव सारथिपुत्रस्य कर्णस्य भाग्यं परिवर्त्तितम्। परन्तु, यथावदपरिवर्त्तित: कर्णस्य जन्मेतिहास:। भीमस्तूपहासच्छद्मनोवाच—दयया कोऽपि राजा भवितुं शक्य:, परन्तु राजवंशरुधिरं तस्मिन् प्रवाहयितुमसम्भवं सर्वथा। तथापीदं सत्यं यद् वाजिरश्मीनां स्थाने शासनरश्मिं धारयिष्यति राधेय: कर्ण:। चिराय दुर्योधनं प्रति कृतज्ञोऽपि स्थास्यति।
कर्णार्जुनसमरमपसारयितुं तदानीमेव सूर्योऽस्तं गत:। कर्णोऽचिन्तयत्—धर्मदेव: सूर्यो यस्मै विमुखस्तस्यास्मिन्नन्धकारराज्ये पुरुषकारप्रतिष्ठा दिवास्वप्न एव। तथापि स न पराजेष्यते। आजीवनं पुरुषत्वप्रतिष्ठापथे युध्यतो वीरपुरुषस्य मृत्युरेव श्रेयान्।
अङ्गराज्यमहाराजस्य महावीरस्य कर्णस्याभिषेकमहोत्सवयामिनी नृत्यगीतनाटकरङ्गरसादिभिर्यापिता। दुर्योधनेन भूरिभोजनेन सन्तोषिता: पौरजानपदा:। भूरिभोजनेन सुरापानेन च प्रमत्ता: हस्तिनावासिनो दुर्योधनस्य दानशीलताया जयकारानुद्घोषयन्ति। महोत्सवेऽस्मिन् कर्णस्यैवाधिकतम आनन्द: स्यात्। अद्य प्रभाते तुच्छरथवाहकसुत:, सायं तु पूर्णवैभवस्याङ्गराजस्य महाराज:। परन्तु सम्प्रति क्व स:? महोत्सवमण्डपनिकटे राजकुमारा: सानन्दमुच्छलन्ति। अस्त्रकौश्लदर्शनायागता अप्यतिथयो राजानोऽभिषेकमहोत्सवेन प्रमुदिता:। कर्णस्तु तत्र न वर्त्तते। सुरापानेन सर्वे विस्मृतशरीरसन्तुलना: कर्णमपि न स्मर्त्तुं पारयन्ति। कर्णं विनाऽपि कर्णमित्राणामन्येषां कृते कर्णाभिषेकमहोत्सवशर्वरी नितरामानन्दमुखरा।
स्वकक्षे निभृतमुपविश्यात्मजीवनवृत्तान्तरहस्यमन्विषति महाराज: कर्ण:। कृपाचार्य: पप्रच्छ—''कस्य राज्यस्य राजपुत्रस्त्वम्? कौ च ते पितरौ?’’ भीमसेनस्येयं व्यङ्ग्योक्ति:—''कृपया यादृच्छिकोऽपि सिंहासनेऽभिषेच्य महाराजपदेन उद्घोषयितुं शक्यते, परन्तु न तद्देहे राजवंशशोणितं प्रवाहयितुम्।’’ अधुनाप्येतत् कर्णकर्णपटे झङ्करोति। क्रोधेन शरीरमुत्तप्यते, मनश्च त्रुट्यते। तस्मै राजसिंहासनं प्रदाय नूनं दुर्योधनो वदान्यो महानुभवो धन्यवादार्हश्च। अद्यतनो महोत्सवो दुर्योधनवदान्यताया विज्ञापनमेव। महोत्सवेऽस्मिन् कर्णस्य तिलार्धपरिमितमपि भागावहत्वं नास्ति। वरं महोत्सवस्यास्य सङ्गीतनृत्यरङ्गरसादयस्तस्य पुरुषकारं परिहसन्ति। सङ्गीतस्य प्रतितालं तं स्मारयन्तीव—''कर्ण! अप्रवाहितराजशोणितशरीरस्त्वं दुर्योधनानुकम्पयाऽद्य राजा। अतस्त्वं दुर्योधने चिरकृतज्ञ: स्या:। त्वमनुगृहीत आश्रितश्च।’’
किं कर्ण: प्रत्याख्यास्यति राजपदमङ्गराज्यस्य, राजसिंहासनं, राजमुकुटं च? तथा कृते सति जगत् परिहसिष्यति—कर्णो न राजपदयोग्य:, स राजसिंहासनाद् बिभेति, राजमुकुटं तस्मै न शोभते, दुर्योधनेनापात्रे राजपदं संन्यस्तमित्यादि। वरं स संसारायेदं दर्शयितुं दृढप्रतिज्ञो यज्जन्मना राजपुत्रोऽपि राजा भवितुं न योग्य:, अपि तु योग्यपुरुषो हि राजसिंहासनयोज्य:। व्यक्ति: पौरुषञ्च मनुष्यस्य वास्तविकपरिचय:, न तु मातापितरौ।
कर्ण: पुनश्चिन्तयति—कौ मे पितरौ? यावत्स एतदजानात् यत् स राधाधिरथयो: पुत्रस्तावत् स चपलमतिर्बालक इव प्रसन्न आसीत्। स किमर्थं राजपुत्ररूपेण नाजायतेति तस्यानुशोचनैव नासीत्। संसारे न सर्वे राजपुत्रा जायन्ते। कर्णोऽपि पालयद्भ्यां पितृभ्यां सह सुखेनासीत्। परन्तु कैशोरे कौतूहलपूर्णे कस्मिंश्चिद् दिवसे कुन्त्या: मात्रा राधया सह गोपनालापं निशम्य कर्णो जीवनस्य प्रथमं श्रेष्ठं चाघातं प्राप। माता कुन्ती राधामातरं कथयति स्म—''तवायं सुतो राजलक्षणसम्पन्न:। त्वदधिरथयो: पुत्र इति क: प्रतिपद्येत? तस्य स्वरूपं पश्य। हस्तिनाराजपुत्रानपि शरीरसौष्ठवेनातिशेते। तस्य कवचं कुण्डले च कथं तस्मिन् चमत्कुर्वन्ति, पश्य। न जाने, तद्दर्शनेनैव तमङ्के धारयितुमिच्छा जागर्त्ति। स यदि मम पुत्रोऽभविष्यत्................! वस्तुतोऽस्य राजतनयत्वेन जन्म औचित्यावहमासीत्।’’
राधोत्तरितवती—''स नौ न पुत्र इति तस्यानुवर्धनेन तद्रूपसौन्दर्येण सर्वे संशयं प्रकटीकुर्वन्ति। को लाभ: सत्यगोपनेन? स वस्तुतो नावयो: सुत:। काऽपि हतभाग्या जननी तं मृण्मञ्जूषायां निक्षिप्य यमुनास्रोतसि प्रावाहयत्। स्नानकाले तमवाप्य ईश्वरस्य दानमिति मत्वा पालयामि। आजन्मनस्तान्यमृतकवचकुण्डलानि तस्यासन्। अद्यापि सन्ति।’’
तत: कुन्ती विललाप—''अहह:, तस्यां निष्ठुरायां जनन्यां कथं न जातो वज्रपात:?’’ कोमलहृदया सोमवंशवधू: कुन्ती तदा तां पाषाणहृदयां जननीं भृशं शप्त्वा रुरोद।
कर्ण: स्वकक्षं प्रत्यावर्त्तित:। द्वादशवर्षवयस्कस्य कर्णस्य जीवने विषादाध्यायस्यायमारम्भस्तदारभ्यैव। तद्दिनात् स मनसाऽन्विषति स्वपितृपरिचयम्। परन्तु स्वहृदयदु:खं स्वपितृभ्यां कदाचिदपि न विज्ञापितं तेन। तयो: सुखं छेत्तुं तस्याधिकार एव नास्ति। यमुनास्रोतस उद्धृत्याभ्यामेव तज्जीवनं पालितं सुरक्षितञ्च। अन्यथाऽकालमृत्युरवश्यम्भावी आसीत्। दुर्लभमानवजन्मानुभूतिस्तस्य नाभविष्यत्। अतस्तेन प्रतिपदं स्वपितरौ प्रति समुचितकर्त्तव्यमेव प्रदर्शितम्। परन्तु स्वान्तर्दु:खेन स्वयं ज्वलति। अनेकशस्तेन चिन्तितं यत् स राजपुत्र: मनसा तामेव प्रस्तरान्त:करणां जननीमन्विषति। भीमस्य व्यङ्ग्योक्त्या तस्य हृदयस्य सूक्ष्मतरोऽपि विभागो बिद्ध:, रुधिराक्तश्च कृत:।
बहिर्मातू राधाया: स्वरोऽश्रूयत—''वत्स कर्ण! त्वामभिनन्दयितुं माता कुन्ती स्वयमुपस्थिता। कपाटमुद्घाटय तावत्।’’
चकित: कर्ण:। सभामञ्चे चेतनां विस्मृतवती कुन्ती स्वपुत्रस्याशुभमाशङ्क्य। सायं यावत्पुनरप्राप्तचेतनाऽऽसीत्। परन्तु चैतन्याप्ते: परमसुस्थाऽपि कर्णस्य महाराजपदावाप्तिं निशम्य सहसा तमभिनन्दयितुमागता स्वयम्। तत्प्रियपुत्रधनञ्जयस्य चिरशत्रो: राज्यलाभेन कुन्ती आनन्दिता। किमियं कुन्तीहृदयस्य महत्युदारता अथवाऽस्त्यत्र कोऽप्यभिसन्धि:?
द्वारमुद्घाट्य कर्ण: कुन्तीं प्रणनाम। कम्पितशरीरा सा कर्णमङ्काश्रितं स्नेहेन चकार। बिन्दुशोऽस्रं प्रावहन्नयनयो:। क्षीणकण्ठेनोवाच—''पुत्र! कर्ण! दीर्घजीवी भव। यशस्वी भव। अहं ज्ञातवती यत्तव महाराजत्वलाभेऽपि मनसि सुखं नास्ति। भीमस्य व्यङ्ग्योक्तिस्ते मनसि दारुणमाघातमापादयत्। अतोऽहं स्वयमागता क्षमायाचनाय। भीमस्तु मूढ:। तदुक्तिर्मनसि न ग्राह्या।’’
कर्णो विचलितो जगाद—''अम्ब! अधुनाऽपि ते शरीरे उत्तापो वर्त्तते। दौर्बल्येन भवत्या: शरीरं कम्पते। एतदर्थं भवती शीघ्रमागतवती कथम्? भीमस्याक्षेपस्तु मह्यं न नवीनोऽद्य, एकत्र विद्याशिक्षाकालेऽपि प्रतिदिनं मां स्मारयन्निवेदमाक्षिपति स्म यत् त्वं न राजपुत्र:, अपितु सारथिपुत्र:। भीमस्तु सत्यं वदति। अनेनालं भवत्या दु:खेन।’’
अस्वास्थ्यात् कुन्ती पद्भ्यां स्थातुमशक्ता। स्वहस्ताश्रयेण कर्णस्तां गृहाभ्यन्तरे प्रावेशयत्। आसन उपावेशयच्च। कुन्ती व्याकुलिता बभाषे—''भीमो मामाजन्मन: पीडयति। वारं वारं स मया त्वां न भर्त्सितुं प्रतिबोधित:। परन्तु कुन्तीपुत्रत्वेन तस्यासीमोऽहङ्कार:। अतस्त्वां प्रतिपदं दु:सहशब्दैर्हन्ति। तस्याहङ्कारनाशाय मया सिद्धान्तितं यत्त्वां धर्मपुत्ररूपेणाङ्गीकरिष्यामीति। अद्यारभ्य त्वमेव पाण्डवेभ्यो मे प्रियतर:।’’ कुन्ती झटिति कर्णवदने शिवमहाप्रसादं दत्त्वा, कण्ठे च तमाश्लिष्य सोच्छलदस्रकण्ठमाह—''गर्भधारिणी जननी यद्यसहाया तदानीं नाभविष्यत्तर्हि त्वादृशं पुत्रं नदीजले विसृज्य शरीरेण नाजीविष्यत्। यदि वा कुत्रचिज्जीविताऽस्ति तर्हि त्वां प्रतिमुहूर्त्तं स्मरन्त्यवश्यं मृत्युयन्त्रणामनुभवति। अहं तस्या असहायतां मर्मणाऽनुभवामि, यतोऽहमेका नारी तादृशी। तस्या यन्त्रणा तस्या: प्रायश्चित्तमेव। अतोऽधिको भीषणो दण्ड: कोऽन्य: सम्भवेत्? प्रिय कर्ण! मन्यतां यत्तस्या मातुर्मृत्यु: सम्पन्न इति। अद्यारभ्याहं ते जननी। त्वं कुन्तीपुत्र:। पाण्डवेभ्य इदमहं प्रतिज्ञापूर्वकमद्य ज्ञापयिष्यामि, अनेन भीमस्याहङ्कारश्चूर्णीभूत: स्याच्च।’’
कर्णस्तथापि न सन्तुष्ट:। अमन्यत, अयमपि तं प्रति कुन्तीकरुणाया: भार:। जगति सोऽनुकम्पाया जुगुप्सते। सर्वे तमनुगृह्य तत्पुरुषकारं न स्वीकुर्वन्ति। किन्तु सम्प्रति किं कुन्तीकरुणाप्रत्याख्यानं तेन सम्भवम्? कर्ण: स्वदृष्टिमुन्नमय्य कुन्तीमपश्यत्। कुन्त्या: पाण्डुरं मुखं, ज्वरप्रपीडितं शीर्णमलिनं रूपं, व्याकुलताविह्वले नयने, करुणविषादयुता: नेत्रयो: स्फुरन्तोऽश्रुबिन्दवश्च विमूढीचक्रु: कर्णम्। तस्यापि नयनयुगलं जलपूर्णं बभूव। मातृत्वस्य मूर्त्तिमतीं देवीमिमां मातृस्नेहरहित: कर्ण: किमु प्रत्याख्यातुं शक्नुयाद् राधाश्रित:?
कर्णोऽचिन्तयत्—''मात:! कुन्तीपुत्रत्वगौरवनिकटे पौरुषं विस्रष्टुं कर्णोऽयं तिलमपि न कुण्ठते।’’ प्रकाशं त्वाह—अम्ब! तव पुत्रत्वेनावश्यमहं धन्योऽभविष्यम्। कस्यापि मां प्रति दया मे सर्वथाऽनभीष्टा। किन्तु, अद्य भवत्या दयामासाद्याहं गौरवमनुभवामि। भवतीं मातृदृष्ट्या केवलमहं पश्यामि। अद्यारभ्य भवती मे जननी, गर्भधारिणी। अनेन, कदाचिद् विडम्बितजीवने काचित् सान्त्वना लभ्येत।’’
कर्णवचनलब्धाघाता कुन्ती सास्रमवादीत्—''नेयं मेऽनुकम्पा कर्ण! अपि त्वयं मे हृदयोच्छ्वास:। अत्र नास्ति मिथ्या, न चाऽऽविलता। जननीहृदयं पुत्र: कदापि ज्ञातुं न प्रभवति। यतो हि स पुरुष एव। तदद्यैव दु:खं जनन्या:।’’
रुद्धकण्ठ: कर्ण: प्राह—''क्षाम्यतु जननि!। मम हृदयस्य क्षोभाभिमानौ भवत्या: पुरस्तान्मया प्रकाशितौ।’’
कुन्ती त्वीषद्धसन्ती न्यगदत्—''मातृनिकटे पुत्रस्य सर्वोऽभिमान: शोभते वत्स!।
प्रतिगमनात् पूर्वं कुन्ती अनुरोधं व्याजहार—तनय! युवयो: कर्णार्जुनयोर्युद्धं मे नितान्तमसह्यम्। न जाने, कष्टं भूयोऽनुभूयते तेन मया। परस्ताद् युवयो: समरं यथा न विलोकयेयमहं सुपुत्रवती।
कुन्त्या गमनात् परं कर्णोऽचिन्तयद्यत् प्रायेणार्जुनस्य निरापत्तायै सर्वमकलनं वात्सल्यं कर्णाय मुक्तहृदयं प्रायच्छन्माता कुन्तीति।
भावना मेऽपगता। माया मे कर्णेऽब्रवीत्—कर्ण आयाति। माता कुन्ती चादिदेश—''वत्से, कर्ण आयाति। तस्मै त्वयाऽवश्यं प्रणामो ज्ञापनीय:। स ते पतीनां ज्येष्ठो भ्राता, यतोहि कर्णो मे धर्मपुत्र:।’’
अहमवगुण्ठनमाकर्षितवती, यद्यपीच्छाऽऽसीत् तदन्तरालात् सकृदिममभिशप्तं वीरपुरुषं निकटे वीक्षितुम्।
कर्णो मातरं प्रणनाम। सविनयं चोवाच—''क्लेशेन भवती किमर्थमागता? भवदादेशेनाहमवश्यं खाण्डवप्रस्थमागमिष्यम्।’’ माता कुन्ती स्नेहेन तमाश्लिष्याशीर्वादं ददौ। आहतकण्ठेन बभाषे—''कोऽनेन क्लेशो मे? पुत्रं विलोकयितुमागमनेन मातु: क्लेशो नोत्पद्यते। अहं समाचारं ज्ञातवती यत्त्वं पित्रोर्दर्शनायाङ्गराज्यादागत इति। अहं कुतो नागच्छेयम्?’’
कर्ण ईषद्विहस्य साभिमानं जगाद—''तदेतन्मे परमं सौभाग्यमेव।’’
—तूष्णीं भव। महाराज इव तनयो जनन्या सह नालपति। वधू: किं चिन्तयिष्यति? त्वामेव नन्तुं मया सह सेयद्दूरादागताऽस्ति। तस्यायाशी:प्रदानाय त्वं खाण्डवप्रस्थे न गत इति तामिहानीयाहमागता। मान्यतायां तु त्वं तस्या ज्येष्ठ:।
कर्ण: किञ्चित्स्मितेनोवाच—''पञ्चपाण्डवान् महावीरान् पतीन् याऽलभत, महाच्छायो वृक्ष इव सखा कृष्णो यस्या: सहायकस्तस्या मादृशस्याकिञ्चनस्याशीर्वाद: किमु वस्तुत आवश्यक:?’’
माता तं शशास—''अस्तु, विरम्यतामेतत् सर्वम्। मामेव विलोक्य ते सकलोऽभिमान उच्छलत्यभ्यन्तरात्। प्रायेण पाण्डवै: सह ते बाल्यविवाद: त्वयाऽद्यापि न विस्मृत:।’’
कर्णप्रणामायादिदेश मां माता। कर्णाय प्रणामात् पूर्वं मात्रे प्रणिपात उचित इति नियम:। अवगुण्ठनस्याभ्यन्तरान्मातुश्चरणद्वयमवलोकितं मया। शिरो नमयित्वा मातृचरणस्पर्शाय स्वहस्तौ प्रसारयामीति तच्चरणद्वन्द्वं पश्चादपसृतम्। अहमीषद्दु:खिताऽचिन्तयम्—मम प्रणिपातं स्वीकर्त्तुं माता कस्मान्नेच्छति? किं मह्यं सा क्रुध्यति?
अनुपदं कर्णस्य मधुरकुण्ठित: स्वरोऽश्रूयत—''हस्तिनाराजपत्न्या: कृष्णाया अधिरथपुत्रकर्णपदस्पर्शप्रणामो हस्तिनां प्रति असम्मान एव। अनेन, पञ्चपतयस्ते क्षुब्धा: स्यु:। त्वमप्रणामेनापि स्वीकुरु मे आशीर्वादम्।’’
अहं लज्जया तत्क्षणान्निरूपितवती यत्तौ चरणौ कर्णस्यास्तां न तु मातु: कुन्त्या:। कुन्तीमातु: कर्णस्य च पादेषु परस्परं साम्यमेतावत् कथम्? मम पुरस्तात् चत्वार एते समाना दृश्यन्ते। सम्यक् निरीक्षणं विना भेद एषां परस्परं ज्ञातुमशक्य:। कृष्णार्जुनयो: पादा इव चत्वार एतेऽपि वर्णरचनासौन्दर्यकोमलताभि: पूर्णत: समाना:। किन्तु, आकारेण कर्णचरणयुगलं मातृचरणापेक्षया किञ्चिद् दीर्घतरम्। कुत इदं सम्भवम्?
अथ प्रथमं मातरं तत: कर्णं प्राणमम्। अचिन्तयम् च—''अहह, कर्णेनेदमवश्यं विचिन्तितं स्याद्यत् अहं प्रणामव्याजेन तत्पदस्पर्शमिच्छामि स्म इति। कियल्लज्जाकरमिदम्।’’
माया मेऽभिप्रायं विज्ञाय तं बभाषे—''मातृपदाभ्यां सह भवत्पदयोरतिसामञ्जस्यकारणान्मातृपद इति विचार्य राजवध्वा कृष्णया भवत: पदे प्रणन्तुं भ्रमेण प्रायत्यत। सुकरमिदं यद् भवता चरणावपसारितौ। अन्यथा ज्येष्ठपदस्पर्शेण पापिन्यभविष्यत् सैषा राजवधू:।’’
कर्णो मृदु अहसत्। अनुच्चस्वरेण चाब्रवीत्—''किं, राजवधू: कृष्णा पापमपि कर्त्तुं शक्नोति? साऽऽर्यावर्तस्यादर्शनारी। अन्यच्च, ज्येष्ठस्पर्श: पापाय बभूव कुत्रचित् सत्ययुगे त्रेतायुगे वा। द्वापरे काश्चन नार्यो ज्येष्ठैर्विवाहमपि कुर्वन्ति।’’
कर्णस्य श्लेषान्विता: शब्दा मम हृदये बाणा इव बिद्धा:। हृदयाद् रुधिरं निरस्रियत। किन्तु, नेत्राभ्यामश्रु न प्रावाहयम्। एतादृशोऽहङ्कारवतोऽसहिष्णो: पुरुषस्य श्लेषवाक्येन राजवध्वा: कृष्णाया अतिखेद: सर्वथा लज्जाकर एव।
अहं मुखं प्रत्यावर्त्तयन्ती कक्षाभ्यन्तरं प्रविष्टा। अभ्यन्तरान्मातरं श्रावयन्त्यवदम्—''सायं पूर्वं प्रत्यावर्तनीयमावाभ्यां किल।’’
सहसा माता समयमज्ञासीत्। प्रत्यावर्त्तनमार्गे मायाऽपृच्छत्—''ननु भवत्या: धर्मपुत्रस्य कर्णस्य च पादानामियत्सामञ्जस्यमत्यन्तं विस्मयकरमेव।’’
माता सनि:श्वासमाह—''प्रायेण पूर्वजन्मनि कर्णो मे औरस: पुत्र आसीत्। विगतजन्मन: प्रसङ्गोऽयं वास्तव: प्रतीयते। अन्यथा सादृश्यमेवं कुत:?’’
(१५)
सभागृहप्रतिष्ठादिवसो महासमारोहाडम्बरेणोद्यापित:। सभागृहसिंहासनासीनो युधिष्ठिरोऽतिथीन् सम्बोधयामास। सभागृहस्य निर्माणकौश्लसौन्दर्यादिनि विलोक्यातिथयश्चमत्कृता ईर्ष्यान्विताश्च बभूवु:। कपटेनाविकसिते खाण्डवप्रस्थे पञ्चपाण्डवान् सम्प्रेष्य ये कौरवा आत्मप्रसादं लेभिरे, तेऽद्य समग्रमिन्द्रप्रस्थं विशेषत: सभागृहं विलोक्येर्ष्ययाऽन्तर्जज्वलु:। केनाप्युपायेन पाण्डवान् बहिष्कृत्येन्द्रप्रस्थं भोक्तुं नाना कल्पना अप्यकार्षु:।
स्वयमहं नाना भोजनानि विपच्य तानि कौरवेषु परिवेषयामि स्म। अयं तु मातु: कुन्त्या निर्देश:। कौरवा: पुनर्मे देवरा:। अतस्तेभ्य: स्वकीयताविवलितव्यवहार एव मया प्रदर्शनीय:। तत्रापि मे नासीत् काचिदापत्ति:। पाक:, गृहकार्याणि च मेऽत्यन्तं प्रियाणि। स्वयं निर्माय परिवेषणे मेऽपार आनन्द:। अतोऽहमतियत्नपूर्वकमन्नव्यञ्जनपायसपुरोडाशादीन् निर्मितवती। अत्रापि मायानितम्बिन्यो: सहायताऽऽसीत्।
शतं कौरवा: पञ्चपाण्डवाश्चैकत्र भोजनायोपविविशु:। एतै: सह कृष्णबलरामावपि। कर्णस्यात्र सहभोजनाय मातेयेष। परन्तु, अङ्गराजरूपेण निमन्त्रित: कर्ण आजगाम। अत: सोऽतिथिभवने न्युवास। तथापि रात्रिभोजनाय तमाकारयत्। परन्तु कर्णो व्यजिज्ञपत्—''पारिवारिकव्यापारे स स्वयमात्मानमुपस्थापयितुं नेच्छति। पाण्डवा: कौरवाश्चैकत्रादन्ति। अनेन तेषां सद्भावो वर्धिष्यते। तत्र स्वोपस्थित्या बाधाऽऽपादनं न तदुद्देश्यम् इति।’’
माता कर्णस्याभिमानं जज्ञे। कर्णो मातुर्धर्मपुत्रोऽपि न कथञ्चिदपि कुरुपाण्डवपरिवारगत इति सोऽभिप्रायमेनं मात्रे व्यजिज्ञपत्।
कर्णरुचिकराणि भोजनानि राधादेव्या: सकाशाद् विज्ञाय माता कुन्ती तानि तानि मद्द्वारेण निर्मापितवती। अहमपि मातु: कर्णेऽतिशयस्नेहकारणात् सर्वं सयत्नं प्रस्तुतवती। परन्तु कर्णस्य सहरात्रिभोजनाय सविनयास्वीकारान्माता विषण्णाऽभूत्। उत्सवदिवसे सा रसमये अन्यमनस्का बभूव। कर्णं प्रति मातुरहेतुकं वात्सल्यं मे नारीहृदये भूय: कौतूहलमुदपादयत्। किन्तु मम कौतूहलं को वा दूरीकरोतु? अहमवचना मातुरेकैकं निर्देशं पालयामि स्म।
कौरवपाण्डवभ्रातृभि: सह मम ननान्दुर्दु:शीलाया: पतिर्जयद्रथोऽप्यासीद् भोजने। माया, नितम्बिनी, अहं च पर्यवेषयाम। परिवेषयन्त्यो
वयं क्लान्ता:, परं न समाप्तिस्तेषां भोजनस्य। सर्वे ते मम पाकस्वादं प्रशंसन्त: पुन: पुन: खाद्यं याचन्ते स्म। परिवेषणावसरे दु:शासन: 'पुनर्देहि पुनर्देही’ति वदन् द्वित्रिवारं मामुच्छिष्टहस्तेनास्पृशत्। कनीयान् देवर इति तस्य धृष्टता सोढा मया। पायसपरिवेषणावसरे जयद्रथोऽनुच्चस्वरेणाह—''प्रजावति! तव हस्तपाको यदीयान् सुमिष्टस्तर्हि त्वं कियती न सुमिष्टा स्या:?’’ दु:शासनोऽपि तेनैव सहोवाच—''इतो गत्वा ज्वलनमेव सारम्। स्वयंवरसभायां रूपमात्रं विलोक्याद्यापि वयं ज्वलाम:। अद्य तु गुणग्रामैर्गृहिणीस्वभावेन च ज्वलने घृतसंयोगो जात इति विद्धि।’’
अनेन मम शरीरेऽग्निसंयोग आरब्ध इव। मम रूपदृष्टी सहसा परिवर्त्तिते। किन्तु, अतिथिभ्यो भोजनपरिवेषणकाले क्रोधो न शोभनीय:। अहं क्रोधं कथमपि वशीकृत्य पूर्णतो रक्तवर्णशरीराऽभूवम्। जयद्रथ एतल्लक्ष्यीकृत्याह—''प्रजावति! ननान्दारो देवराश्चैवं परिहासं कुर्वन्तीति पित्रालये त्वया शिक्षणीयमासीत्। त्वादृश्या रूपवत्या भ्रातृजायया सहाऽकृतपरिहासा देवरा अवश्यं विनिपतिष्यन्तीति जानीहि।’’
मयाऽयमालाप: परिहासत्वेन गृहीत इति प्रदर्शयितुमभिनयेनेषदहसम्। परन्तु तेषामालापशैली नितान्तमश्लीलेङ्गितमय्यासीत्, न तु परिहासप्रमोदिनी। अतोऽहमेतद् विज्ञाय गम्भीरा जाता। दुर्योधनोऽश्नन्नपि वारं वारं मां लुब्धदृष्ट्या विलोक्य दीर्घश्वासं तत्याज। मम भोजनपरिवेषणावसरे मां स स्थिरदृष्ट्या निरीक्षमाण: सन्तापेनापूर्णवासनायन्त्रणया चात्मानं मनसा धिक्चकार।
अहमचिन्तयम्—स्वयंवरसभायां विफलमनोरथान् पराजितान् शत्रून् कौरवान् सादरं निमन्त्र्य पुष्पमालाभिश्चाभिनन्द्यास्माकं रूपगुणगृहिणीत्वपारिवारिकसौख्यादिचित्रादिप्रदर्शनं पारोक्ष्येण तेषामपमानजनकम्। स्वभावेन कौरवा आजन्मनोऽसहिष्णव ईर्ष्याकातरा:। तान् पुन: पीडयितुं नोचितम्।
न जाने, ममाशुभाशङ्का, सुखं, सौभाग्यं चाकस्मान्मां भाययन्ति स्म। शरीरं क्लान्तं, मन: शङ्काकुलं च। मम विश्राम आवश्यक:। शयनकक्षाभिमुखं सरन्त्यपश्यम्—माता कुन्ती पाकशालाद्वारि तिष्ठति। अहं तत्रैव गतवती। मात्रे स्वयमेव तु मया भोजनं परिवेषितम्। मात्रा च तदानीमिदमुक्तं यन्न किमप्यन्यदधिकमावश्यकमिति। किञ्चिच्च विश्रामाय मां बलात्तत: प्रेषितवती सा। परन्तु, इयच्छीघ्रं कथं तया समापितं भोजनम्?
अपश्यम्—मातुर्भोजनं तथैवास्ति यथा परिवेषितम्। विषण्णवदना साऽन्यमनस्का स्थिता। अपृच्छम्—''अम्ब! किमु भवत्यसुस्था? भोजनं न स्वीकृतं यत्’’
ईषद्विहस्य सोवाच—''त्वया तु तावन्न गृहीतम्। अहं कथमश्नामि?’’
अहं किञ्चिद् व्यस्ता न्यवेदयम्—''अहं किञ्चिद् विश्रामात्परमखादिष्यम्। गृहस्य पाचकानां परिचारकाणां पालितजीवजन्तूनां च भोजनात् परमहं प्रतिदिनं भोजनं करोमि। एतत्तु भवती पूर्वं जानात्येव।’’
—''किन्तु, त्वयाऽद्य भूयान् श्रम: कृत:। क्लान्तिं चानुभवसि। अद्य त्वया प्रथममेव भोक्तव्यम्। सर्वस्य स्वशरीररक्षा महान् धर्म:।’’
निशम्येदं शीघ्रतयाहमवदम्—''मत्कारणाद्यदि भवत्यद्योपवत्स्यसि तर्हि मदनुरोधाच्चलतु, अहमपि भवत्या सहाशिष्यामि। प्रायेण सम्प्रति सर्वे सम्पन्नभोजना: स्यु:। अतोऽलं विलम्बेन।’’
अहमावयो: कृते भोजनं परिवेषयितुं प्रस्तुता। माता त्वनुच्चस्वरेणाह—''अतिथावभुक्ते गृहकर्त्य्रा जलस्पर्शोऽपि नानुमत: शास्त्रेषु।’’
अहं सविस्मयं विलोक्य तामपृच्छम्—''कतमोऽतिथिरुभुक्तो नाम? मया स्वयं तु सर्वेभ्य: परिवेषितम्।’’
माता सगम्भीरस्वरमुवाच—''अतिथिभवनेऽङ्गराजो वीर: कर्ण: सम्प्रत्यभुक्तो वर्त्तते। सोऽत्रास्माकं गृहे निमन्त्रित इति अतिथिभवने तस्य रात्रिभोजनाय न काऽपि व्यवस्थाऽऽसीत्। तेन निमन्त्रणमस्वीकृतमिति तमभोज्यास्माकं भुक्त्वा सुखशयनं किमूचितम्?’’
मातृवाक्येनाहमीषत्क्षुण्णाऽभूवम्। कर्णस्य कृते राजमातु: कुन्त्या उपवास इत्ययं प्रसङ्गो मेऽस्पष्ट: प्रतीयाय। तथाप्यपृच्छम्—''किं मया करणीयं सम्प्रति तदर्थम्?’’
स्थिरकण्ठेन माताऽऽदिदेश—तदर्थं भोजनं नीत्वाऽतिथिभवने गन्तव्यम्।
—''किं भवती स्वयमेव गमिष्यति?’’
—''युधिष्ठिर इन्द्रप्रस्थस्य महाराज इति त्वमेव गृहकर्त्री। कर्णस्त्वदीयोऽतिथि:, न तु मम। अतिथिसत्कारस्तवैव धर्म:।’’
—अहमतिथिभवने गमिष्यामि?
—किमत्राश्चर्यम्? कर्णो न केवलमतिथि:, तव पत्यग्रजोऽपि। त्वया सह माया, नितम्बिनी च गमिष्यत:। कर्णस्तु गृहातिथिभवने निवसति।
—भवती यथाऽऽदेक्ष्यति तथा करिष्यामि। न मे काचिदापत्ति:। माता सस्नेहं सर्वं प्रस्तूय प्रदत्तवती सहसा। प्रत्येकं प्रस्तुतिरेकस्य पर्याप्तभोजनात् किञ्चिदधिका तेन परिवेषिता। मां च सम्बोध्योवाच—''अतिथिर्नाम भगवान्। अतिथिसन्तोषेणेश्वर: सन्तुष्यति। कर्ण: कदापि खाद्यं न ग्रहीष्यति यदि त्वं न गच्छसि। वस्तुतस्त्वं हि गुहकत्री। कर्णमहं सम्यग् जानामि। सर्वत्र स धर्मं, कर्म, नीतिं, नियमं च प्रस्तौति। त्वं भोजनं नीत्वा गतेति विज्ञाय स नितरां प्रसन्न एव स्यात्।’’
अहमचिन्तयम्—''कर्ण: प्रसन्न: स्याद्वा न वा, परन्तु येन मातु: सन्तोष:, तन्मया करणीयमेव।’’
वयं तिस्रोऽतिथिभवनद्वारदेश उपस्थिता:। मायाया: हस्ते खाद्यसामग्री। नितम्बिनी तु जलपात्रं वहति।
अहं बहि: प्रतीक्षमाणाऽस्मि। मायानितम्बिन्यावन्त: प्रविविशताम्। परिचारकद्वारेण समाचार: प्रेषितो यत् कुन्तीसन्देश आगत इति। कर्ण: शय्यायां गच्छति स्म। सद्यो बहिरागत्य पप्रच्छ—रात्रावेतावत्यां क: सन्देशो मात्रा प्रेषित:?
भवते रात्रिभोजनं प्रेषितमिति मायोवाच। कर्ण: किञ्चिदसहज उवाद—''मध्याह्नभोजनमियद् गुरु जातं यन्मे रात्रिभोजनं नावश्यकम्। तथापि मात्रा प्रेषितमिति किञ्चिदवश्यं तस्मात् स्वीकर्त्तव्यमेव।’’
—''न, न, नैवाल्पम्, भवान् पूर्णभोजनं करोत्विति मातुर्निर्देश:। भवत: प्रियभोजनानि मात्रादेशेन स्वयं राजवध्वा कृष्णया स्वहस्तेन निर्मितानि। सा स्वयमप्यानीयाऽऽगताऽस्ति। मातृनिर्देशेन सा स्वयमतिथिसत्कारं करिष्यति।’’
कर्णो गम्भीरो बभूव। अन्यमनस्कश्च जात:। कुण्ठितशैल्योवाच—''एतावत्यां रात्रौ राजवधूकृष्णाया अतिथिभवने आगमनं सर्वथाऽनुचितम्। माता कुन्ती पुत्रस्नेहान्धा नितान्तं विस्मृतहिताहितज्ञाना जाता।’’
माया धीरस्वरेणाह—''भवाँस्तु मातुर्धर्मपुत्र:। राजभवनस्य विशिष्टातिथिभवने भवान् निवसति। अस्मिन्नतिथिभवने राजपरिवारस्य केवलं नेदीयांसोऽतिथय एव निवसन्ति। अत: राजवध्वा: कृष्णाया: गृहकर्त्रीत्वादतिथिसत्कार: समुचित एव।’’
कर्ण: चिन्तित: सन्नुवाच—''राजवधू: स्वयमागतेति भोजनपरावर्तनेन मेऽपराध एव स्यात्। अहं केवलं फलाहारं करिष्यामि। अत: फलवर्जं सर्वं प्रतिनय।’’
—''फलाहार: किमर्थम्? अद्य किमु कश्चिदुपासनादिवसविशेष:?’’ माया सचकितं पप्रच्छ। कर्ण: किञ्चित् तूष्णींभूत्वा गलां परिष्कृत्येव जगाद—''यो यत् किमपि चिन्तयतु नाम, अहं सर्वदा स्पष्टमेव वदामि। आदावहं राजवधूकृष्णाया: क्षमां कामये। अहं न तां वस्तुत आक्षिपामि। सामान्यनीतिनियमादीनेव प्रस्तौमि। एकपतिग्रहणं नार्या: परमो धर्म:। यदि प्रथम: पतिरकस्मान्मृत्युं भजते, तर्हि कतिपयस्थलेषु द्वितीयपतिग्रहणस्य दृष्टान्ता वर्त्तन्ते। परन्तु युगपत् पञ्चपतीनामेकस्या अङ्कशायिनीत्वस्य दृष्टान्तो नासीत्, नास्ति, न भविष्यति च। एवम्भूता नारी वरनार्यपि वारनारीरूपेण गण्यते। तस्या: हस्ताज्जलस्पर्शेणापि धर्मो नश्यति। शृणु, विषयेऽस्मिन्नहमत्यन्तं रक्षणशील:। तव राजवधू: याज्ञसेनीति पञ्चपतीन् वृत्वाऽपि सतीत्वमहिम्ना मण्डिता स्यात्। परन्तु काऽपि सामान्या नारी एवं वातावरणेऽसती कथ्यते। तस्या: हस्तपक्वभोजनं कथमहं स्वीकरिष्ये? विषयेऽस्मिन्नहमत्यन्तं निष्ठापर:।’’
अतिथिभवनाद् बहिर्दण्डायमानाया मम चरणावचलौ भवत:। अस्याक्षेपस्य, अपमानस्य, अपनिन्दायाश्च न किमपि प्रत्युत्तरं दातुमहमिच्छामि। यतोहि कर्णो मेऽतिथिर्भगवान्। क्षोभेण दु:खेन च मम सर्वाङ्गानि कम्पन्ते, अथ च प्रशान्तवदना स्थिताऽस्मि। मायाया: स्वरोऽश्रूयत—''महाशय! भवता मम प्रभुपत्न्या अपमान: क्रियते। किं भवता सेयं न लब्धेति भवत एवम्प्रतिक्रिया?’’ कर्ण: सस्मितमाह—''शास्त्रसम्मतं मयोक्तम्। श्रुतपूर्वं मया यत्तव राजवधू: विदुषी ज्ञानवती चेति। सैव प्रष्टव्या यन्मे वच: शास्त्रसम्मतं वा न वा। अस्तु, ममेयमुक्ति: क्षमणीया कृपया। वस्तुतोऽहं मत्कारणात् कस्याप्याघातं नेच्छामि। किन्तु, अप्रियसत्योक्तिर्म आचरणं कुत्सितम्।’’
अभ्यन्तरे फलपात्रं सम्प्रेष्याहं प्रत्यावर्त्तिता। अचिन्तयम्—अयं मेऽपमानस्यायमारम्भोऽस्ति। क्नोध उत्पन्नोऽर्जुनाय, मात्रे, सर्वतोऽधिकस्तु युधिष्ठिराय।
बुभुक्षा तत्रैव मृता। क्षोभयन्त्रणयोरस्रं नयनाभ्यन्तरे स्वस्थितिं नेच्छति। किन्तु प्रतिपदमश्रुमोचनं मे नीतेर्विरुद्धम्। अश्रु दौर्बल्यस्य प्रतीकम्। परन्तु कादाचित्कतयाऽश्रु मनुष्यस्यासहातायां मित्रं भवति। हृदयदु:खं न्यूनतरीकुरुते। नूतनशक्तिसञ्चयाय मनसो ग्लानिं क्षोभं च क्षालयति।
अश्रुमोचनं मया निन्दनीयमिति अश्रु न सर्वदा मनुष्येच्छाधीनम्। अद्य मे तथैवावस्था। तथापि मात्रे प्रत्यागमनसमाचारो ज्ञापनीय: किल। मातु: शयनकक्षाद् बहि: स्थित्वाऽहं ज्ञापितवती—''जननि! कर्णेन केवलं फलाहार: स्वीकृत:। तदवशिष्टा खाद्यसामग्री मया प्रत्यानीतेति।’’
''कथम्?’’—माता सव्यथं पप्रच्छ। मया प्रतिवचनीकृतम्—''विलम्बिता रात्रि:। अन्यच्च, मध्याह्नस्य गुरुभोजनात् परं कर्णो रात्रिभोजनाय न स्पृहयति। भवत्या प्रेषितं भोजनमिति केवलं फलाहार एवाहृत:।’’
—''अस्तु, श्वस्तस्य प्रातराशाय तत्प्रियभोजनानि त्वया स्वयं प्रस्तोतव्यानि। गच्छ सम्प्रति विश्रामाय। प्रात: शीघ्रं शय्या त्यक्तव्या किल’’—कर्णाय मातेयती व्यस्ता जाता यन्मम भोजनविषयेऽपि किमपि नापृच्छत्। मम चक्षुषोर्गोपनीयाश्रूणामाभासोऽपि न ज्ञातस्तया।
अहं शयनगृहं प्रत्यावर्त्तमाना स्थिरीकृतवती यत् श्वोऽसुस्थताव्याजेनाऽधिककालाय प्रात: शय्यां न त्यक्ष्यामीति। तथाऽसति कर्ण: प्रातराशमपि न स्वीकरिष्यति। अभुक्तेऽतिथौ धर्मो नशिष्यति। ममानुपस्थितौ माता पक्ष्यति, कर्णश्च प्रातर्भोजनं कृत्वा स्वदेशं प्रतियास्यति।
मम शयनगृहद्वारि प्रवेशात् पूर्वमपश्यम्—अर्जुन आयाति। क्षणायैच्छम् तस्य प्रशस्तोदारवक्षसि ममासहायवेदनाभारमश्रुस्रोतसा सम्मेल्य त्यक्ष्यामीति। प्रक्ष्यामि च—धनञ्जय! कस्मादयं दण्डो मह्यमर्पित:? युगे युगे कृष्णाया अयं कलङ्क: पृथिवीतिहासे लिपिबद्धो भविष्यति। अत्र कृष्णा किमूत्तरदायिनी? किमु कृष्णाया इदमभीष्टमासीत्? यदि न, तर्हि कृष्णैकाकिनी कथं व्यथाभारं वक्ष्यति?
दु:खहर्तृबन्धुदर्शनेन दु:खनदीबन्ध: सद्यस्त्रुट्यति। अर्जुनं विलोक्य ममापि तथाऽभूत्। शयनकक्षद्वारि प्रस्तरप्रतिमेवाहं स्थिता। नयनयोरस्रं पतनं प्रतीक्षत इव। अधोमुख: स मामतिक्रम्य गन्तुमिच्छति, तदानीं मया स्वबाहू प्रसार्य तन्मार्गो रुद्ध:। स मामविलोक्य पप्रच्छ—''किमाकाङ्क्ष्यते?’’
ममाश्रुधाराया: प्रतीक्षा निमेषेणैवास्तं गता। कथमपि क्षोभमवरोध्याहं प्रकाशितवती—''मध्यमपाण्डव! अहमस्वास्थ्यमनुभवामि। हृदि च क्लेशम्।’’ एतावता स चिन्तितो भविष्यतीति मेऽनुमानमासीत्। परन्तु स शीतलकण्ठेनावोचत्—''आदिवसपरिश्रमेणेयान् क्लेश: स्वाभाविक:। अहमग्रजं सूचयामि। त्वं विश्रामं कुरु।’’ अनन्तरं स मां तीर्यगवेक्ष्य पुन: सम्मेलनगृहाभिमुखं परावर्त्तित:। मन्ये, प्रायेण स कर्णस्य परिहासं पुन: स्मारयन्निव सन्दिदेशेदं यत्—''कृष्णे! अहं किमप्युपकर्त्तुमक्षम:। रजन्या विलम्बितप्रहरे तवाधमपतिर्धनञ्जय: किमपि त्वदर्थं विधातुं न शक्नोति। यतोहि त्वं सम्प्रति युधिष्ठिरपत्नीभूमिकायामसि। अहं त्वधुना दीनो दर्शक: कश्चित्।’’
अहं शयनकक्षे प्राविशम्। पत्यु: शय्याग्रहणात् परं पत्नीविश्राम उचित:। युधिष्ठिरस्य प्रतीक्षयोपाविशम्। किन्तु, युधिष्ठिरो मे व्यथां नावगमिष्यति। स निर्लिप्तो निर्विकार:। सांसारिकमानापमानरागद्वेषादयस्तं न स्पृशन्ति। स देवविशेष:, यस्य पाषाणत्वमित्यर्थान्तरम्।
शरीरं विश्रामं कामयते। मन आश्वासनमिच्छति। परन्तु पञ्चपतिनायिकया मया सम्प्रति किमपि न लभ्यते।
बहिरर्जुनस्य चरणयुगलं दृश्यते। शङ्खधवलप्रस्तरकुट्टिमे नीलकमलदलमिव कमनीयं भाति। द्वारदेहल्या अपरपार्श्वे तद्द्वयमागत्य स्थिरीभूतम्। युधिष्ठिरपत्न्या: कृष्णाया: शयनकक्षेऽर्जुनस्य प्रवेशो निषिद्ध: किल।
अर्जुनो बहि: स्थित्वा सन्दिदेश—''अग्रजो युधिष्ठिर: सम्प्रति दुर्योधनेन सह द्यूतक्रीडायां मग्नः:। अद्य रात्रौ स प्रतिवारं विजयं लभते। सम्पूर्णा रात्रिर्व्ययिष्यते। यतोहि विजयसुयोगो जीवने क्वचिदायाति। यदाऽऽयाति, तदा तस्य हस्ताद् दूरीकरणं न बुद्धिमत: कार्यम्। अग्रजमप्रतीक्ष्य त्वं तावद् विश्रमेति तदनुमति:।’’
अर्जुनोऽभ्यन्तरे प्रवेष्टुं नैव शक्नोतीति सत्यम्, परन्तु, अहं बहिर्निस्सर्तुं शक्ष्यामि। द्वारपटमनावृत्याहं तत्सम्मुखे स्थिता। स्थिरकण्ठेनावदम्—''तृतीयपाण्डव! युधिष्ठिरो मेऽस्वास्थ्यं विज्ञायापि द्यूतक्रीडाजिगीषामदेन समस्तां रात्रिं यापयिष्यतीति कोपलेशोऽपि मनसि मे नैव जागर्त्ति। परन्तु, द्यूतक्रीडामदादहं न जाने, भृशं बिभेमि। मनुष्यस्य कोऽपि नाम मदो विपज्जनक एव। दानमदादसुरराजो बलि: पातालं जगाम। द्यूतक्रीडायां युधिष्ठिरात् पराजयापमानं दुर्योधनश्चिराय न विस्मरिष्यति। को वा जानीयात् यत् स प्रतिहिंसासुयोगं मनसा कथङ्कारमन्विषतीति।’’
अर्जुन: किमप्यविचिन्त्याऽऽह—''द्यूतक्रीडाऽऽनन्दाय, मनोरञ्जनाय च। क्रीडायां लब्धजयपराजयाभ्यां सह जीवनस्य नाम क: सम्बन्ध:? नार्योऽत्यन्तं सन्दिग्धदृष्टय:। सर्वं तीर्यग् दृष्ट्या ता वीक्षन्ते। ततस्ता अधिकं दु:खमपि लभन्ते।’’
अहं पाण्डवसहोदरान् सम्यक् जानामि। एते केनापि कारणेन परस्परं दूषयन्तु नाम, परन्तु पत्नीमुखे भ्रातृविरोधं न सहन्ते। अहं स्वत्रुटिमवगतवती। अत: स्वयं नियन्त्रितवती। शान्तकण्ठेन मयोक्तम्—''धनञ्जय! त्वदग्रजस्यागमनात् पूर्वमहं शय्यां न ग्रहिष्यामि। अत्यधिकश्रमक्लान्त्या निद्राऽपि नायास्यति। अस्तु, किञ्चित् परस्परं जल्पाव:सख्युस्ते दर्शनमवलम्ब्य। तव सखाऽन्यस्य वार्तायां किमर्थं स्वयं प्रवेशयतीति विषये मे सन्देहं दूरीकर्तुमिच्छामि।’’
स मां तीक्ष्णदृष्ट्या निरैक्षत। नयनयुगलं तस्य रक्तवर्णं दृश्यते। प्रायेण रजन्या आधिक्यात्, सुरापानाधिक्याद्वेति किमपि निरूपयितुं न शक्नोमि। स सगाम्भीर्यमाह—''कृष्णे! द्विवर्षात्मकं व्रतं मया पालनीयमिति त्वया विहितम्। पुनर्मे व्रतभङ्गायैवं प्रयासस्ते कथम्? किं त्वमिच्छसि यदहं द्वादशवर्षाणि वनवासं कुर्याम्?’’
अहमेतेन लब्धाघाताऽवाक् सञ्जाता। अहं किमिच्छानि तत् स कथं जानीयात्? स तु न नारी। अत: स कथमिदं ज्ञातुं प्रभवेद्यत् प्रतिमुहूर्तमहं तत्सन्निधौ लब्धुमात्मानमिच्छामीति।
ममाभिमानस्य नीरवभाषा प्रायेणार्जुनेनावागम्यत। कोमलकण्ठेन मामसान्त्वयत्—''नियमपालनकारणाद् वर्षद्वयं यावदहं न त्वां कामय इति निर्विकार: संन्यासी क्लीवो वाऽहमिति न ममाशय:। अद्यतननिर्जनरजन्यां त्वया सह निभृतालापस्य व्रतभङ्ग एवान्तिम:पर्याय इति मदधिकतरं को वा जानातु? अत: पाञ्चालि! क्षमस्व माम्। विषयमिमं व्याख्याष्याव: श्वो मध्याह्नावसरे सख्युरुपस्थितावेव। तस्मिन् संनिहिते व्रतभङ्गस्याशङ्कैव न भवति।
वीरो धनञ्जयो निर्विकारपुरुष इव मम निरीहानुरोधमनङ्गीकृत्य निस्ससार। सकृदपि न मत्प्रतिक्रियां विज्ञातुं पश्चादवलोकयामास।
अहं चिन्तितवती—अहं भूयस्यसुस्थेति मायया युधिष्ठिराय सन्देशं प्रेषयिष्यामीति। परन्तु, किमेतदुचितं स्यात्? कौरवा: कदाचिदन्यथा न चिन्तयेयु:। किन्तु, समायाते युधिष्ठिरे किं मेऽपमानज्वाला निर्वापिता भवेत्? अपि तु तं दृष्टवा क्रोधो मे वर्धिष्यते। अद्यतनी महोत्सवयामिनी कण्टकिता मा भूत्। स द्यूतक्रीडायां जयति, विजयात्मप्रसादं तं कस्यचन पराजयदु:खं क्वचिदपि स्प्रष्टुं नैव शक्ष्यति।
अहमनुकालमस्वास्थ्यमनुभवाम्यधिकतरम्। युधिष्ठिरान्निर्देश आयात: क्रीडागृहे समागत्य द्यूतक्रीडायां तस्य प्रथमविजयलाभानन्दमास्वादयितुम्।
अहं निरुपाया। अस्मिन् क्षेत्रे पतिनिर्देशोऽवश्यं पालनीय:। अन्यथा कौरवाणां पुरस्ताद् युधिष्ठिरोऽपमानित: स्यात्। अहं बहुकष्टेनात्मानं प्रस्तुतवती। मायया सह क्रीडागृहद्वारदेश उपस्थिता। युधिष्ठिरो ममास्वास्थ्यं, वेदनां, विषण्णतां च नानुभूय, न च मां विलोक्य सोच्छलदानन्दमुवाच—''याज्ञसेनि! अर्धाङ्गिन्यनुपस्थित्या विजय: सम्पूर्णतां नाश्रुते। आयाहि, आसनं गृहाण। जीवने द्यूतक्रीडायामिदम्प्रथमतयाऽहं विजयमधिकरोमि। परन्तु, त्वां विना विजयानन्द: किमूपभुज्येत?’’
उच्छ्वसितो भीमसेनो जगाद—''द्रौपदीविजयात्परं पाण्डव: सर्वासु स्पर्धासु जेष्यन्तीत्यद्य द्यूतक्रीडायां विजयलाभादिदं सुस्पष्टम्। अतोऽयं विजयो द्रौपद्या एव।’’
दुर्योधनो द्यूतक्रीडायां पराजित ईर्ष्यया जज्वाल। भीमसेन: पुनरस्यां सङ्कटपरिस्थितौ तस्य जीवनस्य चरमपराजयमस्मारयत्। दुर्योधनो ज्वलन्त्या दृष्ट्या सकृन्मामैक्षत। तस्यां दृष्टौ केवलं प्रज्वलन्ती बह्निशिखा। स बह्नि: कामनाया:, प्रतिशोधस्य, बीभत्सनृशंसलालसायाश्च।
असहिष्णुताऽपि दु:शासनं भूयसी दाहयति स्म। साट्टहासं स जगर्ज—''पञ्चपतिनायिकाया देव्या द्रौपद्या: सतीत्वपराकाष्ठया विजयाप्लावनमेतान् पाण्डवान् प्रवाह्य समुद्रगर्भे न निक्षेप्स्यतीति को वा जानाति?’’
अहं क्रमशोऽसुस्थतरा। पराजितशत्रो: पुरस्तात् स्वजयगीतिगानं न बुद्धिमत: कार्यम्। एतेन शत्रुता वर्धते, न तु न्यूनीभवति। मामेव विलोक्य कौरवा अतृप्तवासना—पराजययोर्ज्वालया तु ज्वलन्ति, पुनरस्माकं वैभवविजयौ तानसहिष्णून् विदधतस्तराम्। ममोपस्थितिस्तु तत्र सर्वतो मुख्यं कारणं ज्वलनस्य तेषाम्!
अचिन्तयम्—ममोपस्थितिर्नात्रोचिता चिराय। मम प्रत्यावर्तनमेव श्रेय:। कृष्णो मे मनोभावं परिशील्येदं वेद। स च शशंस—''युधिष्ठिर! कृष्णाऽद्याधिकश्रमक्लान्ता। विश्रामस्तस्या अनुज्ञायतां किल।’’
युधिष्ठिरो द्यूतक्रीडातिमग्नो मुखमनुन्नमय्य सकोमलस्वरमादिदेश—''अस्तु, याज्ञसेनी निस्सरत्विति।’’ यन्त्रचालितेवाहं प्रत्यावर्त्तिता। नयनजलबिन्दूनामबाध्यतासहनं विनोपायान्तरं मे नासीत्। एते बिन्दवो नापमानात्, न शरीरयन्त्रणया, अपितु असहायताया निस्सङ्गतायाश्च। पञ्चपतीनां प्रेमास्पदत्वाद् या नारी प्रतिपदमद्योपहसिता, सा कियती निस्सङ्गा, एकाकिनी चेत्येतत्तां स्वयं विना कोऽपरो ज्ञातुं प्रभवेत्?
शयनमसम्भवम्। श्वासरोधकारिणी यन्त्रणा कक्षे मां दशतीव। मायया सह कक्षच्छत्रोपरि गताहम्। उन्मुक्तो वायु:, रजन्या: स्निग्धश्चन्द्रालोक:, तारकाचर्च्चितस्याकाशस्योदारता च मे कष्टं कच्चिन्निवारयितुं शक्नुयु:। भवनच्छत्रस्यान्यतमपार्श्वे स्वपृष्ठभारं प्रदायानन्ताकाशात् सान्त्वनां कामये, अवसरेऽस्मिन् दृष्टवत्यहं यदतिथिभवनच्छत्रोपरि सुदीर्घा बलिष्ठा सुघटिता च काचिच्छायामूर्त्तिरिति। छायामूर्त्तिरस्थिरा विचलिता च स्वपदे चालयति शनै: शनै:। मध्ये मध्ये गगनं निरीक्ष्य स्थिरीभवति। तां विलोक्य मूर्त्ति निश्चल एक: प्रश्न: ''कोऽयमि’’ति मनसि मे जागर्त्ति। किमयं विशिष्टातिथि: कर्ण:? स विचलितोऽस्थिर: कथम्? स किं कामपि यन्त्रणामनुभवति? का च सा?
शालागृहस्यानन्दकलरव: श्रूयते। युधिष्ठिर: पुन: पुनर्विजयं लभते। छायामूर्त्ति: शून्याकाशाज्जीवनप्रश्नस्योत्तरं याचते। मातु: कुन्त्या: प्रासादच्छत्रेऽपरैका सकरुणा छायामूर्त्तिरतिथिभवनस्य छत्रं पश्यति। घनदीर्घश्वासै: प्रकम्पते तस्या अस्पष्टा सीमारेखा। का पुन: सा? माता कुन्ती! ज्येष्ठस्तनयो विजयं लभते। अथ च कया गोपनीययन्त्रणया मातु: कुन्त्या नयनयोर्निद्रा निश्शेषेण हृता?
अहं स्वदु:खं यन्त्रणां च विस्मृत्य मातुर्यन्त्रणाया गुप्तव्यथाया भावनायां निमग्ना। वीरप्रसविन्या: पञ्चपुत्रजनन्या: कुन्त्या गुप्तव्यथा मम व्यथाया गुरुतरेति मे मनो मां सूचयति स्म।
अचिन्तयम्—कुलवधूरूपेण मातुर्दु:खापसारणं मम प्रथमं कर्त्तव्यम्। परन्तु, तस्या: दु:खकारणं कुतो ज्ञास्यामि? तां विना तद्दु:खहेतुं कोऽन्यो बत प्रकाशयेत्? अवसरे समुचिते तद् विज्ञाय तस्या दु:खं किञ्चिन्नताञ्जलिना याचित्वा स्वीकरिष्यामि, तदश्रुभारं स्वाश्रुणा न्यूनीकरिष्यामि इति स्थिरीकृतं मया।