(२१)
गुरुपत्नी हरिता। द्रोणाचार्यस्य द्वितीया पत्नी। न केवलं पत्नी अपि तु बान्धवी, परिचारिका, सेविका, छात्री, सहकर्मिणीत्येता: भूमिका: हरिताया: द्रोणाचार्यस्य जीवने। कृपाचार्यभगिन्या: प्राणप्रियपत्न्या: कृपया अकालमृत्युसमये केवल: कुलनन्दनोऽश्वत्थामा कतिपयमासमात्रवया: शिशु:। तस्य पालनाय द्रोणाचार्यस्य किशोर्या हरितया सह द्वितीयो विवाह:।
हरिद्वर्णा हरिताऽऽमूलादिदं विवेद यत्तया द्रोणाचार्यगृहे धात्रीभूमिकायामवतरणीयम्। ज्ञानवृद्धस्याचार्यद्रोणस्य जीवने कृपया: परमन्यनार्या आवश्यकतैव नासीत्। कृपया: स्वर्गवासात् परं प्रत्येकं नारी तेन सर्वंसहाजननीरूपेण दृष्टा। किं बहुना, द्वितीयां पत्नीं हरितामपि कदापि न सतृष्णं ददर्श स:। हरिताया जीवनं संन्यासिन्या इव। अश्वत्थामकारणात्तस्या: पतिगृहे निवास:। गुरु: द्रोणाचार्य: पुत्रस्नेहान्ध:। तस्मै पुत्राय मित्रं पाञ्चालराजं द्रुपदं गावमेकं ययाचे, अपमानमपि तदर्थं न स्वल्पं सेहे। पुत्रोऽश्वत्थामा तज्जीवनस्य दौर्बल्यम्। अत: प्रायेण ''हरिता पुत्रवती भवत्वि’’ति नेच्छति स्म। सन्तानवती सा भविष्यति चेत् साऽश्वत्थाम्नो विमातृत्वं यास्यति। अतस्तस्मादेव भयात् प्रायेण द्रोणाचार्येण सुन्दरी पत्नी हरिता स्वकामनापरिधेर्दूरीकृता। स्वयं च ज्ञानपारावारे निमग्न:। पत्यु: ज्ञानपारावारस्य बेलाभूमौ शून्या शुक्तिरिव हरिता। क्षुद्रमसहायं धूलिकणमिव मातृहीनमश्वत्थामानमङ्गीचकार सा। वत्सलतारसेन सेचयन्त्यास्तं मुक्तारूपेण परिणमयितुं तस्या आजीवनं साधना। अश्वत्थामा हि हरिताजीवनस्यैकमात्रं स्पन्दनम्।
हरिताया त्यागपूतं जीवनं मामुद्बोधयति। तच्चरणयोर्मे मस्तकं स्वतो नतं भवति। परन्तु हरिता मम भक्तिं नेच्छति, किन्तु कामयते मम सख्यं सान्निध्यञ्च।
हरिता त्यागस्योदारतायाश्च प्रतिमूर्त्ति:। तस्यै भक्त्यपेक्षया प्रीतिरधिकं स्वदते। तस्या महनीयतयाऽहं प्रीणामि। हरिता मम सख्यं सादरमङ्गीकुरुते। अर्जुनस्य वनवासात् परं मया महान् कालखण्डस्तया सह यापित:। तद्दर्शनेन पतिविरहो मया विस्मृत:। पत्युर्नकटे स्थितापि सा वनचारिणीजीवनं निर्वाहयति। तदपेक्षया पत्युर्विरह: स्वल्पतरयन्त्रणादायक:। हरितां विलोक्याहं दु:खं विस्मरामि। हरिताया: संयमपातिव्रत्यत्यागकर्त्तव्यपरायणता: मयि शक्तिमुत्पादयन्ति। पञ्चपतीनां कृते समुचितकर्त्तव्यप्रेरणा तया शान्त्येव दीयते।
मध्ये मध्ये हरिता मम निकटे स्वहृदयमप्युद्घाटयति। द्रोणाचार्य: कौरवान् समर्थयतीति तन्मनसि भूयान् क्षोभ:। परन्तु कदाचिदपि स्वापूर्णकामनाया हाहाकारं नैव प्रकाशयति। सा यथा कामनावासनाभ्यां बहुदूरेऽस्ति! द्रोणाचार्यस्योचितोत्तरदायादरूपेणाश्वत्थामानं निर्मातुं कामनां विनाऽन्या: सर्वा: कामनास्तस्या अवदमिता: मृताश्च।
जीवनस्योज्ज्वलो भागो हरिता। हरितया सह मम निकटतावर्धनेन क्रमशो मनसो मेऽनेका: सङ्कीर्णता अपसरन्ति। निष्कारणाभिमानक्रोधाहङ्कारादय: सङ्कुचन्ति। प्रतिदिनं हरिताया निकटेऽहं क्षुद्रा क्षुद्रतरा च भवामि। अथ च सा स्वचिराचरितौदार्येण ब्रूते—''कृष्णे! त्वमार्यावर्तस्यादर्शभूता नारी। त्वत्तोऽनेकं शिक्षणीयमस्ति। सहस्रवर्षाणि यावत् त्वं भारतवर्षेतिहासेऽमरा स्थास्यसि। तव स्वाभिमानसाहसधैर्यबुद्धिमत्तास्पष्टवादिताकर्त्तव्यपरायणता: समग्रनारीजातेरादर्शभूता अनुकरणीयाश्च भविष्यन्ति। तव पवित्रसौन्दर्येण च समग्ना पुरुषजातिर्वशीभूता। अत: कर्णपत्नी ऋतुमती तुभ्यं मनसेर्ष्यति।’’
—''ऋतुमती मह्यमीर्ष्यति?’’—अहं विचलिता जिज्ञासामि।
हरिता शान्तस्वरेण गदति—''या काऽपीर्ष्येत्। तव प्रत्याख्यानापमानं कर्णो नैव विस्मरति। तदपमानज्वालया सोऽशान्तो विक्षुब्धश्च। कर्णार्जुनयोर्मध्ये इयानेव भेदो यत्—अर्जुनो नम्र:, उदारोऽहङ्कारशून्यश्च। श्रीकृष्णाय तेन स्वात्मा समर्पित:। किन्तु, कर्ण: साहङ्कार: प्रतिहिंसापरायणश्च। ईश्वरापेक्षया तस्य स्वशक्त्यामधिकाऽऽस्था। शौर्यं, पुरुषकार:, शक्तिश्च पुरुषस्य भूषणानि। तद्दृष्ट्या कर्णोऽर्जुनान्न न्यून:। परन्तु स दैवीशक्तिं हेयां मन्यते। केवलं प्रतिशोधाय तेन कौरवाणां सङ्गोऽङ्गीकृत:। अन्यथा कर्ण: कौरवाणां साहाय्यं विना स्वशौर्यबलेन समग्रपृथिव्या अधीश्वरोऽभविष्यत्।’’
हरिताया उक्त्या मम कर्णं प्रति विद्वेषस्थाने सहानुभूतिर्वर्धते। कर्णो यदि पाण्डवविरोधी, तर्हि तत्पृष्ठत: किं न किमपि कारणमस्ति? अपमानप्रतिशोध: किं न पुरुषोचित:?
परस्तादन्तरात्मा कम्पते। कर्णो यथा बुद्धिमान्, शौर्यवान् पुरुषो यदि कौरवाणां खलबुद्ध्या परिचालितो भवेत्तर्हि किं पाण्डवा: सुखेन राज्यं कुर्यु:!
गुरोद्रोणाचार्यस्यार्जुनं प्रति श्रद्धाऽसीमा। ततोऽधिका हरिताया:। अर्जुनवनवासेन तच्चेतोऽपि मध्ये मध्ये दूयते। सा सदीर्घश्वासं ब्रवीति—''अर्जुनस्य बाल्यकैशोरे दु:खेन व्यतीते केवलं कौरवाणां खलबुद्ध्या। सत्यनिष्ठेन तेनापि वनवासोऽङ्गीकृत:। तस्य प्रत्यागमनात् परं तस्याधिको यत्नो विधातव्य: किल। तदर्थं त्वत्प्रीतिर्न न्यूनीकरणीया कृष्णे! प्रीत्यां न्यूनतायां स भीम इव तदधिकाराय तुमुलासन्तोषं न रचयिष्यति, वरं पुन: केनापि व्याजेन दूरीभविष्यति। नीरवसाधनां करिष्यति त्वत्प्रीतिप्राप्त्यै। विगतेषु द्वादशवर्षेषु तस्यायं वनवासस्त्वत्प्रीतिलाभाय नीरवसाधनातिरिक्तं न किमप्यन्यत्।’’
तदुक्त्या चित्तं मे द्रवीभवति। मनसा प्रतिजाने यत् तस्यागमनात् परमहं मम विद्यां बुद्धिं वैदुष्यं च सर्वं विहाय स्वजीवनं तत्सेवयोत्स्रक्ष्यामि। कथयिष्यामि च—''त्वं मां जयसि। अहं तवैव। मद्द्वारा यदिच्छसि तदेव कुरु। अधुना त्वदिच्छया चलिष्यामि। त्वदिच्छया च जीवनपथे सञ्चलन्ती पापपुण्याभ्यां नैव भेष्यामि। त्वं मे आत्मानं जय पराजयस्व च। हे फाल्गुन! त्वं हि मे प्रिय:, प्रियतमेषु................।’’
(२२)
पार्थ: प्रत्यावर्त्तते। द्वादशवर्षाणां नीरवतपस्याया: परं द्रौपद्या ऐकान्तिकप्रेमलिप्सया स प्रत्यावर्त्तते। पातालपुर्यामस्तु तत्पत्नी नागकन्योलूपी, मणिपुरेषु पत्नी चित्राङ्गदा, कलिङ्गेषु सहधर्मिण्यार्या च। ता: गौणीकृत्यार्जुनस्तु प्रत्यागच्छति! कस्यायायाति स:? कस्या: कृते रूपवतीर्भार्या: विरहज्वालया दग्धीकृत्य प्रत्यायाति मम पति:? मम कृते, केवलं मदर्थम्—
धनञ्जयो वीरपुरुष:। स एकोनशतं पत्नी: वृणुयात्। अहं तत्र कस्यायपीर्ष्यामि कथम्? ममापि तस्मायभिमान: कथं वा भवेत्? अर्जुननिकटेऽहं कृष्णा, इन्द्रप्रस्थराज्ञी च। इन्द्रप्रस्थे तु मम न काऽपि सपत्नी वर्त्तते। अहमिन्द्रप्रस्थनायिका, पाण्डवपत्नी, कृष्णा।
प्रतीक्षा, पुन: प्रियतमस्य प्रतीक्षा यावती सुखकरी, तावती क्लान्तिदायिनी च। अहं सज्जयामि प्रियतमस्य कक्षम्, उद्यानम्, पाठागारम्, उपवेशनगृहम्, उपासनाप्रकोष्ठम्, प्रमोदगृहम्, समग्रं राजप्रासादम्—यत्र तत्र तस्य नीलकमलदृष्टिर्गच्छेत् तत् तत् सर्वं च। तस्य रुच्यनुसारेण चात्मानमपि प्रस्तौमि। पाकशालायां सुसज्जिता सङ्गृहीता च समस्ता सामग्री, यत् यत् तस्मै स्वदते।
परन्तु प्रस्तुत्या तावन्मनो न स्थिरीभवति। कुप्यामि मायायै। न जाने, कस्तस्या मनोभाव इति। नवनिर्मित एकस्मिन् राजाप्रसादे सा तत्संवर्धनामायोजयति। मिलनगृहमिव सुसज्जित एक:कक्ष:। परन्तु, स किं नवीनो यत्तं नवीनकक्षे नवीनतया मिलिष्यामि?
वस्तुतस्तेन सहेदं नवीनमिलनमिव प्रतीयते। मनस्यनूढकिशोर्या रोमाञ्च:। विरहात् परं मिलनमेतावदानन्ददायकमित्यसति विरहे कथमज्ञास्यम्?
सम्पूर्णे राज्ये महोत्सव आयोजित:। अनेकदेशानां राजानो निमन्त्रिता:। उत्सवाडम्बरं विलोक्याहं मनसा चिन्तयामि, यथाऽयं मेऽर्जुनेन सह विवाहोत्सव इति।
अहं नववधूरिव भूषिता। अर्जुनो यथा न चिन्तयेत् यदत्रान्तरे द्वादशवर्षाणि व्यतीतानि, ममापि वयसि द्वादशवर्षाणां वृद्धिर्जातेति।
अर्जुनस्य राज्यप्रवेशस्य वाद्यं श्रूयते। वाद्यानुतालेन मम हृदयं नृत्यति, स्पन्दते।
माया सस्मितमायाति। हस्तयोस्तस्या अर्घ्यपात्रम्। पत्यु: पदवन्दनपूर्वकमभ्यर्च्चेनीयं किल। मम हस्तयोस्तदसारयत् सा। रत्नपात्रे हारद्वयम्! कयो: कृते? अर्जुनेन सह कोऽन्य आयाति? किं सखा कृष्ण:? उताहो बलराम:? मम चक्षुषोर्भाषामधीत्य मायोवाच—''भवतु वरं सपत्नी! नान्या काऽपि, सख्यु: श्रीकृष्णस्यादरणीया भगिनी सुभद्रा। तव मनसि यावन्तौ क्रोधाहङ्कारौ स्तां नाम, तौ किं तद्गृहप्रवेशे ज्ञापयिष्यसि? किं वदिष्यन्ति पौरजानपदा:, किं च चिन्तयिष्यति सखा वासुदेव:? सपत्नीं पुष्पहारेण स्वागतीकुरु। मिलनप्रकोष्ठे पतिनिकटे तां प्रापय। किमेतस्मै याज्ञसेनी न समर्था?’’
अधुनैवावगतवती यदर्जुनस्य स्वागतोत्सवाडम्बर: किमर्थमिति। नवनिर्मितप्रासादे न मम, अपितु सुभद्राया: मिलनशय्या सज्जितेति ज्ञातवती। अथचाहं स्वयं नववधूमिव भूषयामि लज्जासङ्कोचौ विस्मृत्य! आत्मानं धिक्कृत्य वेशभूषा निस्सारिता देहान्मया।
क्रोधेन कम्पमानाऽपृच्छम्—''माये! कुतोऽयमर्जुनस्य साहस: सम्भूत:? अग्रजस्यानुमतिं विना स द्वारकायां सुभद्रां परिणिनाय, पुनस्तामादायेन्द्रप्रस्थे प्रविशति केन साहसेन?’’
माया चपलहास्यच्छटां विकीर्यावोचत्—''सखि त्वमद्यावधि तं न जानासि। अग्रजानुमतिं विना तस्य किमिदं सम्भवम्? युधिष्ठिरस्यानुमतिं स्वीकर्त्तुं स्वयं श्रीकृष्ण आगच्छत्। तदनुमत्यैवार्जुन: सुभद्रां परिणीय प्रत्यावर्त्तते।’’
अभिमानोऽजायत मे कृष्णाय। स्वभगिनीं मम सपत्नीं कारयितुं युधिष्ठिरनिकटे तदाऽऽगत:? मदर्थमुपयुक्तां बान्धवीमन्विषतीति परोक्षेण मां समसूचयत्। अथ च धनञ्जयो मे सम्मतिमसम्मतिं वा न प्रत्यैक्षत। अग्रजानुमतिप्राप्तिकाले न मह्यं समाचारोऽपि प्रेषितो द्वादशवर्षात्मकवनवासात् परमेवमेकं दुर्लभमुपहारमानीयायातीति?
सुभद्रार्जुनयोर्विवाहविवरणं मया मायात: श्रुतम्। यदि सुभद्राऽन्यराजकन्या इवार्जुनप्रेम्णाऽऽतुरा तत्पत्नीत्वमयाचिष्यत, तर्हि मम मनसि न दु:खमपितु गर्वोऽभविष्यत्। मम पतिरार्यावर्तस्य श्रेष्ठ: पुरुष इति किमयं न मे गर्वस्य विषय:? परन्त्वियं घटनाऽत्यन्तं लज्जाकरी। सुभद्राया: प्रथमदर्शने तां प्रत्यर्जुनो जातानुरागो बभूव। प्रेमान्धेन तेन स्वयंवरमपि न प्रतीक्षितम्। स्वयंवरे क्वचित् सुभद्रा पुरुषान्तरं वृणुयादिति भयेन तेन सा बलाद् हृता। पूजार्च्चेनार्थं रैवतकपर्वते गता सुन्दरी सुभद्रा। श्रीकृष्णात् पूर्वं समाचारं प्राप्य प्रस्तुतो रथोऽर्जुनेन। पूजयित्रीं राजकन्यां रथ आकर्षत् स:। रथं क्षिप्रं सञ्चालयन्नदृश्यो बभूव। स्वभगिनीं हारयितुं सहायता प्रदत्ता कृष्णेन। स्वरथोऽपि धनञ्जयाय पूर्वं प्रदत्त:। श्रीकृष्णोऽपि स्वमध्यस्थतया बलरामस्य क्नोधमुपाशमयत्, युधिष्ठिरानुमत्यै समागतोऽपीन्द्रप्रस्थे। एवम्भूतप्रेमविवाहात् परमर्जुनस्य कृष्णायां काऽऽवश्यकताऽवशिष्टा? कृष्णा तु श्यामाङ्गी, तस्या: पुन: किं सौन्दर्यम्? श्रूयतेसुभद्रा गौरी, कौमुदीवर्णा। नवनीतकोमलमङ्गसौष्ठवम्। तमाललतेव तरङ्गिता तनुवल्लरी। कमलदलानीव करचरणतलानि। पारिभद्रफलमिवाधरोष्ठम्। नीलकुमुदनिभा नम्रा नयनतारका—न, न, अधिकं तु न सह्यते। सुन्दरतमस्य पुरुषस्य कृष्णस्य या भगिनी, तस्या उपमा सैव केवलम्। अहं तस्या: पुरत: कुरूपा परिचारिकेव। इन्द्रप्रस्थे सत्यां सुभद्रायां स मां वक्रदृष्ट्याऽपि न द्रक्ष्यति। अद्यावधि स्वरूपव्यक्तिकारणान्मनसि मे महानहङ्कार आसीत्। धारणाऽऽसीत्, मयि प्राप्तायां पुरुषोऽन्यां स्त्रियं हृदये नैव स्थापयेत्। मया सह न काऽपि तुलनीया स्यात्। ममैवमहङ्काराय मम पुन: को दोष:? आजन्मनो येनाहं दृष्टा, स सम्मोहित:, मां च प्राप्तुं प्राणपातायापि प्रस्तुत:। स्वयंवरसभायां प्रत्येकं राजपुत्रस्य दयनीयामवस्थां विलोक्य मेऽहङ्कारो दृढीभूत:। किं बहुना, श्रीकृष्णस्य मुग्धे नयने मां निरीक्ष्य मनोरमतरे दृश्येते इति मया लक्षिते। तेन ममाहङ्कारश्चरमसीम्नि प्रविष्ट:। अथ च सुभद्रया ममाद्य दर्पश्चूर्णीकृत:। श्रुतं यदलौकिकशक्तिमयो वासुदेव: कस्याप्यहङ्कारं न सहते। प्रायेण ममाहङ्कारस्य सूत्रं तेन कुत्रचित् प्राप्तमिति स्वभगिन्या मे दर्पो विनाशित:।
अहह, किं मया ज्ञातपूर्वं यद् गर्वश्चिराय न वर्तत इति! पृथिवीयं कियती विशाला—तत्र मनुष्य: कियान् क्षुद्रोऽसहायश्च। पुनस्तदहङ्कारो धूलिकण इवालीकोऽसारश्च। क्षणेन चूर्णीभवति—हास्यास्पदं कुरुते मनुष्यम्—तापमापादयति च प्राणेषु, इति किं मया विदितम्?
राजानोऽनेकनारीषु जातानुरागा भवन्ति, ता: परिणेतुमपि शक्नुवन्ति, प्रत्याख्यातुं च समर्था: स्वप्नमोदानुसारेण। तदर्थं पूर्वस्त्रियोऽनुमतिरप्यावश्यकी न। अत: यत्कृतमर्जुनेन, तद्राजोचितं, वीरपुरुषोचितम्। अहं दूनोमि स्वाहङ्कारकारणात्, सन्तप्ताऽहं लज्जया ग्लान्या च स्वाभिमानहेतो:।
सुभद्रा मत्तोऽधिका सुन्दरी, प्रेममयी? वीरत्वेन धनञ्जयो मां लेभे। स एव मे गर्वस्य विषय आसीत्। परन्त्वद्याहं ह्रीणा यत् स्वयंवरसभायां विलोकनात् परं समयात् पूर्वं कस्मात् बलान्मां नोत्क्षिप्य जगाम स:? स: किं मत्प्रेम्णाऽन्धो न बभूव? कर्णो लक्ष्यवेधाय यदि नावरोत्स्येत, तर्हि अर्जुनस्य क्रम आगमिष्यत् वा न वेति सन्देह:। इत इदं स्पष्टं यन्मदपेक्षया सुभद्रां प्रति अधिकमाकृष्ट: स: प्रथममिलने। तस्मात् सुभद्रां प्रति मम विद्वेषोत्पत्ति: किं न स्वाभाविकी?
सुभद्रार्जुनयो: स्वागतीकरणाय नाहं गतवती। कदाचित् सुभद्राया: सुन्दरमुखनिकटे ममासुन्दरं वदनं विलोक्य वीरोऽर्जुनो वीतस्पृह: स्यात्।
द्वारमवरुध्याहमुपविष्टाऽश्रुवर्षणे च प्रवृत्ता। दाम्भिका, विदुष्यप्यहं प्रथमतो नारी। कस्यापि पुरतोऽश्रुपातादहं जिह्रेमि। परन्त्वात्मानं तु अपाकर्त्तुं न शक्नोमि। मम दाम्भिकता, सहनशीलता धैर्यमौदार्यं च मदेव पराजयं स्वीकुर्वन्ति। स्वस्यास्वीकारो न कदापि सरलो व्यापार:।
ते समागता:। शुभशङ्खध्वनिरानन्दकलरवेण सह प्रासादे प्रविशति। ममाश्रुप्रवाहोऽपि द्विगुणितो भवति।
—''सखी कुत्र? ‘‘—कस्यायं सुमधुर: स्वर:?
—''साऽसुस्था।’’—मायोत्तरति।
—''शरीरेण मनसा वा?’’
—''तत् स्वयं सर्वज्ञ भवान् एव जानाति।’’ पुनर्मायाया: कोमलमधुरहास्यतरङ्गो ममरुद्धद्वारि शनैराघातं कुरुते।
मयाऽश्रुधारा प्रोञ्छिता। धिक्, धिक्, सख्यु: पुरस्तादात्मानं दुर्बलीकरिष्यामि? सोऽद्य केवलं न सखा, मम सपत्न्या अग्रजोऽपि।
द्वारमुद्घाट्य कृष्णायाभिवादनं ज्ञापितवती। स मृदु हसन्नुवाच—''श्रुतवान् सखी असुस्थेति। कार्यभारस्तु नैव स्वल्पीयान्। सहायतार्थं कोऽवाऽस्ति?’’
अहं सगाम्भीर्यमब्रवम्—''यज्ञकुण्डाद् या जाता, साऽसुस्था नैव भवति। दीपशिखा ज्वलति अथवा प्रशाम्यति। परन्तु होमशिखा पूर्णाहुतिपरकालप्रशमा, न तु पूर्वं शान्तिं भजते। अहं नाऽसुस्था। अर्जुनस्य स्वागतायात्मानं प्रस्तौमि। पूर्णाहुतिदानाय शक्तिसञ्चयं करोमि।’’
एतावताऽहं प्रवेशद्वाराभिमुखमसरम्। परिचारिकाहस्तादभिवन्दनापात्रमादाय सुभद्रार्जुनयो: समभ्यर्थनां समपादयम्। द्वादशवर्षाण्यदर्शनात् परमर्जुनमुखं सकृदपि नापश्यम्। यतोहि तदानीमभिमानाश्रु मम नयनकोणे खेलति। अहमपश्यम्—तन्नीलकमलसुन्दरचरणौ—तच्चरणसन्निकटस्थौ सूक्ष्मशिल्पिहस्तनिर्मितौ द्वावपरौ क्षुद्रौ सुवर्णचरणौ च। मन्दिरस्य लक्ष्मीप्रतिमाया: पादाविव निर्दुष्टौ मनोरमौ च। यस्याश्चरणावेवं सुन्दरौ तस्या मुखशोभयाऽर्जुनस्य प्रेमोन्मत्तत्वं स्वाभाविकम्। तौ सुवर्णपादावर्जुनचरणसौन्दर्यं वर्धयत इव। अर्जुनचरणनिकटे सुभद्राचरणौ तथैव दृश्येते यथा नारायणचरणनिकटे लक्ष्म्या:। अहं सुभद्राचरणाभ्यामीर्ष्यामि।
तयोर्वन्दनां समाप्याहं स्वकक्षं प्रत्यावर्त्तिता। द्वारमवरुध्य च शय्यायां निपतिता। सुभद्राऽऽगमनानन्दोल्लासे नाहमुपस्थिता।
मया सह मिलितुमर्जुन आगत:। अहं तं यथाविधि सममन्ये।
अर्जुन: स्वाभाविकशान्तस्वरेणावादीत्—''द्वादशवर्षेभ्य: परं प्रत्यागत्य पश्यामि यत्ते मनसि सुखं नास्ति, तव शरीरस्य चोज्ज्वलता मलिना। किं जातम्?’’ रोषकषायितनेत्राभ्यां तमवेक्ष्यावोचम्—''सुभद्राविलोकनात्परं मम शरीरस्य मलिनत्वोत्प्रेक्षा स्वाभाविकी।’’
स तथैव शान्त्योवाच—''कृष्णे! त्वया सह सुभद्रायास्तुलां कृपया मा कुरु। ज्ञानविद्याविचारबुद्धिधैर्यसाहसिकतादिषु सा ते चरणतलेनापि न समाना। पुन: सौन्दर्यम्?’’ नार्या रूपं पुरुषदृष्ट्या प्रथमं स्यात्, परन्तु कदाचिदपि प्रधानं नैव भवेत्। रूपेण सह प्रज्ञाव्यक्त्योर्मिश्रणेन जायमानं सौन्दर्यं पुरुषात्मानमाच्छादयति। त्वया सह मम खल्वात्मसम्बन्ध:। तत्र पुन: सुभद्राया: प्रशंसा कुत:? उलूपीचित्राङ्गदाऽऽर्यासुभद्राभिरर्जुनहृदये कृष्णाया: स्थानं नैव विच्युतम्।
नोल्लसिताऽहं तस्य चाटुवाक्यै:। अपितु, अधिकासहिष्णुकण्ठेनाभाषे—''इन्द्रप्रस्थे सम्प्रति कृष्णा नैव केवला नायिका। कृष्णभगिनी सुभद्राऽप्यस्ति। कृष्णाया अस्तित्वं नास्तित्वं चोभेऽधुना समाने।’’
स प्रायेण ममासहिष्णुतामवजगाम। श्लेषान्वितेन स्वरेणोवाच—''सुभद्रा कदाचिदपीन्द्रप्रस्थराज्ञी न भविष्यतीति सा सुष्ठु जानाति। यतोहि साऽर्जुनमात्रस्य धर्मपत्नी। इन्द्रप्रस्थराज्ञी केवलं याज्ञसेनी—।’’
''पुनर्धनञ्जयहृदयराज्यराज्ञी केवलं सुभद्रा।’’—अहं सरोषाभिमानमवोचम्।
अर्जुन आहत इवाह—''तथा न ब्रूहि कृष्णे! अग्नेऽनेका: समस्या: पुर आयास्यन्ति। सुभद्राया: पाणिग्रहणेन समग्रस्य यदुकुलस्य समर्थनमस्माभिर्लप्स्यते। सखा कृष्णस्तु चिरायास्माकम्। किन्तु, अग्रजं बलरामं वशीकर्त्तुमेकमात्र उपाय आसीत् सुभद्राविवाह:। सर्वमिदं विचिन्त्य सख्यु: परामर्शेन सुभद्रा मया परिणीता।’’
अहं सरोषमुक्तवती—''तृतीयपाण्डव! पारिवारिकजीवनेन सह राजनीर्तिं मा योजय। तां प्रति तवाकर्षणमत्यन्तं स्वाभाविकम्। सत्यस्य स्वीकाराय त्वं पुन: कुण्ठावान् किमर्थम्? कृष्णायामर्जुनाय दण्डविधानसामर्थ्यं नास्तीति तवेयं स्पष्टता।’’ अर्जुन: कथमपि मम क्नोधमभिमानञ्च दूरयितुमसमर्थ: कृष्णं शरणं जगाम।
श्रीकृष्ण: समुपागत:। मम क्रोधाभिमानौ प्रायश: आनन्दयतस्तम्। स मृदु हसन् जगाद—''अर्जुनेन सह सुभद्रापरिणयो मया कौश्लेनाकारि हेतुत्रितयवशात्। तत्र प्रथमो हेतु:—पाण्डवानां पक्षे यदुकुलसमर्थनं स्यात्। द्वितीयस्तु—सख्यै कृष्णायै काऽपि प्रिया बान्धवी लप्स्यते। तृतीय:पुन:—सुभद्रां परिणीयेन्द्रप्रस्थे तया सह युग्मजीवनयापनेनार्जुनस्य कृष्णां प्रति ध्यानं किञ्चिन्न्यूनीभविष्यति। अत: कृष्णाविरहेणाभिमानेन स कदापि वनवासी नैव स्यात्।’’
अहं सखायं विलोक्यापृच्छम्—''भवानार्यावर्त्तस्य श्रेष्ठो वीर:। भवतो भगिनी सुभद्रा सुन्दरी सुलक्षणा च। तस्यै वीरपुरुषस्याभावो नैवाभविष्यत्। आवयोर्मध्ये दूरत्वं संसृज्य कुटनीत्या सुभद्रां संस्थाप्य भवत: स्वार्थ: पूर्णोऽभूत्?’’
सखा ओष्ठतले स्मितं चक्रे। अर्जुनाभिमुखं तीर्यगवेक्ष्य मामवोचत्—''उक्तं मया यत् सुभद्रोपस्थित्या सखायं प्रति तव ध्यानं किञ्चिद् ह्रासं गच्छेत्, तेन च मे स्वार्थपूर्त्ति: स्यादिति।’’
''कथं? केन प्रकारेण?’’ चकिताऽहं पुन: पृष्टवती। सखा हसन्नुवाद—''तव तत्र ध्यानह्रासेन मद्विषये त्वं किञ्चिदवश्यं चिन्तयिष्यसि। तव समग्रं ध्यानं तस्मिन्निबद्धमित्येतेनाहं नितरां दूये। एकदा तु मयोक्तं यत् सख्यु: सर्वं मह्यं समर्पितम्। सखा यां पुष्पमालां स्वीकरोति, तस्या: सुरभिर्मत्सविधे आयाति। अत: त्वं मे सख्युरिति तव ध्यानं किञ्चत् किं मां प्रति नोचितम्?’’
एवम्मानसिकसङ्कटसमयेऽपि सख्युर्मधुररसिकतयाऽहमहसम्। तदानीं श्रीकृष्णेङ्गितेन सुभद्रा कुत्रासीन्न जाने, सहसा मम पदयो: प्रणिपत्य साश्रुनेत्राऽवदत्—''ज्येष्ठभगिनि! अहं न तव सपत्नीयोग्या। मम हृदये त्वं देवीत्वेनाधिष्ठिता। अर्जुनस्य परिणयात् परमपि तव निर्देशो मम शिरोधार्य:। तवानुमत्यैवाहमिन्द्रप्रस्थे दासीत्वेन स्थास्यामि, अन्यथाऽग्रजेन सह द्वारकां प्रतिगमिष्यामि।’’
कृष्णबलरामयोरादरणीया सहोदरा सुभद्रा मम पादौ धृत्वा दासीत्वेनेन्द्रप्रस्थे स्थातुमनुमतिं कामयते। तस्या: नम्रकोमलसहनशीलतयाऽहं पराजिता। एवं कोमलां कमलकलिकामहं सपत्नीं मत्वा हिंसया ज्वलामीति मनसि मे त्रपोत्पद्यते। कृष्ण एवं नाटकं विरच्य मामपमानयति पुन: पुन: कस्मात्? ममाहङ्कारं पदे पदे चूर्णीकर्त्तुं किं तेन प्रतिज्ञा कृता?
सुभद्रा मे चरणौ निधाय मदादेशप्रतीक्षया स्थिता। अहं तां हस्ताभ्यामुत्थापितवती। तस्या: कमनीयनयनाभ्यां स्वच्छजलधारे निस्सरत:। कृतापराधेवाधोमुखी वदति—''त्वां विलोक्य चिन्तयामि यदर्जुनस्य मां प्रत्याकर्षणं कियदसङ्गतमन्याय्यं च—’’
अहं सुभद्रामुत्तोलय्यावदम्—''ममेच्छा ते शिरोधार्या चेत्तव स्थानम्—।’’ ''कुत्र?’’—इति सुभद्रा सातङ्कं पप्रच्छ। ''अत्रैव’’ इत्युक्त्वा मया तस्यै स्वहृदये स्थानमदीयत। सा स्वमस्तकं मम हृदये संन्यस्य कनीयसीव रुरोद। मन्नेत्रयोरश्रुण्यपि निस्सर्त्तुमातुराणि। तन्मस्तके हस्तं चालयन्त्यहमुक्तवती—''त्वं कृष्णस्य भगिनी आसी:, परन्तु त्वमद्यारभ्य कृष्णाया भगिनी। का ते चिन्ता पुन:? सर्वं मयि सन्त्यज्य निश्चिन्तं तिष्ठेह। अर्जुनं च मोदय।’’
कृष्णार्जुनौ मृदुस्मितं चक्राते। सखायं विलोक्यामन्ये यदिदं घटिष्यत इति तेन ज्ञातपूर्वमासीत्! सुभद्राया नत्याऽहं ममतास्रोतस्विनी सती प्रवहिष्यामीति—
जीवननाटकस्य प्रत्येकं दृश्यं यदि सखा पूर्वं जानाति, तर्हि अज्ञानस्याभिनयं कथं कुरुते?
सूर्यालोको यथा चन्द्रपृष्ठे प्रतिफलितश्चन्द्रालोकरूपेण पृथिवीं सेचयति, तथैव दु:खदघटना हृदयस्योदारस्निग्धतया प्रतिफलिता सुखदत्वेन परिणमते। मनुष्यो येन दु:खं लभते, किञ्चिद् गभीरतया तदवगमनेनापारं सुखमप्याप्नोति।
अर्जुनेन सह सुभद्रामिन्द्रप्रस्थराजप्रासादे विलोक्याहं चरमदु:खेन त्रुटिता। किन्तु, सुभद्रां भगिनीरूपेण स्वीकृत्य, तया सहार्जुनमिलनेन च मम हृदयमपारसुखपूर्णं बभूव।
पत्यु: शयनगृहे सपत्नीं नववधूवेशेन सज्जीकृत्य तस्या: सम्प्रेषणमेका विचित्रानुभूति:। साऽनुभूतिर्मे जाता, सा च मयाऽतिसहजतयाऽङ्गीकृता।
इन्द्रप्रस्थे सुभद्रार्जुनयो: प्रथममिलनरात्रिं मधुशय्यारात्रिरिति मत्वा मया स्वयं सर्वं व्यवस्थापितम्।
सुभद्रामर्जुनस्य शय्यानिकटे प्रापयित्वा प्रत्यावर्तमानाया मे हृदीर्ष्याऽसहिष्णुत्वयो: स्थानेऽपूर्व आनन्द एक उच्छलति स्म। स आनन्दस्त्यागस्य, उदारताया:, प्रीत्याश्च। एका नारी नारीमन्यां चेत् प्रीणाति तर्हि लभ्यत इयानानन्द:? परन्तु परस्परं द्वयो: पुन: प्रीत्यां कृपणता किमर्थम्? वस्तुत: सुभद्रायां प्रीताऽहं प्रमुदिता। सुभद्रातिरिक्ता कस्याश्चनान्यस्या: मम सपत्नीत्वेन नाहं तथा प्रीताऽभविष्यम्, यथा सुभद्राया:। सुभद्रा कृष्णभगिनी किल! सुभद्राया: कमनीये मुखे शिशुसुलभां सरलतां, तस्या गभीरायतनेत्रयोर्निष्पापमादकतां चावलोक्य का वा तस्यां जातानुरागा न स्यात्? कृष्ण इव सुभद्रायामपि वर्तत एकमपूर्वमाकर्षणम्। कृष्णविरागो जनोऽस्ति बत कोऽपि संसारे? अहं कृष्णानुरक्ता। सुभद्रानुरक्तौ मे न विशेषत्वम्, विशेषत्वं तु सुभद्राया:।
अहं दृढतया वक्तुं शक्नोमि यद् यद्यपि धनञ्जयं प्रति ममास्ति कापि दुर्बलता, तथापि यदा यस्यापि पत्यु: शयनकक्षे रात्रिं यापयामि, तदा तं विनाऽन्यस्य छायामपि न चिन्तयामि मनसि। तस्मिन्मुहूर्त्ते स केवलं मम पति:। मम समस्तस्य प्रेम्ण:, ऐकान्तिकनिष्ठायास्तत्पदयो: समर्पणसमये ममावचेतनमनसि नान्य: पुरुषो वर्त्तते, केवलं कृष्णं विना। कृष्णो वर्त्तते मम शयने, स्वप्ने, जागरणे च। मम पतीनां हृत्स्पन्दनेषु कृष्णकृष्णेति स्वरमप्यहं श्रुतिविषयीकरोमि। अर्जुनस्य नि:श्वासप्रश्वासेषु प्रतिरोमाञ्चं च कृष्णनाम शृणोमि। अत: कृष्णप्रीत्या मम पातिव्रत्यं सतीत्वं च न क्षीयेते। कृष्णप्रेमा पवित्रोऽनाविल:, आशाप्रत्याशाभ्यां बहिश्च। अतो मे पातिव्रत्यकारणान्मनसि मम मध्ये मध्येऽहङ्कार उत्पद्यते।
पृथिव्यामनेका नार्य: शरीरेण नासत्योऽपि मनसा तासां सतीत्वं न स्वीकार्यम्। एकपत्नीनां तासां मनस्तले नैके पुरुषा आलोडनं सृजन्ति। शरीरेण दूरस्था अपि ता मनसा परपुरुषै: सह मधुशय्यां रचयन्ति। परन्तु, नाहं तथा। युधिष्ठिरेण सहैकत्र निवासे नाहमर्जुनं चिन्तयामि। मम संयतशृङ्खलितजीवनाय मयाऽपि न स्वल्पा साधना कृता। मनसो वशीकरणं संसारे सर्वत: कष्टकरम्।
माता कुन्ती वदति—कष्टं विना कृष्णो न लभ्यते। तद्दृष्ट्या कृष्ण: साक्षाद् भगवान्, स पुन: सर्गस्थितिनाशहेतु:, प्रत्येकं कार्यस्य नियन्त्रकश्च। कृष्णस्याबाल्यादलौकिकघटनानां तन्मुखाच्छ्रवणात् परं मे विश्वास उत्पद्यते यत् कृष्णस्तु भगवान् स्वयमिति। भगवान् असहायमनुष्यस्यात्मशक्ति:। तद्विचारेण स तु मम कृते भगवानेव। यतोहि कृष्णभावना ममात्मबलं द्रढयति। सङ्कट आपतिते प्रतीयते यत् कृष्ण एव शरणम्। तेनैव विश्वासेनाहमेवमस्वाभाविकपरिस्थित्यामपि स्वाभाविकं जीवनं यापयामि। न केवलं मम, मम पतीनामपि तथैव विश्वास:। कृष्णशरणं विना सत्सु शौर्यवीर्यादिषु पाण्डवा बहुदिनेभ्य: पूर्वं समाप्तिमगमिष्यन्।
सुभद्रामर्जुनशयनकक्षे प्रापयित्वोपविष्टाऽहमेकाकिनी उपवने। तत्रार्जुनं न चिन्तयामि, चिन्तयामि तु कृष्णविषये। ज्योत्स्नारजन्यां कौमुद्या इव ममान्तराले आनन्दामृतप्लावनम्। यतोहि कृष्णभगिन्यै मया महान् त्याग: स्वीकृत:। पुनर्मनसि मेऽहङ्कार:। किन्तु, क्वचिदहङ्कारोऽप्यावश्यक: प्रतीयते। अहङ्कारो हि मनुष्यं सुकर्त्तव्याय प्रवर्तयति। परन्तु, तदहङ्कारान्तराले यदि भगवान् भवति, तर्हि मानव: सुकार्यं कुरुते।
ममाध्यहङ्कारं कृष्णो वर्त्तते। अहं कृष्णस्य सखी, प्रियबान्धवी च। अहं तदर्थं त्यागं कर्त्तुं शक्नोमि—सोऽयमहङ्कारो मे शतश: काम्य:, नितान्तं काम्य एव।
कृष्णो मम सम्मुख उपस्थित:। अन्यमानसाप्यहं तमेव स्मरामि। स सर्ववित्। मम मनोभावनाऽपि तज्ज्ञाता। स निकटे उपाविशत्। नम्रमधुरस्वरेणावोचत्—''मम भगिन्यै सुभद्रायै यस्त्यागस्त्वया कृत:, तदर्थमहं त्वयि कृतज्ञ:। वर्षेभ्य: परं सखा प्रत्यागत:। अथ च त्वया रजनी निस्सङ्गं याप्यते। ततोऽहं दु:खित:।’’
अवगतवती यत् कृष्णेन मे मनोभाव: परीक्ष्यते। अहं प्रत्यवदम्—''सुभद्रया नार्जुनो बलादाकर्षित:, अपित्वेतेनार्जुनं निकटतरीकर्त्तुं मया सुयोग आसादित:। विना प्रयत्नं लब्धेन धनेन यथा तदर्जनानन्दो नश्यति, तथैव पत्यै त्यागं विना तत्प्रेमलाभेन नारीत्वमहिमा क्षीयते। नारीत्वस्यैकमाह्वानमप्यस्ति। सुभद्रा तु मदर्थमेकमाह्वानम्। अर्जुनाय त्यागं कष्टं च स्वीकर्त्तुं तया सुयोग: प्रदत्त:, अर्जुने च नारीत्वमहिमानं प्रगुणीकर्त्तुं प्रेरणाऽपि दत्ता। अतोऽहं त्वयि कृतज्ञा। अहं जानामि यन्मे मूल्यं वर्धयितुं सुभद्रेहाऽऽगतास्ति। अतस्त्वमेव धन्यवादार्ह:। सखे! साधानाया अप्यस्ति मधुर: स्वाद:। येन तदास्वादो नास्वादित:, तन्मतेन साधना कष्टकरीति। इदमवधेयं यज्जननी भवितुं प्रसववेदनाऽवश्यं सोढव्या। अर्जुनस्य निकटतमा भवितुं मया सपत्नी भगिनी मन्तव्या।’’
कृष्ण: सस्मितं बभाषे—''अर्जुनस्य निकटतमा भवितुमस्त्येक: प्रकृष्ट उपाय:। कर्त्तुं शक्ष्यसि?’’
—''अवश्यं शक्ष्यामि। कष्टप्रदश्चेत्तथापि कृपयोच्यताम्।’’
वासुदेव: कृष्णोऽपूर्वदीप्त्या स्वमुखमण्डलमालोकयन् जहास। वक्राधरं तीर्यक् चालयन्नुवाच—''या कृष्णस्य निकटतमा, साऽर्जुनस्यापि। अर्जुनो द्वितीय: कृष्ण:। अर्जुनस्य निकटतमा भूत्वा कृष्णं दूरयिष्यसि—कथमिदं सम्भवेत्?’’
अहं सस्मितमुक्तवती—''जन्मसमये श्रुतं मया यन्मे नाम कृष्णेति। तातद्रुपदोऽप्यवोचत्—कृष्णाकृष्णावविच्छिन्नौ। त्वामहं पश्यामि मम हृदयदर्पणे। कोऽपि पश्यतु न पश्यतु वा, अहं तु पश्यामि यन्मेऽन्त:करणं कृष्णमयम्।’’
कृष्णोऽपि सस्मितमवादीत्—''कृष्णमयं हृदयमहङ्कारशून्यम्। यत्राहङ्कारस्य राज्यं तत्र कृष्णकालिमा सम्भवति, न तु कृष्ण:। कृष्णकालिमा कृष्ण इति विचारो निर्बोधतैव।’’ तद्वाक्येन मम हृदये प्रचण्डाघातोऽकारि। मम हृदये सामान्यतममप्यहङ्कारं कृष्णो न सहते! परन्तु मया तु कदाचिदपि मृषाहङ्कारो न क्रियते!
कृष्णस्य रहस्यमयं हास्यं मम मनोऽनावृतं चक्रे। तद्धास्यं यथा कथयति स्म—''मिथ्या वा सत्यं वा, अहङ्कारो दूरीकरणीय एव। अहङ्कारं दूरीकर्त्तुं समाप्तिरावश्यकी, समर्पणमावश्यकम्, आत्मा नैवेद्यरूपेण प्रस्तोतव्यश्च।’’
एतन्निश्शब्दस्वरान्तर्वर्त्ति कृष्णजीवनचरितं क्रमशो मूर्त्तिमद् भवति। वस्तुतो द्वारकाधिपते: कृष्णस्य धर्मसंस्थापनाय यायावरवद् देशाटने कस्तस्य महीयान् स्वार्थो निहितोऽस्ति? जगद्धिताय तु स यायावर:।
(२३)
अहं समाप्ता। मया स्वात्मा पाण्डवानां सुखपथे निवेदित:। मम समस्तं निजत्वं पतिभ्य: समर्पितम्। न मे काऽपि रुचिररुचिर्वा। अहं निवेदिता तेभ्यस्तेषां रुच्यनुसारेण।
अर्जुनेन सह मम युग्मजीवनस्यायमारम्भोऽद्यारभ्यैव। अत्रान्तरे व्यतीतान्यनेकवर्षाणि। अस्माकं जीवने परिवर्तनान्यनेकान्यागतानि। सुभद्राऽऽयाता। मानाभिमानौ च। परन्तु, अर्जुनो मद्दृष्टौ यथाऽऽसीत्, तथैवास्ति। स्वयंवरात् परमिदम्प्रथमतयाऽहं शय्यागृहे तं प्रतीक्षे।
मायाया: प्रत्येकं प्रसङ्गेऽतिरञ्जनम्। इयताऽऽडम्बरेण काऽऽवश्यकता? ऐश्वर्याऽऽडम्बरक्षमता: मानवमन्धीकुर्वन्ति। अत: नाहं तथा भवितुमिच्छामि। अर्जुन: द्वितीय: कृष्ण:। तद्दर्शनेन कृष्णो दृश्यते मत्पुरत:। अद्याहं कस्य प्रतीक्षयोपविष्टा? अर्जुनस्य, कृष्णस्य वा?
स आगत:। मम कक्षास्तरणे नीलकमलं विकासयन् स आसनं जग्राह। अहं तच्चरणाववन्दे। रजन्या अस्या: स्वप्ना मयाऽनेकशो दृष्टा:। एवम्भूता ज्योत्स्नारात्रि:, स्निग्धश्च समीरण:—तत्रार्जुनोऽहं च केवलम्। मानाभिमाना:, स्वप्नकल्पना:, काव्यकवितासाहित्यसमीक्षा, शास्त्रपुराणचर्च्चेत्यादिविषयेषु भावविनिमयो मम केवलमर्जुनेन सह। युधिष्ठिरश्चिराद् भावगम्भीरश्चिन्ताशीलश्च। भीमसेनस्तु काव्यकवितामानाभिमानभावविलासादीनां देहलीमपि न स्पृशति। नकुलस्त्वामूलाच्चपल: सरल: निष्पापशिशुरिव। स पुन: कथं वा जानीयान्मे मन:? सहदेवस्तु निरन्तरं योगीव मौनमग्न:। स कदाचिदपि कमपि प्रसङ्गं नैव स्वपक्षत: प्रस्तौति। स यद् ब्रूते, तन्नितान्तं मितम्, अप्रियमपि सत्यम्। अत: सर्वा मे काव्यमयता सञ्चिताऽर्जुनाय। तेन सह यामिन्यां यामिन्यां काव्यकविताचर्च्चां कर्त्तुं शक्यते। कृष्ण इव स: काव्यमय:, कलासङ्गीतप्रियश्च।
मम हस्तं धृत्वा स मां पल्यङ्क उपावेशयत्। नम्रकोमलस्वरेणावोचत्—''कृष्णे! क्षमस्व माम्।’’
—''क्षमा! कस्य दोषस्य?’’
—''अहं सम्प्रति प्रतिगमिष्यामि सुभद्राकक्षम्। अद्य प्रदोषात् परं साऽसुस्थतामनुभवति।’’ स ममोत्तराशया प्रतीक्षते। अहं तु निरुत्तरा। सुभद्रा मया भगिनीरूपेण हृदयेनाङ्गीकृता। अहं यदि न तस्या: सुखपथरोधिका, सा तु पुनर्मम सुखं कथं न सहते!
अधुनाऽहं सुभद्रां सपत्नीं मत्वा तस्यायीर्ष्यामि। बहुवर्षेभ्य: परमहमर्जुनेन सह मिलितुमिच्छामि। अथ च सुभद्रा तन्मात्रमपि न सहते। मां निरुत्तरां विलोक्य धनञ्जयोऽब्रवीत्—''त्वं मां प्रतीक्षसे, अथचाहं सुभद्राप्रकोष्ठे रात्रिं यापयिष्यामीतीदमत्यन्तं यन्त्रणादायकमिति मयाऽनुभूतपूर्वम्। त्वामहं च प्रतिरात्रं प्रतीक्षे, अथ च त्वमगच्छ: युधिष्ठिरभीमनकुलसहदेवानां कक्षेषु वार्षकनियमेन। मया तु न स्वल्पं कष्टमासादितम्, यद्यपि त्वं न केवलं मामकीनेति जानामि। अद्य तव मयि यावानधिकारस्तार्वांश्च सुभद्राया:। साऽसुस्थेति विज्ञाय कथमहं त्वन्निकटे स्थास्यामि?’’
''किन्तु वर्षमिदं मया सह युग्मजीवनाय यापनीयं किल! त्वयि तत्र गतवति प्रतीक्षिष्ये यदहम्’’—बहुकष्टेनाहं प्राकाशयम्।
अर्जुनस्तु सहसोवाद—''सुभद्रा पुन: नियममिमं कथं स्वीकुर्यात्? तया सहैकवर्षं, त्वया साकं चैकवर्षं यापयिष्यामिति तया तु न कृता प्रतिज्ञा? प्रत्येकं धर्मपत्नीव साऽपि मां प्रतिपलं प्राप्तुं कामयिष्यते। त्वत्तश्चाधिकदिनानि मया सुभद्रया सह यापयिष्यन्ते। यतोहि त्वां प्राप्स्यामि प्रतिचतुर्वर्षमेकस्मै वर्षाय। किन्तु तां लप्स्ये प्रतिदिनं, प्रतिमुहूर्त्तम्। अत: यया सह जीवनस्याधिकतर: समयो नेष्यते, तां पुना रोषयामि कुत:?’’
सम्प्रत्यवगतवती यदर्जुनो ममैवास्त्रं मयि प्रयुङ्क्ते। या यन्त्रणा मत्कारणात्तेनानुभूतपूर्वा, सा सर्वा सम्प्रति मह्यं प्रत्यावर्त्तिता तेन। तस्मिन् प्रतीक्षमाणे ममान्येषां कक्षेषु गमनेन तस्य किम्भूतं कष्टं जायते, तत् सर्वं स स्थाने ज्ञापयितुमिच्छति। परन्तु तत्र मम कोऽपराध:?
आवयो: सुभद्राद्रौपद्यो: परस्परं द्वन्द्वहेतुरर्जुन एव। अर्जुन: कस्या: कक्षे रात्रिं यापयिष्यतीति तेन सहाहं तर्कं करोमीति विचिन्त्य ह्रिया मे मुखं मलिनं बभूव। यदि स सुभद्रान्तिके गन्तुमिच्छति, तर्हि बलात् तद्रोधेन स कदापि सुखी न स्यात्। अप्रसन्ने च तस्मिन् किं वा सुखं मया लभ्येत? बलात् कस्यचन राजसिंहासनमादातुं शक्यते, न तु हृदयसिंहासनम्। सुभद्रा यदि तद्धृदयासनाधिष्ठिता, तर्हि तस्यायीर्ष्यन्ती जीवनमहं यापयितुं शक्नुयाम्, परन्तु न तदासनमधिकर्तुम्। यदि तथ्यत: सुभद्राऽसुस्था, अर्जुनसान्निध्यं च तत्काम्यं, तर्हि धनञ्जयस्य रोधो नितान्तमनुचित एव।
अर्जुनस्य विरहव्यथा मया द्वादशवर्षाणां सधैर्यमसह्यत। किं द्वित्रिदिवसीयो विरहो न सोढुं शक्यते? परन्तु भेदोऽयं यत् तदानीं स आसीद् ब्रह्मचारिरूपेणारण्ये, सम्प्रति तु सपत्नीसुभद्राभवने। अहं स्थिरकण्ठेनावोचम्—''सुभद्रा यदि स्वकक्षेऽसुस्था, तर्हि तवागमनमत्र नैव विचारसङ्गतम्। कृपया शीघ्रं याहि। सा दीना मुग्धा च। तव विलम्बेन व्यस्ता भवेत्।’’ अर्जुनो मे करौ धृत्वोवाच—''किं ते मनसि दु:खम्? किं वा करणीयं मया? द्वयो: नावो: पदस्थापनेनैवं मनुष्यस्यावस्था सम्भवति।’’ तस्य कोमलानुनयेन मम समस्तं दु:खमश्रुरूपेण रूपान्तरितं नयनयोरागतम्। परन्तु तदहं बलान्नियन्त्रितवती। किमहं सुभद्रेव बालिका, याऽर्जुनमन्तिके प्राप्तुं रोत्स्याम्यथवाऽसुस्था भविष्यामि? अहं याज्ञसेनी, विदुषी, इन्द्रप्रस्थमहाराज्ञी, अग्निसम्भूता च। अहं हसितुं प्रयतमानाऽवदम्—''मम तु दु:खमुत्पद्यते सुभद्रायै। अकारणेन साऽसुस्था जाता कथम्? रात्रौ राजवैद्यस्तु आवश्यको न भवेत् कच्चित्?’’
अर्जुनो गम्भीर:सन्नुवाद—''तदर्थं मा भूयाश्चिन्तिता। तदसुस्थता न गुरुतरा। ममोपस्थितिरेव पर्याप्ता। परन्तु त्वदीया रात्रि: कथं व्यपगच्छेत्?’’
—''चिन्तया विनिद्रतया च।’’—अहं दु:खेनागदम्।
—''किमर्थम्?’’—सोऽपृच्छत्।
—''सुभद्रार्थम्। मया सा भगिनीरूपेण स्वीकृताऽपि मां सा सपत्नीं मत्वा प्रायेण मद् बिभेति। अन्यथा, मम कक्षे तवागमनेन सा सद्योऽसुस्था जाता कथम्? अस्तु, त्वं तावदधुना गच्छ। रात्रि: क्रमेण वर्धते।’’ एतावताऽहं तं शय्याधारादुत्थाप्य तेन सह द्वारं यावद् गतवती। अर्जुनोऽधोमुख: सुभद्रामन्दिराभिमुखं प्रतस्थे। अदृश्ये तस्मिन् पिधाय द्वारमहं शय्यायां सुप्ता। न जाने, महती क्लान्तिरन्वभूयत। यथा धनञ्जयेन मे शक्तिर्हृता मुहु:।
चक्षुषी नैव पिहिते, मायाया: कण्ठस्वरो मच्चरणयो: श्रुतो मया। माया मम प्रकोष्ठेऽस्ति, अथ च मया द्वारमवरुद्धम्। माया मे चरणे हस्तं सारयन्ती सदीर्घश्वासमुवाच—''द्वादशवर्षाणि प्रतीक्षाया: परमर्जुनस्यायमविचारस्त्वया यदसह्यत सखि! वस्तुत: सुभद्रा नासुस्था, सान्ध्यस्नानात् पश्चादात्मानं प्रसाधयन्ती मया दृष्टा। अद्यत्वेऽर्जुनस्तामविलोक्य क्षणायापि न तिष्ठति। अत: स इमां मिथ्यागाथां विरच्य सुभद्रापुरीं गत:, अथ च त्वं तं विना तपस्विनी सती कियत् कषणं नासादितवती!’’
मायावचनं सत्यं प्रतीयते, मम यन्त्रणाज्वालां च वर्धयति। परन्तु मायानिकटे स्वदौर्बल्यं प्रकाशयितुं नेच्छामि। केवलं सस्मितमवदम्—''माये! इदमत्यन्तं स्वाभाविकं यत् सुभद्रया सहार्जुनसम्बन्धो नवीन:, अतोऽर्जुनस्तां विहातुं नेच्छति।’’
''विवाहात् परं गतेष्वप्यनेकवर्षेषु तवार्जुनेन सह सम्बन्ध: कतिदिनानामुच्यतां बत!’’—माया तर्जितवती।
अहं स्वप्नयुतेनेव कण्ठेनावोचम्—''अर्जुनेन समं सम्बन्धो मम जन्मजन्मान्तरीय:। त्वं तु न वेत्सि माये!.......’’
(२४)
सुभद्राविलोकनमात्रेण मे सकलोऽभिमान आकाशमेघ इवापसरति। नीलनिर्मलाकाशमिव परिवर्त्तते मन:। सुभद्रामवलोक्य गतनिशाया: सर्वमभिमानं विस्मृत्य तत्कुश्लतां जिज्ञासितवती। सा साश्चर्यं पप्रच्छ—''अहमसुस्थेति केनोक्तम्? इन्द्रप्रस्थागमनात् परं मम स्वास्थ्योन्नतिर्भवति, न त्ववनति:!’’
अहं विस्मिताऽचिन्तयम्—''तर्हि मायोक्तं किं सत्यम्? सुभद्राऽसुस्थेति मिथ्योक्त्याऽर्जुनो मत्तो दूरीभूय सुभद्राभवने रात्रिं यापितवान्? अहं मे संशयमनुक्त्वा केवलमपृच्छम्—''अपि रात्रौ सुनिद्रा त्वम्?’’
सुभद्रा सस्मितमुवाच—''निद्रा मे चिरसहचरी। अर्जुनो नासीदिति ह्यो मया शीघ्रं शय्या गृहीता। अन्यदिनेष्विव तस्य कविताशास्त्रचर्च्चा नैव श्रुता। सोऽस्मिन् विषये त्वां भृशं प्रशंसति। किं ह्य: सम्पूर्णा रात्रि: शास्त्रालोचनेन व्यतीता? समकक्षमित्रलाभेन तस्य रजनी काव्यकविताचर्च्चया व्यतीयते। द्वारकायामवस्थानकालेऽनेका रात्र्य: अग्रजेन सहैवं यापिता:।’’ पुन: सुभद्रा कलकलहास्यं चक्रे। अहं गभीरविस्मयसरसि निमज्जन्ती अचिन्तयम्—अर्जुनो न मम कक्षे, नापि सुभद्राभवन आसीत्। तर्हि कुत्र यापयामास रात्रिम्? सुभद्राऽसुस्थेति छलेन मद्भवनादपसृतस्य तस्य किमुद्देश्यं स्यात्? किं मे सान्निध्यं स न कामयते? मया सहैकत्र निवासे तस्थैवं कुण्ठा किमर्थम्? किमपराद्धं मया?
इदं दु:खम्, इमां लज्जाम्, इदमपमानञ्च कुत्र निवेदयिष्यामि? अर्जुनो मां नेच्छतीति कुत्रचित् प्रकाशनात् परं मम जीवनेन काऽऽवश्यकता स्यात्?
चिन्तया व्यतीत: सकलो दिवस:। माययाऽपि न प्रकाशितं किमपि। अर्जुनो न मां कामयत इति प्रचारात् पश्चात् सर्वेषां पुरतो नगण्या भविष्यामि। कतिपये हीनदृष्ट्या, अपरे च सहानुभूत्या मां विलोक्य धिक्करिष्यन्ति। किं तत् सर्वमहं सहिष्ये?
सायमेकाकिन्युद्यानकोणे उपविश्य चिन्तयामि यदर्जुनोऽद्य पुन: केनापि व्याजेनान्यत्र रात्रिं यापयिष्यति। शयनकक्षे तत्प्रतीक्षापेक्षयाऽत्र मुखं गोपयित्वा रात्रियापनं मे वरम्।
हठात् पृष्ठतोऽश्रूयत श्रीकृष्णकण्ठस्वर:। सद्योऽहं तत्रापश्यम्। सखा मृदु हसन् ब्रूते—''ह्ये रात्रौ मे सखा निष्ठुरतापूर्वकं प्रत्यावर्त्तित:। अद्यात्र रहस्युपविष्टा त्वम्। अद्य पुनस्तव कक्षान्निरास: प्रत्यागमिष्यति, मदन्तिके च सर्वं दु:खं दीनो रात्रौ ज्ञापयिष्यति च। स रात्रौ न सुप्त:, मयापि न विश्रामो लब्ध:। सखि! मम सखायं प्रति निष्ठुरेयती कथम्?’’
अहमवाक् सखायं पश्यामि। विचित्राचरणं चार्जुनस्य चिन्तयामि। मन्नाम्ना विशुद्धं मिथ्या सख्यु: पुरस्तादुपस्थापितम्। एकत: सुभद्रैकाकिनी, अन्यतश्चाहम्। अथ च सख्या सह तेन सम्पूर्णा रात्रिर्गमिता। वृथाऽपयशो मे प्रदत्तम्। कोऽस्याशय:?
अहं सविस्मयं पश्यामि सखायं कृष्णम्। स मृदु हसति। अहं कृत्रिमक्नोधेनाभाषे—''द्वादशवर्षाणि ब्रह्मचर्यपालनावसरे तव सखा चतस्र: पत्नी: परिणीय, सन्ततित्रितयजनको भूत्वा प्रत्यावर्त्तितो ममापयश: प्रचारयितुमारभते—केनोद्देश्येन? रजनी त्वया सह व्यतीता। अथ च सुभद्राऽसुस्थेति मत्कक्षात् प्रत्यागत:। मया तु न बलान्निस्सारित:।’’
—''किन्तु, किं त्वया बलादवरुद्ध: स:?’’
—''सुभद्राया असुस्थतां श्रुत्वा मया प्रसभं तद्रोध उचितो नाभविष्यत्।’’
—''तथाऽसति कियत्क्षणानुनयेन तु समभविष्यत्!’’
—''किं तथाभूतां सुभद्रां विज्ञायाऽपि?’’
—''सुभद्रा तु न विशेषतो रुग्णेत्युक्तं तेन!’’
—''तथापि सुभद्राभवनं गन्तुं स ऐच्छत्। अहं पुनरन्वनेष्यं कुत:? अनुनयेन किं प्रेमा लभ्यते?’’
—''किन्तु, त्वमर्जुनं विना नैव दु:खिता! अनेककालप्रतीक्षा तव व्यर्थेति नापि प्रदर्शितस्त्वयाऽभिमान:! अतोऽस्यायमभिप्रायो यत् तव तत्प्रीतिं प्रति व्याकुलतैव नास्ति।’’
—''किमभिमानस्य काऽपि भाषाऽस्ति? नयनमुखदीर्घश्वासकण्ठस्वराणां जडतयापि धनञ्जयो यदि मम दु:खं व्याकुलतामभिमानञ्च नैव ज्ञातवान् तर्हि किमहं मुखमुद्घाट्याकथयिष्यम्?’’
वाणीं मे निशम्य कृष्ण उवाच—''कृष्णे! ह्यो रात्रौ मम सख्याऽनल्पं कष्टं लब्धम्। तदर्थं ते व्याकुलताऽस्ति न वेति परीक्षितुं तेन सुभद्राऽसुस्थतोपस्थापिता। अथ च त्वयौदार्येण सुभद्राभवनाय प्रेषित: स:। एतेन किं स न दुनुयात्? सुभद्रायामसुस्थायामपि त्वं यदि प्रेम्णाऽरोत्स्यस्तर्हि स ते प्रेम्ण: प्रखरतामवगम्य प्रसन्नोऽभविष्यत्। प्रेमिका यावती विदुषी विज्ञा च स्यान्नाम, प्रेम्णि तस्या विचारबुद्धि: शिथिलतां व्रजति। प्रेमलाभाय प्रेमिका संसारे किं किं कर्त्तुं न शक्नुयात्? अथ च तव शीतलौदार्येण मम सखा भृशं दण्डित:।’’
अहं सविस्मयपुलकं गतरात्रौ धनञ्जयस्य नाटकीयप्रस्थानकारणमनुध्यायामि। स मे व्याकुलतां कलयितुं सम्पूर्णां रजनीं सख्युश्चरणयोर्यापितवान्—इति निशम्यान्वभवम् यत् स ममैव। उलूपीचित्राङ्गदाऽऽर्यासुभद्रास्तस्य धर्मपत्न्य: स्यु:, परन्तु अहं तस्य प्रेयसी मानसी प्राणप्रिया च। बहुपत्नीग्रहणात् परमपि स यथाऽऽसीत् तथैवाधुनाऽस्ति। अधुनाऽर्जुनो यद्येकोनशतं पत्न्यो वृत्वेन्द्रप्रस्थेऽन्त:पुरे स्थापयति, तर्हि मम तिलमपि न दु:खं स्यात्। अर्जुनस्य पुरुषत्वं सागरोदारम्। संसारस्य समस्ता: स्रोतस्विन्यो यदि तत्राश्रयन्ते, तर्हि मदर्थं तस्य हृदये स्थानाभावो नैव स्यात्।
(२५)
महर्षि: कृष्णद्वैपायन:, महात्मा वासुदेवकृष्णश्च युगपदिन्द्रप्रस्थे समागताविति समागमस्तयोर्यावान् सौभाग्यजनकस्तावान् गुरुत्वपूर्णोऽपि।
कृष्णयोर्द्वयोरिन्द्रप्रस्थागमने किमुद्देश्यं वर्त्तत इति विचिन्त्य राज्यवासिनश्चकिता:।
कतिपयमात्रदिनेभ्य: पूर्वमिन्द्रप्रस्थे सुभद्रातनयस्याभिमन्योर्विद्यारम्भमहोत्सव: साडम्बरं सम्पन्नम्। तदानीं द्वावेतौ कृष्णौ प्रतिजग्मतुरभिमन्युमाशिषा सभाजयन्तौ। प्रतिगमनकाले वासुदेव: कृष्ण: सकौतुकमुवाच—''कृष्णे! सुभद्रापुत्रोऽस्मिन् कुले ज्येष्ठसुतरूपेण जात इति कदाचिदपि त्वया मनसि दु:खं नोत्पादनीयम्। इयं पुरुवंशपरम्परा नाम—गान्धारी प्रथमं गर्भवत्यपि कुन्तीपुत्रो युधिष्ठिर: प्रथममजायतेति स ज्येष्ठपुत्रस्य गुरुत्वं निर्वहति। वरम्, इदं तु ते प्रसन्नताया: कारणं यत्तव पुत्रै: राजमुकुटगुरुभारो न निर्वहणीय:।’’
अहं सहासमवोचम्—''प्रियसखे! अभिमन्यु: सुभद्रोदरसम्भूतो मम पत्यु: सुत एव। अत:, ममापि ज्येष्ठपुत्रोऽभिमन्युरेव। स मामम्बेत्याकारयति, सुभद्रां तु कनिष्ठाम्बेति। सुभद्रयोदरे धृतम्, परन्तु ममाङ्के पोषितो वर्धितश्च। स मन्निकटे पठति, गीतगानमधीते, चित्रं निर्माति, पूर्वपुरुषाणां गौरवगाथां मन्मुखात् श्रावं श्रावं च मदुत्सङ्गे स्वपिति। सुभद्राया बालकसुलभताऽद्यापि न गता। साऽसन्तुष्टं तमसन्तुष्टतरीकुरुते। क्रन्दत्यभिमन्यौ सा तं प्रबोधयिष्यति किम्, स्वयमेव रोदितुमारभते। तं शाययितुं प्रयतमाना स्वयं प्रथमं स्वपिति। क्षुद्रेणाऽपि क्लेशेन सा तं मन्निकटे प्रेषयति। ननु सम्प्रति वद—स मम सुत:, सुभद्राया वा?’’
कृष्णो हसन्नुवाद—
''मया किं कथनीयम्?’’ अभिमन्यु: स्वयं वदन् भ्रमति। प्रथमदिवसे गुरुरपृच्छत्—''वत्स! कस्ते परिचय:? स उदतरत्—जनकोऽर्जुन:, मातुल: कृष्णो वासुदेव:, माता कृष्णा च। अयमेव तस्य परिचय:। अत्र बत सुभद्राया नाम क्व?’’
कृष्णस्य रसिकतां विज्ञायापि सस्मितमभाषे—''सखे! अभिमन्युर्मम मुखात् तद्वंशेतिहासं श्रुतवान्। तस्य वंशे ज्येष्ठो ह्यधिकृतश्रेष्ठासन:। न केवलं वय:सम्मानकारणात्, विचारबुद्धे: हृदयवत्ताया महनीयतया च ज्येष्ठ: श्रेष्ठत्वं लभते। माद्रीसुतौ नकुलसहदेवौ स्वयं कुन्तीपुत्ररूपेण परिचयप्रदानेन गर्वमनुभवत:। कुरुपाण्डवानां परस्परं शत्रुतयाऽपि मात्रोर्गान्धारीकुन्त्योर्दृष्ट्या शतं कौरवा: पञ्चपाण्डवाश्च समाना:। अतोऽभिमन्यो: कृष्णापुत्रत्वेन परिचयप्रदानं न किमप्यस्वाभाविकम्।’’
सखा गोविन्दो मृदु हसन्निरगच्छत्। निर्गमनकालेऽकथयच्च—''सखि! द्वारकायां न मनो रमते। वारं वारमिन्द्रप्रस्थागमनसुयोगं प्रतीक्षे। तव पञ्चपुत्राणां प्रातविद्यस्वतसोमश्रुतकर्मशतानीकश्रुतासनानां युगपद् विद्यारम्भाकरणेनाहं प्रत्येकं विद्यारम्भोत्सवे पृथक् पृथगागन्तुं सुयोगं लप्स्ये। तदानीं पुनरग्रजबलरामस्य पुरस्तादिन्द्रप्रस्थागमनस्य वारं वारं मिथ्यास्पष्टोक्तिं न करिष्यामि।’’
सख्युरुक्त्या को वा न हसेत्? अहमुक्तवती—''सखे! अत्रागमनाय तव सुयोगसर्जनं किं वा महत्? आजीवनं पाण्डवास्तव साहाय्यप्रार्थिनो भविष्यन्ति। तव वरदहस्तं विना किं कृतं बत पाण्डवैरद्यावधि?’’
पुनरावर्त्तनप्रतिश्रुत्या सखा तस्मिन् दिने निर्जगाम। परन्त्वियच्छीघ्रं प्रत्यागमिष्यतीति नैव केनापि ज्ञातम्।
मया तु विदितं यत् कृष्णद्वैपायन—कृष्णवासुदेवौ युधिष्ठिरनिमन्त्रितावत्रागतौ। युधिष्ठिरस्य मनसि द्वन्द्व:। तस्य द्वन्द्वस्यावसानं भविष्यत्यनयो: सन्मार्गदर्शनेन।
युधिष्ठिरेण पिता पाण्डु: स्वप्नेऽवलोकित:। स्वप्ने च पिता स्वापूर्णेच्छां पूरयितुं ज्येष्ठपुत्रं युधिष्ठिरं निर्दिशति। पूर्वपुरुषाणामिच्छापूरणं पुत्राणां परमं कर्त्तव्यम्। परन्तु पितु: पाण्डोरिच्छा न साधारणी। स इच्छति—युधिष्ठिरो राजसूययज्ञं सम्पाद्य राजचक्रवर्त्ती भवत्विति। पाण्डोरपि तथा भवितुमभिलाष आसीत्। बहूनि राज्यानि विजित्य तेन स्वपराक्रमोऽपि प्रादर्शि। मानसिकप्रस्तुतिं च स राजसूययज्ञस्य चक्रे। किन्तु मुनेरभिशापेनाकालमृत्युं भेजे। राजसूययज्ञाभिलाषोऽपूर्ण:। अतृप्तस्तदात्मा तदारभ्य भ्रमति।
स्वप्नभङ्गात् परं युधिष्ठिरश्चिन्तित:। महर्षिणा नारदेन स्वयं राजा पाण्डु: स्वर्गराज्यद्वारदेशे दृष्ट:। स दु:खेनास्ति, युधिष्ठिरस्य राजसूययज्ञेन तस्यात्मा शान्तिं लप्स्यते इति नारदद्वारेण युधिष्ठिराय समाचार: प्रेषित:।
स्वप्नसंवादनारदसन्देशौ पाण्डवानां मनसि राजसूययज्ञाकाङ्क्षां जनयत:। अत्र युधिष्ठिरस्य द्वन्द्व: किमर्थम्?
अन्य: कोऽपि जानातु, न वा—अहं तु सम्यग् जानामि यद् युधिष्ठिर: पित्राज्ञापालनाय यावानग्रेसारी, राजसूययज्ञसम्पादनाय तावान् पश्चात्पद:। आजन्मनो युधिष्ठिर: शान्तिप्रिय: समरविमुखश्च। समर-रक्तपात-हिंसा-काण्ड-धन-जीवनक्षय-दु:ख-शोक-हाहाकारान् तस्य शान्तिप्रियं हृदयं सारल्येन न सहते। युद्धात् स बिभेति जुगुप्सते च। परन्तु तन्मनसि राजसूययज्ञं प्रति कुण्ठा क्षत्रियधर्मविरोधिनी। राज्यजय एकच्छत्रवादो वा नैव राजसूयाशय:। ऐक्यधर्मसख्यप्रतिष्ठैव तदर्थ:। नारद एतदेव प्राबोधयत्। सहोदरा अपरेऽपि समर्थितवन्त:। तथापि युधिष्ठिरोऽस्मिन् विषयेऽन्तिमं निष्पादयितुमुभौ महात्मानौ निमन्त्रयामास।
मध्ये गोविन्दव्यासदेवौ। तौ परित उपविष्टा: पञ्चपाण्डवा:। राजसूयमायोजयिष्यते न वेति गुरुतरं वस्तु विचार्यते। माता कुन्ती, अहं च तत्र स्व:। पाण्डवपरिवारे किमपि सिद्धान्तग्रहणकाले गृहकर्त्तीमतविचारपरम्पराऽस्ति। मम श्वसुर: पाण्डुरपि प्रत्येकं कार्ये मातु: कुन्त्या: सुचिन्तितमभिमतं सम्मेने। ज्येष्ठ:श्वशुरो धृतराष्ट्रोऽपि ज्येष्ठमातु: गान्धार्या: स्वीकरोति।
प्रपितामहीसत्यवत्या अपि सिद्धान्त: ससम्मानं विचार्य गृह्यते। पाण्डवपरिवारे ममाप्येकं स्वतन्त्रं स्थानमस्ति। प्रत्येकं कार्ये ममाभिमतं जिज्ञास्यते गृह्यते च। माता कुन्ती स्वासनमधिष्ठिता। तस्या विज्ञतामस्वीकर्त्तुं गोविन्दस्यापि साहसो नास्ति। परन्तु शतकौरवभ्रातृरो नारीसम्मानं नैव जानन्ति। अन्त:पुरं केवलं तेषां कामलालसाया: क्रीडाभूमि:। ते पत्नीं विलाससाधनं मन्यन्ते। तासामभिमतजिज्ञासाऽऽस्तां दूरे, कौरवास्ता नानाप्रकारैर्निर्यातयन्ति। दुर्योधनसहधर्मिण्या: भानुमत्या विद्याबुद्धिरूपगुणविज्ञतादिषु न कुत्रापि न्यूनता। तस्या उदारताया महनीयतायाश्चोपमैव नास्ति। दुर्योधनो यदि प्रतिकार्यं तस्या अभिमतं विचारयेत्, तर्हि अधर्माविचारहिंसापापाचारादयस्तं न स्पृशेयु:। भानुमत्या: सतीत्वपातिव्रत्यधर्माचरणकारणेभ्य: कौरवा नीतिहीना अपि संसारे तिष्ठन्ति सम्प्रति। भानुमती सख्यु: श्रीकृष्णस्यातीव प्रिया। पत्युरवहेलनेन कामुकतया च सा दीना रात्रिन्दिवं दग्धीभवति। अशान्त्याऽस्थिरतया च वहुवारं रुग्णा भवति। यदि तस्या अकालविनाशो भवति, तर्हि तत: परं कौरवा अचिरात् क्षयं यास्यन्तीति मे मन आशङ्कते।
सर्वैरस्माभि: स्वाभिमतं प्रदत्तम्। माता कुन्ती, या सर्वदा रक्तपातं समरं च नेच्छति, साऽपि राजसूययज्ञानुकूलं स्वाभिमतं प्रादात्।
तथापि युधिष्ठिरो राजसूयविमुख:। व्यासदेवो वासुदेवसिद्धान्तं प्रत्यैक्षत। वासुदेवो यत्रोपस्थितस्तत्रान्यस्य सिद्धान्तावश्यकता नास्ति।
वासुदेव: कृष्णो जगाद—''महाराज युधिष्ठिर! राजसूययज्ञसम्पादनाय त्वमेव योग्य:। धर्मात्मनां राज्ञां राजसूयसम्पादनेन धर्म: प्रतिष्ठते। अधर्मो नश्यति।’’
युधिष्ठिर: सचिन्त: पप्रच्छ—''चक्रवर्त्तिरूपेणात्मसन्तोषाय राजसूयमुद्घोष्य तद्द्वारा युद्धरक्तपातावाहनं किं वस्तुतो वाञ्छनीयम्?’’
शान्तस्वरेण कृष्ण उवाच—''राजसूययज्ञस्योद्देश्यं न राज्यविस्तार:, नाप्येकच्छत्रवाद:। अस्य वास्तविकमुद्देश्यं भवति धर्म आनुगत्यस्वीकार:। युधिष्ठिरराज्येऽधर्मस्य स्थानमेव नास्ति। इदं केवलं राजसूयं प्रतिपादयिष्यति। एतदहिंसां, शान्तिं मैत्रीं च वर्धयति, धर्मरक्षकेभ्य: स्वीकृतिं प्रयच्छति, प्रतिष्ठापयति, धर्मध्वजां प्रसारयति च। अत: हे राजन्! अचिराद्राजसूयमायोजय। परन्तु पूर्वं मगधराजो जरासन्धो निपातनीय:। तस्मिन् सति धर्मप्रतिष्ठाऽसम्भवा। चैद्य: शिशुपालस्तस्य सेनापति:। तस्यापि न स्वल्प: पराक्रम:। अत: प्रथमं मगधविरोधाभियानमारभ्यताम्—अनन्तरं च राजसूयं व्यवस्थाप्यताम्।’’
श्रीकृष्णसाहाय्येन भीमार्जुनाभ्यां जरासन्धो निहत:। राजसूयाय किमप्यन्यत् प्रतिबन्धकं नासीत्। इन्द्रप्रस्थे तदर्थं सर्वमायोजितम्। कार्याणां भारोऽपि विभाजित:। भीमार्जुननकुलसहदेवाश्चतुर्दिशं दिग्विजयं कृत्वा प्रत्यावर्त्तिता:। पाण्डवानां धर्मविचारपराक्रमाभ्यां समग्र आर्यावर्त्तो वशीभूत:। आर्यावर्त्तस्य श्रेष्ठपुरुष: कृष्णवासुदेवो यत्र प्रमुखपुरोधा:, तत्र पराजयस्य प्रश्न: क्व?
युधिष्ठिरस्य सविनयमनुरोधं स्वीकृत्य हस्तिनापुरीत: पितामह—द्रोणाचार्यधृतराष्ट्रदुर्योधनप्रभृतयो यथासमयमिन्द्रप्रस्थे समुपस्थिता:। समग्रपृथिव्या राजानो निमन्त्रणमासाद्य समागता:। सर्वे राजचक्रवर्त्तिनो युधिष्ठिरस्य विनयभावेनान्तरिकातिथ्येन चातीव प्रसन्ना:। इन्द्रप्रस्थैश्वर्येण सर्वे आश्चर्यान्विता:। इयद्भि: स्वल्पैर्दिवसैरनुन्नतस्य खाण्डवप्रस्थस्येन्द्रभुवनरूपेण परिणमनरहस्यं सर्वैश्चर्च्यते। एतेन कौरवा ईर्ष्यया ज्वलन्ति। भीमसेनोऽपि मध्ये मध्ये विविधपरिहासच्छलेन नानाविधमुक्त्वा तानीर्ष्यान्विततरान् कुरुते।
युधिष्ठिरेण भ्रातृषु कार्यभारो विभाजित:। अश्वत्थामा ऋषिमुनीनामातिथ्यभारे नियुक्त:। सञ्जयस्तु राज्ञां स्वागतकर्मणि। कृपाचार्योपरि धनरत्नभण्डारसुरक्षाभार:। दु:शासनो वस्तूनां संरक्षणमवैक्षत। दुर्योधनो विविधदेशेभ्य आगतानामुपहाराणां सुरक्षां चक्रे। भीष्मद्रोणौ च कार्यभाराणां शृङ्खलितव्यवस्थापनाय सर्वानादेक्ष्यत इति सर्वसम्मत्या स्थिरीभूतम्।
श्रीकृष्णस्तु हसन्नवादीत्—''मह्यं किमप्यादिशतु राजचक्रवर्त्तिन् युधिष्ठिर!’’
युधिष्ठिर: सविनयमुवाच—''समस्तस्यास्य कार्यस्य पृष्ठभूमौ योऽस्ति, तस्मै तुभ्यं पुन: किं कार्यभारान्तरम्? हे केशव! त्वमेव राजचक्रवर्त्तित्वयोग्य:। मयाऽत्र किं कृतम्? त्वया तु सर्वं सम्भवमभवत्।’’
श्रीकृष्ण: पुन: सस्मितमब्रवीत्—''तत् सौभाग्यं मम कुत:? जीवनेऽयं महानभावोऽवशिष्ट:। राजचक्रवर्त्तित्वसौभाग्यं तु सर्वेषां न सम्भवति।’’
एतेन कृष्णवाक्येन दुर्योधनो बाणबिद्धमात्मानं मत्वा हिंसया दग्धीभवति। युधिष्ठिर: ससङ्कोचं जगाद—''संसारे एवम्भूता महापुरुषा अपि लब्धजन्मान:, ये सकलगौरवाधिकारिणोऽपि परान् तद्भाजनानि सम्पादयन्ति।’’
दु:शासनोऽसहिष्णुरवोचत्—''युवामिह परस्परं प्रशंसिष्यथ:, वयं च सर्वाणि राजकार्याणि त्यक्त्वा श्रोष्याम इदम्!’’
भीम: साट्टहासमभाषत—''एवमनेके जना जायन्ते, ये स्वयं न प्रशंसार्हा:, अन्यस्य यथार्थप्रशंसाश्रवणस्य सौभाग्यभाजोऽपि न भवन्ति।’’
श्रीकृष्ण: प्रसङ्गपरिवर्तनायोवाच—''जानामि, अहमकर्मा मनुष्य: कश्चित्। अतो युधिष्ठिरेण मयि न कोऽपि गुरुभार: समर्पित:।’’
महर्षि: कृष्णद्वैपायन: सहासमूचे—''तत्तु त आबाल्याज्जनैर्ज्ञातम्। अद्यापि यज्ञसमाप्तौ तत् सर्वैर्ज्ञास्यते। संसारे कर्माभावो नास्ति। त्वं यथेच्छं कर्त्तुं क्षम:, को वा त्वां बाधते?’’
यज्ञस्य प्रारम्भिकी पूजा समाप्ता। पितामहो भीष्मदेवो युधिष्ठिरमाहूयोवाच—''सम्मानितातिथीनामानुष्ठानिकमभ्यर्थनं यज्ञकर्त्तु: कर्त्तव्यम्। आचार्य:, ऋत्विक्, सम्बन्धी, स्नातक:, भूपति:, सर्वज्ञ: प्रियजनश्चेति षडर्घ्यलाभयोग्या:। ते सर्वे प्रत्येकं स्वतन्त्रतयैकैकमर्घ्येण सम्माननीया:। किन्तु, षट्प्रकारेष्वेषु य: श्रेष्ठतमस्तस्मै प्रथमार्घ्यनिवेदनं यज्ञनियम:। तस्मै चार्घ्यद्वयं समर्पणीयम्।’’
समवेतातिथिषु क: सर्वश्रेष्ठोऽग्रपूज्यश्चेति विषये परस्परं चर्च्चाया मृदु गुञ्जनमश्रूयत। अग्रपूजाऽत्यन्तं सम्मानास्पदो विषय:। अतोऽनेके आत्मानमात्मिकान् वा सर्वश्रेष्ठान् मत्वा सर्वश्रेष्ठसम्मानप्राप्तिदुराशायां निमग्ना:। इदानीं कृष्णान्वेषणं चक्रु: सर्वे। तस्यानुपस्थितिरिदानीमन्वभूयत। भीमसेन: सपरिहासमुवाच—''कार्यभारस्तु नास्ति। को जानाति—कुत्र स: कां लीलां सम्प्रति रचयतीति?’’
दु:खासनो भीमस्य स्नेहपूर्णं परिहासं सत्यं मत्वा सव्यङ्ग्यं बभाण—''अलसाश्वस्य मेघ आश्रय:। यादवकुले यस्य जन्म, यज्ञवेदिनिकटे बत तस्य किं कार्यम्।’’
कृष्णोऽन्विष्यत इति निशम्याहं माया चेतस्ततस्तमन्विष्टवत्यौ। ब्राह्मणानां स्वागताय निर्मिते प्रवेशद्वारि तोरणनिकटे तं तिष्ठन्तमपश्याव। विलोक्याहं तं स्तम्भीभूता। बहुदूरागतान् विप्रान् प्रणम्य, प्रक्षाल्यातियत्नेन तच्चरणान्निर्मलजलेन, स्वपरिहितपीताम्बरेण तान् प्रोञ्छति च। तस्य वक्राधरे सन्निविष्टं मनोमोहनं हास्यम्। श्रमस्वेदबिन्दवस्तदीयश्यामलकपोलदेशे विद्योतन्ते। यथा नीलशैले तुषारकणा विकीर्णा:!
अहं सोद्वेगमवदम्—''माये! किमिदमद्भुतं कार्यं सख्यु:? यत् कार्यं दासदासीपरिचारिकाभि: सम्पादनीयं, तत् केन सख्यै समर्पितम्? अनेन किं तस्यासम्मानं न भवति? इदं चासम्मानं न केवलं राज्ञो युधिष्ठिरस्यापितु समग्रेन्द्रप्रस्थराज्यवासिनाम्। अयं चास्माकं घोरोऽपराध एव।’’
माया सर्वज्ञत्वहास्यं विकिरन्त्युवाच—''सखि! प्रतीक्षस्व। अत्रैव वासुदेवस्य लीला न समाप्ता। स पुन: किं किं कुरुते, पश्य—।’’
—''स एवं कथं कुरुते?’’—अहं ससम्भ्रममपृच्छम्।
माया हसन्ती जगाद—''अभिमानेन। महाराजेन युधिष्ठिरेण न कोऽपि कार्यभार: समर्पित:। अत: यत् कार्यं कर्त्तुमन्यो नेच्छति, तदेव स स्वयमङ्गीकृतवान्। युक्तम्, अन्यथा विशालेऽस्मिन् सभास्थले हीनं कार्यमिदं कस्मै रोचेत?’’
अहं मुहुश्चिन्तयामि किं किमत्र करिष्यामीति। अपश्यम्—ब्राह्मणानां भुक्त्वा प्रस्थानात् परं सखा तत्रैव गच्छति। अहं सख्युरुद्देश्यमवगत्य सत्वरं मायाया: करमाकर्षन्त्यभाषे—''माये! आवयो: सत्योरिदमनुचितं किल सख्यु: कार्यम्।’’
माया कुण्ठत इति विज्ञायाहं तत्करं विहाय जवेन निस्सृता। मम तत्र समागमनात् पूर्वं ब्राह्मणानामुच्छिष्टपत्राण्यादाय त्वरया निर्गच्छन्तं सखायमपश्यम्। तन्निकटे समागत्य सामान्यज्ञानं च विस्मृत्याहं लोकानामेतावतां मध्ये तत्करौ प्रसभं धृतवती। सास्रं सानुनयं चावदम्—''सखे! अभिमानेन युधिष्ठिरदोषप्रतिशोधं न मय्यापातयितुमर्हसि। युधिष्ठिर इन्द्रप्रस्थजनतासेवक:। अतोऽहं तत्सेविका। सत्यां मयि सेविकायां तवेदं नितान्तमनुचितम्।’’
वासुदेवो हसन्नुवाच—''संसारे न किमपि कार्यं हीनम्। क्षुद्रेभ्यो हीनेभ्यश्च कार्येभ्यो विशालं फलं लभ्यते। अद्य यत् त्वया हीनं मन्यते, स्वेच्छया तत्करणात् कियान् पुरस्कारो मया लभ्यते!’’
अहमुच्छिष्टपत्रै: सह तत्करौ दृढतया धृत्वा तन्मुखं साश्चर्यं विलोकयामि। क: पुरस्कारो नाम लब्ध इति नावगच्छामि। वासुदेवो मम रत्नकङ्कणान्वितौ सुन्दरौ हस्तौ निरीक्षमाणोऽवादीत्—''अनेन हीनकार्येण वरनारी याज्ञसेनी समेषां पुरस्तात् स्वेच्छया मम करौ धृत्वा स्थिता। अतोऽधिक: पुरस्कार: कतम: स्यात् कस्मैचित् पुरुषाय बत?’’
अहं ह्रिया तत्पाणी त्यक्तवती, सखा च तत्क्षणं ब्राह्मणानामुच्छिष्टपत्राणि नीत्वा जगाम। सम्प्रति सख्युश्चरणौ धारयन्ती कार्यादस्मात्तं निवर्तयिष्यामीति चिन्तयामि, अपश्यम्—''पितामहो भीष्म:, कृष्णद्वैपायनश्चास्मदभिमुखमायात:। अहं सङ्कोचेन दूरमपसृताऽचिन्तयम्—वस्तुत: कृष्णो वासुदेव: कियान् महान्! मनुष्येषु परस्परं भेदं स न जानाति। तद्दृष्ट्या राजाप्रजा:, प्रभु:—भृत्यश्चेति सर्वे समाना:। अद्य तेन भृत्योचितं कार्यं सम्पाद्य सर्वेभ्य उदारा शिक्षा प्रदत्ता। जीवने प्रतिपदं मनुष्यस्य वृथाहङ्कारं चूर्णयितुं वासुदेवो यथा सुयोगमन्विषति।’’
भीष्मव्यासदेवौ वासुदेवं यज्ञवेदिनिकटे नीतवन्तौ। सर्वेषां समक्षं पितामहेनोद्घोषितं यत्—''कृष्णो वासुदेव अर्यावर्त्ते श्रेष्ठ: पुरुष:। स: परोपकारी विज्ञश्च। स वीरो निर्भीकश्च। स शक्तिमान्, विचारवाँश्च। तेज:पराक्रमबलज्ञानादिसर्वगुणै: सोऽन्वित: सर्वेषु श्रेष्ठ:, सर्वेषां प्रियतमश्च। स धर्मसंस्थापनोत्सृष्टप्राण:। आबाल्याद् यद् यत्तेन कृतं, तेन जगन्मङ्गलं सम्पादितम्। दुष्टदलनं सत्पालनं च तज्जीवनस्य परमं व्रतम्। अत: स एवाग्रपूज्य:। अतश्च तस्मै प्रथमार्घ्यं समर्पणीयम्।’’
कृष्णस्य पितृस्वसेय: शिशुपाल: कृष्णविद्वेषी आसीत्। यतोहि—रुक्मिणीं परिणेतुकाम: शिशुपालोऽपमानितोऽभूत्। कृष्णस्तु पूर्वं रुक्मिणीं हृत्वा परिणिनाय। अवश्यं तत्र रुक्मिण्या: समर्थनमासीत्। कृष्णाय श्रेष्ठसम्मानदानसिद्धान्तं निन्दित्वा शिशुपाल: प्रत्युवाद। पूर्वं चेर्ष्यान्विता: कौरवा: पाण्डवानां पथप्रदर्शकं कृष्णं प्रति विद्वेषभावं प्रदर्श्य तं समर्थयामासु:। स तु नाना कुत्सितभाषा: प्रयुज्य कृष्णाय पाण्डवेभ्यश्चाश्रव्यां गालिं श्रावयावास। सहदेव: स्वभावतो मितभाषी। परन्तु स एवं निशम्योत्तेजित उवाच—''सर्वजनप्रियस्य कृष्णस्याग्रपूजा येषामसह्या, तेषां कीटानां मस्तकेषु पदमहमर्पयामि।’’
तत: परं वातावरणमत्यन्तं भीषणमभूत्। शिशुपालस्तदन्धसमर्थकाश्चोत्क्षिप्ता बभूवु:। अत्रान्तरेऽश्रुत्वा सर्वमेतद् युधिष्ठिरादेशेन कृष्णाय सहदेव: प्रथममर्घ्यमर्पयामास। मनोहरमिदं दृश्यं शिशुपाल: कथं वा सहताम्? सहचरैर्दुराचारै: सह मिलित्वा यज्ञमङ्गलकार्यं नाशयितुं, श्रीकृष्णं च प्राणैर्हन्तुं स आपस्पर्धे।
निमन्त्रिता राजन्यमुनिविद्वांसस्त्रस्ता एतेनाभूवन्। धर्मवतो नीतिपरायणस्य युधिष्ठिरस्य राजसूयं यद्यशान्तिमयं तर्हि तस्य राजचक्रवर्तित्वेन किम्?
अस्मिन्नेव क्षणे सहसा द्वन्द्वमशान्तिं च समाप्य शून्यात् सुदर्शन उड्डीयागत्य पलकमात्रेण दुष्टशिशुपालस्य मस्तकं तच्छरीराद् विच्छिन्नं चक्रे, श्रीकृष्णहस्ते च परावर्त्तित:।
क्षणाय सर्वे स्तम्भीभूता: परक्षणे श्रीकृष्णचरणतले स्वस्वात्मानं समर्पयामासु:। शिशुपालनाशं राजसूययज्ञे दुष्टदलनस्य शुभारम्भ इति सर्वेऽन्वभवन्। युधिष्ठिरस्य धर्मराज्ये दुष्टानां स्थानमेव नास्तीति प्रतीतम्। यतोहि दुष्टविनाशनं यस्य जीवनस्य परमं व्रतम्, स: श्रीकृष्णो युधिष्ठिरादिपञ्चपाण्डवानां पथप्रदर्शक:।
राजचक्रवर्त्तिनो युधिष्ठिरस्य निकटे सर्वे नतमस्तका: स्वानुगत्यं प्रकाश्य धर्मसंस्थापनाकार्ये स्वसामर्थ्यं विनियोक्तुं बद्धप्रतिज्ञा बभूवु:।