(१६)
अस्वस्थे शरीरे मन: कदाचित् स्वस्थं तिष्ठति, परन्तु मनोऽस्वस्थं चेच्छरीरं निरामयं कदाचिदपि न भवति। अहमनेकदिनानि रुग्णा शय्याशायिन्यभवम्। मम चिकित्साभारं राजवैद्ये संन्यस्य युधिष्ठिरो निश्चिन्त:। राजवैद्ये तस्य गभीरो विश्वास:। ममापि स्वविचारे विश्वासो महान्। मनसि सन्देह उत्पन्नो यत् पञ्चपतिसंसाराऽहमाजीवनं कौरवैरपमानिता सती निश्चिन्तं जीवनं यापयितुं शक्ष्यामि न वेति।
पञ्चपतिभिरहोरात्रमहं ज्वलामि। अतोऽनुभवामि सम्प्रति यन्नैक: सर्वान् सन्तोषयितुं क्षम:। युग्मजीवनशृङ्खलारक्षार्थं यो मया नियम: प्रणीतस्तेनाहं प्रसन्ना, परन्तु न मोदन्तेऽपरे। भीमसेनो विना कारणं मां चिराय स्वान्तिके रुणद्धि। प्रतिदिनं रात्रिभोजनात् परं युधिष्ठिरशयनकक्षप्रवेशात् पूर्वं यदाऽहं सर्वेभ्य: शुभरात्रिं ज्ञापयितुं गच्छामि तदा सहदेव: सरल: शिशुरिव निश्चिन्तनिद्रया सुप्तपूर्वो मया दृश्यते। नकुल: प्रमोदगृहे नृत्यगीतादिषु निमज्जित:। साम्प्रतं स नर्तक्या: सुललनाया नृत्यदर्शनेऽधिकतरं समयं यापयति। अर्जुनस्तु पाठागारे शास्त्रपठने निमग्नः। शास्त्रपठनेऽस्त्रविद्याऽभ्यासे च स्वस्य पुरस्तात् केनापि कारणेन कस्याप्याकस्मिकोपस्थितिमपि स न सहते। अत: न कोऽपि तथा साहसं कुरुते, न च तस्य व्याघातमुत्पादयति। प्रायेणैतत् सर्वं स विज्ञायैव कुरुत इति मे मति:। प्रायेण च शुभरात्रिज्ञापनाय मह्यं सुयोगमप्रदाय स्वाक्नोशं प्रदर्शयतीति।
किन्तु, भीमसेनो ममागमनं प्रतीक्षते। कक्षद्वारि मम पदध्वनिं निशम्यादेशशैल्या वदति—''पाञ्चालि! अभ्यन्तर आयाहि। अहमतीवास्वस्थ:। शय्यात उत्थातुं न शक्नोमि।’’
अहमभ्यन्तरेऽगत्वा बहिरेवोत्तरामि—''रात्रावेतावति विलम्बे भवानस्वस्थ: सम्पद्यते कुत:?’’
—त्वत्कारणात्।
—मत्कारणात्?
—अवश्यम्। त्वमेतावन्ति सुखाद्यानि परिवेषयसि यत् प्रत्यहं रात्रौ मे शरीरमस्वास्थ्यग्रस्तं भवति। त्वमेव तु जानासि यदहं भोजनलिप्सुरिति! सम्प्रति तु—’’ एवं भीमसेनो व्यस्तो भवति। यन्त्रणासूचकान् शब्दान् कुरुते। पानीयं जलं पाचनं च कामयते। अगत्याऽहमन्तर्गच्छामि। तत्कष्टं दूरयितुमपि प्रयते। स ब्रूते—''द्रौपदि! त्वमेकवर्षं यावन्न मे पत्नीति सत्यम्, परन्तु तव जननीभगिनीत्वेन च न काऽपि बाधा। सम्प्रत्यहं रुग्ण:। अत: सम्प्रति जननीरूपेण भगिनीरूपेण वा मां शुश्रूषस्व। अनेन ते नियमभङ्गो नैव स्यात्। त्वं तावन्निर्गन्तुं नार्हसि यावन्नाहं सुप्त:।’’
भीमसेन: स्वपदसेवार्थं मां सूचयति। तेन तस्य यन्त्रणोपशाम्येत। शीघ्रं च स निद्रातुं शक्नुयात्। तदेव मनसि निधाय तमहं शुश्रूषे। मध्ये मध्ये प्रभातात् पूर्वमपि भीमस्य यन्त्रणा न न्यूनीभवति। सोऽपि सुनिद्रो न भवति। सम्पूर्णा रात्रिस्तत्सेवया मे विनिद्रतया व्यतीयते। चिन्तयामि—युधिष्ठरो मां प्रतीक्ष्य रुष्टस्तु नैव स्यात्? तथापि भीमविषये किमपि तत्पुरस्ताद् वक्तुं न शक्नोमि। निश्शब्दाऽहं तस्य पदसेवां करोमि। भीमस्तु कामनाग्रिना ज्वलन् मां ज्वालयितुमिव हिडिम्बया सह तस्य प्रेमप्रणयमिलनगाथामामूलाद् वर्णयति। चिरादनुकम्पां प्रदर्शयन्निव सहानुभूतिसम्मितकण्ठेन वदति—''याहि पाञ्चालि! अग्रजो युधिष्ठिरो नूनं प्रतीक्षते। तव क्लेशो न ममाभीष्ट:। अत: श्वोऽहं हिडिम्बानिकटेे गच्छामि। मम मनसो वेदनां काऽन्याऽधिकां जानातु? तस्या: स्पर्शमात्रेण निद्रा स्वत आयाति। तव स्पर्शेण तु निद्रा दूरीभवति, अनुकालं शरीरस्य यन्त्रणापि वर्धते। हिडिम्बा राक्षस्यपि स्त्रीरूपेण त्वत्त: श्रेष्ठा।’’
भीमसेनो मामन्तस्तापयितुमिच्छतीति विज्ञायापि किञ्चिदपि नाहं प्रतिवदामि। सम्प्रति भीमस्य श्लिष्टोक्तिं श्रावं श्रावमहमभ्यस्ता जाता। युधिष्ठिरस्य शयनकक्षे निश्शब्दं प्रत्यागच्छामि। अहं चिन्तयामि—युधिष्ठिर: पतित्वस्वाभाव्येन रुष्ट: स्यात्, उत्क्षिप्तश्च भवेत्। तदधिकारस्थ: कोऽपि कुर्यात्। परन्तु मदागमनाय युधिष्ठिरस्यास्थिरापेक्षाया लक्षणं किमपि न दृश्यते। जितेन्द्रियस्तापस इव निर्लिप्ततया मम स्वागतं ब्रूते, निर्विकारं पृच्छति च—''भीमो निद्रागतो वा न वा? श्रुतं मया यत्स प्रतिदिनं रात्रिभोजनात् परमसुस्थ: सम्पद्यते। तस्य खाद्यपेयादिषु विशिष्टो यत्नो विधेय:। नियन्त्रय च तम्। तस्य बाहुबलं पाण्डवानां वैभवमेव। तस्य क्रमशोऽसुस्थतायां सर्वतोऽधिकं विपन्नतां यास्याम्यहं केवल:। अग्रजरूपेण सर्वेषां भारो मय्येव स्वतो न्यस्त:।’’
अहं गभीरान्तर्दृष्ट्या युधिष्ठिरं ध्यानमुद्रयाऽपश्यम्। युधिष्ठिरो निशायां मत्प्रतीक्षया खिन्न इति स स्वयं न स्वीकुरुते। तथा कृते सति पत्न्या: पुरस्ताद्धीनता स्वस्यापद्येत! तत: स पारोक्ष्येणेदं ज्ञापयितुमीहते यद् भीमस्यास्वास्थ्यं न कदापि तत्सुखायेति। अत: स: सन्ततमसन्तुष्ट:। युधिष्ठिर: प्रत्येकं प्रसङ्गे स्वोदारतामेवं प्रदर्शयन् प्रसङ्गं स्वान्तरङ्गं मदन्तिके प्रकाशयितुं न क्षमते। कदाचित्तस्य व्यक्तेर्म आस्था नश्येतेति भयात्। क्षुधायामपि तस्य स स्वव्यक्तिकारणाद् भोजनयाचनायापि कुण्ठते। एवं यशस्कामं पतिं प्रति मे मनोऽनुकम्पया द्रवीभवति। अहं नम्रमधुरस्वरेण वच्मि—''भीमसेनस्यासुस्थतया भवन्तं प्रति मे कर्तव्ये बहुशस्त्रुटि: सम्भवति। तस्मादहं भृशं दु:खिता। परन्तु, भीमसेनो यदि प्रत्यहमेकस्मिन् निर्दिष्टे समयेऽसुस्थतां भजते, तर्हि किमहं कुर्याम्?’’
युधिष्ठिरस्तत्कालं ब्रूते—''तेन न किमपि ममासौविध्यं जायते। परन्तु प्रतिदिनं त्वं रुग्णशुश्रूषयाऽसुस्था स्वयं विनिद्रतया भविष्यसि। शृणु, भीमस्य बालकस्वभावमेनं प्रति सावधाना मा भव। स स्वत: सुस्थो भविष्यति। तथाभूतस्य महतो वीरस्य प्रतिदिनं प्रचुरं भुक्त्वाऽसुस्थता सर्वथाऽनुचिता।’’
अहं मनसा हसामि। युधिष्ठिरो भीमस्य स्वेच्छयाऽसुस्थतां न समीचीनां मन्यत इत्यवगच्छामि। भीमश्च विना कारणं निशास्वनेकासु स्वान्तिके रुणद्धीति युधिष्ठिरोऽसन्तुष्ट इत्यपि मेऽज्ञातं न भवति। परन्तु, कर्तव्यावहेलनमहं कुत: कुर्याम्? एकं रुग्णं पतिं यन्त्रणाग्रस्तं त्यक्त्वाऽन्येन सह रात्रिं सप्रमोदं यापयिष्यामि केन प्रकारेण?
अस्मात् सङ्कटादुद्धारायाहं तदानीं विचारयामि कतिपयदिनानां कृते भीमस्य हिडिम्बान्तिके गमनं कथमपि मया सोढव्यम्। अन्यथाऽस्य द्वन्द्वस्य समाधानान्तरं न दृश्यते।
भीमस्यौद्धत्यं तु कथमपि सोढुं शक्यते, परन्तु धनञ्जयस्य शीतलोदासीनता न सह्यवेदना। प्रतिमुहूर्त्तं शरीरस्य सर्वास्तन्त्र्यस्त्रुट्यन्तीव। विश्वस्तहृदयेन कामये—अर्जुनो मां भीमवत् पीडयति न कथम्? मन्ये, स दुरभिमानस्रोतसा मत्तो बहुदूरे प्रवहतीति।
तस्माद् दिनादहं भृशमसुस्था जाता।
अस्त्रविद्याभ्यासाय साम्प्रतमर्जुनो वने बहुदूरं प्रविशति। प्रत्यावर्त्तते सन्ध्याकालात् परम्। ततो भगवदुपासनायामुपविशति। रात्रिभोजनं तु तस्य स्वल्पम्। तत: परं पाठागारे शास्त्राणि पठति अथवा सख्या कृष्णेन सह वेदान्तचर्च्चायां निमज्जति।
मध्ये मध्ये वनात् प्रत्यावर्तने स इयन्तं विलम्बं कुरुते येनाहमुद्विग्ना भवामि। सखा कृष्णो मे मनोभावं विज्ञाय मामाश्वासयति—''सखि! मम प्रियसख्युरपमानं कुरुषे?’’ अहं दृष्टौ प्रश्नचित्रमुद्भाव्य सखायं पश्यामि केवलम्। सखा हसन् ब्रूते—''मम सखा धनञ्जयो दुर्गमारण्येऽलौकिकवीरत्वप्रदर्शनं कर्त्तुं शक्नोति, स्वास्त्रकौश्लेन व्याघ्रभल्लूकसर्पादीन् हिंस्रजीवान् शक्तिहीनान् सम्पादयितुं क्षम इति विषये तव घोर: सन्देह उत्पद्यते, अन्यथा तवोद्वेग एव न भवेत्। एतेन प्रतीयते यत्तव तस्य बाहुबलास्त्रकौशलादिषु आस्थैव नास्ति। एतेन किं तस्यापमानो न भवति? तस्य धर्मपत्नीरूपेण तव तद्विषयकं विचारमनुदारं विज्ञाय स स्वात्मानं धिक्करिष्यति। अतस्त्वं तद्विषये मा चिन्तयितुमर्हसि।’’
गोविन्दस्य वाण्याऽऽश्वस्ताऽऽत्मानमेकदा प्रबोधयितुमिच्छामि किन्तु तदानीमर्जुनोऽरण्यात् प्रत्यावर्त्तित: शोणिताक्तशरीर आहत:। कस्मात् कारणात् किं जातमिति न कोऽपि जानाति। तथापि तेन सह वनं गता: परिचारका इदं विदुर्यत्तस्मिन् दिने सोऽत्यन्तमन्यमनस्कतया पाञ्चालराज्यादुपहाररूपेण लब्धस्यान्यतमस्याश्वस्य पृष्ठ आरोहन् घोरेऽरण्ये क्षणेन तिरोहितोऽभूत्। बहुकालात् परं सोऽश्व: प्रत्यावर्त्तित एकल:। परिचारका: कामपि विपदमाशङ्क्य तस्मिन् गहनारण्येऽन्विषन्त आहतं हृतचेतनमर्जुनं कस्यचन पर्वतस्य पाददेशादाहृत्य सहसा राजधान्यामानिन्यु:। रोमाञ्चकरघटनााया नायको भवितुमर्जुनस्याजन्मलालसा। प्रायेणालस्यमवसादं च दूरीकर्त्तुं वीरो धनञ्जयो दुर्धर्षमबाध्यमश्वमारुह्यारण्योपत्यकासु, तन्नीलसौन्दर्यमुपभुञ्जन् बभूवोऽन्यमनस्क:। अस्मिन्नवसरे स दुष्टोऽश्वस्तं पातयामास तदधिकाराद् बहिर्गत:। तत्पृष्ठाद् भूमौ पतितोऽर्जुनो हृतचेतनश्चेति।
कथं किमर्थं किमभूदिति विषये विचारणया को लाभ:? सर्वेऽर्जुनस्योपशमाय तत्परा बभूवु:। राजवैद्यस्तं सम्यक् परीक्ष्याभयवाणीं चकार—''अजस्रशोणितक्षयेऽपि नास्य जीवनं सङ्कटापन्नम्। अतिशीघ्रं चेतनामागमिष्यति। परन्तु पक्षाधिककालाय पूर्णो विश्राम आवश्यक:। अस्मिन्नवधौ चिकित्सापेक्षया शश्रूषाऽत्यन्तमावश्यकी।’’
सखा कृष्णो हसन्नुवाच—''सम्प्रत्यहं ज्ञातवान् यदिन्द्रप्रस्थस्याश्वशालायां सत्स्वनेकेष्वेषु मम सखा किमर्थं तं दुष्टमश्वमारुह्य सङ्कटमापन्न इति। अन्यथा तन्वङ्ग्या: श्यामाया: प्रियतमाया: कृष्णाया: साहचर्यं कथं लभ्येत? सदाचार: सुशील: वाचंयमश्चार्जुनो भीमसेन इव बलात् सेवासौहार्दसाहचर्याण्यादातुं तु न शक्नुयात्।’’
सख्युस्तु प्रत्येकं प्रसङ्गेषु रसिकता, परन्तु मम दु:खस्य ग्लानेश्च सीमा नास्ति। अहं वस्तुतश्चिन्तयामि—''अर्जुनेनेदमपरिणामदर्शित्वमाचरितं कथम्? किं मे साहचर्यलाभाय अथवा मां दण्डयितुम्?’’
अर्जुनस्य चरणयोरहमुपविशामि। मस्तकनिकटे तु मातोपविष्टा। अर्जुनस्य चेतना प्रत्यागता। नयन उद्घाट्य स मामपश्यत्। नयने च सहसाऽनायासं बभूवतुरश्रुपूर्णे। मातोपविष्टेति अश्रुधारां न प्रावाहयम्। अर्जुनेन सकृन्मामवलोक्य नेत्रे पुनर्निमीलिते। स परस्तान्मातरमवेक्ष्य सस्मितमाह—''क्षोदीयसाऽपि समाचारेणानेन भवन्त: सर्वे चिन्तिता एवं कथम्? मम तु शोणितक्षयो नाचिन्तनीयविषय:!’’
माता कुन्ती न किमपि प्रत्युवाच। केवलं स्वपुत्रस्य केशान् स्वाङ्गुलिभिॢवन्यासिष्ट। तस्या नयनयुगलं जलकणान्वितं नीलाकाशमिवार्द्रम्। अर्जुनाय पथ्यं प्रस्तोतुं सा निर्गता मां तस्य पदसेवार्थं निर्दिदेश। वस्तुतस्तदेव मे काम्यमासीत्। अहं स्वहस्तयो: कोमलस्पर्शेण तस्य नीलकमलचरणौ मन्दं संवाहयामि। तदानीं सखा कृष्ण: सपरिहासमब्रवीत्—''सखे! ममोपस्थित्या तव विश्रामे कोऽपि व्याघातस्तु न भवति?’’
अर्जुनश्चक्षुषी किञ्चिदुन्मील्य सस्मितमाह—''सखे! त्वं यत्र नासि, तत्र प्रशान्तिर्न भवति। अतस्तवानुपस्थित्या विश्राम आनन्द: कुत:?’’
सखा मृदु विहस्य प्रत्याह—''अहमत्र न भविष्यामीति सत्यम्, परन्तु कृष्णा त्वस्ति। कृष्णाया: सेवासाहचर्यादिलब्ध्या पृथिव्या: श्रेष्ठो भोगवानपि पुरुषो रुग्णो भवितुं कामयिष्यते। कदाचित्त्वं तल्लोभेनाश्वपृष्ठात् कूर्दन्निमां दशां तु न प्राप्त:?’’
अहं लज्जया दु:खेन च म्लाना। परन्तु, अर्जुनो गम्भीरो बभूव। कठोरकण्ठेनोवाच—''सखे! पृथिव्यां कस्यापि द्वन्द्वस्य समाधानं शोणितक्षयपर्यन्तं वीरस्य। दानवत्वदमनाय रुधिरपातस्त्वावश्यक:।’’
सखाऽबोधशिशुरिव तं पप्रच्छ—''किमेवं वदसि? को दानव:? द्वन्द्व: पुन: केषां परस्परम्?’’
अर्जुन: स्थिरदृष्ट्या सगाम्भीर्यमुवाद—मनुष्यस्य कामनावासने दुष्टे दानव्यौ। द्वन्द्व: प्रचलति मनोविवेकयो:। यदा कामनादानवी बलीयसी भवति, तदा मस्तकं विचलति, वासना विवेकं च कवलीकुरुते। तदानीं किञ्चिद्रुधिरपातेन दानवी पराजीयते।
सखा कृष्णोऽपृच्छत्—''किमुद्दिश्यैवमुच्यते, सखे!?’’
—''मां स्वयमुद्दिश्य, मनुष्यमुद्दिश्य, मनुष्यस्य कामनां वासनां चोद्दिश्य। किं त्वमेवं चिन्तयसि—अहं ग्रावा, न तु मनुष्य इति?’’—अर्जुन एतावदसम्पूर्णं सावेगमुक्त्वा तूष्णीं बभूव।
सखा तथैव मृदु हसति। मम तूष्णीमुपविष्टाया अपि मनोऽभ्यन्तरे विद्रुह्यति। इच्छामि प्रष्टुम्—''हे तृतीयपाण्डव! कृष्णसख! वीर गाण्डिविन्! सर्वमिदं प्रहसनं केन रचितम्? किमिदं मेऽभीष्टमासीत् कदाचिदपि?’’ परन्तु स: सम्प्रत्यसुस्थ:। नोचितमिदानीं मे तं दूषयितुम्। अत: स्वतोऽहमन्तर्ज्वलामि।
कृष्ण: शान्तस्वरेण बभाषे—''सखे! आर्यावर्त्तस्य त्वमेव श्रेष्ठो वीर:। त्वं ज्ञानवान्, सदाचारो विवेकवाँश्च। अत: परीक्षेयं तव विधात्रा निर्दिष्टा। अस्यां सफलतयोत्तीर्णतायां त्वं समग्रस्यार्यावर्तस्य पालनकर्त्ता भविष्यसि। य: स्वेन्द्रियाणि न जेतुं समर्थ:, स किं मनुष्य:? मनुष्ये कामनावासने तु तिष्ठत:। परन्तु ते तन्नियन्त्रण एव स्याताम्। नारीपुरुषयोर्मिलनेन जगदिदं सृष्टिशीलं, चिरनूतनं, सुन्दरं च। परन्तु देशकालपात्राण्यविचार्य किं तयोर्मिलनमनुष्ठेयम्? मनुष्यस्य जिह्वा सुखाद्यानां दासी। तथापि निष्ठापूर्वकं व्रतोपासनादिपालनेषु सा तानि विलोक्यापि नियन्त्रणान्न बहि: पलायते। ज्ञानवतो विदुषोऽपि जनस्य मनो यदि न विवेकाधीनं, तर्हि तद् ज्ञानं, सा च विद्या पृथिनीध्वंसायेति मन्तव्यम्। अर्जुन! जन्मालाभस्ते पृथिवीकल्याणाय। अतस्त्वं मे सखाऽसि। त्वयि कामनावासनाद्वन्द्वो न शोभते किल।’’
अर्जुनस्योष्ठे साभिमानरोषच्छटा स्पष्टीभूता। स कृष्णं तीर्यगवेक्ष्य जगाद—''सखे! आबाल्यात्ते कीर्त्तिर्मे नखदर्पणे वर्त्तते। द्वारकायामष्टपटमहिषी: विहाय सहस्रमुपपत्न्यस्ते सन्ति। नरकासुरं हत्वा सहस्रनारीभ्य आश्रयं प्रदाय च समाजे प्रतिष्ठा दत्ता त्वया। अथ च मह्यं मनोविवेकसंयमोपदेशान् श्रावयसि? प्रत्येकं वर्षचतुष्टयात् परं ममैकवर्षमात्रात्मको दाम्पत्यसुयोग आयास्यति। तानि चत्वारि वर्षाणि मया कथं यापयिष्यन्ते इति चिन्तयसि कच्चित्?’’
सखा हसन्नुवाद—''कृष्णा ते पटमहिषी। तामतिरिच्य सहस्रमुपपत्नीस्त्वमपि स्वीकर्त्तुमर्हसि। परन्तु, इदं कथमपि न चिन्तनीयं यत्तत्र संयमभावोऽसम्भव: सर्वथेति। सुन्दररमणीभि: परिवारितोऽपि य: कामनावशीभूतो न भवति, स एव केवलं सुस्थप्रशान्तहृदयेनात्मवत्ते सख्युर्विषये किमपि चिन्तयितुं शक्नुयात्। जलस्थं पद्मपत्रं जलमपि न स्पृशति। अहं तथैव। किमिदं त्वं न जानासि? प्रियसख्या: कृष्णाया: पुरत एवं मम चित्रणेन सा मद्विषये किं किं न चिन्तयेत्? तस्या भावनाया अहं बिभेमि, यतोहि सा कवयित्री भावुका च। मम लम्पटतां सत्यरूपेण स्वीकृत्य यदि सा कवितां रचयिष्यति, तत: का मे दुरवस्था न स्यात्? जगज्जनसमवाये शिर उत्थाय चलितुं किं शक्ष्यामि? अर्जुनो हसन्नाह—''कृष्णाया: कवितापुस्तिका तव कविताभिरेव पूर्णा। तामेव पृच्छ। सर्वा मे पठितपूर्वा:। निश्चयेन प्रत्येकं कविता म आनन्ददायिनी। शुश्रूषसि किं ताभ्य: काञ्चित्?’’
अर्जुन एकैकश: कविता: मद्रचिता: गातुमारेभे, अहं च ता निशम्य क्नोधद्वेषादीन् सर्वान् क्षणेन विस्मृतवती। मम स्वरचितकविता न तेन केवलं कण्ठस्थीकृता: हृदयस्थीकृता अपि। मां प्रति तस्य शश्वत्प्रेमभावं विना मम कवितास्तस्य चिराय स्मृता: स्यु:? द्वयो: सख्यो: कविताचर्च्चायां प्रचलन्त्यां निर्मलपवित्रसन्तोषहृदयाऽहं युधिष्ठिरशयनगृहाभिमुखं निश्शब्दमपक्रान्ता। गच्छन्त्यचिन्तयम्—दम्पत्यो: परस्परं क्नोधस्यार्थो न प्रेमशून्यतेति प्रत्येकं जाययैव ज्ञातव्यम्।
मम चिन्ताऽऽसीद्यत्—मम सान्निध्यसाहचर्यलाभाय धनञ्जयेनासुस्थता स्वेच्छयाऽऽसादितेति। तदानीं तस्यासुस्थतायामपि मम मनोऽन्तराले काचिदानन्दस्य क्षीणा धारा प्रवाहिता। अर्जुनो मां कामयत इति मे सौभाग्यातिशय:। आर्यावर्त्तस्य श्रेष्ठाऽपि नारी एतावन्मात्रेणाजीवनं कुमारीव्रतमङ्गीकर्त्तुं नैव कुण्ठेत।
किन्तु यदाऽर्जुनो मम सेवामैकान्तिकसाहचर्यं च प्रत्याख्यातवान् तदा मयाऽवगतं यन्मह्यं यन्त्रणां प्रदातुं ज्ञात्वैव तेन शारीरक्लेश आसादित:। मां च स उपेक्षत इति ज्ञापनायैतदतिरिक्त: कोऽन्यो महार्घ: सुयोग: स्यात्?
सर्वाणि कार्याणि सम्पाद्याहमर्जुनसेवायै युधिष्ठिरादनुमतिमासाद्य तत्पदतल उपाविशम्। स तन्द्रासक्त:। शनै: शनैरहं तच्चरणौ स्पृष्टवती। तेन स चमत्कृतस्तावपासारयत्। अनासक्तकण्ठेन च पप्रच्छ—''रात्रावस्मिन् विलम्बिते प्रहरे त्वमत्र कुत: कृष्णे!?’’
—''तव शुश्रूषायै रात्रे: प्रहरगणनाऽनुचिता।’’
—''अग्रजो युधिष्ठिर: शयनकक्षे प्रतीक्षेतावश्यम्—।’’
—''तव स्वास्थ्यलाभं यावत्तवैव चरणयो: रात्रिं यापयिष्यामीति तस्मादनुमतिर्मया लब्धपूर्वा।’’
—''अयं तु तेऽन्याय: किल।’’
—''अन्याय: कुत:? सेवासाहचर्यशुश्रूषा: पत्न्या: धर्मा:, गृहिण्या कर्तव्या: ननु!’’
—''परन्तु सर्वत: पतिसन्तोषविधानं जायाया: प्रथमं कर्त्तव्यमेव!’’
—''त्वमपि च मम पति:।’’
—''परन्तु, भाविवर्षद्वयं यावत् त्वां पत्नीरूपेण व्यवहर्तुं निषिद्धं नियमत:!’’
—''किन्तु मां सेविकामवेहि। सेविकात्वं पत्न्या: भूमिकान्तरं नाम!’’
—''अनेन ते दाम्पत्यजीवनस्य नियमभङ्ग: स्यात्। युधिष्ठिरस्य शयनकक्षमतिरिच्यान्यस्य पत्यु: शयनकक्षे सम्प्रति ते रात्रियापनं नितान्तं निषिद्धम्। एतेन न केवलं तेऽपराध:, ममापि। अत: कृष्णे! कृपया युधिष्ठिरान्तिकं याहि। तेन ते मङ्गलं मम च।’’—गुडाकेशस्य कण्ठे आदेश आसीत्। अभिमानोऽपि। श्लेषोऽपि सन्निहित:। उपहासस्य छटाऽपि प्रतीयाय। दु:खाभिमानक्षोभैर्मम कण्ठो रुद्ध:। अहं मनसाऽचिन्तयम्—फाल्गुन: किं न जानाति यदहमभिसारिकावेषं सन्त्यज्य सेविकारूपेण तत्पदयोरुपविष्टेति? तस्य शुश्रूषां विना मम रात्रिर्न गमिष्यतीति किं स नावगन्तुं शक्नोति?
अहं साश्रुनेत्रमवदम्—''पत्नी न केवलं जाया। जननी, भगिनी च सा। सम्प्रति नाहं ते पत्नी अपितु जननी भगिनीति मन्तव्या। अनेन न कमपि प्रति अन्याय: स्यात्, न च विवाहनियमभङ्गो भवेत्। त्वं तावद् विश्रम। अहं ते पदसेवया पूर्णां रात्रिं वाहयिष्यामि। तेन म आनन्द एव।’’
फाल्गुन: सावज्ञमहसत्। सव्यङ्ग्यं चाह—''तव जननीभगिनीत्वभूमिकाऽपि न स्वल्पलोभनीया। भीमोऽद्यारभ्य प्रतिदिनमसुस्थतानाटकं करिष्यति। नकुलसहदेवौ च शुश्रूषां कामयिष्येते। दीनोऽग्रजो युधिष्ठिर: किं वा करोतु? सोऽस्मान् कथं न शप्स्यति? किञ्च, सत्यां मातरि कुन्त्यां तव जननीत्वभूमिका नास्माकं प्रियाय कल्पते। दुश्शीला कौरवकुलोत्पन्नाऽपि परम्परया साऽस्माकं भगिनी। समाचारं प्राप्य सा नचिरादागमिष्यति। तस्या: स्थानाधिकारो नोचितस्ते। अहं सम्प्रति मातरं प्रतीक्षे। सा कार्यं समाप्यावश्यमागमिष्यति। सा मम शय्याधारान्तिक उपविश्यैव रात्रिं यापयिष्यति। येन तस्याश्चरम आनन्द:। तस्यानन्दस्य विभाजनं तवानुचितम्। अतस्त्वं याहि, कृपया गच्छ। तव स्पर्शो मम यन्त्रणां वर्धयति। मम निद्रायां व्याघातमापादयति। त्वमिदं विज्ञातुं न शक्ष्यसि। यतोहि, तव जीवने विरहस्य ऋतुरेव नास्ति, त्वं पञ्चपतिनायिका, अनन्तयौवना, पद्मगन्धा च नारी कृष्णा। अहं साञ्जलि निवेदयामि यत्त्वमपसर। भ्रातृरि मां कृतापराधं मा कुरु। त्वमन्तिक आप्तुं भीम इवासुस्थतामभिनयामीति अग्रजो युधिष्ठिरो न चिन्तयतु—इदमेव त्वत्पुरस्तात् प्रार्थये। भ्रातृणां मधुर: पवित्रश्च सम्बन्धो मा भवतु तिमिरित इति।’’
फाल्गुन: सानुनयं कृताञ्जलिर्जात:। अपमानमिदमसह्यम्। अहं कस्याप्यानन्दं विभाजयितुं नेच्छामि, न च केषुचित् परस्परमन्तरं सृजामि। अहं केवलं कामये शान्तिपूर्णं सुखमयमेकं जीवनम्—पतिपुत्रकन्यापरिपूर्णमेकं संसारम्, यत् प्रत्येकं नार्या: काम्यम्। ततोऽधिकं तिलमात्रमपि न मेऽभीष्टम्। परन्तु, मम जीवनमेवं नाटकीयं भवति कथम्?
दु:खं क्षोभं च कथमप्यवदम्य धनञ्जयस्य शयनकक्षाद—स्थिरमनसा बहिरहं निस्सृता।
परन्तु युधिष्ठिरस्य शयनकक्षद्वारं रुद्धम्। गतप्राया रात्रि:। इन्द्रप्रस्थाकाशे तारका अपि मेघालिङ्गने तन्द्रासक्ता:।
अहं तु स्थितैकला पञ्चपतीनां शयनकक्षाणां रुद्धद्वाराणि संयोजयति सुदीर्घे वरण्डके स्वहृदये रुद्धां वेदनामालिङ्ग्य। आकाशस्य सप्तर्षिमण्डलं प्रश्नीभूय मम दृष्टे: पुरस्तात् शनै: शनैर्गाढतरं सत् प्रतिभाति।
(१७)
ऐश्वर्यधनक्षमतायश:स्वात्मीयजनपरिवारपतिपुत्रकन्यापत्न्यादिसमन्वितस्य मनुष्यस्य कोऽपि दु:खबन्धुर्नितान्तमावश्यक:, य: खलु सुखे स्वसुखं संयोज्य तच्छतगुणितं कुरुते, दु:खं च विभाजयति। गोविन्दस्तथैव हृदयवान् दु:खबन्धु:। बन्धौ मनस उद्घाटनेनाकाशमिवोन्मुच्यते आलोक्यते चोदारतया हृदयम्। किन्तु गोविन्दो मनस एवं ग्राहक:, यस्मै मन उन्मोच्य किमपि प्रकाशयितुमावश्यकता न भवति। तस्य दर्शनमात्रेण प्रभातसूर्यस्य स्पर्शेण कमलदलमिव मन: स्वत उन्मुक्तं भवति। हृदये न किमपि गोपनीयमवशिष्यते। तस्य दृष्टे:, मनुष्यमनसश्च सम्बन्ध: सूर्यालोकविकशितपुष्पयोर्यथा!
अतो मनसि यदाऽसह्या वेदना जायते, तदाऽहं गोविन्ददर्शनं कामये। तं विनाऽव्यक्ता वेदनाऽन्यत्र प्रकाशयितुं न शक्यते। सर्वं सर्वत्र संसारे न प्रकाश्यते। किं बहुना, अनेका: व्यथा आजीवनं पत्यावप्यव्यक्ता अवशिष्यन्ते। अथ च, दृष्टे गोविन्दे सर्वा गोपनीयता:, सर्वा: कुण्ठा:, सर्वाश्च बाधा: केन प्रकारेण क्षणेन दूरीभवन्तीति वस्तुत आश्चर्यम्।
तस्मिन् दिने गोविन्दो मम दर्शनमात्रेणावजगाम यन्मे मनसो निभृतकोणात् कस्माच्चित् वेदनाबिन्दुर्निस्सरतीति। अत: स प्रस्तावितवान्—''सखि, एहि, शतद्रुनदीतीरारण्ये प्रमोदभ्रमणाय गच्छाम:। वनभोजं तत्र करिष्याम:। सखा च किञ्चित् सुस्थ:। तस्य मनोरञ्जनमावश्यकम्। विनोदनाभावाद्धनञ्जयो गृहे विरज्यते।’’
अहं जानामि यन्मे मन:प्रसादाय सख्युर्वनभोजायोजनम्। अतो न मया तत्प्रस्तावो निवारित:। अहमपि कामये मुक्तमाकाशम्, उन्मुक्तशीतलं समीरणं, सद्य:श्यामलतां, प्रशान्तप्रकृतेर्विचित्रसौन्दर्यं च। तत्र च क्षणायात्मविस्मृतिमपि।
रथ: प्रस्तुत:। पञ्चपाण्डवै:, श्रीकृष्णेन, मया च कतिपयसहचरीभिर्यात्रा शतद्रुनदीतीरायारब्धा। वयमागता इति शतद्रुनद्या: जलदर्पणे वसन्तर्तुणा स्वमुखं दर्शं दर्शं पूर्वं स्वप्नसाधनविधि: समापित:, अशोकचम्पकमधुमालतीप्रभृतिपुष्पै: सुरभितं वनम्। अरण्यमार्गे विस्तृतं वकुलास्तरणम्। सुरभितोऽधीरो गन्धवाह: सम्पूर्णे वनेऽस्मदागमनवार्त्तां प्रसारयतीव। कृष्णस्यागमनसमाचारं प्राप्यारण्यं प्रभातातपेन चक्चकायितेन रजतसर:पात्रेण सद्योविकसितकमलानामर्घ्यं वितरतीव। आम्रकलिकाचन्द्रातपेनाम्नकाननं सुशीतलां छायां सृष्ट्वाऽस्मान् प्रतीक्षत इव। वयं सर्वे तत्रैवाम्रकुञ्जेऽवातराम।
अरण्यस्य निरुपमशोभायां लीनमानसया मया सम्पूर्णतो विस्मृतं यदहं राजनन्दिनी द्रौपदी, इन्द्रप्रस्थराजवधू:, पञ्चपतिनायिका पाञ्चालिश्चेति। प्रक्षालिता मे मनसो दु:खग्लानिविषादावसादादयो निर्मलतया पवित्रप्रकृत्या। अहं वस्तुतो मन्त्रमुग्धा प्रकृतिप्रेम्णा सद्यो विस्मृतात्मा। परिचारकै: सह युधिष्ठिर: पुण्यतोयाया: शतद्रुनद्यास्तटवासिनामारण्यकानां सुखदु:खानि ज्ञातुं निर्गत:। भीमसेनो वने फलानि सङ्गृह्य मध्याह्नभोजनाय खाद्यमायोजयति। नकुलोऽश्वान् नीत्वाऽरण्ये नानाक्रीडाकौश्लरत:। सहदेवस्तु निर्जने नदीतट उपविश्यैकल: श्रीकृष्णस्य द्वारकायात्रादिवसं निरूपयति। इन्द्रप्रस्थे युधिष्ठिर: सम्प्रति लब्धप्रतिष्ठ:। अत: श्रीकृष्णो द्वारकां जिगमिषु:। मातु: कुन्त्या निर्देशो यत् कृष्ण: शुभदिने शुभलग्ने चेन्द्रप्रस्थाद् द्वारकायात्रां करिष्यतीति। अतस्तत्सर्वं सहदेवस्य कार्यम्।
आम्रकुञ्जे सखायौ कृष्णार्जुनौ, अहं च। मम परिचारिका: वनशोभाविमोहिताश्चपलबालिका इवेतस्तत: भ्रमन्त्य: पुष्पाणि चिन्वन्ति; भ्रमरेभ्य: चित्रपतङ्गेभ्यश्च निलीय क्रीडन्ति।
ताम्बूलमेकं सख्ये सारयन्त्यहमवदम्—''सखे! कतिपयदिनानि पुनरिन्द्रप्रस्थनिवासेनास्ति भवत: किमपि काठिन्यम्? अवश्यं द्वारकायामष्टपटमहिष्यो भवदागमनस्य दिनानि गणयेयु:।’’ फाल्गुनस्ताम्बूलरक्ताधर: सपरिहासं जगाद—''न केवलं पटमहिष्य:, अपि तु द्वारकान्तपुरेऽपरा: सहस्रमुपपत्न्य: सख्युर्विरहेण क्षीणा: भवन्ति। अस्माकमिन्द्रप्रस्थे संस्थापनाय सख्या यावन्ति दिनानीह यापितानि, तान्यस्माभि: पर्याप्तान्येव मन्तव्यानि। अन्यथा विलम्बेनाधिकेन ता अस्मान् शपेयु:।’’
सखा मां तीर्यगवेक्ष्य मृदु च विहस्य बभाषे—''सख्युरर्जुनस्याभिमतं निशम्यार्यावर्त्ते समग्रे मां श्रेष्ठकामुकपुुरुषं तु न मन्यसे सखि!? अवश्यं तस्याभिमतं सत्यमस्ति। द्वारकान्त:पुरेऽष्टपटमहिषीरतिरिच्य सहस्रं म उपपत्न्योऽपि सन्ति। परन्तु तदतिरिक्तं गत्यन्तरमेव नासीत्। नरकासुरेण सहस्रराजकन्या: बलात् स्वराजधान्यां कारागारे रुद्धा:। नरकासुरस्य चरमौद्धत्याचारै: प्रपीडितानां प्रजानां शान्त्यै स मया निहत:। ता दु:खभाजो राजकन्या अपि काराबन्धनादुन्मुक्ता:, तासां पितृभ्योऽपि मया तत्समाचार: प्रेषित:। परन्तु ये पितर: कन्यानां दुरवस्थयाऽश्रुणि पातयन्ति स्म, ते स्वकन्या: स्वराज्येषु प्रत्यावर्त्तयितुं नाभिलषन्तो नागता:। अपितु दूतै: समाचार:—आत्महत्याऽगत्या श्रेयसीति स्वस्वकन्याभ्यो विज्ञापित:। नरकासुरकारागृह एतावत्कालयापनात् परं राजपुत्रास्तु दूरे, साधारण: पुरुषोऽपि कस्याश्चन पाणिं न ग्रहीष्यति। तासां पुन: पितृराज्यमण्डनेन राज्यानां पितृणां च यश:क्षय: स्यात्। अतोऽत्रात्महत्यां विहाय काऽन्या गति: स्यात्तासाम्?’’
''अहह, कियानन्याय’’ इति मम मुखादनायासं निस्सृतम्।
सखा स्वरं गम्भीरीकृत्य ससमवेदनमुवाच—''अस्मादेवान्यायकारणाद् देवी वैदेही पुन: पुनरग्निपरीक्षासम्मुखीना, अन्त्ये च जननीधरित्रीगर्भे नित्याश्रया।’’
तत: किमभूदिति पप्रच्छार्जुन:। कृष्णस्य वीरत्वं दयालुत्वं चार्जुनमानन्दयत: स्म।
सखा पुन: स्वानुभूतिं वर्णयन् जगाद—''आत्महत्यां विना गत्यन्तरमविज्ञाय ता राजनन्दिन्यो मच्छरणापन्ना बभूवु:। कातरकण्ठेन ता ऊचु:—हे गोपीजनरञ्जन कृष्ण! नरकासुरं हत्वा त्वया वयं पारोक्ष्येण विपन्नीकृता:। स एवासीत् पृथिव्यामस्माकमेक आश्रयदाता। सम्प्रति तन्निधनात् पश्चात् संसारे न किमप्याश्रयान्तरम्। किं वयं सम्प्रति कुर्याम?’’ तदानीं मया पृथिव्या: सर्वदेशानां राजपुत्रास्ता राजनन्दिनीरङ्गीकृत्य यशोवर्धनायाहूता:। यदि तासु कामपि कोऽप्यग्रहीष्यत्, सोऽवश्यं मे मित्रमभविष्यत्। परन्तु न कोऽप्यायात:। अन्यपुरुषस्य राज्यमाश्रिता राजनन्दिन्य: कलङ्किता जाता इति तासां निवेदनं सर्वै: प्रत्याख्यातम्। तदानीं ता राजकन्या भग्नहृदया दु:खेन प्रार्थयामासु:—हे कृष्ण! त्वमेवास्माकं जीवनदाता, मुक्तिदाता च। अद्य त्वमस्माकं रक्षको भव। अन्यथा राजकन्यानामात्महत्यादोषेण दुष्टस्त्वमेव भविष्यसि। तेनाहं ताभ्योऽभयं दत्तवान् ''यत्ता मम राज्ये स्थास्यन्ति। खाद्यवस्त्राभावो न तासां भविष्यति। सर्वा: सुविधाश्च लप्स्यन्ते’’ इति।
अहमकस्मात् सखायं प्रत्यवदम्—''सखे! किं जीवनं नाम खाद्यवस्त्रवासगृहाणि? जीवनाय सामाजिकप्रतिष्ठा, सम्मान:, सर्वेषां सहृदयता, समर्थनञ्चेत्यादिनि नितान्तमावश्यकानि। नरकासुरकारागृहे तासां खाद्यवस्त्रादीनामभावो नासीत्। तदानीं सर्वेषां तासां कृते सम्मानोऽप्यासीत्। अतोऽधुना केवलं तासां खाद्यवस्त्रादिव्यवस्थया न सामाजिकसम्मान: प्रत्यावर्त्तिष्यते। नारीं प्रति समाजस्य योऽन्यायविचार:, तदर्थं किं प्रतिकृतं भवता?’’
मम प्रतिवादेनोत्साहित: सखा प्रत्युवाच—''नाटकस्य समाप्तिभाग: सर्वतो रोमाञ्चकर:। त्वद्वदपि ता राजकन्या एवं मां पप्रच्छु:। स्वात्मनो मे पदतले समर्प्यानुनिन्यु:—हे कृष्ण! अस्मान् स्वीकृत्य न: सम्मानं रक्षितुमर्हसि।’’ तदानीमहमवागच्छम् तासां पत्नीरूपेण मयाऽङ्गीकार: कर्त्तव्य इति। एतेन संसारवासिनोऽवश्यमवगमिष्यन्ति यत्—नारीशरीरं न नारी, नारीशरीरे कोऽप्यात्माऽपि विद्यते। शरीररोधेनात्मा न निरुध्यते। शरीरस्य पूतिगन्धमये नर्के निक्षिप्तस्यात्मा न पापभाक्। तथैव शरीरस्य बलाद् भोगेनापि आत्मा पतितो न भवति। आत्मा यदि मुक्तिमार्गमनुसरति, आलोकपथमन्विषति, तर्हि स निष्कलङ्को, विमुक्त:, पुण्यश्लोकश्च। ता: सहस्रराजकन्या मे गृहीतपाणयो भार्या:। तासां निष्कलङ्कात्मनो मया सम्मानिता:, विवाहिता:, गृहीताश्च। यत्रात्मना सहात्मनो मिलनं तत्र शारीरसम्बन्धो गौण एव। अतो यद्यहं वर्षाणीन्द्रप्रस्थे स्थास्यामि तर्हि न मे पत्न्यस्त्वां शप्स्यन्ति। मया शरीरभोगलालसया न विवाह: कृत:। अहं तु तदात्मरतिस्ता च मे आत्मन: प्रेमिका:। ये मे प्रेमाणं न जानन्ति ते मां लम्पटं बहुनारीकामं च वदन्ति।’’
अहं तस्य परमप्रेमिकस्य कृष्णस्यात्मप्रेम्णि तु निमज्जितपूर्वा। सम्प्रति किन्तु मनसि मे पश्चात्तापोऽजायत यन्नरकासुरेण रुद्धासु राजकन्यास्वहमेका कुतो न नासमिति?
अर्जुनेन तु मद्भावनाविपरीतं परिहासच्छलेन प्रकाशितम्। स सस्मितमुवाच—''सखे! समग्रस्य विश्वस्य समाचारान् त्वमेव जानासि। कृपया किमेतत् कथयितुमर्हसि यत्कतमेनान्येन दानवेन सहस्रं राजकन्या रुद्धा इति? सम्प्रत्यहं तं निहत्य तासां सुन्दरीणां सुन्दरात्मनोऽङ्गीकृत्य स्वान्त:पुरे स्थापयिष्यामि। तथा सति कृष्णाया विरहज्वालया न नङ्क्ष्यामि। एवम्भूता: सुयोगा भवतो भाग्ये केवलमायान्ति—इदमेव विधेर्विडम्बनमवेहि।’’
सखाऽर्जुनस्य परिहासेनामोदित:। परन्तु, अर्जुनस्य भाषायां तीर्यगभिमानो लुक्कायित इति नाज्ञातमपि तेन। प्रशान्तवदन: सोऽर्जुनं विलोक्योवाच—''वीरपुरुषस्य जीवनेऽनेका नार्य आगमिष्यन्ति, तव जीवने च तस्य व्यतिक्रमोऽसम्भव:। तथाप्यहं विश्वसिमि यच्छतसहस्रसुन्दरीणां तवान्त:पुरमण्डनेनापि त्वं निरन्तरं कृष्णाविरहेण दग्धीभूतो भविष्यसीति। तव जीवने कृष्णाया: स्थानमनन्यपूरणीयमेव।’’
अर्जुन: पप्रच्छ—''कोऽस्या यन्त्रणाया: प्रतिकार: स्यात्?’’
सखा शान्तस्वरेणोवाद—''कृष्णाया आत्मानं स्प्रष्टुं प्रयतस्व सखे! अनुभविष्यस्यवश्यं तत्र विरहाभावम्। वैदेहीरामचन्द्रयोरात्ममिलनमासीत्, अत आजीवनमनयो: परस्परं विच्छेदेऽपि नैतौ विरहज्वालया दग्धौ कदाचिदपि। तथा सति सोऽयोध्यायां रामराज्यप्रतिष्ठार्थं समर्थो नैवाभविष्यत्। जानक्या विच्छिन्नोऽपि नैव क्वचित् स स्वपुरुषकारं धिक्चकार, न च राजकार्यसम्पादने कदापि त्रुटिं चकार। अत: स: समग्र आर्यावर्त्ते मर्यादावत्पुरुषरूपेण सम्मानित:।’’
अर्जुनेन सख्युरुपदेशो गृहीतो वा न वा, तन्न जानामि। किन्तु स पुन: परिहासच्छलेनोवाच—''सखे, अहमवश्यं भवता सह द्वारकां गमिष्यामि। तत्र स्थित्वाऽऽत्मनां परस्परं प्रेमा मयाऽनुभवितव्य:। मामात्मप्रेमशिष्यरूपेण कृपया स्वीकुरु। प्रत्यागत्य मया कृष्णया सह युग्मजीवनमारब्धव्यं किल। मन्येऽस्मिन् कृष्णाया न काऽप्यापत्ति: स्यात्, कृष्णस्य च।’’
कृष्णो हसन्नाह—''सखे! आत्मना सहात्मन: प्रेमा पार्थिवचक्षुषा न दृश्यते। आत्मैव तं साक्षात्कर्त्तुं समर्थ:। आत्मानुभूत्यैव प्रेम्ण: कला शिक्ष्यते। अत: द्वारकां गत्वा तदर्थं मे युग्मजीवनानुसरणं तेऽनावश्यकम्। इन्द्रप्रस्थराजधानीप्रतिष्ठया तव कर्तव्यं सर्वं सम्पादितमिति मा चिन्तय। अयं तु सङ्ग्रामस्यायमारम्भ: केवलम्—’’
धनञ्जय: किञ्चिदस्थिरमना बभूव। आबाल्यात् पाण्डवा अन्यायाऽधर्मभ्रातृविवादानां सम्मुखीना:। एतेषां धनजीवनसम्माना: प्रतिपदं विपन्ना:। पितृहीना: पञ्चैते मातुस्त्यागनिष्ठाऽऽदर्शच्छत्रच्छायायां वर्धिता जययुक्ताश्च सम्प्रति सद्य इन्द्रप्रस्थे शान्तिपूर्णजीवनयात्राया: शिलान्यासं कुर्वन्ति। परन्तु सखाऽभिधत्ते—सङ्ग्रामस्यायमारम्भ इति। गोविन्दो दिव्यद्रष्टा दूरद्रष्टा च। किं स: पाण्डवानां जीवने पुन: सङ्घर्षस्य सङ्ग्रामस्य च पदशब्दान् शृणोति?
अर्जुन: सविनयशिशुरिव जिज्ञासितवान्—''सखे! समग्रे हस्तिनापुरे युधिष्ठिरस्य राजत्वं युक्तम्। सङ्घर्षं रुधिरपातं चापसारयितुं तु राज्यार्धमात्रमङ्गीकृत्य वयं सन्तुष्टा:। अनुर्वरोऽनुन्नतो जनशून्योऽरण्यपरिपूर्णश्च खाण्डवप्रस्थो भवत आशिषेन्द्रभवनत्वेन परिणत:। तथापि जीवनेऽस्माकं सङ्ग्रामसङ्घर्षोऽसमाप्त इति भवताऽऽशङ्क्यते कुत:?’’
श्रीकृष्णो भावगम्भीरो बभूव। तस्य मुखशोभा परिवर्त्तिता। पाण्डित्येन, महिम्ना, अलौकिकप्रतिभादीप्त्या चोद्भासितं तन्मुखमण्डलम्। तस्य मस्तकं परित उज्ज्वलमेकं दीप्तिवलयमहं स्पष्टमवलोकितवती। मन्त्रमुग्धाविवाहं फाल्गुनश्च तद्दीप्तिवलयमध्ये निलीनौ क्षणेन।
अवोचत् कृष्ण:—''यस्मिन् दिवसे भ्रातृविरोधसमाधानाय धृतराष्टे्रणान्धराजेन राज्यमेकं द्विधा विभक्तं, तस्मिन् दिन एव समग्र आर्यावत्र्तो विपन्न:। एकस्य राज्यस्य द्वे राजधान्यौ—इन्द्रप्रस्थोहस्तिनापुरमिति विभागेन कलहबीजमुप्तम्। धृतराष्ट्रो नेदमवजगाम यदनुर्वरायां पार्वत्यभूमावपि निष्ठया, साधनया, एकाग्रतया, धर्मविचारेण, पुण्यकार्यबलेन च सुन्दरं पुष्पोद्यानं स्रष्टुं शक्यत इति। अतोऽनुर्वरं वारुणावतमनुजपुत्रेभ्य: प्रदाय वदान्यता तेन प्रदर्शितेति स आत्मसन्तोषं लेभे। परन्तु सम्प्रतीन्द्रप्रस्थस्याभ्युदय: कौरवानीर्ष्यान्वितान् विधास्यति। ईर्ष्याकारणात् तेषां मनसीन्द्रप्रस्थप्रजाभ्य: शत्रुत्वमुत्पत्स्यते। येन द्वयो: राजधान्योर्मध्येऽशान्तिरनिश्चितता च वर्धिष्येते। एवं सति पाण्डवा: सुखेन कालातिपातं निश्चिन्तं कुर्यु:?’’
श्रीकृष्णस्य व्याख्ययाऽर्जुनश्चकितो व्यथातुरश्च बभूव। साभिमानं चाहं—''सखे! भवान् दूरद्रष्टा। सर्वमिदं कालान्तरे भविष्यतीति भवान् जानाति। तथापि ज्येष्ठतातस्यायं प्रस्ताव: कथं गृहीतो भवता?’’
श्रीकृष्णो धनञ्जयं तीर्यगवैक्षत। सोच्छ्वासमुवाद—''सर्वं विज्ञायापि कदाचित् कस्यचिदपि निष्पत्तिरङ्गीक्रियते। कस्यचिदपि महत्तरस्वार्थस्य साधनाय क्षति: सह्यते, त्यागश्च स्वीक्रियते। आर्यावर्त्तविभाजनं महत्तरस्वार्थसाधनयज्ञस्य प्रथमाऽऽज्याहूति:। अधर्मराजत्वं विना धर्मप्रतिष्ठाया आवश्यकता न कस्याप्यभीष्टा स्यात्। अन्यायाविचारप्रपीडनं विना न्यायधर्मार्थमैक्यसङ्कल्पोऽसम्भव:। हस्तिनापुर्यां कौरवाणां सामयिकराजत्वस्यावश्यकताऽस्ति। हस्तिनापुरीन्द्रप्रस्थयो: सामाजिकजीवनसांस्कृतिकविकासतारतम्यं जना अनुभवेयु:। तदा तावद् धर्मपक्षपाताय जनमतमुत्पत्स्यते। धर्माय प्रचारविज्ञापनेऽनावश्यके, अपितु आवश्यके जीवनानुभूतिरात्मचिन्तनं च। अत: स्वीकृतो मया धृतराष्ट्रस्य प्रस्ताव:’’ इति।
अहं पार्थश्चोभावभिभूतौ श्रीकृष्णस्य धर्मप्रतिष्ठाया अद्भुतां योजनां शुश्रुव। अर्जुन: सचिन्तो जगाद—''सखे! हस्तिनापुरी सुसमृद्धा समुन्नता च। इन्द्रप्रस्थोऽपि तत्समकक्षोऽस्ति। राष्ट्रविभाजनकारणादेकमनुर्वरमनुन्नतं च स्थानमतिजवेन विभवशालित्वन रूपान्तरितम्। अत: राजधानीद्वयीस्थाने राजधानीचतुष्टयी चेद् भवेत् का क्षति:? एतेन राष्ट्रस्य प्रखण्डानां परस्परं प्रतिस्पर्धासमुद्यम: प्रारभ्येत। येन समग्रं राष्टं्र प्रगतिप्रकाशेन समुद्भासितं स्यात्। भवतां धर्मप्रतिष्ठाया उद्देश्यं तु तदेव। राष्टि्रया: सुखेन समृद्धा: स्युरित्येष तु भवतो धर्मप्रतिष्ठाया मूलमन्त्र:।’’
जहास गोविन्द:। बभाषे च—सखे! तव शरीरस्य सर्वाण्यङ्गानि निरामयानि सौष्ठवशालिनीति त्वं केवलमेकेनाङ्गेनाङ्गद्वयेन वा धनुर्विद्यायां पारदृश्वा न भवितुं शक्ष्यसि। चिन्ताचेतनानयनकर्णहस्ताङ्गुलिकरतलादीनां विना सहयोगं धनुषो बाणनिक्षेपस्ते सर्वथाऽसम्भव:। शरीरस्याङ्गानामिन्द्रियाणां परस्परं समन्वयं विना मनुष्यो वृक्षात् पुष्पमेकमपि चेतुं न शक्नोति। तथैवैकस्य राष्ट्रस्य सर्वेषु प्रखण्डेषु समुन्नतेष्वपि यद्यैक्यस्य समन्वयस्य चाभावो विद्येत तर्हि राष्ट्रस्य भविष्यद् घोरान्धकाराच्छन्नमिति ज्ञेयम्। यदि राज्यं सर्वत्र समुन्नतं सुसमृद्धमपि विखण्डितं भवति, तर्हि तस्य स्वातन्त्र्यरविर्नूनं दिग्वलयगामीति नात्र सन्देह:। सञ्चलति परस्परं गृहयुद्धे बाह्यशत्रुर्देशमधिकर्तुमवसरं न त्यजति। एकत्रिता: पञ्च पाण्डवा: पृथिवीमपि कवलीकर्त्तुं शक्नुवन्ति, परन्तु ते यदि परस्परं विच्छिन्ना: स्युस्तर्हि तेषां पराजयो दिवाऽऽलोक इव निश्चित:। भीमार्जुनौ विना यथा पाण्डवानां वीरत्वमुपहासाय कल्पते तथैव युधिष्ठिरसहदेवौ विना देशशासनाय धर्मविचारदूरदृष्ट्यादीनां घोरोऽभावो ध्रुवनिश्चित:। अत: कस्यापि राष्ट्रस्य प्रगतिर्जातीयैक्यनिर्भरैव। आर्यावर्त्ते धर्मसंस्थापनपूर्विका जातीयैक्यप्रतिष्ठा मे प्रधानं कर्त्तव्यम्। पाण्डवानां समुद्यमेन मम प्रतिज्ञा सफलतामेष्यति। अतस्तव जीवने जडताया आलस्यस्य च स्थानमेव नास्ति।
सख्युरुद्देश्यं महत्। परन्तु तदुद्देश्यपूरणाय पाण्डवैराजीवनमन्यायाधर्माविचारासत्यै: सह सङ्घर्ष: करणीय:। विजयस्तु कस्य स्यादिति को वा जानाति? अकस्मादशुभाशङ्कया हृदयं मे प्रकम्पितमभूत्। अचिन्तयम्—हस्तिनायामस्माकं किमावश्यकम्? इन्द्रप्रस्थे तु सुखानन्दैश्वर्यविभवानामभावो नास्ति। हस्तिनापुर्या अनेके पण्डिता:, कवय:, गायका:, शिल्पकारा:, विशिष्टा नागरिकाश्च स्वेच्छया स्वपैतृकगृहाणि सन्त्यज्येन्द्रप्रस्थ आजग्मु:। पाण्डवानां धर्मविचारसुशासनकारणात् हस्तिनापुर्या अपरेऽप्यनेके नागरिका इन्द्रप्रस्थ आगमिष्यन्ति च। हस्तिनायां वर्तन्तां नाम कौरवा:। तेनाऽस्माकं किम्? दुष्टै: सह सङ्घर्षं कृत्वा जीवने शान्तिभङ्ग: कुत: करणीय:? सखा सर्वं विदित्वाऽपि पाण्डवानशान्तिगर्त्ते किमर्थं बलादिवापादयति?
माता कुन्ती कथयति श्रीकृष्णोऽन्तर्विज्ञ इति। स सर्वेषां मनोभावं जानाति। मातुर्वचनस्य सत्यतायां मम सन्देहलेशोऽपि नास्ति। वस्तुत: श्रीकृष्णो मे मनोभावं वेद। तीक्ष्णदृष्ट्या मामवेक्ष्य सोऽवोचत्—''सखि! त्वं विदुष्यपि कदाचित् साधारणमहिलेवात्मकैन्द्रिकी भवसि। अतो मम लक्ष्यसाधनाय पाण्डवनियोजनं तवानुचितं प्रतीयेत। परन्तु चिन्तय—पृथिव्यामस्यां प्रत्यहमनेके नारीनरा:, पशुपक्षिण:, कीटपतङ्गाश्च जायन्ते, मृत्युमपि भजन्ते। सर्वेषां जन्मन: उद्देश्यं समानं, न तु मरणस्य। कोऽपि जायते स्वात्मने, कोऽपि तु जगतो दीनदलितपतितानां कृते। यो जगते जीवति, तस्य दैहिकनाशेनापि, न मृत्युस्तं जेतुं शक्नोति। संसार एवं द्विप्रकारं जीवनम्। अवेहि—कौरवपाण्डवा: द्विप्रकारयोर्जीवनयो: प्रतिनिधिभूतौ। त्वं पाण्डवानां प्रेरणा। त्वं याज्ञसेनी। विप्लवाय, सङ्घर्षाय, त्यागाय च पुन: कुण्ठसे कथम्?’’
अहं लज्जितां जाता। वस्तुत: सखा श्रीकृष्ण: कियान् विपज्जनक:! मनोगतं स यदि सर्वं ज्ञातुं शक्नुयात्, तर्हि प्रतिपदं स मामपमानितां कुर्यात्?
अर्जुन: सचिन्तो दृश्यते। अहं नतमुखी उपविश्यात्मानं धिक्करोमि—''ममेयती स्वार्थपरता कथम्? एक: साधारणमनुष्य: केवलं स्वभार्याया:, स्वपित्रो:, स्वपरिवारस्य च, परन्तु एको वरपुत्रो देशस्य, जाते:, समाजस्य, जगतश्च। मम पतयस्तु वरपुत्रा:। अतस्तानात्मसुखायाहं भन्त्स्यामि कुत:?’’
अकस्मादस्फुटार्तनादं चकार सखा। हठादहमपश्यम्—कमलकोमलं पाटलवर्णं करतलं रुधिररञ्जितम्।
उद्विग्राऽहं सख्युरन्तिकमुपसृतवती। फाल्गुनोऽपि स्वस्थानादुत्थितोऽपृच्छत्—''किमभवत्? अङ्गुली विक्षता कथम्?’’
अधरकोण ईषद्धास्यं स्फुटयन् श्रीकृष्णो जगाद—''इदं तस्य सुदर्शनचक्रस्यैव दौरात्म्यम्। कदा कदा स: स्मारयति यद् जगतो रुधिरपाताद्रक्षाऽसम्भवा, यावत् स्वजीवनं रुधिररञ्जितं न भवति। पश्य, क्षणेनैव निरीह: किरातबालको मृत्युं भजेतावश्यम्। स्थाने खलु सुदर्शनेन तत्कार्यं सम्पादितम्। हिंस्रं व्याघ्रं निहत्य प्रत्यावर्तमानं तमहं सावेगं धृतवानिति विक्षताऽङ्गुलिर्मे। एतदस्तु वरं, परन्तु दीनो बालको नु जीवित:।’’
श्रीकृष्णस्य महत्ताया: पुरस्तात् स्वयं क्षुद्रां मन्यमानाऽहं सविस्मयमचिन्तयम्—सख्युर्हृदयं निरन्तरं दलितपतितार्त्तानां कृते उद्वेलितं भवति, अन्यथाऽऽवाभ्यां सहालपन् बालकस्य मृत्युविषये कथं चिन्तयेत्? यद्यपि नावाभ्यां किमपि लक्ष्यीकृतम्।
श्रीकृष्णस्याङ्गुष्ठं भृशं विक्षतम्। रुधिरपातोऽपि न शान्त:। अर्जुनश्चिन्तितो मामुवाच—''कृष्णे! त्वं सख्यु: क्षतं बलाद् धृत्वा रुधिरक्षरणं स्थिरीकुरु। अहं कानिचनौषधिपत्राणि सङ्गृह्णामि।’’ अर्जुनोऽरण्यलतापत्रादिष्वदृश्यो बभूव। अहं सख्युरङ्गुष्ठरुधिरक्षरणं रोद्धुं प्रयते। गोविन्दश्चक्षुषी निमील्यास्पष्टमधुरस्वरेणाभाषत—''अहो, कियती, शान्ति:! कृष्णे! तव स्नेहस्पर्श इयान् मधुर इति यद्यहमज्ञास्यम्, तर्हि प्रतिदिनं सुदर्शनस्य धारां परीक्षमाणोऽङ्गुलीरवश्यं विक्षता अकरिष्यम्।’’
अहं तस्य परिहासेन तु न मुदिता। यतोहि रक्तस्रावो न स्थिरीभवति, अनुक्षणं तु वर्धते। अतो विलम्बमधिकमकृत्वाऽहं स्ववस्त्राञ्चलात् किञ्चिदुत्पाट्य तेन क्षतस्थानं गाढमबध्नाम्। वस्त्रपाटनसमये मायाऽऽगत्योवाच—''महाराज्ञि!। किमेतत् कृतं भवत्या? इयती रमणीया शाटिका पाटिता? कियत्क्षणात् परं फाल्गुन आगच्छेत्। औषधिप्रलेपात् परं रुधिरं स्वतो रुध्यते।’’
मायाया: स्वार्थपरतया रुष्टाऽहमुक्तवती—''माये! तव कृष्णप्रेमेयान् यत् कोऽपि तमधिकं रोषयेदिति चिन्तया त्वं प्रतिबन्धकीभूय मध्ये तिष्ठसि। त्वं तु तस्यातिप्रियसहचरी आसी:! परन्तु, त्वमद्य मे सहचरीति ते तुच्छवस्त्रायेयान् लोभ:। मनुष्यशरीरशोणितापेक्षया संसारस्य किमपि भौतिकं महार्घमपि वस्तु अत्यन्तं तुच्छम्। इदं शोणितं न सामान्यमनुष्यस्य, अपितु श्रीकृष्णस्य, पृथिव्यां श्रेष्ठपुरुषस्य। तदर्थं मम शाटिकामायात्याग: किमियान् विचित्र:?’’
माया कुटिलं हसन्त्युवाच—''महाराज्ञि! श्रीकृष्णस्य रुधिरं यथा न साधारणमनुष्यस्य, तथैव तव शाटिका न कस्याश्चित् साधारणनायिकाया:। इन्द्रप्रस्थमहाराज्ञ्या: का नाम शाटी! परन्तु शाटीयं भवत्या: सुखसुरक्षासम्मानानां प्रतीकभूता! इन्द्रप्रस्थसभागृहप्रतिष्ठादिवसे भवत्या: पञ्चपतिभिरियमुपहृता। इमां परिधाय भवत्या युधिष्ठिरेण सह होमाग्नावाहूति: प्रदत्ता, सभागृहे च सिंहासनमधिरूढम्। अत इयं महता यत्नेन भवत्या संरक्षणीया। शुभावसरे परिहिता शाटिका तु न पाट्यते, न दह्यते, नापि कस्मै प्रदीयते। अथ च भवती हिताहितज्ञानरहिता क्षणेनेमां पाटितवती, कृष्णहस्ते च वध्वा तत: किञ्चित्तस्मै प्रदत्तवती। किमयं न भावी कोऽप्यशुभ: सङ्केत:?’’
मायाया अभिमतेन मम मनसि स्त्रीसुलभाऽऽशङ्का नोत्थितेति न, किन्तु परक्षणेऽहं प्रबोधितवती स्वयम्। सस्मितमवदम्—''माये! आबाल्यात् प्रतिपदं यो मे पतीनां निरापत्तासुखसमृद्धिकल्याणमार्गेषु सहायक:, तदर्थं यदि मम जीवनस्य महार्घं वस्तु नश्यति, तेन मेऽशुभभयं नास्तीति विश्वास:। यदि वा किमप्यकल्याणं सम्भवति, तर्हि तस्मिन् स्थितेऽहं विपन्ना स्यामित्यत्रापि न मे विश्वास:। पाण्डवानां सकलकल्याणकर्त्ता श्रीकृष्ण एव। अत: सम्भवत्यकल्याणे स तन्निवारणं चिन्तयतु। शिरसि ते व्यथा कथम्?’’
माया सपरिहासमभ्यधात्—''बन्धुपत्नीं विना नान्या त्यागमेवं कर्त्तुं शक्नुयात्। रुक्मिणी सत्यभामा चैवं स्वशुभवस्त्रं न पाटयेताम्। बन्धुपत्नीस्नेहसूत्रबद्ध: श्रीकृष्णो द्वारकां पत्नीश्च विस्मृतवान्।’’
माया कुटिलकटाक्षेण कृष्णं विलोक्य मृदु जहास। अहमतियत्नत: कृष्णस्य कोमलकरपल्लवं धृत्वा स्नेहस्पर्शं ददती ह्रिया म्लाना जाता। अचिन्तयम्—कियत् सौभाग्यं मम!
कदाऽऽरभ्यार्जुन औषधिपत्राण्यादायोपस्थित:, अहं न जानामि। अहमात्मविस्मृता। परमपुरुषस्य श्रीकृष्णस्य सेवायै सुयोगमाप्याहमात्मानं धन्यं मन्ये। कदा चाहं श्रीकृष्णस्य हस्तं स्वमस्तके स्पर्शितवती, स च सादरं स्वहस्तं संन्यस्य शुभेच्छां धन्यवादं च ज्ञापयतीति न जाने। श्रुतवती यदर्जुनो हसन् ब्रूते—''सखे! हतभाग्येऽस्मिन् स्वल्पीयानपि स्नेहोऽवशिष्टो न वा? कृष्णाया अंशुके समस्तकल्याणदानं किं ते नान्याय:?’’ श्रीकृष्णो मृदुस्मितेनावोचत्—''सखे! निष्प्रयोजनस्त्वया क्लेशोऽकारीति मे खेद:। सख्या: स्नेहस्पर्शेन न केवलं रुधिरक्षरणम्, अपि तु क्षतमप्यदृश्यं जातम्। परन्तु वस्त्रबन्धनमिदं नाहं निस्सारयिष्यामि। तस्मात् सख्या ममताया मधुरं सौरभं प्रसरति। त्वं तु जानासि सखे! निर्मल: प्रेमा, हार्दा स्नेहसंवेदना च व्याधे: सञ्जीवन्यौ। किं पुनरौषधिना?’’
पार्थस्य हस्तात् सर्वाण्यौषधिपत्राण्यधोऽपतन्। मया पाटितं वस्त्राञ्चलं पवनेनोड्डयते। श्रीकृष्णो वस्त्रबद्धं हस्तं स्वहृदये निधाय स्नेहेनार्जुनं विलोक्य मन्दं हसति। धीरस्वरेण च वदति—''सखे! पुष्पैर्मे काऽऽवश्यकता? त्वं तु जानसि—अहं सुरभिमत्त इति। पृथिव्यां कस्मिन् कोणानुकोणे विकसितस्य पुष्पस्य सुगन्धो यदि मह्यं समर्पितस्तर्हि तद्ग्रहणाय न मे कदापि कुष्ठाऽस्ति। सौरभं पवित्रम्। विकसितं पुष्पं निपतति, नश्यति च। परन्तु, तस्य स्मृतिरवशिष्यते मनसि। अद्यतनीयं स्मृतिर्मे समग्रं जीवनं सुरभितं करिष्यति। मां चापारानन्देनाप्लावयिष्यति चिराय। एकदाऽहमवश्यं कृष्णाया ऋणं प्रत्यावर्तयिष्यामि। त्वं तु मम स्मृत्यै नेर्ष्यसि कच्चित्।’’
(१८)
अनुपस्थिते गोविन्दे मनसि शून्यता प्रतीयते। न केवलं मम, अर्जुनस्यापि।
श्रीकृष्णो द्वारकां प्रतिगत:। इन्द्रप्रस्थस्य स्वाभाविकजीवनप्रवाहे न कोऽपि व्यतिक्रम:, परन्तु सख्युरनुपस्थित्याऽर्जुनो निस्सङ्ग:, अहं च विषण्णा।
युधिष्ठिरेण सह युग्मजीवनस्यैकवर्षपूर्त्युत्सवाय सप्ताहमात्रमवशिष्यते। किन्तु भीमस्योत्साहेनाहं व्यतिव्यस्ता, कदा कदा चापमानिता भवामि। अर्जुन: सम्प्रत्येकस्यां साधनायां लग्न:। शास्त्रशस्त्राण्यादाय सोऽनेकश: साधनारत:। अहं दिनानि गणयामि। अर्जुनमिलनं निकटतरीभवति। एकसप्ताहाधिकैकवर्षात् परं मज्जयिना वीरपुरुषेणार्जुनेन सह युग्मजीवनमारप्स्ये। तदानीं तमवश्यं बोधयिष्यामि यद् गार्हस्थ्यजीवने शृङ्खलासंयमौ परमावश्यकाविति। तस्या: शृङ्खलाया: सुरक्षायै मे वार्षिको निर्बन्ध:। अहं विश्वसिमि यत्—सकृत्तस्य निकटतमायां मयि सत्यामावयो: परस्परमभिमानक्नोधरोषादयो न स्थास्यन्तीति। ममात्मानं स: स्प्रक्ष्यति। अहं च तदात्मनि विलीयेय।
प्रतीक्षाया: मुहूर्त्तो दीर्घायते। अद्यावध्यहमर्जुनमिलनदिनं प्रतीक्ष्यात्मसुखप्रवाहिता—स्वप्ने च तद्गतात्मिका। अर्जुनमतिरिच्य चतुर्णां पतीनामुपपत्न्य: सन्ति। अतस्तस्य सकल: प्रेमा मह्यमेव प्राप्य:। न तस्मिन् काऽप्यन्या भागभाक्। प्रत्येकं नारी तदेवाभीप्सते। अतोऽर्जुनं प्रति ममाकर्षणमधिकतरमिति।
अर्जुनेन सह मिलनस्यावशिष्टानि दिनानि गणयामि, सहसैव तत्स्वप्नं ममार्ज स: स्वयम्।
तस्मिन् दिनेऽपराह्णे युधिष्ठिरो मे सस्मारोपस्थितिम्। मातु: पदसेवां विहायाहं तदन्तिकं गता। विश्रामगृहे स विशश्राम। तेन सह मम युग्मजीवनपणपूरणाय सप्ताहमात्रमवशिष्यते। अतो युधिष्ठिर: क्षणायापि स्वान्तिकात् त्यक्तुं मां नेच्छति। स वदति—''कृष्णे। त्वं मे प्रेरणादीपशिखा। त्वयि स्थितायां मम धर्मराजत्वं सिद्ध्यति। त्वयि त्वनुपस्थितायामहं धर्मपथविच्युतेॢबभेमि। तव शरीरस्याकर्षणं न मे महीय:, अपितु ते धर्माचारपुण्यविचारौ महीयांसौ। यदि त्वं केवलं ममैवाभविष्य:।’’
युधिष्ठिर एवं ब्रूवन् गम्भीरो भवति। पुनर्ब्रूते—''पश्य, त्वत्तो विच्छेददिनं निकटायत इत्यनुचिता चिन्तेयं मनस्यागता। वस्तुत: पञ्चभ्रातृरो वयमेकप्राणा:। शरीराणि तु परस्परं भिन्नानि। एकं विनाऽपरस्य स्थितिरसम्भवा। त्वं याज्ञसेनी। संहतिधर्मस्थापनं तवाविर्भावस्योद्देश्यम्। त्वं पुनर्म एकस्य कथं स्या:?’’
विश्रामगृहपल्यङ्के युधिष्ठिर: शयनरत:। स्वाङ्के निधाय तत्कोमलचरणावहं शुश्रूषामि, पदसेवयाऽऽत्मसौभाग्यमनुभवामि।
अकस्मादर्जुन: प्रबलप्रभञ्जन इव गृहाभ्यन्तरे प्रविवेश। सोऽस्थिर: प्रतीयते स्म। परितोऽविलोक्य केवलमधोमुखो गृहकोणस्थापितान्यस्त्राण्यादाय तथैव प्रस्थित:। मां युधिष्ठिरं वा सकृदपि नावैक्षत। अहं सङ्कुचिताऽङ्गवास आवृणोमि—अर्जुनस्तु निस्सृत्यादृश्यो बभूव।
युधिष्ठिरो निर्लिप्तस्वरेणाह—''प्रायेणाकस्मादावश्यकताऽस्ति तस्यास्त्रै:। यदस्तु नाम सास्त्रोऽर्जुनो विषमां परिस्थितिं नियन्त्रयिष्यति।’’
न केवलमर्जुन:, पञ्च पाण्डवास्तु परोपकारपरायणा आमूलात्। विलासव्यसनसुखैश्वर्याणि एतेषां जीवने नाभीष्टानि। राजानोऽपि एते दीनदलितपतितानां सुखदु:खांशभाजो जीवने। अत एभि: प्रजानां जितं हृदयम्। सम्प्रति कोऽपि प्रायेण प्रजासु विपद्ग्रस्त:। अर्जुनस्तद्दु:खमोचनाय गत: स्यात्। परार्थं पीडानुभवायार्जुनात् कोऽस्तु समर्थतर:!
युधिष्ठिरचरणौ शुश्रूषन्त्यहमर्जुनचरणौ हृदयेन वन्दे, तदौदार्याय च श्रद्धामर्पयामि तदानीम्। अनुपदं माया सूचितवती—''अर्जुनो बहि: प्रतीक्षते, युधिष्ठिरस्य दर्शनं कामयते च।’’
अहमचिन्तयम्—प्रायेण मामधिकं रोषयितुं धनञ्जयेनैवं नाटकं विज्ञायैव रचितम्। कतिपयक्षणेभ्य: पूर्वं विनानुमतिं युधिष्ठिरशयनकक्षे प्रविवेश। किन्तु, सम्प्रति बहिर्युधिष्ठिरदर्शनं प्रार्थयते।
युधिष्ठिरो बहिरागत:। तदनु चाहम्। अपरमेकं रोमाञ्चकरं दृश्यमुद्भासते मन्नेत्रयो: पुरत:। अर्जुनो ब्रह्मचारिवेषेण पुरत उपस्थित:। तं परितस्तिष्ठन्ति माता कुन्ती, अपरे पाण्डवभ्रातृरश्च।
युधिष्ठिर: साश्चर्यं पप्रच्छ—''किमभवत्? अर्जुनोऽनेन वेषेण किमर्थम्?’’ साञ्जलिर्धनञ्जयोऽवोचत्—''अग्रजवर्या:! अधुना निर्गन्तुमाज्ञां प्रयच्छन्तु कृपया। विदित्वाऽपि मया नियमभङ्ग: कृत:। यदि कस्यचित् पाण्डवस्य शयनकक्षे कृष्णोपस्थिता स्यात्, तस्मिन् यदि कोऽप्यपर:, पाण्डव: प्रविशेत् तर्हि प्रविशन् द्वादशवर्षाणि ब्रह्मचर्यपालनपूर्वकं वननिवासमङ्गीकरिष्यतीति देवर्षिनारदोपस्थितौ सर्वसम्मत्येदं स्थिरीकृतपूर्वम्। अस्माकं युग्मजीवनशृङ्खलायै प्रायेणेदमावश्यकमासीत्। अतस्तमेव नियममङ्गीकृत्याहं द्वादशवर्षवनवासाय यात्रारम्भं करोमि। कृपया सानन्दमिदमनुज्ञायताम्—।’’
युधिष्ठिरोऽत्यन्तं व्यथित:। अहं च स्तम्भीभूता। युग्मजीवने शान्त्यर्थं यो नियमो निर्मित:, सोऽन्ततो मे जीवनेऽसुखकरं भविष्यतीति को वाऽजानात्! अर्जुनो नियमभङ्गेन वनवासं वरिष्यति! अहं भग्नहृदया दण्डायमाना। न कोऽप्युपायो मम प्रतीयते।
युधिष्ठिर: सविषादमाह—''अर्जुन! अनुज! न त्वया काऽपि त्रुटि: कृता। निश्चयेन किमपि महत्तरं लक्ष्यमुरीकृत्य त्वमावयो: शयनकक्षे प्रविष्ट:। अत आवाभ्यां न किमप्यन्यथा चिन्तितम्। अपि च, अग्रजस्य पत्न्या सहालापकालेऽनुजस्य तत्कक्षप्रवेशेन नास्ति सामान्यत: काऽप्यशोभनीयता। अतस्ते वनवासो निष्कारण एव।’’
अर्जुनेन कस्यचन ब्राह्मणस्य गां चौरादुद्धर्तुं स्वजीवनं विपन्नीकृतमित्येवं भीमो ब्रूवन् तस्य निर्बोधतामुपजहास।
अहमचिन्तयम्—''वस्तुत: फाल्गुनेनैवं कृतं कस्मात् कारणात्? ब्राह्मणेन यदि असावनुरुद्ध: तर्हि चौरदमनायार्जुनो भीममन्वरोत्स्यत्। भीमस्येदं तु नितान्तं सामान्यं कार्यम्। यदि वा विप्रेणासौ प्रार्थितस्तर्हि किं समग्रे राज्ये एतस्मायस्त्राभाव आसीद्यदसौ युधिष्ठिरस्य शयनकक्षे तदर्थं विनानुमतिं प्रविवेश! यदि च तदस्त्रं तस्य नितान्तमावश्यकमासीत् सोऽनुमतिमासाद्य तद्गृहे प्रावेक्ष्यत्। गृहाद् बहिर्माया प्रतीक्षारताऽऽसीत्। तया तेनानुमतिभिक्षा किमर्थं न कृता?’’
सर्वाण्येतानि विचिन्त्याहं दृढभावा यदर्जुन: सर्वं विज्ञाय मत्प्रतिशोधायैवं कृतवानिति। वर्षमात्रात् परं तेन सह मे मिलनयात्राऽऽरप्स्यत। अथ च स स्वेच्छया द्वादशवर्षात्मकं वनवासं याचते। अतो युधिष्ठिरस्तं पुन: पुन: निवारयति। स तु निर्वर्त्तितुं नेच्छति।
युधिष्ठिरोक्त्या किञ्चित् क्रुद्धोऽर्जुनो बभाषे—''भ्रातृवर्या:! भवन्त: स्वयमेवोदाहरन्ति नियमं निर्माय तद्भङ्गो घोरोऽन्याय इति। अथ च सम्प्रति मामन्यायाचरणाय प्रवर्तयन्ति!’’ युधिष्ठिर: शान्तस्वरेणोवाच—''ब्राह्मणस्य सहायतार्थं त्वं मे शयनकक्षे प्रविष्ट:। परोपकाराय नियमभङ्गो न दोषाय कल्पते।’’
युधिष्ठिरस्य वाचोयुक्तिं निरस्य धनञ्जय आह—''न्यायायान्यायाङ्गीकार:, पुण्यार्जनाय पापमार्गानुसरणं, परोपकाराय नियमुलङ्घनमित्यादिनि पाप एवान्तर्भवन्ति। अतोऽहं पापभाग् भवितुं नेच्छामि। मम वनवासोऽनुज्ञायताम्। वनवास एव श्रेयान् मम।’’
अर्जुनो ब्रह्मचारिवेशेन समेषामनुमतिपूर्वकं वनाय प्रस्थित:। सर्वे तस्य जयगानं कुर्वन्ति। तस्य सत्यनिष्ठताकारणात् सर्वे पुष्पाणि वर्षन्ति। रामचन्द्र: पितु: पणरक्षायै वनं जगाम। तेन सह पत्नी सीता, अनुजो लक्ष्मणश्च जग्मतु:। परन्तु अर्जुन: पणभङ्गकारणात् वनवासं स्वीकरोति। द्वादशवर्षात्मकं ब्रह्मचर्यं वनवासं च स्वेच्छयाऽङ्गीकुरुते। एकल एव गच्छति। न सह पत्नी, अनुजोऽपि न। फाल्गुनो वनवासं वृत्वा महनीयो लब्धकीर्त्तिश्च जात:। अहमपि सीतेव तदनुगामिनी भवेयम्। तद्वनवासकष्टं च दूरीकुर्याम्। निर्जनवने तेन सह प्रकृतिमायायां जीवनभारं विस्मरेयम्। तेन साकं किमहं वनचारिणी न भवेयम्? एतेन मे यशो वर्धिष्यते, सुखं च। यदि सीता पतिमार्गमनुससार, तर्हि ममात्र का नाम बाधा?
अहमात्मानं सन्न्यासिनीवेशेन सज्जीकृतवती। अष्टालङ्कारान्निस्सार्य निराभरणा जाता। कुसुमालङ्कारै: स्वशरीरं मण्डितम्। शुभ्रवसनं परिहितम्। केशविन्यासमुन्मुच्य मुक्तकेशारण्ये पुष्पाणि सज्जीकृतानि। कपालं तिलकितम्। अर्जुनागमनं प्रतीक्ष्य स्थिताऽहम्। मदनुज्ञार्थमर्जुनोऽवश्यमागमिष्यति। तदानीं स्ववाचोयुक्त्या मम तदनुसरणयार्थार्थ्यं प्रदर्शयिष्यामि। स मां सहानीत्वा तदा क्व गच्छेत्?
रामचन्द्रोऽस्यामेव परिस्थितौ सीतां सह निनाय। या या वाचोयुक्ति: सीतयोपस्थापिता, सा सा पुन: पुन: संलप्य मया मनसा स्थिरीकृता।
ममैनं वेशं विलोक्य मायाऽवाक् जाता। अवदत्—''महाराज्ञि! इन्द्रप्रस्थराजप्रासादस्थिताया भवत्या: किमिदं रूपान्तरम्?’’
अहं हसन्त्युक्तवती—''माये! नेदं रूपं राजप्रासादस्य, अपि तु पर्णकुटीरस्य। अर्जुनेन सह वनचारिणी भविष्यामीति मया स्थिरीकृतम्। त्वं किं मामनुगमिष्यसि?’’
माया सकृतकहास्यमाह—''महाराज्ञि! तवानेन सन्न्यासिनीवेशेन वने कति सन्न्यासिनो मतिं विसृज्य धर्मकर्माणि त्यक्ष्यन्ति, जानासि? सर्वादौ धनञ्जय: पणभङ्गेन ब्रह्मचर्यस्य पापभाग् भविष्यति। किं त्वं तदिच्छसि?’’
अहं मनसि कामये यत् मायोक्ति: सत्यायतां, धनञ्जयस्य ब्रह्मचर्यव्रतभङ्ग: स्यात्। मम विरहे तेन बहु कष्टमङ्गीकृतम्। तं निभृतमवाप्याहं कायमनोवाक्यैस्तस्मै तावदेव सुखं प्रदास्यामि, आत्मानं च धन्यं मंस्ये। धनञ्जयो निरपराधो वीरपुरुष एवं कठोरदण्डं कथं भोक्ष्यति?
धनञ्जय: समागत:। मम प्रवेशद्वारसम्मुखे बहि: स्थित्वोवाच—''अनुजानीहि कृष्णे! द्वादशवर्षेभ्य: परं पुनर्दर्शनं भविष्यति। कदाचिद् विपदापतेच्चेन्ननु सखा स्मर्त्तव्य:। तस्मिन् संन्यस्तहृदयायास्ते सीमानं विपत् स्प्रष्टुमपि न शक्ष्यति।’’
अहं तदभिमुखमागता दृढस्वरेण तं विलोक्योपास्थापयम्—''अहमपि त्वया सह वनवासिनी भविष्यामि। अयं मे सिद्धान्त:।’’
अर्जुन: क्षणाय मां मुग्धदृष्ट्या निरैक्षत। परस्तादात्मानं संयम्य प्रोवाच—''तवानेके सिद्धान्ता अस्माभिरङ्गीकृता:, परन्तु सोऽयं ते सिद्धान्तोऽपि स्वीकार्य इति काऽत्र ते वाचोयुक्ति:?’’ अहं तस्य वक्नोक्तिमवागच्छम्।
अस्माकमेकवर्षात्मको मिलनपणो ममैव सिद्धान्त आसीत्। तदेवार्जुनोऽधुना स्मारयति। तद्वचसाऽऽहताऽपि प्रत्यवदमहम्—''पत्यनुगतत्वं स्त्रीधर्म एव। सती सीता वनवासमङ्गीचकार पतिं रामचन्द्रमनुसृत्य। तथैव वनवासिनीत्वं मे त्वया सह न्यायसम्मतमेव।’’
पार्थो हसन्नाह—''क्व सती सीता—क्व च त्वम्? सा रामचन्द्रमात्रं पतिमननुसृत्य किं कुर्यात्? परन्तु, तव तु पञ्च पतय:!’’
तस्येयं कठोरा वाक् तीव्रतीरसमा मम हृदयं बिभेद। रुदित्वा हृदयभारमपनोदयिष्यामीत्यैच्छम्। परन्तु नैव, रोदनं दुर्बलताया लक्षणम्। पञ्चपतिवरणे मे दुर्बलता कुतो यदहं रोदितुं प्रवर्त्तिष्ये? अहमपि दृढस्वरेण प्रत्यवदम्—''पञ्चपतिवरणं न मया स्वेच्छया कृतम्। अतस्तत्प्रसङ्गोऽत्र कथमुत्थाप्यते? त्वं मे पति:, त्वं राजा चेदहं राज्ञी। त्वयि संन्यासिनि अहं संन्यासिनीति नात्र संशय:।’’
फाल्गुनो गम्भीरो बभूव। शान्त्या च प्रत्यबोधयत्—''कृष्णे! त्वं प्रथमतो यद्यपि मे पत्नी तथापि सम्प्रति सहोदरश्रेष्ठस्य युधिष्ठिरस्य वास्तविकतया सहधर्मिणी। सोऽयमस्माकं युग्मजीवनपणस्त्वदिच्छया स्वीकृतोऽस्माभि:। परन्तु सोऽद्य मया न्यक्कृत:। अत: प्रकारान्तरेण मयाऽपराध आचरित:। तस्यैवापराधस्य प्रायश्चित्ताय मम द्वादशवर्षावधि ब्रह्मचर्यं, वनवासश्च। यस्यामपराधं कृत्वाऽहं तत्प्रायश्चित्ताय निस्सरामि, सा पुनर्मेऽनुगामिनी कथं भवतु? तेन तु मे प्रायश्चित्तं न, अपितु भारोऽपराधस्य वर्धिष्यते। त्वं किमिच्छसि यदहमाजीवनं भ्रातृषु त्वयि चापराधी भूत्वा स्थास्यामि? नर्कगामी च भविष्यामि?’’
ममोत्तराय भाषैव नास्ति। स्वशरेणाहं स्वयं बिद्धा। युग्मजीवने शृङ्खलायै सुखाय यो नियमो मयोपस्थापित:, स एव सम्प्रति मे दु:खकारणीभूय मामुपहसति। अर्जुनो यथा प्रकारान्तरेण कथयति यत्तस्य वनवासस्य दु:खस्य च कारणम्—''अहं, द्रौपदीति।’’
मम किङ्कर्त्तव्यतामज्ञासीन्माया। मत्पक्षा सत्युवाच—''महाराज्ञ्या भवतोऽपराधोऽक्षम्यत। अन्यथा भवतो दु:खेन खिन्ना वनवासाय प्रस्तुता नाभविष्यत्। अतस्तया सह वनगमनेन भवत: प्रायश्चित्तस्य मार्गो नावरुद्धो भवेत्। पत्यौ संन्यासिनि पत्न्या: संन्यासिनीत्वं शास्त्रसिद्धम्। भवानस्मिन् बाधामापादयति कथम्?’’
जहासार्जुन:। अवोचत्—''मयि वनं गतेऽपि कृष्णाया इन्द्रप्रस्थमहाराज्ञीरूपेणान्त:पुरमण्डने न काऽपि बाधा, न चान्याय:। यतोहि युधिष्ठिर इन्द्रप्रस्थस्य महाराज:, अपरे च त्रयो भर्त्तारो महाराजस्य भ्रातृर:। अत: सत्सु चतुर्षु पतिषु पत्युरेकस्य संन्यासित्वेन कृष्णाया वनचारिणीत्वं सर्वथाऽनुचितम्। व्यक्तिस्वार्थात् समूहस्वार्थ: श्रेयस्तर:। भारतेतिहासेऽद्यावधि गणमतं सर्वैर्गृहीतम्। इदं कृष्णाया: सौभाग्यं यन्मे वनगमनेनापि तस्या महाराज्ञीत्वमक्षुण्णं स्थास्यति। कृष्णा यदि म एकमात्रस्य नायिकाऽभविष्यत्, तर्हि सा कदापि महाराज्ञी नाभविष्यत्, अपितु मां मन्दभाग्यमनु गच्छन्ती अखेत्स्यत।’’
माया विरुद्ध्यन्तीवाह—''भवाँस्तु सर्वं विदित्वापि देवीमिमां न खेदयति?’’
अर्जुनो बद्धाञ्जलिर्व्यथितस्वरेण बभाषे—''मद्वाण्या कृष्णा लब्धाघाता चेन्मेऽपराध: क्षन्तव्य:।’’
अहं पाषाणनेत्राभ्यामर्जुनं पश्यामि। स पुन: स्वमन्तव्यं परिश्चकार—''सत्सु चतुर्षु पतिषु कृष्णा ममानुगामिनी नैव भवेत्। सा न केवलं मदीया, अपितु सर्वेषां पञ्चानाम्। तां सहैव नेतुं न ममाधिकारोऽस्ति। तथापि कृष्णा मम दु:खं द्विधा विभाजयितुमचिन्तयदिति सेयं मे सान्त्वना। अनयाऽहं वनवासदु:खं विस्मरिष्यामि।’’
अर्जुनस्यानया कोमलया हार्दिक्या च वाण्या वर्षाकालिकमेघखण्डेभ्यो जलकणैरिवाश्रुभि: पाषाणचक्षुषी ममाप्लाविते। तान्येवाश्रुणि विलोक्य स उवाद—''सत्सु चतुर्षु पतिषु किं ते दु:खं, कृष्णे! विपत्त्राणाय भीमसेनो वर्त्तते। द्वन्द्वे युधिष्ठिरो मार्गदर्शक: स्यात्। अवसरसमये नकुलसहदेवौ त्वां प्रमोदयिष्यत:। किं बहुना, सति सख्यौ कृष्णे का नाम ते चिन्ता? यदा स्मरिष्यसि, स आगमिष्यति। सुखेन वर्त्तस्व कृष्णे! मम गमनं चानुजानीहि।’’
इच्छामि स्म—धनञ्जयस्य हृदये निपतन्ती मोक्ष्याम्यस्त्राणि, विश्रब्धं च प्रकाशयिष्यामि—''अयि धनञ्जय! त्वां विनेन्द्रप्रस्थे द्वादशवर्षाणि वाहयिष्यामि केन प्रकारेण?’’ परन्तु न तथा किमपि कृतं मया। यतोहि, अनेनार्जुनो हसिष्यति, चतुष्पतिप्रसङ्गं चोत्थापयिष्यति। समस्तेषु सुखैश्वर्येष्वपि तेनैवाहं पूर्णत आच्छादितेति स कथं विश्वसेत्? इन्द्रप्रस्थराजसिंहासनापेक्षयाऽर्जुनहृदयसिंहासनं ममाधिकतरं काम्यमित्यहं केन मार्गेण विज्ञापयेयम्?
अहं तूष्णीं भूत्वा तं विलोक्यागणितं चिन्तयामि। कोऽप्यन्यो जानातु, न जानातु वा, किन्तु नूनमहं जानामि यन्मत्तो दूरीभवितुमर्जुन: सर्वं विज्ञाय नियमभङ्गं चकार। मह्यं दण्डविधानं तदुद्देश्यमेव। स सम्यग् जानाति यदितोऽधिकतरो दण्ड: संसारे कस्यैचिदर्धाङ्गिन्यै नास्तीति।
अर्जुनोऽनुमत्याकाङ्क्षयोवाच—''कृष्णे! गमनायाऽनुमतिं वितर। द्वादशवर्षेभ्य: परं पुनर्दर्शनं सम्भविष्यति। वनेषु कदा किम्भूता विपदापतिष्यतीति को जानाति?’’
आशङ्कोद्वेगदुश्चिन्ताभिर्मम मुखं मलिनमभूत्। ऐच्छम्, अर्जुनचरणयोर्निपतिष्यामीति। कथयिष्यामि च—मां पद्भ्यां चूर्णीकृत्य वनं याहीति। द्वादशवर्षाणि जीवन्त्या अपि मे आशङ्कोद्वेगादिभिर्मुहुर्मुहुर्मरणापेक्षया तव पद्भ्यां मृत्युवरणं श्रेयस्तरमिति। परन्तु निरीक्ष्याजानाम्—मम विवर्णं मुखमण्डलं विलोक्यार्जुनो मनसा सुखमनुभवतीति। मम मनसि कष्टमापादयितुं सर्वं ज्ञायं ज्ञायं तथैव स ब्रवीतीत्यत्र नास्ति सन्देह:। मद्दु:खाय तस्येयं योजनेति नाज्ञाता मे। कृष्णेन सह द्वारकागमनाय मया नाना बाधा दर्शिता, किन्तु सम्प्रति न काऽपि बाधाऽऽपत्स्यत इति विचिन्त्यार्जुनेनेदं नाटकं विरचितम्।
अहमात्मानं दृढीकृतवती। स्थिरकण्ठेनावदम्—''आर्यावर्त्तस्य श्रेष्ठो वीरोऽर्जुनोऽरण्येऽज्ञातविपदाशङ्कां कुरुत इतीदं प्रथमतो मयाऽनुभूतम्। तथापि विश्वसिम्यहं यत् कृष्णसखो वीरश्रेष्ठो धनञ्जयो महत्तराया अपि विपदो मुक्त: स्यात्। पृथिव्यां काऽपि शक्तिस्तं पराजेतुं नैव शक्नोति। सोऽयं विश्वासस्तुभ्यं मम प्रवासवार्त्ता। श्रीकृष्णस्त्वां सर्वशुभेन प्रत्यावर्तयतु। एषु द्वादशवर्षेषु विपद्यापतन्त्यां कदापि कृष्णं न स्मरिष्यामि। यतोहि तदानीं यदि त्वं तं स्मरसि तर्हि स कुत्र गच्छेत्? कस्याह्वानं श्रोष्यति? अत: श्रीकृष्णस्त्वदन्तिके सदैव वर्तत इति मन्तव्यम्।’’
अर्जुनस्य हृदयं कोमलं बभूव। शीतलकण्ठेन सोऽवादीत्—''कृष्णे! त्वं धन्यवादार्हा। स्वकर्म सम्पादितं त्वया। अहमपि तुभ्यं मदुचितं कर्तव्यं विधास्यामि। यस्मिन् वर्षे युग्मजीवनावसर आवयोरारप्स्यते, तदा तुभ्यं सङ्गदानाय सखायं सन्देक्ष्यामि। तस्मिन् सति त्वं ममाभावं न ज्ञास्यसि। सुखेन ते दिनानि गमिष्यन्ति। अरण्येषु कुत्रचिदपि वर्तमान: कृष्णस्य त्वत्सन्निधावुपस्थितिं विज्ञाय सुखी भविष्यामि।’’
अहं शान्ता। न मे किञ्चिदवशिष्टं कथनीयमस्ति। अनेको विवक्षाया आवेगो मां वाणीहीनां कुरुते, मूकीकुरुते।
अर्जुनो मे हस्तं संस्पृश्य कोमलकण्ठेन जगाद—''त्वं विदुषी, विद्यावती। तुभ्यं किमुपदिशानि? तथापि मे काश्चनोक्तयो मनसि धार्या:। धर्ममार्गे सञ्चलन् ज्येष्ठाग्रज: कदा कदा कठोरायते। तमन्यथा चिन्तयितुं नार्हसि। तन्मनसि कदापि दु:खं न देयम्। अग्रजं भीमसेनं कदापि न रोषयिष्यसि। नकुलसहदेवयोरयत्नोऽपि न करणीय:। सर्वतो गरीयसी जनन्यस्माकम्—तां प्रति कर्तव्ये त्रुटि: कदापि न कार्या। आजीवनं तयाऽस्माकं कृते कष्टलाञ्छनादु:खानि वृतानि। ममानुपस्थितौ यदि कदाचित् सखा कृष्ण: समायाति, तर्हि तदातिथ्ये त्रुटिरपि न विधेया। पुनर्मद्विषये? मद्विषये न किञ्चिदपि चिन्तनीयम्। वयं राजपुत्रा अपि बाल्याद् वनवासविपदनाहारार्धाहारदारिद्र्यदुर्भाग्यादिभि: सहास्माकं सङ्ग्राम:। दिष्ट्या पुन: प्रत्यावर्त्तिष्ये। ननु सम्मतिं प्रयच्छ।’’
पार्थस्य प्रत्येकमुपदेशो ग्रहणीय: स्पृहणीयश्च। सर्वेषां विषय एकैकश: प्रोवाच। मद्विषये तु किमपि नाभिहितम्? नारी विदुषी विद्यावती चेत्तद्विषये संसारे न कोऽपि किं किमपि न चिन्तयति? कस्यापि हृदयस्य स्नेहसहानुभूतिसमवेदना: किं तदर्थं नावश्यकीया:? सा किं न मानवी? किं सा पाषाणी, निष्प्राणा प्रतिमा?
अभिमानेन कण्ठो मे रुद्ध:। नयने वाष्पाच्छन्ने। अर्जुनस्योदारता तथापि प्रशंसिता। तस्य निर्गमात्पूर्वमहमकस्मादपृच्छम्—''अन्य: कोऽपि न जानातु, मां तु वद यन्मदपराधात् त्वमस्त्रानयनच्छलेन युधिष्ठिरशयनकक्षे प्रविष्टो न वा? इन्द्रप्रस्थराजधान्यां कुत्रापि तन्न लब्धमित्यहं नैव विश्वसिमि। वनवासिन: संन्यासिन: सत्यं वदन्ति। वनवासात् पूर्वं मिथ्योक्तौ तव प्रायश्चित्ते बाधाऽऽपत्स्यत इतीदं तु त्वं सम्यक् जानासि।’’
स मे मुखे दृष्टिं ससर्ज। तस्यां दृष्टौ करुणा, व्यथा, प्रत्याघातदानस्यानन्दश्च। ओष्ठकोणे मृदुहास्ये कुण्ठिता भ्रमरी। तेन मयि दण्डो विहित इति ज्ञातो मया। अनेन यथा तस्य द्वादशवर्षवनवास: सार्थको जात:!
वरमहं दु:खं लप्स्ये, परन्तु दण्डिताऽहमिति स आनन्दित:—एवमात्मानं सान्त्वयन्त्या द्वादशवर्षाणि तस्यागमनप्रतीक्षां विना किं मे मार्गान्तरम्?
(१९)
समय: सरति, परन्तु सोऽनन्त:। दु:खं देहसह्यं भवति, तथापि तदसह्यम्। सूर्य उदेति, अस्तं याति। दिनात् परं दिनं व्यतीयते। चिन्तयामि—अनेकवारं सूर्य उदेष्यति, अस्तं च यास्यति—अर्जुनश्च प्रत्यावर्त्तिष्यते।
अर्जुनस्य वनवासस्य वर्षादधिक: कालो गत:। अस्मिन्नवसरे भीमेन सह मम युग्मजीवनस्य वार्षकावधि: पूर्णतां गत:। भीमात् परमर्जुनेन सह मे मधुमयदाम्पत्यजीवनस्यारम्भोऽभविष्यत्। परन्तु सम्प्रति स वनवासी। अत: भीमसेन इच्छति यत्तेन सहेदमेकवर्षात्मकं दाम्पत्यं यापनीयमिति। किमपि मूल्यवद् द्रव्यं यदि क्रमशोऽनेकैर्भुज्यते, तेषु यदि कोऽपि क्रमागतोऽनुपस्थितस्तर्हि तत्पूर्ववर्त्ती एव तद् भोक्तुमर्ह इति भीमसेनस्य वाचोयुक्ति:। अतोऽर्जुनानुपस्थितौ भीमान्तिके तद्वर्षं यापयिष्यामीति तदिच्छा। परन्तु ममेयं प्रतिज्ञा यद् वर्षमिदं ब्रह्मचारिणीरूपेण वाहयिष्यामीति। प्रवासपतिकाया मे जीवनं स्यान्निराडम्बरं पवित्रं च।
एतावता भीमस्य क्रोधाग्रिर्जज्वाल। भोजने यथा तस्याधिकतमो भागस्तथैव मल्लाभस्य महार्घं सुयोगं हस्तान्तरितं कर्त्तुं नेच्छति। परन्त्वहमचलप्रतिज्ञा। मह्यं रुष्टो भीमसेन: सपत्नीहिडिम्बान्तिकं वर्षायास्मै निर्गत:। को वोपायो मम?
अहं निष्ठया वनचारिणीव फलाहारेणैकवर्षात्मकं ब्रह्मचर्यव्रतं पालयामि। मम पतिरभिमानेन द्वादशवर्षाणि वनवासमङ्गीचकार। किमहं वर्षमात्रस्य निराडम्बरं जीवनं यापयितुं न शक्ष्यामि? मायया नितम्बिन्या च सहोद्याने कुटीरं निर्माय निवसामि। प्रत्यहं प्रात:काले यमुनायां स्नात्वा पूजाहोमादिकर्माणि समापयामि। तत: परं मातु: पाण्डवानां च भोजनं पचामि। स्वकर्तव्यं तिरस्कृत्य पूजाहोमादिभि: पुण्यार्जनं नैव सम्भवतीति मे दृढं मतम्। अत: आदिवसमुपवसामि, सायं यमुनायां पुन: स्नात्वा स्वल्पं फलाहारं करोमि। रात्रौ पर्णकुटीरे कुशशय्यायां शयित्वा भगवन्तं प्रार्थये—हे ईश्वर! अर्जुनो यत्रास्तु नाम सकुशलोऽस्तु। येन केनाप्युपायेन तस्य वनवासक्लेशो लाघवं यातु।
मध्ये मध्ये देवर्षिनारदात्तस्य समाचार उपलभ्यते। तेन सह बहवो ब्राह्मणास्तपस्विनश्च वनवासं जग्मु:। गङ्गाकूले आश्रमं निर्मायार्जुनस्तै: सह ब्रह्मचर्यजीवनमतिवाहयति। तस्य कठोरं तपश्चरणं मामधिकं क्लेशयति, ग्लान्या च पूर्यते हृदयम्। चिन्तयामि, मामेव ज्वालयितुमसौ कियत् कष्टं न सहते! अपि च, तत्कठोरतपस्या—सन्न्यासव्रतभङ्गाय यदि काऽप्यप्सरास्तत्सम्मुखे नृत्यं कुर्वन्ती तं मोहयेत् तर्हि तस्या अहं कृतज्ञा स्याम्। पुनश्चिन्तयामि, मम कामनाऽवश्यं व्यर्था भवेत्, यतोहि यत्प्रतिज्ञानाशाय नाहं समर्था, तदर्थं नान्या नारी शक्ता। इयं च भावना ममाधिकदु:खाय कल्पते। अर्जुनस्य वनवासकालो यदि कष्टप्रदो न भवेत्, स चेदस्मिन्नवधौ भोगविलासकामनावासनापरितृप्तो भवेत्तर्हि तद्विरहेणाहं स्वशरीरमेवं न क्षपयेयम्। परन्तु तद्विरहक्लिष्टाऽहं स्यामिति तदिच्छा। मम पुन: शान्ति: कुत:?
महर्षिर्नारदो बहुदिनेभ्य: परमर्जुनसमाचारेण समागत:। मम सन्न्यासिनीवेशं विलोक्याधरोष्ठे हास्यरेखां प्रकाश्याब्रवीत्—''द्रुपदनन्दिनि! ननूद्यानकुटीरं सन्त्यज्यान्त:पुरं प्रत्यावर्तस्व। कुटीरनिवासोऽधुनाऽऽवश्यक एव नास्ति।’’ अहमाशङ्कयापृच्छम्—''वदन्तु भगवन्त:! अपि सर्वं कुशलं तस्य?’’
—''तस्य कुशलं विना किमप्यन्यद् भवितुं नार्हति देवि कृष्णे!’’
अहमाश्वस्तोत्सुकनेत्राभ्यामपश्यम् तमर्जुनकुश्लसमाचारजिज्ञासया। उद्यानकोणस्थे मम पर्णकुटीराङ्गन उपविश्य महर्षिर्नारद उवाच—''अर्जुनो वीरपुरुष:। तपस्विवेशेन भ्रमताऽपि तेन भ्रमितदेशेषु स्वश्रेष्ठत्वं प्रतिपादितम्। तेषु देशेषु च तेन नानाविधा उपहारा: ससम्मानं लब्धा:।’’
तदानीमहं चिन्तयामि स्म यत्तस्य प्रत्यावर्तनात् परं तदुपलब्धैरुपहारैर्मम गृहं मण्डितं भविष्यति। मम गृहशोभा वर्धिष्यते। उपहारास्ते किम्भूता: स्यु:?
मन्नेत्रयो: सुन्दरद्रव्याप्तेर्नारीसुलभमोहस्य स्वाक्षरं सम्यगधीत्य महर्षी रहस्यमयं हास्यं चकार। आह च—''कृष्णे! मनुष्यस्य कामनाऽविनाशिनी। संसारस्योत्कृष्टद्रव्यैर्गृहमण्डनेनाऽपि नारी मनसोऽभावो न पूर्यते, अपितु वर्धते। यो यावदधिकमाप्नोति, तस्येच्छा तावती वर्धते। अत: धनञ्जयो यावत् सुन्दरपदार्थानामधिकारी भवेत्, तावान् ते आशाऽऽकाङ्क्षामोहादिभि: सहाभावबोधोऽपि वर्धिष्यते। अत: किं किं तेनासादितमिति चिन्तनेनालम्। कदाचित्तत्ते दु:खकारणं सम्भवेत्!’’
—''दु:खकारणम्?’’—अहमातङ्किता।
नारद: कोमलकण्ठेन बभाषे—''अवश्यं त्वं न साधारणी राजकन्या। त्वं विदुषी, बुद्धिमती च। त्वया ते पितु: भ्रातुश्चान्त:पुरेऽनेका उपपत्न्यो दृष्टा:। अर्जुनमतिरिच्य चतुर्णां ते पतीनामुपपत्न्योऽपि सन्ति। तदेतद्राज्यस्य गौरवम्। अतोऽद्यार्जुनो वनवासी सन्नपि स्वपुरुषकारेण सुन्दरी: राजकन्या: लब्धवानिति तेन त्वं गौरवान्विता स्या:। तस्य शतपत्नीग्रहणेनापि त्वं तस्य प्रथमा पत्नी—प्रियतमा। सम्प्रत्यन्यपत्नीषु श्रेष्ठत्वप्रतिपादनाय त्वमवसरं लप्स्यसे, तेन च त्वमधिकतरं तस्य प्रियतमा भवितुं शक्ष्यसि।’’
अहं नीरवा, निर्विकारा च। अहमर्जुनस्य प्रथमा पत्नी, परन्तु तेन सह दाम्पत्यजीवनस्य दु:खसुखयो:, रागरोषयो:, अनुरागविरागयोरनुभूत्यां न तस्य प्रथमा। का सा भाग्यवती राजकन्या, यत्साहचर्येणार्जुनेन ब्रह्मचर्यजपतपसां कठोरप्रतिज्ञा विस्मृता?
महर्षिर्हसन् जगाद—''अर्जुनस्यैकाऽद्भुताऽऽकर्षणी शक्तिरस्ति। यात्रामार्गे यानि यानि राज्यान्यागतानि, तेषां राज्यानां राजकन्याभि: स्वात्मा तस्मै समर्पित:। नागलोकराजकन्या उलूपी तद्रूपाकर्षिता तं पतिरूपेणाप्तुमैच्छत्। वीरपुरुषोऽसौ कथं वाऽपाकुर्यात्?’’
—''किन्तु धनञ्जयो यद् द्वादशवर्षब्रह्मचर्यव्रतपालनप्रतिज्ञो वनवासी बभूव!’’—अकस्मादिदं मे मुखान्नि:सृतम्। नारद: सस्मितमुवाच—''इयमप्युपस्थापिता युक्तिरर्जुनेन। परन्तु न सामान्या बुद्धिमती राजकन्योलूपी। तयेयं युक्तिरुपास्थाप्यत—''अर्जुन: केवलं पत्न्या द्रौपद्या सह द्वादशवर्षाणि मिलितुं न शक्ष्यतीति नियमेन वनवासी ब्रह्मचारी। परन्तु द्रौपदीभिन्नाया: पत्न्या: ग्रहणे न तस्य नियमभङ्ग: स्यात्। अन्यच्च, यदा पत्नी द्रौपदी पतिभिरन्यै: सह गार्हस्थ्यजीवनं यापयति, तदाऽर्जुनस्य वीरपुरुषस्य ब्रह्मचारित्वं हास्यास्पदम्।’’ अनया पराजितोऽर्जुनस्तां पत्नीरूपेणोलूपीं स्वीचकार।
अहमपि पराजिताऽनयाऽभवम्। न किमपि मया वक्तव्यमासीत्।
महर्षिर्नारदो धनञ्जयस्य दिग्विजयगाथां श्रावयति, अहं च शृण्वन्त्यस्मि।
नागलोके कौरव्यसर्पराजकन्ययोलूप्या सह कतिपयदिनानि मधुरदाम्पत्ये ममज्जार्जुन:। प्रायेणानन्तरं तस्य ग्लानिरुत्पन्ना। मनसि पूर्वां प्रशान्तिं निर्मलतां च परावर्तयितुं सोऽङ्गकलिङ्गदेशयोस्तीर्थाटनं चकार। समग्रे भारतवर्षे कलिङ्गा देवदेवीतीर्थादिनि स्ववक्षसा निधाय समस्तमनुष्यजाते: पवित्रभूमिरूपेण परिगणिता:। नैके योगिनो, ऋषयो, देवाश्च स्वप्रियकलिङ्गानां प्रशान्तोदारकमनीयप्रकृत्यङ्के जीवनरहस्यमन्विषन्ति।
धनञ्जय: कलिङ्गेषु समाजगाम। तत्र कलिङ्गराजकन्याया आर्याया: प्रणयपाशाबद्धो बभूव। सूर्योपासनां समाप्य मन्दिरात् प्रत्यावर्त्तते राजकन्याऽऽर्या। मन्दिरद्वारि सौम्यदर्शनस्तपस्वी हस्तावुत्सार्य कृताञ्जलि: सूर्यदेवस्य कृपां कामयते। राजकन्याऽऽर्या किञ्चित् प्रसादं चरणोदकं च तपस्विनो हस्तयोर्दत्त्वा तं प्राणमत्। प्रतिदिनं सूर्याराधनां सम्पाद्य सद्य:स्नाता राजकन्या मन्दिरात् राजप्रासादं यावदुपस्थितेषु नरेषु प्रसादं पादोदकं च वितरति।
प्रसादग्रहणात् परमपि तपस्विन: प्रसारिताञ्जलिस्तथैवापरिवर्त्तिताऽस्ति। निर्निमेषा तस्य दृष्टि: राजकन्याया: पवित्रकोमलमुखमण्डले स्थिरसूर्यरश्मिरिव प्रकाशते। राजकन्या नमनीयमधुरस्वरेण पप्रच्छ—''किमावश्यकं तपस्विनो भवत:?’’
—''अहं कश्चित्तापसो वैदेशिक:। कलिङ्गेषु कतिपयदिनान्यवस्थातुमिच्छामि।’’ अर्जुनस्य मधुरकण्ठध्वनिना राजकन्या मन्त्रमुग्धेव बभूव।
राजकन्याया वीणास्वरात् कण्ठान्नि:सृतानि कतिपयपदानि—''कलिङ्गेष्वातिथ्यस्याभावो नास्ति तपस्विन्! अतिथिभवने स्वेच्छयाऽवस्थातुमर्हति भवान्।’’
—''किन्तु, एका कामना—’’
—''वदतु सन्न्यासिन्!’’
—''राजनन्दिन्या: पवित्रहस्तात् प्रत्यहं प्रसादकणिकैका किमु लप्स्यते?’’
—''तदेतन्मे परमं सौभाग्यम्।’’
—''राजनन्दिनी कं वरं कामयते?’’
—''कुमार्या: कामना किमु सर्वविद: सन्न्यासिनोऽगोचरा?’’
—''अपि योग्यो वर:?’’
—''सन्न्यासी तु सर्ववित्!’’
—''कमिव? कन्दर्पं कार्तिकेयमिव वा? महादेववद्वा? परमप्रेमिकश्रीकृष्णसदृशं वा? अथवा दुर्योधनमिव वरं राजदुहिता कामयते?’’
—''वीरश्रेष्ठोऽर्जुन: समग्रभारतवर्षस्य राजकन्यानां काम्य: पुरुष एव।’’
—''राजनन्दिन्या: काम्याद् योग्यतर: पुरुषो यद्युपलभ्येत, तत्रापत्ति: काचिद्राजकन्याया:?’’
—''तत् किं सम्भवम्?’’
—''अवश्यं सम्भवम्। देवानां योगिनां सन्तुष्ट्या सर्वं सम्भवम्।’’
राजकन्या नतदृष्ट्योवाच—''अर्जुनसम: पुरुष: केवलमर्जुन एव। तं पतिरूपेण प्राप्तुं भाग्यं केवलं याज्ञसेन्या:। अर्जुनो मृदुहास्येनाभयं दत्त्वेवाह—''अलं चिन्तया राजनन्दिनि! स्वयमर्जुनस्ते उपलब्ध: स्यात्। इदं मे सत्यं, सत्यं, त्रिवारं सत्यम्।’’
तत: परं राजभवनातिथिगृहेऽवतस्थे धनञ्जय:। तस्यागाधपाण्डित्यवीरत्वकारणादयं पार्थोऽर्जुन इति चिराय नाज्ञातं बभूव महाराजस्य। कलिङ्गभूमिराकालात् सुरवीरप्रसविनी। वीरपुरुषनिर्वर्णने कलिङ्गनरपति: कथं पुन: त्रुटिं कुर्यात्?
अर्जुन: क्रमेण कलिङ्गानां संस्कृतिकलास्थापत्यसमुदारप्राकृतिकशोभापरम्परामहनीयमानवधर्माणां, कलिङ्गकन्याया आर्यायाश्च प्रेमपाशेनाबद्ध:। कलिङ्गराजेन तस्य वास्तविकं परिचयमवाप्य महाडम्बरेण स्वकन्यायास्तेन सह विवाह: सम्पादित:। कतिपयदिनान्यार्यया साकं मधुरं दाम्पत्यमतिवाह्य तदनुज्ञयाऽर्जुनोऽन्यत्र निस्ससार। आर्याया अनुजिगमिषया स तां निवार्याह—''भद्रे! त्वमिह कलिङ्गेषु स्थास्यसि। तथा सति प्रतिवर्षमन्तत: सकृदपीहागमिष्यामि। कलिङ्गनैकट्यं वर्धिष्यते। त्वयि गमिष्यन्त्यां कलिङ्गेभ्यो दूरीभविष्यामि। कलिङ्गेषु या प्रशान्तिर्मयाऽऽसादिता, साऽन्यत्र लप्स्यते वा न वेत्यहं न जाने। यदा दु:खासाहाय्यशोकदुश्चिन्ताभारोऽसह्यो भवेत्तदा प्रत्यावर्त्तिष्ये त्वन्निकटे, कलिङ्गमातुश्चोत्सङ्गे।’’
आर्या सानन्दं तस्मायनुमतिं प्रदत्तवती। प्रतिज्ञापालनपथे कथं सा विघ्रायताम्?
कलिङ्गसीमानमतिक्रम्यानुसमुद्रतटं प्रकृतेर्विचित्रशोभामाकण्ठं निपीय पार्थो मणिपुरराज्ये प्रविवेश। मणिपुरराजस्य चित्रवाहनस्य कन्यायाश्चित्राङ्गदाया रूपयौवनाभ्यां विमुग्ध: स तत्पाणिग्रहणायैच्छत्। परन्तु चित्राङ्गदा मणिपुरराजस्यैकैव सन्तति:। अत: को भविष्यति महाराजस्योत्तराधिकारी? प्रश्नमिमं समादधेऽर्जुन:। चित्राङ्गदापुत्रस्य भाविनि मणिपुरराजत्वे न तस्य काऽप्यापत्ति:। शान्तिपूर्णं सहावस्थानं, परस्परं राज्यानां सुसम्बन्धस्तस्य परमं व्रतम्। इदमपि वासुदेवस्य धर्माभियानस्योद्देश्यम्। यद्यर्जुनसुतो मणिपुराराज्यस्याधिपतिर्भवेत्, तर्हि तेन समेषां मङ्गलं संसाधितं भवेत्।
चित्राङ्गदार्जुनयोर्ववाह: सम्पन्न:। सम्प्रति मणिपुरेषु चित्राङ्गदया सह समयमतिवाहयति तृतीयपाण्डव:। त्रीणि वर्षाणीह स स्थास्यतीति तस्य विचार:।
अहं तस्य समाचारं लब्ध्वा किञ्चिदाश्वस्ता। परन्तूलूप्यार्याचित्राङ्गदा: प्रति स्वेर्ष्याभावं गोपयितुं न शक्ता। परन्तु यं पुरुषमेकान्तत: प्राप्तुमहं प्रयासरता, सम्प्रति 'स मदीय’ इति कथयितुं मे साहसो नास्ति। ता: किं मदधिका: सुन्दर्यो, गुणवत्य:, पतिप्राणाश्च?
महर्षिर्मे मनोगतं वेद। सान्त्वनायै स प्रशान्तकण्ठेनावादीत्—''वत्से कृष्णे! विवाहस्यास्य पृष्ठभूमावर्जुनस्योद्देश्यान्तरमस्ति। त्वं तु सम्यग् जानासि हस्तिनेन्द्रप्रस्थयोर्विभाजनात् परं कौरवाणामसूयाभाव: प्रज्वलन् वर्त्तते। एकदा स भीषणतां भजिष्यते। भाविनि समये भीषणसङ्ग्रामस्य सम्भावनाऽस्ति। अर्जुनस्यायं विवाहस्तस्य महायुद्धस्य पूर्वप्रस्तुतिरित्यवेहि।’’ अहं साश्चर्यमवलोकितवती नारदम्। नारदश्च हसन् जगाद—''मणिपुरकलिङ्गनागलोकाश्च वीरभूमय:। जननीजन्मभूमिरक्षायै तत्रत्या दुर्धर्षा वीरा: स्वप्नाणाहूत्यै सर्वदा प्रस्तुता:। अत: धनञ्जयो विवाहसूत्रेण ताभिर्वीरभूमिभि: सह बन्धुत्वं संस्थापयामास। प्रकारान्तरेण च भावियुद्धस्य निमन्त्रणमपि तेभ्यस्तेन प्रदत्तम्। सम्प्रति यदि कौरवपाण्डवानां परस्परं युद्धं भवेत्, तर्हि एषां साहाय्येन विजयस्वादमवश्यमाप्स्यन्ति पाण्डवा:। राजनैतिककारणादर्जुनस्यायं बहुविवाहप्रसङ्गोऽत्यन्तं स्वागतयोग्य एव।’’
अहमाश्वस्ता। राजनैतिककारणात्तस्य शतपत्नीग्रहणेनापि न मे दु:खम्। किन्तु मदपेक्षया कामपि रमणीं सुन्दरतरां, विद्वत्तरां प्रेममयीं च मत्वा तत्प्रेम्णा तद्विवाहो नितान्तं ममापमानस्य विषय:। सहसा ममान्तर्मनसो भगवते स्तुतिर्नि:सृता। देशकल्याणायार्जुन: शतपत्नी: स्वीकरोतु, परन्तु कस्याश्चन रमण्या: प्रेम्णा तत्पाणिं न गृह्णातु।
इन्द्रजालम्, ममता, मोह:, शठतेत्यादय मायाया अपरपर्याया:। सर्वेषामेषां संयोगेन यद् भवति तदेव जीवनम्। अर्थात् जीवनं नाम माया।
सहचरी माया तदिदं प्रबोधयन्ती जीवनं व्याख्याति स्म मत्पुरस्तात्। महर्षिनारदस्य निर्गमनाद् जाताहममर्षाकुलिता। स्वाज्ञाततया स्वेर्ष्यया ज्वलामि, स्वाभिमानेन च क्षीणा भवामि। राजनैतिककारणादर्जुनस्यैकाधिकपत्नीपाणिग्रहणविषयं विज्ञायाबोधं मनो न स्थिरीभवति।
माया मे मनोविचारपरिवर्तनाय सततं प्रयतते स्म। मम कर्णे कथयति स्म—''महाराज्ञि! कस्मायिदं ते ब्रह्मचारिणीजीवनं, कठोरा तपस्या, निराडम्बरा जीवनयात्रा, विनिद्ररजनीनां व्याकुलप्रतीक्षा च? निष्ठुराय धनञ्जयाय? अत्रान्तरे तिसृभी राजकन्याभि: सह युग्मजीवनस्य मधुराह्लादेन तेन ते सम्बन्धो विस्मारित: स्यात्। प्रत्यावर्तनात् परं तुभ्यं तस्य मनस उत्कण्ठाकौतूहलाकर्षणादिनि शिथिलतां न व्रजेयुरिति को जानाति? त्वं रूपवती, त्वं विदुषी, त्वं वरनारी च। जीवनमिदं सुखाय, उपभोगाय, आनन्दाय च। सुखप्राप्त्याशया मनुष्योऽसह्यमपि दु:खं सहते। किन्तु ते जीवनसुखं तव प्रियतमेन फाल्गुनेन परिसमाप्तम्। ननु विस्मर तम्। चतुर्भि: पतिभि: सह जीवनमुपभुञ्जीथा:। त्वमिन्द्रप्रस्थमहाराज्ञी किल। विपुलं वैभवं ते पदतले लुठति। यौवनं च तव स्थिरम्। परन्तु समयोऽत्यन्तं शठ:। अर्जुनप्रत्यावर्त्तनस्य दशवर्षाण्यवशिष्यन्ते सम्प्रति! जीवनस्य प्रत्येकं मुहूर्त्तो महार्घ:। यौवनस्य प्रत्येकं निमेषोऽमूल्य:। जीवनमुपभुञ्जीथा: महाराज्ञि! अर्जुन: प्रत्यावर्त्य स्वयं पश्यतु यत्त्वद्दु:खाय तत्कृता कूटनीतिॢवफलेति।’’
माया मम कर्णे मधुमक्षिकेव मृदु गुञ्जति, जीवनस्यार्थं बोधयति च। मध्ये मध्ये माया मां तद्वाक्चातुर्या मोहेनाच्छादयति। चिन्तयामि च, तस्या वाक्स्रोतस्यात्मानं प्रवाहयिष्यामि, स्वक्षणिकजीवनस्य प्रत्येकं पलं सुखमयं सम्पादयिष्यामि च।
एकदा मायाया: प्ररोचनया सखीभि: सह यमुनातीरारण्यशोभामुपभोक्तुमहं निर्गता, कदाचित् प्रशान्ता प्रकृतिर्ममाशान्तं चित्तं शान्तं सम्पादयेदिति विचार्य।
वर्षाकाल:। यमुनायां जलाप्लावनम्। कियद्विचित्रमिदम्! नदीनायिकामज्ञातमार्गेणाकारयति, सागरेण सह नदीमिलनस्य सूत्रधाररूपेण धारां स्थिरीकुरुते, प्रशान्तीकरोति, परिपूर्णीकरोति चायं काल:।
प्रत्येकं मनुष्यस्य जीवनेऽस्थिरो मुहूर्त आयाति। परन्तु लक्ष्यं तस्य स्थिरता, प्रशान्ति:, परिपूर्णता च। मम जीवने तु स्थिरता कुत:? परिपूर्णता च क्व? यं सन्निकट आप्तुमिच्छामि स तु दूरीभूतो नदीस्रोतसि प्रवहत् प्रसूनमिव, स्वायत्ताद् भ्रष्टो मुहूर्त इव च।
पश्चान्माया हसति कलनादेन। प्रायेण नदीजलेन सह प्रतिस्पर्धते। वदति—''महाराज्ञि! आकाशस्याश्रुभि: सागरजलराशौ ह्रासवृद्धी न सम्भवत:। सागरस्तु निर्विकार उदारश्च। तदुदारहृदये मिलितुं नदी यद्यस्थिरीभवति तर्हि स कथं कार्पण्यमाचरेत्? तत्र किं नद्यर्थं स्थानाभावोऽस्ति? नदी यथा सागरहृदये स्वस्थानं दृढीकरोति, तथैवार्जुनहृदये तव स्थानान्वेषणमुचितं तु स्यात्, परन्तु अभिमानाश्रुवर्षणेन स किं त्वां स्वीकरिष्यति? सागर: किं नद्यन्तरालवेदनां वेदितुं शक्ष्यति?’’
अहं मनसाऽचिन्तयम्—माया प्रायेण सत्यं वदति। अर्जुनो वीरपुरुष:। समग्रपृथिव्यां राजकन्यास्तं कामयन्ते। तत्र पुनस्तस्य को दोष:?
माया जलक्रीडायै मां प्रेरयति। नूनं मे चित्तसुखायेयं तस्या: प्रेरणा। किन्तु किं प्रबलजलराशौ जलक्रीडा सम्भवा? मायाऽभयं प्रदाय ब्रूते—अलं भयेन महाराज्ञि! नदीशरीरमिहागभीरम्। अत्र स्रोतसो न प्रखरता। यदि वा प्रवाहयेत्, तर्हि निश्चयेनार्जुनान्तिके प्रापयिष्यति। श्रुतं मया यदत्रान्तरे पञ्चतीर्थेऽभिशप्ता: पञ्चाप्सरसो मकरजन्मनो स मुमोचेति। चित्राङ्गदागर्भाद् बभ्रुवाहनाभिधानस्य स्वपुत्रस्य शुभजन्मसमाचारं निशम्यार्जुन: पञ्चतीर्थात् पुनर्मणिपुरेषु पराववृते। पुत्रमुखं विलोक्य सपुत्रां चित्राङ्गदां तत्रैव विहाय स प्रभासतीर्थाय यात्रां चक्रे। प्रभासतीर्थात् परावृत्यार्जुनो यदि यमुनातटे कुत्रचिदाश्रमं स्थापितं कुर्यात्, तर्हि त्वं प्रवहन्ती प्रवेक्ष्यसि तदाश्रमतटदेशे। जलादुद्धृत्य स तपस्वी स्वाश्रमे स्थापयिष्यति। तव तपस्विनीवेशं विलोक्य स मंस्यते—त्वं हि तस्य तपस्विजीवनस्य सहचरी..........।
माया पुन: किमपि जल्पितुमिच्छति—अहं सरोषं निवार्यावदम्—''विरमैतावता माये! तव कल्पनाशक्तिर्नदीस्रोतसोऽपि प्रखरतरा। कल्पनयाऽर्जुनं गङ्गाकूलादानीय यमुटातटे समागमयितुं मुहूर्त्तमात्रेणैव त्वं समर्था। परन्तु कल्पनातो वास्तविकता बहुदूरस्था’’—मम दीर्घश्वासो नद्या: कलनादेषु निलीन:। मायेदं श्रोतुं न शशाक। सा पूर्ववत् हसन्त्युवाच—''परीक्ष्य ज्ञायतां यद् वास्तवताकल्पने कथं परस्परमभिमुखीभवत इति।’’ एतावदुक्त्वा माया मां हस्तेन नद्यामाचकर्ष। नितम्बिन्यपि मामनु नद्यां प्रविवेश।
स्निग्धशीतलेन यमुनाजलेन न केवलं शरीरं, हृदयमपि स्निग्धस्पर्शेणाच्छादितम्। अहं व्यस्मरम् समस्तं दु:खं, हाहाकारमभिमानञ्च। वयं तिस्र: सख्यो जलं परस्परं प्रक्षिपन्त्यो जलक्रीडायां निमग्ना:। प्रायेणात्यन्तिकं हृदयभारं नदीजले प्रवाहयितुमहमनुचिततयाऽधिकचपलाऽभवम्। ममान्यतमा सहचरी पयस्विनी पुष्पगुच्छमेकं नदीस्रोतसि क्षिप्त्वा जगाद—''केदं नदीस्रोतसि प्रथममस्मासु स्प्रक्ष्यति, पश्यामि।’’ वयं तिस्र: प्रवहत्पुष्पगुच्छं लक्ष्यीकृत्य क्षिप्रं नदीधारानुकूलं समतराम। तटस्थिता पयस्विनी चपलबालिकेव करतालिकाभिरस्मानुत्साहयति स्म।
जलस्रोतसि कियद्दूरमहं गतेति नाहं जाने। पुष्पगुच्छं च कुत्र प्रवहतीत्यपि न जाने। अहमन्वभवम् यदहं न सन्तरामि, अपितु निश्चेष्टं प्रवहामि कस्मिंश्चिदज्ञातमार्गे। सख्यौ तु सम्प्रति बहुपश्चात्। तयो: स्वरोऽपि न श्रूयते। अहं प्रवहन्ती यामि कल्पनालोकस्य तस्मिन्नाश्रमे, यत्र मे काम्य: पुरुषस्तपस्विवेशेन मां प्रतीक्षते। अहं प्रवहामि स्वप्नराज्ये जलस्रोतसि वेत्यहं न जाने। हठान्मनसि विचारोद्रेकोऽभूत्—इन्द्रप्रस्थमहाराज्ञ्या याज्ञसेन्या इयं चपलता न स्पृहणीयेति। धीरमते: स्थिरचित्ताया: कृष्णाया: किमद्यैतन्मतिविचलनम्!
परिस्थितिरसहायं कुरुते मनुष्यम्, मनुष्यश्च परिस्थितिं परिवर्तयति। अहं गतिपरिवर्तनेन तटं प्रत्यावर्त्तितुमैच्छम्। परन्तु, इदमवगतवती यदहं स्वनियन्त्रणे नास्मीति। मम समस्तं शरीरं शक्तिहीनमवशञ्च। सखीभि: सह सन्तरणस्पर्धाया इयं विषमा परिणति:।
सम्प्रति भाग्यस्रोतसि स्वात्मप्रवाहं विना गत्यन्तरं नास्ति। मृत्युर्निकटतरायते। कस्मिन्नपि मुहूर्त्ते जलभ्रमर्यां विलीना भविष्यामि। यद्यर्जुनो नागलोक उलूप्या सह सम्प्रत्यवस्थित: स्यात्, तर्हि तस्याहं दर्शनं लब्ध्वा मृत्युमासादयितुं न कुण्ठिता स्याम्।
अस्तनिमग्नसूर्यरङ्गोऽनुज्ज्वलाभो वारुणीं रञ्जयति। मम जीवनस्य सन्ध्याकालोऽप्युपस्थित:। तदानीमपि जीवनमोहो दुर्वार उदियाय। ऐच्छम्—हस्तौ प्रसार्यात्मानमालिङ्ग्य जलस्रोतस उत्थापयिष्यामि। पूर्णतो जीविष्यामि जीवनस्यावशिष्टमुहूर्त्तेषु। जीवनं कियत् सुन्दरम्! कियत् प्रियं काम्यं च मनुष्यस्य जीवनमिति सम्प्रति मर्मणाऽन्वभवम्। तथापि मरणस्य शीतलालिङ्गनं वरणीयं किल। वीरा: शक्तिमन्तश्च मे पञ्चपतय:। परन्तु मामुद्धर्त्तुं नान्तिके कोऽपि वर्त्तते तेषु। सखायं कृष्णं स्मरिष्यामि वा? न न, कदाचिदधुनाऽर्जुन: सङ्कटापन्नस्तं स्मरेत्। अत: सम्प्रति मृत्युरेव श्रेयान्।
अहं नेत्रे निमील्यावसन्ना, स्वोन्मुक्तकवरीबद्धमुखा शाखाभिन्नं पुष्पमिवासहायतया च प्रवहामि।
कोऽयं तेजोदीप्त: परमतपस्वी, यो यमुनाजले सन्ध्यास्नानं समाप्यास्तसूर्यं सभक्तिकं प्रणमति? मम समग्रं शरीरं मृत्यो: शीतलतामवज्ञाय रोमाञ्चितम्, उष्णावेगेन च प्रकम्पितम्।
अस्पष्टानन्दस्य क्षीणार्तनादेन प्रायेण मया धनञ्जयस्य नामोच्चारितम्। परस्तात् तपस्विनो दृष्टिर्मदभिमुखमाकर्षिता। स चैकेनैव लम्फेन नदीजलं विभज्य मां जलस्रोतस उद्धर्त्तुं बाहू प्रससार। चेतनाविस्मृते: पूर्वमहमन्वभवं यत् कस्यचित् पुरुषस्याभयदबलिष्ठभुजौ मां जलादुद्धरत:। शरीरं क्लान्तिवशादचेतनमपि सर्वमहं स्पष्टमनुभवामि। अहं धनञ्जयस्पर्शं हृदयेनानुभवन्ती अचिन्तयम्—परिणयविधौ य: पाणिर्मत्पाणिना सह राजपुरोहितेन सम्मेलित:, तस्य स्पर्श इयानपरिचितोऽत्रान्तरे।
आसन्नमरणाज्जीवनाश्वस्ति:, प्राणप्रियाय दुर्वारोऽभिमान इत्युभौ एकत्र मिलित्वा नयनमार्गेण नदीजले निलीनौ। अहमवसन्ना तटसैकतभूमौ निपतिता। नेत्रे च भृशमवसन्ने। अचिन्तयम्—सकलमभिमानं विस्मृत्य कथयिष्यामि—''तृतीयपाण्डव! अधिकं तु सोढुं न शक्यते, त्वां विनाऽवशिष्टदशवर्षेषु जीवनधारणसामर्थ्यं मम नास्ति। कृपया त्वामनुगन्तुमितोऽनुमतिं प्रदेही’’ति।
अस्मिन्नवसरे मम कर्णपटयोर्मन्द्रमधुर: स्वरो झङ्कृत:—''इन्द्रप्रस्थमहाराज्ञी कृष्णाऽऽत्मनिधनाय किमर्थं प्रयतते? को बत तस्या अभाव:? वर्षर्तावस्मिन् सूर्यास्तमनकाले यमुनाजले आत्मनिपात: कस्मात् पुनर्दु:खात्?’’
अहं विस्मिता। कस्यायं स्वर:? अयं तु नार्जुनस्य! तत: कोऽयं रूपराजस्तपस्वी?
शनै: शनैर्मयोद्घाटिते नेत्रे। मत्पुरत उपस्थित: कुन्तीधर्मपुत्रो महावीर: कर्ण:। अहं लज्जया सङ्कोचेनाशूत्थिता। क्रमशश्च दण्डायमाना भवितुं प्रयते। पृष्ठोपरि मुक्तकुन्तलानां भारोऽपि भूयान् प्रतीयते। शरीरस्य सिक्तं वसनं मय्यधिकां लज्जामापादयति।
कर्णो मे दुर्दशामवगम्य मित्रतापूर्णस्वरेणावोचत्—''ननु त्वं क्लान्ता। मम सहचरी अस्मिता, दु:शासनस्य सहचर्यौ जटिलाऽसूये च रथनिकटे प्रतीक्षन्ते। तास्त्वां रथान्तिकं नीत्वेन्द्रप्रस्थे रथ उपावेश्य प्रापयिष्यन्ति च।’’
अहं चकिता चिन्तयामि स्म—सहचरी: सहानीय रथेनाङ्गदेशात्प्रतिदिनमागत्य यमुनायां सन्ध्यास्नानं किमु वीरस्य कर्णस्य नित्यो विलास:?
नदीबन्धाच्चापर: स्वर: श्रुतो मया। स: स्वरो दु:शासनस्य। दु:शासनो दूराद् ब्रूते—''माऽस्तु भयं कृष्णे! वीर: कर्णस्त्वां रथेनाङ्गदेशे न नेष्यति। मातुरसुस्थताकारणात् स कतिपयदिनेभ्यो हस्तिनापुर्यां निवसति। अद्य मृगयानिस्सृतावावां सन्ध्यां यावदरण्यमायासक्तौ। प्रत्यहं सूर्योदय—सूर्यास्तमनसमययो: स्नात्वा सूर्यपूजनं मम मित्रस्य कर्णस्य परमव्रतम्। स्नानं समाप्यावाभ्यां हस्तिनापुरी गन्तव्या। त्वं यदीन्द्रप्रस्थे गन्तुं नेच्छसि, तर्हि हस्तिनाऽङ्गद्वारे त्वदर्थं चिरायोन्मुक्ते। यत्रेच्छा ते, तत्र प्रापयिष्यति त्वां रथोऽयम्।’’
अहं क्षुण्णा। सरोषमपश्यम् दु:शासनम्। अवदम्—''इन्द्रप्रस्थं ममेष्टदेवानामास्थानम्। तदेवं च मे कर्मस्थानम्। तत्र न प्रत्यावर्त्तिष्ये इति केनोक्तं तुभ्यम्।’’
अट्टहासं चक्रे दु:शासन:। सव्यङ्ग्यमुवाच—''पुन: कुतोऽयं जल आत्महत्याप्रयास:?’’
मम प्रतिवादस्तीक्ष्णोऽभूत्। तीव्रकटाक्षेणावदम्—''जलक्रीडाकालेऽहं जलस्रोतसि निपतिता। अत: सेयं मे दुर्घटना, न त्वात्महत्या। अनेन ते कटुवचसा न केवलं ममापमानोऽपितु कुरुवंशस्यापि भवति।’’
दु:शासनो विकृतकण्ठेन साट्टहासमवादीत्—''तवात्मनाशप्रयासकारणमहं जाने। पञ्चपतिष्वर्जुनस्तेऽधिकं प्रीतिभाक्। परन्तु तेन मूढेन किं कृतम्? द्वादशवर्षाणि ब्रह्मचर्यपालनव्याजेन देशाद्देशान्तरमटन् परमसुन्दरी: राजकन्या: परिणयति, परन्तु त्वं तत्प्रतीक्षायाम्.......! इतोऽधिकं दु:खं किमन्यत् स्यात्?’’
पतिनिन्दाया: सहनक्षमता मम नास्ति, विशेषतो दुष्टकामुकदु:शासनमुखेन कृताया:।
अहं गम्भीरतापूर्वकमुक्तवती—''तवेयं भ्रान्तिरेव दु:शासन! अर्जुनो वीरपुरुष:। सोऽपि सुपुरुष:। परमसुन्दर्यो राजनन्दिन्यस्तं पतिरूपेण प्राप्तुं धृतकृच्छ्रव्रतास्तन्मार्गं प्रतीक्षन्ते। समागते सुयोग एता राजकन्यास्तत्पादतले स्वयं समर्पयामासु:। तेनार्जुनगौरवं वृद्धिमाप, न तु ह्रासम्।’’
दु:शासन: परिहसन् जगाद—''अहह, वीरश्रेष्ठस्य धनञ्जयस्य प्राणप्रिया पत्नी यमुनाप्रखरस्रोतसि स्वप्नाणान् विसृजन्ती सूतपुत्रेण कर्णेन जलादुद्धृता। न केवलं त्वर्जुनेन, अन्यैश्चतुर्भिरपि भ्रार्त्तृभि: पत्न्या: पाञ्चाल्या जलसमाधिसमाचारो विदितो न स्यात्। शवसंस्काराय तच्छरीरमपि लब्धं न स्यात्। अत्यन्तं बलीयसां पत्न्या इयं दुर्दशा!! देवि! किं ते समाचारं त्वत्पतयो न विदन्ति? जलक्रीडार्थमरण्याय परिचारिकाभि: सह निर्गतायास्ते सुरक्षार्थमेकोऽपि शरीररक्षक: सेवकोऽपि न नियोजित:? अनेन त्वां प्रति तेषामविचार: स्पष्ट:। प्रायेण बहून् पुरुषान् सन्तोषयितुं कृतेन प्रयासेन न कोऽपि सन्तुष्यते। अतस्तेषां प्रेमा तुभ्यं न तथा गभीरो यथाऽन्येषां दृश्यते। अथ चावगच्छास्मत्सखायं कर्णम्। मृगयार्थं वनमागतोऽपि स्वप्नाणप्रियां कञ्चनदेशराजदुहितरमनङ्गसेनकन्यां ऋतुमतीं सहानयति। क्षणायापि न तां त्यजति। तवेमां दयनीयामवस्थां विज्ञायावश्यं सा समवेदनां ज्ञापयिष्यति।’’
दु:शासनस्य परोक्षकटाक्षबाणो मे हृदयं बिभेद। कर्णपत्न्यै ऋतुमत्यायपि मनसीर्ष्याऽजायत। दुर्बलमनोऽभ्यन्तरे भावनाऽपि जागर्त्ति यत् प्रायेण दु:शासनस्य वच: सत्यमिति। पञ्चानामर्धाङ्गिन्यपि न कस्यापि स्थिताऽहं सम्प्रति। वस्तुतो यदि जलक्रीडाकाले प्राणानत्यक्ष्यम् तर्हि न कोऽपि पञ्चसु मम प्राणरक्षाकर्त्ताऽभविष्यत्। अहं जलक्रीडां करष्यिमीति ते स्वस्वगुरुणि कार्याणि सन्त्यज्य मया सह च नागमिष्यन्। एवं सौभाग्यं मे क्व? अहं तु न कर्णजाया ऋतुमती!
ममान्यमनस्कतां लक्ष्यीकृत्य दु:शासनोऽवोचत्—''देवि द्रौपदि! अहेतुकी ते चिन्ताऽप्रशस्या। कर्णेन पूर्वं कदाचित् त्वं तिरस्कृतेति तस्य त्वां प्रति विमुखता न कदापि वर्त्तते। सम्प्रति यदि त्वमिच्छसि तर्हि स त्वामङ्गदेशराज्ञीपदेन सादरमभिनन्दयिष्यति। अलं द्विधाभावेन। मातु: कुन्त्या: पञ्चपुत्रा यदि ते भर्त्तारस्तर्हि तस्मात् सुयोगात् कर्ण: कस्मात् कारणात् वञ्चित: स्यात्? यतोहि सोऽपि कुन्त्या धर्मपुत्र एव। अतस्तस्य पतित्ववरणेन ते नाधर्मो भवेत्।’’
दु:शासनवचसा सहसा मे सर्वाण्यङ्गानि क्रोधेन जुगुप्सया च कण्टकितानि। मुखं परावृत्य वक्रदृष्ट्या दु:शासनं सकृदवेक्ष्य सहचरीणामन्तिकं गन्तुमहं प्रवृत्ता। कर्णायैतावन्मात्रमुक्तवती ''परस्त्रीणामसम्मानं य: कुरुते स नराधमो वाच्य:, परन्तु यस्तदसम्मानं तूष्णीमनुमोदयति प्रोत्साहयति च स महापातकी। उभौ मे जुगुप्सापात्रे।’’
उत्तप्ताय:पिण्डमिव रक्ताभं मद्वदनं च सगौरवं विलोकयन् कर्णो मे पथरोधमकार्षीत्। साञ्जलिरुवाच च—''हे देवि द्रौपदि! महापाप: कर्णस्तन्मित्रस्य दु:शासनस्यानेन व्यवहारेण भृशं क्षुब्ध: क्षमां त्वत्त: कामयते। रथ उपावेश्य भवत्या: मात्रन्तिके सम्प्रापणं मम कर्त्तव्यम्। मम पत्नी ऋतुमत्यपि भवत्या सह गमिष्यति। नारीसम्मानरक्षा तज्जीवनरक्षापेक्षया सुपुरुषस्य काम्यतरा स्यात्। अत एवं पद्भ्यां परावर्तनं भवत्या मयि स्थिते नोचितम्।’’
अहमपश्यम्—मत्सम्मुखे कर्णपत्नी ऋतुमती तिष्ठति। सा मां करेण धृत्वा रथान्तिकमनयत्। रथे स्वासनं च मदर्थं समर्पितवती। रथे सञ्चलति सा प्रोवाच—''भवद्दर्शनं चिराद् भूय आकाङ्क्षितमासीत्। मम पतिर्भवतीमियत् प्रशंसति यत् सा कामपि कल्पनाया नायिकां रूपयतीत्यचिन्तयम् पूर्वम्। परन्तु, त्वामद्य पुरतो वीक्ष्यावगच्छामि यत् स तथा संयमी पुरुषो नाभवष्यिच्चेदवश्यं स्वयंवरसभायां शोणितपातान्तं सङ्घर्षमकरिष्यत्।’’
अहं मनसाऽचिन्तयम्—किं कर्ण: पुनर्मम भूयसीं प्रशंसां कुरुते? स्वयंवरसभायां मदर्थं स घोरमपमानमाससाद, तत: परमपि तन्मुखेन मत्प्रशंसा लङ्कायां हरिगीतिरिव न किम्?
ऋतुमती मां मुग्धदृष्ट्या विलोक्यावोचत्—''वस्तुतोऽहं कर्णपत्नी, किन्तु त्वं तस्य प्रेरणाहेतु:। सोऽद्य स्वपुरुषकारं प्रमाणयितुं ययाऽचलप्रतिज्ञया यात्रारम्भं कुरुते, तत्पूर्णता त्वत्काराणात् केवलं सम्भवा। तदानीं यदि तत्पौरुष: स्वयंवरसभायां विपर्यस्तो न स्यात्तर्हि, तेनाद्येयं प्रतिज्ञा कृतैव न स्यात्। पुरुष: सर्वा विफलता विस्मर्त्तुं शक्नोति, परन्तु नारीद्वारा प्रत्याख्यानं कदापि नैव। कर्णजीवनस्य चरमा विफलता त्वमेव। पुन: कर्णस्य जीवने यदि किमपि साफल्यमायाति, तर्हि तत्कारणं त्वमेव। त्वदप्राप्तेर्विफलता कर्णजीवनस्य प्रत्येकं घटनां नियन्त्रयति। अत: याज्ञसेनि! त्वं मे नितरां नमस्या। या मे प्रतिमुहूर्त्तं पतिहृदयस्य स्पन्दनायते, तस्यै कर्णपत्नी नेर्ष्यति, अपितु सम्मानं प्रयच्छति। मम पत्यु: पुरुषश्रेष्ठस्य त्वमेवोपयुक्ता नारीति विज्ञायाहमात्मानमधन्यं मन्ये। चिन्तयामि, मम पत्यायहं कियत्यनुपयुक्ता!’’
अनेन मे मन: पूर्णतोऽन्यत्र विभ्रमति। इदम्प्रथमतया मे हृदयं स्वीकरोति यत् कर्णायाविचारो जात इति। तं प्रति घोरोऽन्यायोऽभूदिति। तस्मिन् दिने मम भ्राता धृष्टद्युम्नो यदि तत्परिचयं नाप्रक्ष्यत् तर्हि प्रायेण कर्णोऽद्य पाञ्चालराजस्य द्रुपदस्य जामाताऽभविष्यत्।
नास्ति नियन्त्रणं मनुष्यस्य जन्मनि, परन्त्वस्ति कर्मणि। अथ च, स्वाभिशप्तजन्मेतिहासकारणात् कुन्तीधर्मपुत्र: कर्णो जीवने प्रतिपदं स्वप्नाप्याद् वञ्चित इतीतोऽधिकोऽविचार: कोऽन्य: स्यात्?
न जाने, अनिच्छयाऽपि वारंवारं सहानुभूत्या स्नेहभारेण वा कर्णाय मे मनो द्रवीभवति। योऽद्य मे पतीनां परम: शत्रुर्भवितुं दृढप्रतिज्ञ:, तस्मायपि मे मन आकृष्यत इत्यस्मात् किमधिकं विचित्रं भवेत्? वस्तुत: संसारेऽस्मिन् कस्य बत मनसि सम्पूर्णं नियन्त्रणमस्ति?
तथाप्यबोधं मनो मनुष्यै: प्रशिष्यते। विवेकदण्डेन तत् पुन: पुन: पराजित्य सन्मार्गे परावर्तयन्ति मानवा:। येन तन्न सम्भवति, स तु अमार्गे चलति। लक्ष्यं त्यजति। मरुभूमेर्मरीचकिां जलं मत्वा तृषा ज्वलति चिराय। अहमपि स्वयं प्रशासितवती। कर्णविषयेऽहं किमर्थं पुन: पुनश्चिन्तयामि? स्वयंवरसभायां व्यर्थमनोरथानां राजपुत्राणां विषय आजीवनं चिन्तयिष्यामीति किमेतन्मे भाग्यलिखितम्? पराजितस्य ननु दु:खम्, परन्तु विजयी करतालिकाभि: स्वागतीक्रियते। स्पर्धायां पराजिताय न कोऽपि तु समवेदनया दीर्घश्वासमपि त्यजत्येकम्!
इन्द्रप्रस्थराजप्रासादसम्मुखे रथ: समागत:। अहं रथादवतरतिा। विनम्र: कर्णो बद्धाञ्जलिर्जगाद—''देवि! ननु प्रतिगन्तुमनुमतिं प्रयच्छतु सम्प्रति। इदं मे परमं सौभाग्यं यन्मयाऽद्य भवदमूल्यजीवनरक्षाया महार्घ: सुयोगो लब्ध इति। बिभेमि स्म यद् भवती जले प्रवाहितावस्थायामपि मां परिचेष्यति, मां च सूतपुत्रं विज्ञाय मम साहाय्यं तिरस्कृत्य मृत्युं वरिष्यतीति। किन्तु दिष्ट्या तदा तथा नाभूत्।’’
कर्णस्य कण्ठस्वरे बालकसुलभोऽभिमान: स्पष्टं प्रतीयते स्म। अहं त्वनायासमब्रवम्—''विगतपूर्वस्य कृतेऽहं भृशं दु:खिता। मनुष्य: कदाचित् स्वाज्ञतयाऽपरस्मायाघातं प्रापयति। कदाचिदपि मनुष्योऽनिच्छयाऽऽघातमावश्यकं मन्यते। ननु मनुष्य: परिस्थितेर्दास:!’’
कर्णो मे मुखाद् वचनमाकृष्येवावोचत्—''परिस्थितेर्दासोऽहमासं स्वयंवरदिनं यावत्, परन्तु तत: परं परिस्थिते: प्रभुर्भवितुमहं कृतप्रतिज्ञ:। मनुष्य: स्वोद्यमेन पुरुषकारेण च परिस्थितिं नियन्त्रयति, परिवर्तयति चेति जगति प्रमाणयितुकामोऽहम्। भवत्कारणादियं मे प्रतिज्ञा। अतो भवती मे सन्ततं नमस्या।’’
कर्णस्य कण्ठस्वरेऽनुक्रमं मदर्थं व्यङ्ग्यं तच्छक्त्यहङ्कारश्च प्रच्छन्नतया वर्धेते इति मया लक्षिते। प्रसङ्गं नाग्रेसारयन्त्यहमवदम्—''अद्यतनसहायतया भवान् धन्यवादार्ह:। अवश्यमिदं मात्रे ज्ञापयिष्यामि।’’
कर्णो हसन्नवादीत्—''अद्य वस्तुतो मया सूतपुत्रकर्तव्यं सम्पादितम्। सूतपुत्रातिरिक्त: को बत स्वमृगयां विहाय भवतीं रथ उपावेश्य राजप्रासादे प्रापयिष्यत्?’’
तेनैकेनैव प्रसङ्गेन कर्ण: पुन: पुनर्मां प्रहरति। तद्दिनस्यापमानेन विक्षतं तस्य हृदयम्। परन्तु को ममोपाय:?
कर्णस्य सुन्दरचक्षुषोस्तीक्ष्णाभिमानस्योदासीनता, तीव्रव्यङ्ग्यकटाक्षवक्रता च। हृदयं भिद्यन्तीं तां दृष्टिमपवार्याहमवोचम्—''प्रकारान्तरेणाहं भवत: शत्रु:, अथ च भवता मे प्राणरक्षा कृता। उपकारोऽयं किल नैव विस्मरणीय:। प्राप्तर्णाऽहं भवतश्चिराय।’’
कर्णचहचरी अस्मिता हसन्त्युवाच—''जीविते शत्रौ शत्रुत्वं शोभते न तु मृते इति प्रसिद्धोक्ति:। को जानाति बत कर्णस्य कार्यकलापस्य पृष्ठत: किमुद्देश्यं प्रच्छन्नमस्तीति?’’
अकस्मान्मे हृदयेऽशुभाशङ्कया कम्पनमजायत। साहङ्कारपुरुषस्य प्रतिशोधमद: कियान् भयङ्कर इत्यहं जानामि। जलाल्लब्धजीवनाऽहमग्निं प्रत्यक्षीकरिष्यामीति तदानीं कोऽजानात्?
(२०)
श्रुतं मया श्रीकृष्ण आगत इति। श्रीकृष्णागमनमुद्याने पुष्पविकशनमिव। पुष्पमविलोक्यापि ज्ञायते यत् पुष्पं विकशितमिति। पुष्पसौरभमिह पर्याप्तम्। पुष्पं सन्निकटे लब्धुं वासना मनसि नैव जागर्त्ति। यतोहि पुष्पं दूरेऽस्तीत्येतेन किम्? तत्सौरभं तु निकटे आयाति, सम्पादयति च मन: प्रफुल्लितम्।
मम कृते श्रीकृष्णस्यागमनसमाचार एव पर्याप्त:। तमदृष्ट्वापि तदुपस्थितिमहमनुभवामि। नयननिमीलनेन स: स्वतो दृश्यते।
तदानीं जलक्रीडाया: प्रत्यावर्तनात् परमहमसुस्था। अस्थाने नदीस्नानं, निमज्जनकाले आश्रयान्वेषणेन मानसिक आघात:, दु:शासनस्य सपरिहासा कटूक्ति:, कर्णेन सह वाग्विनिमय इत्यादिभिरहं किञ्चित् सम्प्रत्यप्युदासीना। शरीरान्मनस: कष्टमसह्यतरम्। तज्ज्ञातुं कस्य बतावसरोऽस्ति, शक्तिरप्यस्ति?
श्रीकृष्ण आगत इत्येवान्मात्रं निशम्य ममासुस्थतार्धं व्यपगतम्। मनश्चञ्चलं बभूव। श्रीकृष्ण: कस्मात् कारणादागत: स्यात्? तदारभ्य स सकृदपीह नागत:, अद्याकस्मादागमनस्य किमुद्देश्यं स्यात्? परक्षणे मन आशङ्काभारैराक्रान्तम्। अर्जुनविषयक: समाचारो नानीत: कच्चित्! स च शुभोऽशुभो वा? इदमधिकमविचिन्त्याहं कृष्णस्य स्वागताय तत्परा जाता।
मायया कृष्णस्य निवासायातिथिभवने सर्वमायोजितपूर्वम्। सम्प्रति कृष्णोऽतिथिभवने विश्राम्यति। सायं मया सह तस्य साक्षात्कारो भविष्यतीति समाचार: प्रेषितस्तेन। मयि तस्य किमपि विशिष्टं प्रयोजनमस्तीत्ययं समाचारोऽपि माययाऽऽनीतोऽस्ति।
माया मृदु हसन्त्युवाच—''अर्जुनानुपस्थित्या त्वं दु:खेनासीति विज्ञाय श्रीकृष्णो द्वारकां विहायागतोऽत्र। श्रीकृष्णं विनाऽर्जुनविरहिण्या: कृष्णाया दु:खमपनेतुं कस्य बतापरस्य सामर्थ्यमस्ति? श्रीकृष्णार्जुनयोरभेद्यां प्रीर्तिं प्रत्येकं जागतिको जानाति। श्रीकृष्णायासमर्प्यार्जुन: पुष्पगन्धं नैवापि जिघ्राति। प्रश्वासेन गृहीतं वायुमपि श्रीकृष्णाय पूर्वं समर्पयत्यर्जुन:।’’
मायाया: कटाक्षमहमवगतवती। किन्तु कृष्णाया दु:खं व्यपगमयितुं बहुविलम्बेन चिन्तयामास श्रीकृष्ण:। अर्जुनप्रत्यावर्त्तनस्य वर्षमेकमवशिष्यते। सम्प्रति विरहयन्त्रणा मां न तथा बाधते। पत्यागमनस्वप्नेनाहं विह्वला। तदागमनात् परं तं स्वप्नेम्णैवं भन्त्स्यामि यत् स कदापि दूरीभवितुं नाटकं न रचयिष्यति। इन्द्रप्रस्थागमनात् परमर्जुन: केवलं कृष्णाया:। तस्य स्मृतिपटेऽपि कामपि नारीं नाहं सहिष्ये, अन्तत इन्द्रप्रस्थराजप्रासादे तस्यावस्थानकाले।
एकादशवर्षेषु यावदर्जुनं नास्मरम्, तावत् स्मरामि श्रीकृष्णम्। यतोहि जानाम्यहं यदर्जुनो द्वादशवर्षेभ्य: पूर्वं कदापि नागमिष्यति। किन्तु निकटे कृष्णं प्राप्यार्जुनमाप्स्यामीति विचिन्त्यार्जुनविरहेण कृष्णं कामये। परन्तु कृष्णं कदाचिन्निकटे प्राप्तुं नास्मरम्। भयमासीद्यत् कदाचिदर्जुनस्यावश्यकताऽऽपतिष्यति, कृष्णाय तत्समाचारं प्रापयितुं माया बाधामापादयिष्यतीति!
अद्य किन्तु श्रीकृष्ण: स्वत: समागत:। तत् सम्प्रति कुश्लवार्त्ताऽर्जुनस्य जिज्ञासितव्या।
माया मे मनोगतमवगच्छति। साऽब्रवीत्—''अर्जुनकुश्लवार्तया श्रीकृष्ण: समायातोऽस्ति। अर्जुनोऽधुना द्वारकायामतिथि:। वर्षमात्राय तत्रातिथ्यमासाद्येन्द्रप्रस्थे समागमिष्यति।’’
मन: प्रसन्नमभूत्। अर्जुनो यदि द्वारकायाम्, तर्हि का चिन्ता पुनर्मम? किन्तु मनसि पुन: प्रश्न उत्थित:—''अर्जुनो यदि द्वारकायाम्, कृष्ण: किमर्थमिह? दुर्बलाऽसुस्थाऽपि पाकशालायां प्रविश्य महतेऽतिथये पाकं प्रस्तुतवती। तुलसीमूले सन्ध्यादीपं प्रदाय प्रणामादुत्थिता पश्यामि—श्रीकृष्ण: सम्मुखे ममोपस्थित:।’’
तन्नीलकमलचरणौ संस्पृश्य प्राणमम्। परन्तु मम हस्तौ तत्पदस्पर्शसुखं त्यक्तुं न प्रस्तुतौ। सम्मोहिताऽहं प्रणतिभङ्ग्या कियत्कालं तच्चरणयुगलं स्पृशन्त्युपविशामीति न वेद्मि। मम करयुगमार्गेण मम चिन्ता, चेतना, मन:, हृदयम्, आत्मा, ममत्वबोधश्च निश्शेषेण निपतिता: कृष्णपद्मपादयो:। न किमपि मेऽवशिष्टम्। ममाभ्यन्तरे दु:खसुखप्राप्त्याशानिराशास्वप्नकल्पनासु किञ्चिदपि न वर्त्तते। अहं यथा शून्ये वहामि। ऊर्ध्वगामिनी च भवाम्यनुबेलम्। मम शरीरं यथा लुप्तम्। न जाने प्रवहन्ती कियद्दूरं गच्छेयम्, परन्तु मध्ये मायया सर्वं विध्वस्तम्। मामुत्तोलय्योवाच—''श्रीकृष्णार्जुनयोश्चरणा: समरूपा इति रुक्मिणीसत्यभामे च मध्ये मध्ये जातभ्रमे भवत:।’’
अहं ह्रियोत्थितवती। परन्तु मनसा मायायायकुप्यम्।
श्रीकृष्णो मृदु हसन् पप्रच्छ—''अपि सर्वं कुशलं ते सखि!’’ अहमभिमानेनाश्रुनेत्राऽवादिषम्—''तत् किं पुनर्भवताऽज्ञातम्?’’
श्रीकृष्ण: ससमवेदनमुवाच—''पश्यामि—अर्जुनविरहेण त्वं नितान्तं क्षीणा।’’
अहं समुत्सुकाऽपृच्छम्—''स कथमस्ति। तस्य सर्वं कुशलं किल?’’
श्रीकृष्ण औदास्येन जगाद—''सखाऽपि त्वद्विरहेण त्वद्दशामवश्यमापन्न: स्यात्। परन्तु तस्य यथा वनवासदु:खविरहयोर्यन्त्रणा नोत्पद्येत, तथा व्यवस्थापितं मया। सम्प्रति स द्वारकायाम्। वर्षात् परं तस्य प्रतिज्ञापूर्त्तिर्भविष्यति, स च त्वदन्तिकं सगौरवं प्रत्यागमिष्यति।’’
श्रीकृष्णाय मया मनसा धन्यवादो ज्ञापित:। तथापि विज्ञातुं न प्राभवम्—केन विशिष्टप्रयोजनेन श्रीकृष्ण इन्द्रप्रस्थे समागत इति।
श्रीकृष्णो मे सचिन्तं मुखमण्डलमवलोक्योवाच—''सखि! अर्जुनवनवासस्यैकादशवर्षाणि व्यतीतानि, तथापि त्वं सकृदपि मां नास्मर:। अत: स्वयं त्वां द्रष्टुमिह प्रधावित:। अन्यथा सखा प्रत्यागत्य किं चिन्तयेत्? तदनुपस्थित्या सकृदप्यहं नागत इति विज्ञाय सखा मह्यं न किं कुप्येत्?’’
अचिन्तयम्—किं ममैव दु:खमपनेतुंं श्रीकृष्ण इह समायात:?
श्रीकृष्णो मां गभीरस्नेहेन निरीक्ष्यावोचत्—''वस्तुतस्तव कार्यभारोऽधिक:। पञ्चपाण्डवानां भार: किं स्वल्पीयान्? तव सहायतार्थं कोऽत्रास्ति? चिन्तयामितवैका विश्वस्ता बान्धवी आवश्यकी नितरामस्तीति। या खलु तव सुखदु:खादिषु सहायिका भूयात्। त्वमत्र किं चिन्तयसि?’’
अहं कृतज्ञभङ्ग्योक्तवती—''मदर्थं भवानेतावच्चिन्तयसि, तद्धि मे सौभाग्यम्। माया छायेव मे निकटेऽस्ति। अतो मयाऽऽवश्यकतैव नानुभूयते।’’
श्रीकृष्णो मधुरकण्ठेनाह—''माया तव परिचारिका। सा यावती सहायिका तावती दुष्टाऽपि। मध्ये मध्ये महत्यां समस्यायामापादयति। वस्तुतस्तव कामप्युपयुक्तां बान्धवीमन्विषामि। द्रक्ष्यसि, सा तेऽनेका: समस्या: स्वयं स्वीकृत्य समाधास्यति। सा च तेऽङ्गच्छाया भविष्यति। किं तेऽभिमतम्?’’
मदर्थं श्रीकृष्णस्य समदु:खत्वमनुभूयाहं विगलिता। सवाष्पकण्ठमुक्तवत्यहम्—''बान्धवी कस्यै बत न रोचते? यदि तथाभूता बान्धवी मह्यं लभ्यते, तत्र मम काऽऽपत्ति:? बन्धुत्वस्थापने क्वापि मे कृपणता दृष्टा? किं बहुना, अत्रान्तरे मया कर्णपत्नी—गुरुद्रोणाचार्यद्वितीयभार्याहरिताभ्यां सह च बन्धुत्वं स्थापितम्। तयो: पती पाण्डवप्रतिपक्षस्थावपि मित्रताऽस्माकं पवित्रा।’’
कृष्ण: सरसं न्यगादीत्—''इयं त उदारता कृष्णे! यं कमपि निजीकर्त्तुं कला त्वयि वर्त्तते। अहमपि तव बन्धुत्वभावेन बद्धश्चिरात्। तत आत्मानं मोचयितुमुपायो नास्ति, इच्छाऽपि नास्ति। अतो द्वारकायां सखायं विहायात्र धावितो जवेन। श्व उषसि पुन: प्रतिगमिष्यामि।’’
अपूर्वैकानन्दधारा ममान्त:करणस्य शून्यतां निश्चिह्नीकृतवती। पवित्रप्रेमधारयाऽऽप्लावितं मुहुर्हृदयम्। तत् प्लावनं नयनाभ्यां स्खलितुं प्रयतते। दृष्टिर्मया नतीकृता।
अहं सम्प्रति मुक्तहृदया। साम्प्रतिकं वर्षं मम सन्न्यासिनीत्वजीवनस्य। यतोहीदमर्जुनेन सह युग्मजीवनवर्षम्। अहमेकाकिनी रात्रीर्यापयामि। समग्रं जीवजगत् प्रसुप्तमथ च निद्रा मह्यं रुष्टा। अहं शयनगृहाद् बहिरागता। किञ्चिन्मुक्तवायुरावश्यक इति कारणात्।
किन्तु किमिदम्? अर्जुनस्य शयनकक्षे आलोकशिखा क्षीणं ज्वलति। किं सखायमनुसृत्यार्जुन इह प्रत्यागत:? कृष्णगतप्राणस्यार्जुनस्य नेदमसम्भवम्। कृष्णकारणादर्जुन: प्रतिज्ञामपि दूरीकर्त्तुं शक्नोति।
प्रायेण निशार्धेऽर्जुन: कृष्णस्य दर्शनाय समागत:। सूर्योदयात् पूर्वं प्रतिगच्छेत्। तत्सविधेऽधुना मम गमनं किमुचितं स्यात्? अनेकवर्षेभ्य: परं पत्या सह मिलनाग्रहेणौचित्यानौचित्यविचारो निरर्थकीभवति। स मां न पश्यतु। तेन कदाचित् तस्य द्वादशवर्षात्मकव्रतभङ्ग: स्यात्। परन्तु, अन्तराले स्थित्वाऽहं तद्दर्शनं लप्स्ये चेत् का क्षति:? अर्जुन आगत इति नाहं कस्मैचिदपि वक्ष्यामि।
शनै: शनैरहमुत्थिता। निश्शब्दपदपातैरर्जुनशयनकक्षाभिमुखं सरामि। मत्पुरस्ताद् ज्योत्स्नारजन्या: माया। सर्वं सुन्दरं, मनोरमं, स्वप्नमयञ्च। अर्जुनशयनकक्षात् काऽप्यायाति। ज्योत्स्नामायायां केयं मायाविनी नारी? निशार्धेऽर्जुनशयनकक्षे तस्या: पुन: किं कार्यं स्यात्?
आवां परस्परं प्रत्यक्षीभूते। अपृच्छम्—''माये! एतावत्यां रात्रौ किं प्रयोजनं तेऽर्जुनेन?’’
माया तु मृदु जहास। अवादीच्च—''त्वं यत्रार्जुनं पश्यसि, अहं तत्र श्रीकृष्णं नयनविषयीकरोमि। स यत्र, अहमपि तत्र। किमत्राश्चर्यम्?’’—सा सहासं निश्चक्राम। अचिन्तयम्, प्रायेणार्जुनागमनसमाचारमादाय माया कृष्णस्य सविधे गच्छति अथवा, कृष्णोऽत्रान्तरेऽर्जुनं प्राप्त इति।
निश्शब्दपदपातैर्वातायनसविधेऽहं स्थिता। अपश्यम्—अर्जुन: पल्यङ्के निश्चिन्तं सुप्त:। वातायनमार्गेण ज्योत्स्नालोकस्तस्य सुघटितशरीरे वैशद्येन निपतति। तस्य नीलशरीरे ज्योत्स्नया यथा सुशीतलचन्दनं प्रलिप्तम्। क्रमशोऽहं द्वारदेशं गतवती। अर्धोद्घाटितद्वारमार्गेण गृहाभ्यन्तरस्य सुरभिर्बहिर्वरण्डके विस्तृत:। उद्यानपुष्पाणां सर्वं सुरभिं रात्रिसमीरणो यथैकत्रीकृत्यार्जुनस्य शय्याधारे निश्शेषेण निक्षिपति। एकादशवर्षेषूद्यानपुष्पाणि तमन्तर्मनसा स्मरन्तीति सोऽर्जुन: किं जानीयात्?
अहं निश्चलनिस्पन्दाऽर्जुनद्वारदेशे स्थिता। कोऽपि मां पश्येदिति भयं तिलमात्रमपि मनसि नास्ति। यदि स वनवासं नाकरिष्यत्तर्हि सम्प्रति मम तेन सह युग्ममिलनवर्षमचलिष्यत्। अतो भयं मे कुत: स्यात्?
गृहाभ्यन्तरान्मन्दं मन्दं कृष्णसुरभि: प्रवहति, मम चेतनामाच्छादयति, मम स्नायुगन्थिषु स्पन्दनमपूर्वं प्रथयति। अर्जुनपल्यङ्के सुप्त: सखा श्रीकृष्ण:! एतावन्तं कालं यावत् कृष्णमर्जुनं मत्वाऽहमभिसारिकावेशेन तद्द्वारदेशे दण्डायमाना! अस्मिन्नवसरे निद्राभङ्गेन कृष्ण: किं चिन्तयेत्?
पदे परावृत्य गन्तुं स्थिरीकृतं मया। अथ च ते मेऽचले! श्रीकृष्णशय्याधारेऽनन्तकालं यावद् दण्डायमाने ते विश्रामं न भजिष्यत:। श्रीकृष्णस्याद्भुतया तयाऽऽकर्षणशक्त्याऽहं वारं वारं पराजिता। तेन सहैकात्मत्वमनायासं सम्भवति। देहनिगडादात्मा मुच्यते। इच्छामि तदानीं देहं परित्यज्य देहदीना भवेयमिति। कृष्णप्रेम्णा विलीना भवेयमिति। अतीतं वर्तमानं भविष्यच्च विस्मरेयं चेति।
अहं तथैव दण्डायमाना। कदा यावत्तथाहं स्थितेति न जाने। प्रभातपक्षिणां काकलीकलकलकोमलस्पर्शेण शनै: शनैर्निद्राऽपसरति। सम्प्रति मम प्रत्यावर्त्तनमुचितम्। अहं प्रतिगन्तुं प्रयतेकृष्ण आलस्यं सन्त्यज्योत्थित:। मृदुमधुरस्वरेणोवाच—''सखि! आसायंप्रभातं स्थिता त्वं नूनं दु:खमङ्गीकृतवती। अहमपि गन्तुं नादिशम्। स्थितायां त्वय्यहं निद्रातुं न समर्थ इति सत्यम्।’’
अहं ह्रिया म्लाना प्रत्यवदम्—''भ्रमवशादहमागता। अचिन्तयम्—अर्जुन: प्रत्यागत इति।’’
श्रीकृष्णो हसन्नूचे—''सखायं विनेन्द्रप्रस्थे किमहं स्थातुं शक्ष्यामि? अतस्तस्य शयनकक्षे शयनं व्यवस्थापयितुं मया पूर्वं मायाऽऽदिष्टा। अन्तत: सख्यु: पल्यङ्के शयनेन तदुपस्थित्यनुभूत्या निद्राऽभविष्यत्। यदस्तु नाम, तस्य रुद्धद्वारि स्थिता कृष्णा रात्रीरपि यापयितुं समर्थेति सखायं निवेदयिष्यामि। क्वचित् क्वचित् त्वत्कारणात् सख्यायपीर्ष्या मे मनसि जागर्त्ति।’’
श्रीकृष्णस्य चाटुवाणी मां नोल्लासयति। अहं सम्यग् जानामि—सम्भाषणे स यावान् पारङ्गम:, मनोभावं विज्ञातुं ततोऽधिकतर:। पुन:, सर्वं विज्ञायाप्यज्ञानताप्रदर्शनं तस्य नियमित: स्वभाव:। श्रीकृष्णो जानाति यद् धनञ्जयमीक्षितुमागताऽप्यहं तन्मायया निर्विण्णा सम्पूर्णां रात्रिं यापयामि। तदेव मे मुखाच्छ्रोतुं तस्येयं चातुरी। अहमपि सर्वं विदित्वा निश्शब्दा। प्रत्यावर्त्तमाना साभिमानमवदम्—''कृपया भवता भवत: सख्यु: पुरस्तात् 'कृष्णा’ इति नाम कदापि नोच्चारणीयम्। एतेन कदाचित् तस्य व्रतभङ्ग: सम्भवेत्। स च पापभाग् भवेत्। श्रुतं मया, मत्तो दूरीभूतेन तेनानेकं पुण्यमर्जितमिति। सम्प्रति स पुन: कृष्णबलरामयोरतिथि:। तत्र कृष्णाया: स्थानं कुत:?’’
मम सजलनयने मुग्धदृष्ट्या विलोक्य कृष्णो मृदुमधुरच्छन्दसा जहास, मधुरकोमलकण्ठेनोवाच च—''तवेमां प्रकटिताभिमानामपूर्वां मुखशोभां निरीक्षितुं मम दीन: सखा यदत्र न वर्त्तते! भूयसी दयोत्पद्यते तस्मै मे। यदि सम्भवेत्, तर्हि छविमिमां तस्य पुर: प्रस्तोष्यामि। सोऽप्यात्मानं धन्यं मन्येत। प्रेमिकाया: प्रेमापेक्षया तदभिमानोऽधिकतरमधुरो मनोरमश्च। य: प्रेमिक: स एवेदं जानाति, सखाऽर्जुन एतत् ज्ञास्यति न वेति मे संशय:।’’
सखा तीर्यगवेक्ष्यार्थपूर्णं हास्यं चक्रे। अहमपि प्रेमिकाभिमानेन सखायं सकृद् विलोक्य तद्दृष्टिपथाद् दूरीभूता।