(२६)
अमावास्या—पौर्णमासीत्यनयोनिर्दिष्टं व्यवधानमस्ति। परन्तु सुखात् परं दु:खं कदाऽऽयास्यति—न कोऽपि जानाति।
अहं तस्मिन् दिने ऐश्वर्यसुखसमृद्धिसौभाग्यानां चरमसोपाने स्थिताऽचिन्तयम्—आर्यावर्त्ते मदधिकसुखमयी रमणी नास्तीति। एतस्मात् परं किं सुखं संसारेऽलभ्यमिति, तन्मम मनो न जानाति। यदि वा किमपि सुखमन्यत् संसारेऽस्ति, तर्हि तन्मम पतिभिर्दुष्प्राप्यं नैव स्यात्। मदिच्छया मत्पादतले चन्द्रसूर्यादीन् सञ्चित्य समर्पयिष्यन्ति ते। राजचक्रवर्तिना पत्या किमलभ्यं जगति?
ममाहङ्कारं प्रायेणादृष्टमुपहसति स्म। अदृष्टं न दृश्यत इति मनुष्यस्येयानहङ्कार:।
कृष्णद्वैपायन: प्रतिगत:। युधिष्ठिरस्तत्पादौ संस्पृश्य प्रणनाम। राजचक्रवर्त्ती युधिष्ठिर: सविनयं प्रतिजज्ञे—''कटुवाक्यै: कमपि न दावयिष्यामि। स्वसन्ततिपरसन्ततिषु दृष्टिभेदं नाचरिष्यामि। युद्धं रक्तपातं च कदापि न मनसि धारयिष्यामि। धर्मसत्यमार्गमनुसृत्य सर्वेषां सुखविधानाय स्वजीवनमुत्स्रक्ष्यामि।’’
कृष्णद्वैपायनो युधिष्ठिरमाशीर्भ: सभाजयन् गमनात् पूर्वं भविष्यवाणीं चक्रे—''आगामित्रयोदशवर्षेषु नानाऽशुभानि घटिष्यन्ते। ततोऽनेके क्षत्रिया नाशं भजिष्यन्ते। कालगतिं न कोऽपि प्रतिहन्तुं क्षम:। अतोऽविचलिततया धर्मावलम्बनपूर्वकं राज्यशासनेन पृथिव्यां मङ्गलं भविष्यति।’’
व्यासदेवोक्त्या युधिष्ठिरस्य मुखं शुशोष। मम चान्तरात्माऽकम्पत। अचिन्तयम्—किं जीवनेऽस्मिन् शान्तिर्नास्ति? का पुनरशुभघटनाऽस्मान् प्रतीक्षते?
अधुना प्रतिगमिष्यति कृष्णो वासुदेव:। द्वारकापुरीतो बहुदिनेभ्य आगत:। अत: प्रतिगमनमुचितं किल। परन्तु सख्युर्गमनं विचिन्त्य मनस्यसहायता प्रतीयते। राजचक्रवर्त्तिनो युधिष्ठिरस्य महाराज्ञ्या हृदयं कथमेतावद् दुर्बलम्? कस्तस्या अभाव:? अहं स्वयं न ज्ञातुं शक्नोमि कस्मात् कारणाद् दुर्बला भवामीति। प्रतीयते यथा सख्यु: प्रतिगमनात् परमाकाशं मे मस्तके निपतिष्यतीति। प्रायेण व्यासदेवस्य भविष्यवाण्या शङ्कादुश्चिन्ता इयत्य आपादिता:।
प्रणामपूर्वकं कृष्णस्यानुमतिकामनया युधिष्ठिरो विषण्णो बभूव। सविनयं चोवाच—''गोविन्द! त्वमेव केवलं राजचक्रवर्त्तिपदयोग्य:। त्वयैतत्सर्वमद्य सम्भवमभवत्। तव करुणां विना मया किं वा सम्भवेत्? कृतित्वमिदं न मदीयमिति जानामि। अत:, यदा संसारो मे जयगानं कुरुते, तदाहं दुनोमि, जिह्रेमि च। मन्मस्तके दु:खानां लज्जानां च भारं समर्प्य त्वं निर्गच्छसीति हृदयेन त्रुटाम्यहम्।’’
गोविन्दो युधिष्ठिरस्य हस्तौ धृत्वा सस्नेहमवोचत्—''अग्रज। विनयित्वमुचितम्। परन्त्वात्महीनमन्यता नोचिता कदापि। अत्रेदं कर्म तवैव, सामान्य: सहयोगस्तु मम। त्वं धर्मवान् अत: सर्वे तव वशीभूता:। धर्मो हि केवल: पृथिवीं रक्षति। अत: राजसूययज्ञद्वारा धर्मरक्षाभारस्तुभ्यमर्पित:। मनुष्यो धर्मं रक्षति, धर्मश्च मनुष्यं रक्षतीतीदं कदापि न विस्मरणीयम्।’’
एकैकश: सर्वेभ्यो गमनानुमतिं कामयते गोविन्द:। मम पुत्रास्तं परित: स्थित्वा वदन्ति—''मातुल! मा गच्छतु, मा गच्छतु भवान्।’’ अभिमन्योरेकान्तत इच्छा मातुलालये गन्तुम्। कृष्ण: सर्वानङ्कयति, तन्मस्तकानि घ्रात्वाऽऽशीर्वादं प्रयच्छति। सम्यग् विद्याभ्यासायोपदिशति च।
पुत्रेषु ज्येष्ठोऽभिमन्यु:। तत: परं मम तनया: प्रत्येकमेकवर्षव्यवधानेन जाता:। अभिमन्युरापादमस्तकमर्जुन इव। मम सुता: केषां सादृश्यं वहन्तीति निश्चेतुं कठिनम्। प्रत्येकं पञ्चपाण्डवानां किमपि किमपि सामञ्जस्यमस्ति। विशेषत आश्चर्यमिदं यत् कृष्णस्येव सर्वेषां नयनाधरचरणा:। इदं कथं सम्भवमभूत्? प्रायेण मे कृष्णभावनाकारणात्। मम निरन्तरं ध्यानं कृष्णपादपद्मयो:। तस्य नयने मे मार्गं प्रदर्शयत:। तस्याधरो मां जीवनामृतमास्वादयितुं प्रेरयति। मध्ये मध्ये कृष्ण: सपरिहासं ब्रूते—''सखि! तव पुत्रेषु तत्पितणामपेक्षया मम सादृश्यमधिकतरम्। भीमस्तु कदाचित् व्यङ्ग्यं न कुरुते कच्चित्?’’
अहं लज्जया रक्तवदना भवामि। नतदृष्ट्या ब्रवीमि—''इदं त्वत्यन्तं स्वाभाविकम्। मम पतीनां कृष्णेन सह तादात्म्यमेवं यत्ते स्वसत्तामपि विस्मृतवन्त:। अत: ममात्मजानां कृष्णरूपता स्वाभाविकी। विशेषतोऽर्जुनतनय: श्रुतकर्मा कृष्णस्याविकलप्रतिच्छविरिव। तत्र का मे गति:?’’
श्रुतकर्माणमन्तिकस्थं श्रद्दधत् सखोवाच—''मत्पुत्रार्जुनपुत्रयोर्मध्ये को नाम भेद:? आवां सखायावेकात्मानौ। मां विना स नि:स्व:। तं विना चाहमपूर्ण:। अत: श्रुतकर्मा कस्य पुत्र इतीदं त्वयैव वक्तुं शक्यते।’’
सख्यु: रसिकतयाऽर्जुनं हसन्तं विलोक्याहमपि हसितवती। य: स्वयं मानं रक्षति, स बलेन कौतुकेन वा त्रपयितुं प्रयतते चेदहं कुप्यामि कस्मात् कारणात्?
शिशून् प्रीणयन् सखा निश्चक्राम। अहं तं पादयो: प्रणम्योत्थितवत्यश्रुनयना। सख्युश्चरणौ सहसैतेन रुद्धौ। मुखं मलिनीकृत्य स प्रोवाच—''सखि! तवाश्रुणि विलोक्याहं द्वारकां नैव गन्तुं प्रभविष्यामीति सम्यग् जानासि। अत: पुन: कथं दावयसि? प्रतिजाने यत् तव स्मरणमात्रेणागमिष्यामीति। परन्तु राजचक्रवर्त्तिनां पत्न्या: कां वा सहायतां करिष्यति यदुकुलस्य गोपाल: सखाऽयमिति कथं स्मरिष्यसि?’’
पुनरेकवारं ममाहङ्कारं प्रहृत्य निर्गत: सखा। स सम्यग् जानाति यत्तं विना मम राजचक्रवर्त्तिपतय: स्रोतोमुखे नीरसकिश्लया इव। अथ च मे मनोभावं विज्ञाय हसन् प्राहरन्माम्। अहं साञ्जलि निवेदितवती—''सखे, मम सर्वं समर्पितं तुभ्यमेव। अत: ममाहङ्कारोऽपि त्वदीय:। तं यदि मम हृदयात् न नयसि, तर्हि तदर्थं प्रहरसि कथम्? वरं प्रहर, पुन: प्रहर, किन्तु शीघ्रं प्रत्यावर्तस्व, अतिशीघ्रम्—।’’
''आयास्यामि, अवश्यं यथासमयं प्रत्यागमिष्यामी’’ति सान्त्वयन् सखा निर्जगाम।
(२७)
पुस्तकपृष्ठानि परिवर्त्यन्ते, परन्तु भाग्यपृष्ठानि स्वत: परिवर्त्तन्ते।
मम विवाह: सह पञ्चब्राह्मणभिक्षुकै:। परन्तु ते हस्तिनाराजपुत्ररूपेण परिवर्त्तिता:। हृतं राज्यमप्यासादितं तै:। अपि च, आधिपत्यकामिनां भ्रातृणामीर्ष्यासूयादिभ्यो दूरीभूता अरण्यपरिपूर्णमनुर्वरं वारुणावतं राजधानीरूपेण स्वीचक्रु:। वारुणावतस्येन्द्रप्रस्थपरिणमने तेषामपरिमेयत्यागसाधनादु:खनिष्ठादीनामितिहासो मे प्राणपृष्ठासु लिपिबद्धोऽमराक्षरै:। पञ्चभ्रातृणां दु:खसाधनापरिश्रमाणां भारस्तु मयैकयैव सोढ:।
अद्य मे पती राजचक्रवर्त्ती। इन्द्रप्रस्थमार्यावर्त्ते समृद्धतमं नगरम्। ऐश्वर्यप्राकृतिकशोभाकलासङ्गीतसाहित्ययुद्धकौश्लविद्याबुद्धिभिरिन्द्रप्रस्थं समस्तराज्यानां दिग्दर्शकमादर्शभूतम्।
अहं पञ्चपुत्राणां जननी—किन्तु सुभद्रातनयोऽभिमन्युर्मे प्रियतम:। मम पारिवारिकजीवने सुखशान्तिसम्पद: परिपूर्णा:। मम नाधिकं किमप्यावश्यकम्। पाण्डवा: स्वयमेवाभ्युत्थिता: कृष्णश्च तेषां सहायक:। अथ सम्प्रति धर्ममार्गे सञ्चालिता सती देशवासिनां सुखदु:खादिषु योजयिष्याम्यात्मानमिति मेऽभिलाष:। सुभद्रा गृहभारं द्रक्ष्यति। अहं तु द्रक्ष्यामि गृहाद् बहिरार्तजनान्। युधिष्ठिरस्य धर्मराज्ये न कोऽप्यनाहार: स्यात्। भोजनवस्त्रवासगृहशिक्षा: मनुष्यस्य जन्माधिकारा:। इन्द्रप्रस्थे प्रत्येकं जनो यदि स्वसामान्याधिकारान्न लप्स्यते, तर्हि युधिष्ठिरस्य राजचक्रवर्त्तित्वं निरर्थकम्, मम याज्ञसेनीत्वमपि मूल्यहीनम्।
प्रतिज्ञाबद्धरूपेण जनसेवायामात्मानं परिणमयन्ती स्वप्नसंसारे विचरामि, अकस्मात् स्वप्रो भग्र:।
हस्तिनपुरीत: समायातो विचारवान्, बुद्धिमान्, परमपूजनीय: पितृव्यो मन्त्री विदुर:। हस्ते तस्य निमन्त्रणपत्त्रम्। हस्तिनायुवराजो दुर्योधन इन्द्रप्रस्थराजं युधिष्ठिरं निमन्त्रयति। पणैद्र्यूतं क्रीडिष्यति दुर्योधनो मम पत्या राज्ञा युधिष्ठिरेण सह। तस्यैव निमन्त्रणमादायायात: पूज्य: पितृव्यो विदुर:।
एकयाऽशुभचिन्तया हृदयं मे प्रचकम्पे। पतिमहं तस्मान्निवारितवती। सानुनयमुक्तवती—''राजन्, निमन्त्रणमिदमङ्गीकर्त्तुं नार्हसि। क्षत्रियाणां द्यूतक्रीडा न स्पृहणीया। अहं विचारयामि यत् द्यूतक्रीडाया: पृष्ठभूमौ दुर्योधनस्य किमपि कुत्सितमुद्देश्यं निहितमस्तीति।’’
चिन्तितोऽप्यासीद् युधिष्ठिर:। स सगाम्भीर्यमाह—''याज्ञसेनि! मृगया, मद्यपानम्, द्यूतक्रीडा, वेश्यासक्तिश्चैता: शत्रव: राज्ञ:। सम्यगेतज्जानामि। तथापि पितामहगुरुजनादीनां सम्मत्या यदि दुर्योधनो मां निमन्त्रयति, तर्हि तत् कथमपि नापाकर्त्तुं शक्नोमि।’’
—''परन्तु त्वं द्यूते दुर्बल इति सर्वे जानन्ति। पराजयस्ते सुनिश्चित इति स्वनखदर्पणेऽहं पश्यामि।’’
—''युद्धे पराजयभयात् क्षत्रियो नापसरति पश्चात् किल!’’
—''परन्तु युद्धद्यूते न कदापि समाने।’’
—''किन्तु, अहं द्यूते दुर्बल इति जानन्नपि दुर्योधनो मां निमन्त्रयति—इति पराजयभयात्तन्निमन्त्रणं प्रत्याख्यातुं न शक्नोमि।’’
—''तथापि पितृव्यं विदुरं पृच्छ तु सकृत् यत् किमस्य निमन्त्रणस्योद्देश्यमिति!’’
विदुरो दु:खेन दुश्चिन्तया च प्राकाशयत्। इन्द्रप्रस्थैश्वर्येण यशसा च दुर्योधनोऽत्यन्तमसहिष्णु:। पाण्डवानां वैभवेन स लोभातुर:। स सम्यग् जानाति यत् सप्तभिर्जन्मभिरपि स पाण्डवसमकक्षतां नैवैष्यति। अत: दुष्टबुद्धिमातुलशकुनिप्रोत्साहनेन स धृतराष्ट्रं सम्मतं कारयन् द्यूतक्रीडामायोजयति। बलेनाथवा कौश्लेन अथवाऽधर्ममार्गानुसरणेन पाण्डववैभवहरणमस्या द्यूतक्रीडाया उद्देश्यम्। दुर्योधनपक्षत: पुन: शकुनि: क्रीडिष्यति। त्रिभुवनेऽपि द्यूतकौशलेन शकुनिं पराजेतुं कोऽपि नास्ति।
सर्वं निशम्य शान्त्या युधिष्ठिरो हस्तिनाप्रस्थानप्रस्तुत्यै निर्दिदेशानुचरान्। मलिनाऽहं क्षोभेणापृच्छम्—''मातुलशकुनिदुर्योधनयो: कुटिलमुद्देश्यं विज्ञायापि त्वं निमन्त्रणं रक्षितुमिच्छसि?’’
''गान्धारराजस्य शकुने: कुटिलता स्पष्टा, तथापि दुर्योधननिमन्त्रणं रक्षणीयम्। जीवनस्य प्रत्येकं पदपातस्य भाग्यमेव नियामकम्। अतोऽन्यथाऽविचिन्त्य भाग्यक्रीडास्वीकारं विनोपायान्तरं नास्ति।’’
युधिष्ठिरस्य दृढनिष्पत्ते: परं किं मूल्यं मम् इच्छाया अनिच्छाया वा?
अस्पृष्टसन्तरणाभ्यासो यदि स्रोतोमुखे कूर्दन् वदेत्—भाग्याह्वानं नोपेक्ष्यणीयमिति तर्हि तदात्महत्यातिरिक्तं किमन्यत् स्यात्?
युद्धकातरो युधिष्ठिरो युद्धमपवारयितुं किं स्वीचकार? स प्रायेणाशङ्कते स्म यत् कदाचिदपि कौरवा धनरत्नलोभेन युद्धमुद्घोषयिष्यन्तीति। अत: स्वपराजयं सुनिश्चितं विज्ञायापि स द्यूतक्रीडार्थं स्वीकृतिमदात्। धनरत्नैश्वर्यपणेन पराजयो न दु:खाय, परन्तु जीवनं सुरक्षितं शान्तिमयं च स्यात्। प्रायेण तदेव युधिष्ठिरस्य जीवनलक्ष्यमासीत्। अथवाऽहङ्कारस्तमन्धभावेन भाग्यवादे निपपात। भाग्यं बलीयोऽपि, मनुष्येण कर्मफलं भुज्यत इति प्राज्ञो युधिष्ठिर: कथं न विचारयामास?
तस्मिन् दिने यदि ममानुनयं सोऽरक्षिष्यत्, तर्हि मम जीवनस्य तु चरमदुर्योगदिनं वारयितुमशक्ष्यत्!
(२८)
ऋतुमती नारी अस्पृश्या। अत: हस्तिनाराजपुर्या एकान्तप्रासादेऽहं निवसामि। द्यूतक्रीडाया निमन्त्रणं स्वीकृत्य पञ्चभि: पाण्डवसहोदरै: सह माता कुन्ती, अहं चागते। आदराभ्यर्थनास्नेहातिथ्येषु हस्तिनायां न काऽपि त्रुटि:। पूर्वं युधिष्ठिरोऽन्ये भ्रातृरश्च सभागृहं शुभशकुनपूर्वकं जग्मु:। मया सह तेषां दर्शनमेव नैव जातम्। अस्यां स्थितौ पतिमुखदर्शनं निषिद्धम्। अन्यपुरुषच्छायादर्शनमपि पापाय। अहमेकाकिनी गृहकोणे उपविष्टा। शारीरासुस्थतया सह मानस्यस्थिरता मां भृशं दावयति। कारानिवासिनीव तत्रोपविशामि, परन्तु मनो मे भ्रमति सभागृहे। का स्याद् द्यूतक्रीडायाश्चरमा परिणतिरिति विचिन्त्य मौनेन प्रतीक्षे। कदा क्रीडासमाचार आयास्यति? स च शुभोऽशुभो वा?
मद्रूपस्यान्यतमाकर्षणं मम घनकुञ्चितकेशराशि:। माया मे केशान् विन्यसन्ती मां परिहसति—''सखि! स्वयंवरसभायां राजपुत्रा यदि तव मुक्तकेशानद्रक्ष्यन् तर्हि तद्दीर्घकेशरज्ज्वा स्वगलानि बद्ध्वाऽऽत्मनो निपात्य स्वसौभाग्यममंस्यन्त। परन्तु दिष्ट्या तदानीं ते कवरीभार: पुष्पमण्डित आसीत्, तं चावृणोत् सूक्ष्मपटवस्त्रम्।’’
अद्याऽहं मुक्तकेशा। अस्मिन् समये केशविन्यासप्रसाधनादिनि वर्ज्यन्ते। एकं वस्त्रं विनाऽन्तर्वास:परिधानमपि निषिद्धम्। हस्तिनापुरीराजप्रासादस्य स्वतन्त्रे महिलातिथिगृह एकस्मिन् कोण उपविश्य पृष्ठदेशे केशान् प्रसार्य प्रसार्य चालसापरास्य मुहूर्त्तान् गणयामि। मत्पार्श्वे मायोपविष्टा मम केशान् प्रशंसति। हसन्ती च ब्रूते—''ये हतभाग्यपुरुषास्तव केशदामदर्शनवञ्चिता:, तेषां कृते मे दु:खमुत्पद्यते।’’
अहं तस्यै कुप्यन्ती वदामि—''माये! किमिदं त्वं ब्रवीसि? विवाहितनार्या: केशाग्रे परपुरुषस्य लालसापूर्णकुत्सितदृष्टिपातोऽसम्मानाय कल्पते। स्वसौन्दर्यप्रदर्शनं वाराङ्गनाया धर्म:, न तु कुलवध्वा:, तव मनसि चिन्तेयमुद्भटोत्पद्यते कथम्?’’
माया सस्मितमुक्तवती—''नारीं प्रति पुरुषस्याकर्षणं सहजं स्वाभाविकञ्च। सुन्दरीं कलावतीं विदुषीं च नारीं प्रति तत्तु अपरिसीमम्। अतस्त्वां प्रति सर्वे राजकुमारा आकृष्टा इति दोषो न तेषाम्, अपितु........’’— माया विरम्य कुटिलं जहास।
अहं सरोषमुक्तवती—''अपितु दोषो ममैवेति कथयसि?’’
मायाऽऽह—''दोषस्तु तस्य, येन संन्यस्तं नार्यां सौन्दर्यम्, पुन:, पुरुषेक्षणयो: सौन्दर्यपिपासा।’’
अहं सशुष्ककण्ठमुक्तवती—''ततस्तदन्तिकमेव गच्छ, तद्दोषगुणाँश्च तत्रैव वद। न त्वत्र। सभागृहे किं किं भवति—तद्विषये ते चिन्ता नास्ति।’’ माया निर्विकारमाह—''चिन्तया बत को लाभ:? किमावयो: सामर्थ्यम्? तदेव भविष्यति यद् भवितव्यम्। सर्वं तस्यैवेच्छया। तदिच्छयाऽस्माकं नर्तनमेव केवलम्।’’
अहं चिन्तिताऽवदम्—''माये! त्वं गत्वा कुतश्चिदवगच्छ यत् को जयति, कश्च पराजयते, कस्य किम्भूत: पणश्चेति। द्यूतक्रीडानिर्णयोऽयं न मे रोचते। आर्यावर्त्तस्य विदुषां वीराणां महापुरुषाणां च समक्षं द्वयो: राज्ञो: पणपूर्वकं द्यूतक्रीडा न राजोचिता कदापीति मेऽभिमतं किं स शुश्राव?’’
माया शनैरुवाच—''सखि! स्वयंवरे ये राजपुत्रा आसँस्त एव प्रायेण सर्वे सभागृहे राजन्ते। ते त्विच्छेयुर्युधिष्ठर: पराजीयतामिति।’’
अहं ससम्भ्रमं प्रत्यवदम्—''तेषां मनोवृत्तिस्त्वया पूर्णतो ज्ञाता प्रायेण। ते किं किमन्यदिच्छन्ति वद नु?’’
''कुमारीं कृष्णां ते सकृद् ददृशु:। तेषामाजीवनं विरह एव सारोऽभूत्। अत: राजवधूं कृष्णां पुनरेकवारं ते पश्यन्त्विति प्रायेणेच्छेयु:’’—मायेदमतिसहजतयाऽवादीत्। अथ च स्तब्धाऽहं तामपश्यम्। किं मायाया मतिभ्रमोऽयम्? एतत्सर्वमियं चिन्तयति कथम्? संसारस्य सर्वेषां पुरुषाणां कामनां दूरयितुं किमहं सर्वेषां पुरस्तादात्मानं प्रदर्शयिष्यामि? अनुचिताशा ग्लाने: कारणम्। तत्र पुन: किं मया करणीयम्?
अहं मायया सह जल्पितुं नैच्छम्। मायात इदं सर्वं श्रोतुमद्य न रोचते। अनुवेलं दुश्चिन्ता वर्धते। शरीरं मनश्च यन्त्रणयाऽस्थिरीभवत:।
द्वारदेशे कस्यचन पादशब्दोऽश्रूयत। किमु प्रत्यावर्त्तितो युधिष्ठिरो जययुक्त:?
अहमभ्यन्तरं प्रस्थिता। ऋतुकाले पतिमुखदर्शनमकरणीयं यत्।! माया प्रपच्छ—''क: समाचार: प्रातकामिन्?’’ दूत: प्रातकामी शीतलकण्ठेनावोचत्—''राज्ञो दुर्योधनस्याज्ञा—राज्ञी याज्ञसेनी सभागृहे उपस्थिता स्यादिति।’’
माया चपलतयोवाच—''सत्यमुक्तं मया यत्ते त्वां सकृद् द्रष्टुमिच्छन्तीति!’’
मम शरीरेऽग्निशिखा प्रदीप्तेवाभूत्। अहं शाणितकण्ठेनाभाषे—''कोऽयं दुर्योधन आज्ञाप्रदानाय? अहं न तस्य प्रजा। किं स इयच्छीघ्रं व्यस्मरत् यन्मे पतिर्युधिष्ठिरो राजचक्रवर्त्तीति’’—मम कथनस्य समाप्ते: पूर्वं प्रातकामी मे शिरसि वज्राघातं कुर्वन्निव गम्भीरस्वरेणावादीत्—''महाराजो युधिष्ठिरो द्यूतक्रीडायां सकलसम्पत्तिदासदासीसहोदरानात्मानं च पणीकृत्य पराजितो राज्ञीं याज्ञसेनीं पणेनापि हारितवान्। अत: महाराज्ञी कृष्णा सम्प्रति कौरवाणां दासी। राज्ञो दर्योधनस्यादेश:—’’
प्रातकामिनो मुखदर्शनानिच्छयाऽभ्यन्तरे स्थिताऽपीच्छामि, तं सकृद् विलोक्य क्रोधाग्निना भस्मसात् करिष्यामीति। तस्येयान् साहस:? परन्तु को दोषस्तस्य? स तु कश्चिदाज्ञावहो दास:!
अहं स्थिरकण्ठेनावोचम्—''दूत! गत्वा मम पतिं पृच्छ तावद् यत् स प्रथमं स्वयमथवा मां हारितवान्? अस्योत्तरप्राप्ते: पूर्वं पदमेकमितो न सरिष्यामि।’’ प्रतिगत: प्रातकामी। अहं स्तब्धा विमूढा चैतेन। चिन्तयामि—केयं रीतिर्युधिष्ठिरस्य? किं स्वपत्नीं पणीकृत्य कोऽपि पाषाणो मूढोऽपि वा द्यूतं क्रीडति? एवं निन्दनीयं कार्यं केनचित् पृथिव्यां किमु कृतम्?
मम दु:खं द्विगुणीकृत्य मायोचे—''अहह! किं चिन्तयेयु: सम्प्रति वीर: कर्णोऽपरे राजपुत्राश्च? किमियं युधिष्ठिरस्य पत्नीप्रीति:? शत्रूणां दृष्टौ पाञ्चालनन्दिनी न कियती क्षुद्रतरीकृता?’’ चक्षुषोरश्रुणि प्रसरन्ति। परन्तु, अत्यधिकक्रोधेन तानि सर्वाणि तदभ्यन्तर एव शुष्यन्ते।
पुन: प्रत्यागत: प्रातकामी। सविनयमुवाच—''राज्ञो दुर्योधनस्यादेशो भवती सभागृहे गमिष्यतीति। सर्वेषां समक्षं भवती तान् प्रश्नान् प्रष्टुमर्हति। भवतां परस्परं प्रश्नोत्तराणि श्रोतुं सकौरवा: सर्वे राजान: प्रतीक्षारता:।’’
पाषाणीकृतवत्यहं स्वहृदयम्। स्थिरेण दृढेन च स्वरेणाभाषे—''गच्छ सेवक! मम श्वशुरादीन् गुरुजनान् पृच्छ यत्तेषां किं मतम्? तेषामादेशो मे शिरोधार्य:। दुर्योधनो न मे प्रभु:। तदादेशेनाहं सभागृहे न यास्यामि। किमेतदर्थं मम पतिभिरनुमति: प्रदत्ता?’’
अतिदु:खेन प्रतिजगाम दूत:। किमप्यहं विचारयितुं न शक्नोमि। केवलं स्वयंवरसभादृश्यं स्मरामि। याहं येषां राजपुत्राणां समक्षं वीरं कर्णं साहङ्कारप्रत्याख्यानपूर्वकं वीरश्रेष्ठार्जुनगलप्रदेशे वरणमालामर्पितवती, तेषामेव समक्षं साऽहं राजचक्रवर्त्तियुधिष्ठिरराज्ञी, पञ्चपाण्डवप्राणप्रिया द्रौपदी, इन्द्रप्रस्थपटमहिषी, पाञ्चालदेशराजकन्या, धृष्टद्युम्नस्य प्राणाधिका भगिनी, भरतवंशकुलवधू:, पूर्णपुरुषकृष्णवासुदेवस्य सखी, परिहितैकवस्त्रा रजस्वलाऽसहाया भाग्यहीना नारीव सभागृह आत्मानमुपस्थापयिष्यामि! किमेतन्मे पतय:, विशेषतो भीमार्जुनौ सहिष्येते! अपमानेनानेन जीवनं कथं धारयिष्यामि?
दु:खेन क्रोधेन च चिन्तयामि—किं नारी पुरुषस्य सकलसम्पत्त्यन्तर्भूता? किमहं युधिष्ठिरस्य सकलसम्पत्तिषु, दासदासीषु, गजाश्वेष्वन्यतमा? अहं नारीति किं किमपि मे निजस्वं नास्ति? किं मे स्वस्यामप्यधिकारो न? मम शरीरे तेषामधिकार इति ते यथेच्छं कर्त्तुं शक्नुवन्ति?
चतुर्दिशमन्धकारो दृश्यते। अत्रान्तरे नितम्बिनी निश्शब्दमुपस्थिता। नतमुखी मामुपसृत्य दु:खेन शनैरब्रवीत्—''सखि! तव पत्युर्युधिष्ठिस्यादेश आयातो यत् त्वं स्वयमेकवस्त्रा रुदन्ती तव श्वशुरस्य समक्षमुपस्थिता स्या:। तव दशां विदित्वा सोऽवश्यं ते सम्मानं रक्षिष्यति।’’ अत्यधिकक्रोधेन जुगुप्सया च प्रज्ज्वलिताऽहं चीत्कृतवती—''मत्सम्मुखाद्दूरमपसर नितम्बिनि! तव मुखदर्शनादप्यहं जुगुप्से। एतत्समाचारानयनस्य कोऽयं ते साहस:?’’
ममाक्षिणी, शरीरं, समस्ता जीवकोषाश्च बह्निशिखावत् प्रज्ज्वलन्ति। युधिष्ठिरायोत्पन्नं मे प्रचण्डं क्रोधं सहचर्यामापाद्यात्मानं दृढीकर्त्तुं प्रयते।
अस्मिन्नेव क्षणे दु:शासनो मम सम्मुखे साट्टहासमुपातिष्ठत्। अहं ह्रियाऽभ्यन्तरमपसृता। परन्तु स विलज्जो मामभिधावन् प्राह—''सुन्दरि! आयाहि, त्वमधुनाऽस्माकं सम्पत्त्यन्तर्भूता। त्यज सम्भ्रमं, लज्जां, सङ्कोचं च। विस्मर पञ्चान्। स्वीकुरु दुर्योधनादिशतभ्रातृनस्मान् प्रभुत्वेन। द्रक्ष्यसि, कदापि विपत्तिर्नायास्यति।’’
दु:शासनस्य पापनेत्रेण मे मुखदर्शनात् पूर्वं लज्जाभयदु:खजुगुप्साभिरहं द्वाभ्यां हस्ताभ्यां मुखमावृणोम्। निष्ठुरदानव इव स लालसापूर्णरक्तदृष्ट्या ममाभिमुखं सरतीत्यनुभूयाहं पृष्ठद्वारमार्गेण राजभवनस्यान्त:पुरं प्रधावितुमारब्धा। कदाचिन्मातुर्गान्धार्या: पादतले लज्जानिवारणायाश्रयो लभ्येत, अथवा भगिनीसदृश्या देवरपत्न्या भानुमत्या वस्त्राञ्चल आत्मानं गोपयितुं सुयोग:। परन्तु सर्वद्वाराणि रुद्धानि।
द्वारदेशे चीत्कृत्य मम दु:खनिवेदनात् पूर्वं दुष्टो दु:शासन: स्वलोमशबलिष्ठहस्तं प्रसार्य मम सुदीर्घकुञ्चितघननीलकेशैर्मामाचकर्ष।
अहमसहायच्छिन्नमूललतेव निश्चेष्टा पतिता भूमौ। दु:शासन आरण्यवृषभ इव मम केशान् बलादाकृष्य सभागृहे प्रचिक्षेप। अहं ममैकमात्रं परिधानं बहुकष्टेन वक्षसि शरीरे चावृत्य धारयितुं प्रायते। मस्तकावगुण्ठनं तदानीमपसृतपूर्वम्। मम मुखं, ग्रीवा, बाहू चोन्मुक्ता:। मम केशा दयापरवशतया विकीर्णा उन्मुक्तपृष्ठदेशमगणितलुब्धदृष्टिभ्यो निवारयन्ति। बातान्दोलितलताया इव मम समग्रं शरीरं दु:खभयलज्जाभि: कम्पते। मम नासाग्रस्य हीरकपुष्पमपि दूराकाशस्य नक्षत्रमिव प्रकम्पते।
सभागृहे मामुपस्थापयन् स आकर्षति मे दीर्घकेशान्, अनुभवति चानन्दम्। अहं यथा प्रतिमा प्राणहीना काचित्! ममानुभवो नास्ति, न दु:खम्, न चावेग:, नापि किमपि।
लज्जां सङ्कोचं च विस्मृत्याहं बद्धाञ्जलिब्रवीमि—''अहं सम्प्रति एकान्तनिवासयोग्या, अहमेकवसना, अहं रजस्वला।’’
दु:शासन: साट्टहासं बभाषे—''त्वं यस्यामवस्थायामसि, एकवस्त्रा वा विवस्त्रा वा, तेन मे किम्? त्वं तु सम्प्रत्यस्माकं नगण्या क्रीतदासी।’’
मम दु:खं लज्जां गोपयितुं मे दीर्घनीलकेशा: पुन: सदया मुखं वक्षोदेशं चावृण्वन्ति। दु:शासनस्य वर्वरोचितव्यवहारेण मम वस्त्रमात्रमपि विपर्यस्तम्। अहं बहुकष्टेन कराभ्यां वक्षोदेशमावृत्य स्वलज्जारक्षणाय मनसा सखायं कृष्णं स्तौमि। वस्तुत: क्षणेऽस्मिन् तदतिरिक्त: कोऽन्यो रक्षेत्?
एते, एते मत्सम्मुखे ममैव वीरपुङ्गवा: क्षत्त्रियभर्त्तार: पञ्चापरधिन इव तूष्णीमुपविष्टा:। समक्षं पत्नीलाञ्छनां विलोक्यापि निरुपाया नीरवाश्च। अपरतो राजसिंहासन आसीनो मे पूज्य: श्वशुर:। नेत्रहीनोऽपि स मे क्रन्दनं शृणोति, असहायतां च वेत्ति। पितामहो भीष्मो ज्ञानवान्, वीर:, आजन्मब्रह्मचारी च। सोऽपि नीरवदर्शक:। गुरुद्रोणाचार्यकृपाचार्यावपि निष्प्रतिक्रियौ। वीर: कर्णो दुरवस्थामिमां मे विलोक्य निष्ठुरसप्रतिशोधोल्लासेनात्मसन्तोषं लभते, मां च तीर्यगवेक्षते। समुपस्थिता: सज्जना:, महाराजाश्च सर्वे निश्शब्दा:। अतोऽद्य कृष्णं विना न कोऽपि सहायक:।
साट्टहासं दासीदासीति चीत्कृत्य दु:शासनो मम केशानाकर्षति। कर्णशकुनिदुर्योधनास्तस्योत्साहं वर्धयन्ति।
विपदपेक्षया विपदाशङ्का मनुष्यमधिकतरं भाययति। विपत्सम्मुखीनस्य कुत: साहस: शक्तिश्चायात इति, न ज्ञायते।
अहं साञ्जलि अवालोकयम् गुरुजनान्। चक्षुषोरश्रुधारा प्रवहति। लज्जां सम्भ्रमं च सन्त्यज्य निर्भीकतयाऽहमपृच्छम्—''सभास्थलेऽस्मिन् मम गुरुजना उपस्थिता: सन्ति। आर्यावर्त्तस्य सर्वे ज्ञानिनो गुणिनो वीराश्च वर्त्तन्ते। अत्रास्यामवस्थायां सर्वेषां चक्षुषां पुरस्तान्मम केशाकर्षणलाञ्छना न किं लज्जाकरी? किमयं कुरूणां धर्म:? सर्वे नीरवा: कथम्? मम प्रश्नोत्तराय सभास्थले किं न कोऽप्युपस्थित:?’’
सर्वे स्तब्धा:। सभास्थलस्य मृदुगुञ्जनं शान्तम्। काऽपि नारी गुरुजनेभ्यो दृढतयोत्तरं याचते? इयती तदास्पर्धा?—इति न कोऽपि व्यश्वसत्।
शकुनि: कर्णस्य कर्णे भाषणं चक्रे—''विदुषीत्वं महिलाया महत्तमोऽपराधो नाम। विद्याज्ञानवत्त्वादस्या इयमवस्था। यदीयं रुदन्ती, निपतन्ती चास्माकं चरणेषु मुक्तिं भिक्षेत, तर्हि कदाचिदपमानादस्मात् मुच्येत। ज्ञानं शक्तिश्च पुरुषसौन्दर्यं वर्धयत:, किन्तु अज्ञानताऽसहायता च नारीसौन्दर्यम्। द्रौपदी तु ज्ञानविद्याहङ्कारेण बलीयसी प्रज्ज्वलिताग्निशिखेव ज्वलति। किमस्यै कोऽपि दयावान् भवेत्?’’
अहं पुनरवोचम्—''अहमत्र कस्यापि दयां न याचे। अपितु न्यायमवश्यं कामये। नारीसम्मानरक्षा ननु राजधर्म एव। सभास्थले स्वकुलवध्वपमानं किं कुरुराजधर्म:? अहं वेदितुमिच्छामि—मम पत्यु: पराजयात् परं तेन मे पणत्वं किं न्यायसङ्गतम्?’’ एतेनापि सर्वे शान्ता नीरवाश्च। किन्तु पितामहो भीष्मोऽत्यन्तं शान्तस्वरेणोवाच—''सुचरिते! परधनपणीकरणाय न पराधीनस्याधिकारोऽस्ति, परन्तु पत्नी सर्वदा पत्यधीना। अत: युधिष्ठिरस्यात्मपराजयात् परं स त्वां पणीकर्त्तुं समर्थो वा न वेति विचारद्वन्द्वस्य यथार्थोत्तरं प्रदातुमहमसमर्थ: कल्याणि! धर्मनीतिरत्यन्तं सूक्ष्मा। धर्मव्याख्या नैव सरलो व्यापार: कदाचित्। धर्मो हि युधिष्ठिरस्य प्राणा:। स ते पति:। त्वां प्रतीमां दु:सहां लाञ्छनां स यदि नीरव: सहते, भीमार्जुननकुलसहदेवा: पतयो यदि तवैनां लाञ्छनां निर्विकारमुपेक्ष्य सभास्थले मूकदर्शकत्वेनोपविष्टा:, तर्हि कुरुधर्मविषये किमहमुत्तरिष्यामि? अतस्तव प्रश्नोत्तरायाहं नेच्छामि।’’
पितामहस्येयं शीतलनिष्ठुरा वाणी ममान्तिमामाशां क्षणेन धूलिसाच्चक्रे।
अहं क्रोधं संहृत्योक्तवती—''मम पतिर्युधिष्ठिरो न केवलं धर्मानन्द:, सोऽप्यत्यन्तं सरल: साधुस्वभावश्च। तस्य सरलतासुयोगमासाद्य दुरात्मानस्तमन्यायक्रीडा यां पराजितवन्त:। राज्ञो राज्ञा सह क्रीडोचिता। परन्तु कपटी शकुनिर्दुर्योधनस्य कृतेऽक्रीडत्। द्यूतक्रीडायां कृतेपरम्परा नास्ति। एतत् सर्वं विज्ञाय मम गुरुजना महात्मान: किं चिन्तयन्ति—अहं सम्प्रति कौरवाणां क्रीतदासीति?’’
मया स्वप्रश्नस्योत्तरं न लब्धम्। दु:खासन: पुनर्मम केशानाकृष्य जगर्ज—''अलं वाक्यालापेन सुन्दरि! सुन्दरीणां मुखेषु तत्त्वालोचना नैव शोभते। अद्यारभ्यास्मदिच्छया तव सञ्चलनं मङ्गलाय स्यात्।’’
अहमत्यन्तमसहायतया सर्वान् व्यलोकयम्। अश्रुभारेण सर्वमस्पष्टं दृश्यते। मम पतीनामभिमुखं द्रष्टुमपि नैच्छम्। ममासहायताऽश्रुभारेण चास्थिरो भीम: क्रोधान्वितो जगाद—''कस्यापि पुरुषस्य रक्षितां दासीं देहजीविनीं वा पणीकृत्य द्युतक्रीडादृष्टान्तस्त्रिभुवने नासीन्नास्ति चेतिहासे। युधिष्ठिरो यदा चतुरोऽस्मान् भ्रातृन् पणीकृत्य पराजितस्तदाऽहं शान्त आसम्। परन्त्वस्माकं पत्नीं द्रौपदीं पणीकृत्य तस्य द्यूतक्रीडाऽपराध: कदापि न क्षमणीय:। इमां लाञ्छनां सहिष्यते द्रौपदी कस्मादपराधात्? येन करेण द्यूतक्रीडया द्रौपदी हारिता, तमग्निना भस्मसात् कर्तुमहमिच्छामि। सहदेव! अग्निं व्यवस्थापय।’’ अर्जुनो मदर्थं न दु:खित इति न, परन्त्वेतावति सभास्थले पितृसमस्याग्रजस्यापमानं स कथमुत्साहयेत्? शान्तस्वरेण स उवाच—''अग्रज, कुतोभवतोऽयं मतिभ्रम:? युधिष्ठिरोऽस्माकमग्रजस्तातपाद इव। क्रीडायां जयपराजयौ स्त:। तत्र तु कस्यापि दोष इति वक्तुं नैव शक्यते।’’
अर्जुनस्य महत्तया सभास्थलं महिमान्वितं स्यात्, परन्तु तत्कोमलशब्दा: शरीरेऽस्त्राघाता इव मे क्रोधं यन्त्रणां चोत्पादयन्ति। अहमचिन्तयम्—''अहो, परम्परां संस्कृतिं च प्रति कियती श्रद्धा, कियाँश्च सम्मान:! गुरुजननिन्दा परम्पराविरोधिनीति भीमसेनमुचितवक्तारमपि तर्जितवानर्जुन:। अथ च स स्वयं सभास्थल इतरै: पत्नीलाञ्छनां नीरवं सहते! किमियं संस्कृतिपरिचायिका महाभारतीयपरम्परा? किमियमार्यकुलरीति:?’’
ईश्वरप्रेरित इव धृतराष्ट्रस्यान्यतम: सुतो विकर्णो मत्पक्षपाती उवाद—''देव्या याज्ञसेन्या कृतस्य प्रश्नस्योत्तरं नैव लब्धं सम्प्रत्यपि। मन्मतेन याज्ञसेनी नैव कौरवाधीना। यतोहि सेयं न केवलं युधिष्ठिरपत्नी, अपि तु चतुर्णामन्येषामपि समानरूपेण सहधर्मिणी। युधिष्ठिरो द्रौपदीं पणीकरिष्यति केन न्यायेन? अपि च, युधिष्ठिरेण स्वात्मपराजयात् परं द्रौपदी पणीकृता। अत: कारणादस्मात् कौरवैर्न्यायतो द्रौपदी न जिता।’’
हठादसहिष्णु: कर्ण उदतिष्ठत्। विकर्णं भर्त्सयन्नुवाच—''विकर्ण! किं त्वया विस्मृतमतीतम्? अस्या एव कारणात् सभास्थलेऽद्योपस्थिता राजपुत्रा एकदा किं पराजिता अपमानिता न बभूवु:? अद्य ते वैमत्यमियत् कथम्? युधिष्ठिरस्य द्रौपद्यां यावानधिकार:, तेनैव तत्पणो नान्याय्य:। अन्यच्च, त्वमेवं यदि चिन्तयसि यदस्या नार्या लाञ्छना धर्मविरोधिनी, तर्हि कदाचिदपि किं नार्याऽनया धर्मन्यायविरोधो न कृत:? लक्ष्यभेद आसीत् स्वयंवरण:, अर्थात् पौरषं, शौर्यं, सामर्थ्यञ्च। तत्र पुनर्जातिजन्मेतिहासवंशपरिचयप्रश्न: कुत:? स किं नान्याय:, नाधर्म:? यद्यर्जुनस्तदभीष्ट: पुरुष आसीत्, तर्हि स्वयंवरप्रहसनं विरच्य तया राजपुत्रा अपमानिता लाञ्छिताश्च कथम्? इदमेव सर्वश्रेष्ठं यत् नार्या: सतीत्वसम्भ्रमलज्जाशीलताशालीनताश्चानिवार्यतया मुख्या:। एकस्या नार्या एक एव पुरुष इति दैवविधानम्। परन्तु, नार्याऽनया पञ्चपतिवरणेन स्वनारीत्वं नाशितम्। पुन:, पत्यु: प्रियसख्या गोविन्देन सहास्या: प्रीतिरभेद्या। श्रूयते, प्रीतेस्तस्या न काऽपि पार्थिवसंज्ञा! अत: या नारी स्वपञ्चपत्यतिरिक्तेषु पुरुषेष्वियती प्रेममयी, सभास्थले तस्या विवसनता नाधर्माय नान्यायाय च कल्पते। यतो हि पाण्डवानां राज्यधनसम्पत्तयोऽस्माभिरेव जिता:। स्वपरिधानेऽपि सम्प्रति न तेषामधिकार:। आदौ पाण्डवान् विवस्त्रान् कुरु, अनन्तरं याज्ञसेन्याश्च यथोचितं सम्मानम्।’’
स्तब्धाऽहं शृणोमि कुन्तीपरमप्रियधर्मपुत्रस्य ज्ञानगुणविचारवत: सुदर्शनपुरुषस्य कर्णस्य चिरावदमितापमानविस्फोरणशब्दान्। कर्ण एवम्भूतां भाषामपि प्रयुञ्ज्यात्? तां च मह्यम्? यैकदा तदभीष्टाऽऽसीत्? यां स मनसा पूजयति?
मया श्रवणमार्गौ हस्ताभ्यां रुद्धौ। एवं कटुभाषां निशम्य शरीरधारणमसम्भवं किल।
हठाद् दु:शासनो मम पतीनां शरीराभरणानि निस्ससार। केवलमेकैकं वस्त्रं परिधाय निरावृतशरीरास्ते लज्जयाऽधोमुखा उपविष्टा:। तेषां कृते दु:खं लज्जां चानुभवितुं मेऽवसर: कुत:? सम्प्रति मम दु:खस्य पुरस्तात् संसारदु:खं गुणीभूतम्।
दु:शासनो मे केशान् विहाय परिहितवस्त्रमाकर्षति। किं कर्णस्य रोषपूर्णां भाषां दु:शासनो वस्तुत: कार्यान्वयिनीं करिष्यति!
अहं दशदिक्पालान् प्रमाणीकृत्योद्गीर्णवती—''अनादिकालादद्यावधि, महाकालस्यागामियुगेष्वपि एवं नारकीया लोमप्रकम्पना घटना नैवाभूत्, न च भविष्यति। रावणस्य सतीसीताहरणकाले लतापादपपशुतिर्यञ्चोऽप्यश्रूणि मुमुचु:। तीर्यग्जन्मा जटायुरपि अन्यायं प्रतिरुद्ध्य स्वप्नाणान् तत्याज। सीतोद्धाराय वानरैरपि स्वस्वजीवनमुत्सृष्टम्। परन्त्वद्य गुरुजनानामुपस्थितौ सभास्थले सर्वे समक्षं द्रौपद्या अश्राव्याश्रुतपूर्वस्य बीभत्सापमानस्य नारकीयलीलां विलोक्यापि नीरवा: निष्कम्पाश्च। अपि च, सर्वे नाटकस्य रोमाञ्चकरं दृश्यं प्रतीक्ष्येह तिष्ठन्ति। अहह! युधिष्ठिरस्य व्यक्ति राज्ञा रामचन्द्रेण सह तुलयित्वा गौरवमशेषमनुभवामि स्म। पतिव्रतासीतासम्मानरक्षणार्थं रामेण कियत् कष्टं नाङ्गीकृतम्! लोके सीताया: सतीत्वं प्रमाणयितुमग्निशुद्धिमुपस्थाप्यानन्तवेदनाऽऽसादिता च तेन। अथ च, मम पत्याऽहं समर्पिता द्यूतक्रीडायां पणरूपेणामानुषेभ्य:। मम लाञ्छना चैभिर्नीरवं प्रत्यक्षीक्रियते। एते च कौरवा दुरात्मानो दानवाद्रावणादपि कियन्तो न नीचतरा:! रावणेन सीताहरणात् परममप्यशोभनं नाचरितं सकृदपि। स्वकुलालसावशोऽशोकवने सीताया अङ्गलतां कदाचिदपि न पस्पर्श। सीताया: प्रेमभिक्षा तदभीष्टाऽऽसीत्। सा तु स्वाभाविकी जीवस्य, न पापाय। परन्तु, दुरात्मान एते कुत्सितवासनावशीभूता अत्र सभास्थले भरतवंशकुलवध्वा अनावृतं शरीरं प्रदर्शयन्ति। नारीधर्मोपरि बीभत्सस्यास्यात्याचारस्य कलङ्कितेतिहास: कालस्रोतसि नैव नङ्क्ष्यति। देशस्योत्तरदायादा अस्मात् कारणात् कुरुपतिं निन्दिष्यन्ति। कुरुवंशस्यानेनात्याचारेण स्वेच्छाचारेण च समग्ना मानवजातिरनन्तकालं यावद् दीनीकृता। समग्ना नारीजाति:, भरतवंशवध्वोऽप्यनेनापमानिता:। नास्त्यस्यापमानस्य क्षमा, न चास्य पापस्य क्षालनम्।’’
एतावता विषोद्गारेणाहमवशाऽऽत्मानं कृष्णाय समर्पितवती। दु:शासनो मम वाक्यबाणैर्जर्जरित उत्तेजनया हुङ्कारेण च मम कटिवस्त्रमाकृष्य विवसनां कर्त्तुं मां प्रयतते। अहं वक्षोजयो: स्वहस्तद्वयमावृत्य व्यलपम्—''हे कृष्ण वासुदेव! त्वं तु सर्वज्ञ:। पृथिव्यां कुत्रचिदपि कोणानुकोणे स्थितोऽपि त्वं दुरात्मभि: कौरवै: कथं ते सखी निपीडिता निर्यातिता चेति किं न वेत्सि? पृथिव्या अनन्तकालेतिहासे कलङ्किततमस्य नारकीयतमस्यास्याध्यायस्य समाचारं किं न जानासि? हे गोपीजनवल्लभ गोविन्द! एवमसह्या लज्जा नारीजीवने न कदाप्यभूत्, न च सम्भविष्यति। कदाचिच्च दिष्ट्या परस्तादस्या: पुनरावृत्तिर्न भवतु। हे सृष्टिसमुत्पादक! त्वं तु सम्यक् जानासि, आदिमयुगेऽपि वने विचरन्तीं नग्नां नारीं युगपदेकत्रानेकपुरुषा: कुदृष्ट्या न ददृशु:। तदाऽपि नारीसत्ता स्वतन्त्राऽऽसीत्। परन्त्वद्याधुनिकयुगे राजनन्दिन्यां कृष्णायामत्याचारस्त्रिभुवने कलङ्किततम:। असह्यविपदोऽस्या मामुद्धर गोविन्द! विपन्नामिमां रक्ष।’’
मम विलापो दु:शासनं क्नोधयतितराम्। स यावत्या शक्त्या मे वस्त्रमाकर्षति, तावत्या चाहं तत् संरक्षामि। मम वक्षोदेशं च तेनावृणोमि। नासाग्रजलमग्रस्यापि मनुष्यस्य स्वशक्त्यां कियती आस्था! स्वाहङ्कारेण मनुष्यो विपद्यते। अहङ्काररहितस्य हृदयस्य निवेदनमीश्वर: स्वीकुरुते। अहमधुना यावदात्मरक्षां स्वयं करिष्यामीति व्यर्थं प्रयासं करोमि। सम्पूर्णमात्मसमर्पणं विना करुणा न लभ्यत ईश्वरस्येति हठात् कोऽपि मे हृदयमादिशत्, अहं च लज्जां सङ्कोचं सम्भ्रमं च विहाय परिधानमात्रं च सन्त्यज्य हस्तावुर्ध्वमुत्तोलय्य कातरकण्ठेनासहायतया निवेदितवती—''प्रभो! अहं न स्वकीया, शरीरं च मे न स्वीयम्। अत: मां शरीरं च मे यथेच्छं व्यवहर। लज्जाऽपमानादिभ्यो न किमपि मदीयम्। सर्वं तवैव, त्वं च सर्वस्य कारणम्। मम पुनश्चिन्ता किमर्थम्?’’
वस्तुत: क्षणेनाहं लज्जापमानदु:खयन्त्रणाभ्यो विमुक्ताऽभूवम्। भगवते सर्वं समर्प्य मनुष्यो यदि सुखं, शान्तिं साहसं च लभते, तर्हि स सर्वत्र स्वयं बद्ध: क्लिश्यते कथम्? एतदहं जानीयाम् वा कुत:? अद्यास्मिन् मुहूर्त्ते सखायं कृष्णं वासुदेवं भगवन्तं मत्वाऽहं विपद्सागरमध्ये निर्भयं निश्शङ्कं चावतीर्णा। एवं दृढता पूर्वं मे जीवने कदापि नाभूत्।
मम चतुर्दिशं किं किं भवति—अहं न ज्ञातुं प्रभवामि। अहं केवलं पश्यामि—मम पुरस्तात् सुदर्शनचक्रं भ्रमति, तस्माच्च प्रसरति श्रीकृष्णस्य करुणार्द्रो हस्त:—ततश्चैकैकश: परिधानानि मदुपरि निपतन्ति। मन्त्रजलमिवेश्वरकरुणामृतमजस्रं वर्षति, मम लज्जापमाने दूरीभूते।
दु:शासनो मे परिधानानि कर्षं कर्षं क्लान्तोऽवसन्नश्च बभूव। दु:शासनो यावन्ति वस्त्राणि मे शरीरात् निस्सारयति, तावन्ति मूल्यवन्ति परिधानानि मम शरीरे स्वतो विकशन्ति। दु:शासनं परित: पर्वतप्रमाणानि वस्त्राणि पतितानि। अद्भुतमिदं दृश्यं विलोक्य सर्वे सभास्थले स्तम्भीभूता:। सतीसतीति प्रशंसया जयगानेन च सम्पूर्णं सभास्थलं मुखरितम्। क्लान्त: पराजितो लज्जितश्च दु:शासनो वस्त्रपर्वतोपरि निपतित:। तस्य हास्यकरीमवस्थां विलोक्यापि दुर्योधनो मां प्रति अश्लीलां भाषां पूर्ववत् प्रयुनक्ति। मम विवसनतासमयात् दुर्योधनोऽश्लीलोक्तिभिर्मामपमानयति। दुर्योधनसहचर्यो जटिला-कुटिला-कामना-वासना-ऽसूयाप्रभृतय:, कर्णसहचरी अस्मिता च तदशलीलोक्तानि समर्थयन्त्योऽनुवदन्ति। अधुनापि दुर्योधनस्तस्योरुं वस्त्रमुक्तं कृत्वा तत्र मां हस्तचपेटाध्वनिनाऽश्लीलेङ्गितेनोपवेष्टुमाकारयति। भीमसेनोऽत्यन्तं क्रोधेन सावेगं प्रतिजज्ञे—''पापात्मनो दु:शासनस्य वक्षो विदीर्य रुधिरं पास्यामि, असभ्यस्य दुर्योधनस्योरुं चूर्णयित्वा पितृपुरुषेभ्य: शान्तिं प्रदास्यामी’’ति। अहमपि प्रतिज्ञायोक्तवती—''दु:शासनस्य वक्ष:शोणितेन प्रक्षालनं यावन्ममायं कवरीभार उन्मुक्तो भविष्यति।’’ विदुर: सभास्थलोपस्थितान् सज्जनानुद्दिश्यावोचत्—''भीमस्यैवं प्रतिज्ञा कुरुकुलाय विपज्जनयित्री। यतोहि प्रतिज्ञापालने भीमोऽत्यन्तं निष्ठावान्। पुन: सत्या: द्रौपद्या: प्रतिज्ञा भयङ्करतरी। शृण्वन्तु, यज्जातं तज्जातम्। सम्प्रति मुच्यतां द्रौपदी। युधिष्ठिरस्य पणरूपेणात्मपराजयात् परं द्रौपदीपणीकरणं नोचितम्।’’
दुर्योधन औद्धत्येनाब्रवीत्—''तर्हि पाण्डवाश्चत्वार: स्वीकुर्वन्तु यद् युधिष्ठिरो न तेषां प्रभुरिति। तत: द्रौपद्यै मुक्तिं दास्यामि।’’
अर्जुनो गम्भीरस्वरेण जगाद—''द्यूतक्रीडाया: पूर्वं, द्यूतक्रीडासमये च युधिष्ठिरोऽस्माकं प्रभुरासीत्। परन्तु, आत्मपराजयात् परं स कस्य प्रभु: स्यादिति नास्माभिर्ज्ञातम्।’’
इदानीं धृतराष्ट्रो मुखमुद्घाटयामास। सस्नेहमुवाच—''कृष्णे! त्वं मे पुत्रवधूषु प्रथमा श्रेष्ठा च। त्वं स्वसतीत्वेन स्वभक्त्या च स्वयं सम्मानिता। त्वया स्वयं स्वमहिमा प्रकटीकृत:। त्वन्निष्ठयाऽहं भृशं प्रीत:। वरं याचस्व, कल्याणि।’’
अहं युधिष्ठिरं तीर्यगवेक्ष्यावदम्—''मुच्यतां युधिष्ठिर:। मम ज्येष्ठपुत्र: प्रातविद्य: कदाचिदपि कस्यचित् क्रीतदासस्य तनयरूपेण लाञ्छितो न स्यात्।’’
'तथास्तु’—उवाच मे दयाशील: श्वशुरो धृतराष्ट्र:। युधिष्ठिरो दु:खेन लज्जया चाधोमुखो बभूव।
—द्वितीयं वरं प्रार्थयस्व याज्ञसेनि!
—ममावशिष्टानां चतुर्णां पुत्राणां जनकेभ्यो मुक्तिं प्रयच्छन्तु, तेषामस्त्रशस्त्राणि च प्रत्यावर्तयन्तु।
—तदप्यस्तु। तृतीयं वरं च ब्रूहि कृष्णे!
—''क्षम्यतां पितृपादा:! क्षत्रियरमण्या: वरद्वयमात्रयाच्ञा शास्त्रसम्मता। मम वीरा: पतय: सम्प्रति मुक्ता:। तेषां हस्तेषु सत्स्वस्त्रेषु तेषां समृद्धै्य तृतीयवरयाच्ञाऽनावश्यकी।’’
—किन्तु, त्वया त्वन्मुक्त्यै न प्रार्थितो वरो याज्ञसेनि? कथं कुण्ठसेऽपरस्मै वराय? यदहं दित्सामि किल!
अहं सक्षोभाभिमानमभाषे—''पतीनां मे वीराणां मां विना सुखं न बाधाप्राप्तं स्यात्। अन्यथा युधिष्ठिरो द्यूतक्रीडायां मां पणरूपेण न प्रास्तोष्यत्। तेषामन्याश्चानेका: सहधर्मिण्य: सन्ति। न ता बद्धा मादृशा:। ता एषां सुखं चिन्तयिष्यन्ति विधास्यन्ति च।’’—एतावता मम हृदयस्य समस्ता वेदना नयनकोणमार्गेण निर्गता।
कर्ण: परिजहास—''धन्या निस्स्वार्था पतिभक्ति:! आत्मक्लेशं विस्मृत्य पाण्डवान् भर्तन् समुद्रादतलादुदधरत् पञ्चपतिनायिका याज्ञसेनी। प्रायेण पुन: पाण्डवपतित्वं नेच्छति। अत: स्वमुक्तिसुयोगं स्वचतुरतयोपेक्षते।’’
''साधु, साधु, त्वमत्यन्तं विज्ञ: कर्ण! द्रौपदीवेदना त्वयैवावगता, न तु तत्पतिभि:। द्रौपदीसतीत्वपराकाष्ठया सज्जनमण्डली अत्यन्तं मुग्धा। यदि सा पाण्डवान् नेच्छति, तर्हि सर्वेषां पुरस्तात् कौरवान् स्वीकुर्यात्, अथवाऽस्माकं वीरश्रेष्ठो मित्रमुदारहृदय: कर्णोऽत्रोपस्थितोऽस्ति। तं सा गृह्णीयात्।’’—दु:शासनो व्यङ्ग्यं चकार। अहमनेन प्रज्ज्वलिताग्निशिखेवोद्दीपिता। असह्यमिदमपमानं निशम्य भीमसेन: सहुङ्कारं समुद्घोषयत्—''तव विनाशोऽवश्यम्भावी, दु:शासन! महासमरश्चावश्यं भविष्यति। याज्ञसेन्या लाञ्छनाया अपमानाच्च कौरवकुलं नङ्क्ष्यति समूलम्। आर्यावर्त्तस्यागणितक्षत्त्रिया विलयं भजिष्यन्ते। याज्ञसेन्या जन्मलग्नस्य शून्यवाणी नचिरात् फलिष्यति।’’
युधिष्ठिर आगत्य तं प्रकृतिस्थं चकार, धृतराष्ट्रं च साञ्जलि उवाच—''आज्ञापयन्तु तातपादा:! भवतामादेशो न: शिरोधार्य एव।’’
धृतराष्ट्र: औदार्येणाह—''याहि वत्स! पतिव्रतया याज्ञसेन्या सह सुखेन राजत्वं कुरु। इमं नेत्रहीनं वृद्धं क्षमस्व याज्ञसेनि! एतादृगनुचितद्यूतक्रीडायै मयाऽनिच्छयाऽपि स्वानुमति: प्रदत्ता। पुत्रो यदि पित्रुपदेशं न गृह्णाति, तर्हि पित्रसहायतां मदपेक्षया कोऽधिकतरं जानीयात्? तथापि तवापमानेन त्वत्सम्मान: शतगुणैर्विवर्धित:। मम तनयाश्च सम्प्रति स्वस्वशक्तिमवश्यमवगच्छेयु:। किन्तु, द्यूतक्रीडाया अन्तिमपर्यायेण ''पाण्डवा महान्त’’ इति संस्थापितम्। युधिष्ठिरो धर्मपरायण:, भीम: पराक्रमवान्, अर्जुनो धैर्यशील:, सत्साहसवान् नकुल:, नीतिवान् शुद्धश्च सहदेव इति जगति प्रमाणितम्। युधिष्ठिर! सम्प्रति सत्या द्रौपद्या मानभञ्जनपूर्वकं प्रतियाहीन्द्रप्रस्थम्। सुखेन प्रजा: पालय, अबोधै: कौरवभ्रातृभिश्च सह मैत्रीं स्थापय। कलहेन विवादो न समाधीयते, अपितु राज्यं नश्यति।’’
सभास्थलपरित्यागात् पूर्वमहं सर्वेभ्य: साञ्जलिप्रणामं ज्ञापयन्ती सविनयमवदम्—''सभास्थले प्रवेशकाले मया दु:खावेगाभ्यां गुरुजनेभ्य: प्रणामज्ञापनं विस्मृतम्’’ इति क्षमां कामये। शतवारं क्षमां प्रार्थये। प्रणामा:, सर्वेभ्य: प्रणतय:।
ज्येष्ठमातरं गान्धारीं प्रणम्येन्द्रप्रस्थप्रत्यावर्तनाय प्रस्तुता भवाम:, सद्य: पुनर्द्यूतक्रीडायै निमन्त्रणमागतम्।
युधिष्ठिर: सदीर्घश्वासमुवाच—''इयं हि मे भाग्यविडम्बना। अहं जानामि यदहं पराजेष्वे। परन्तु निमन्त्रणप्रत्याख्यानमसम्भवम्। सभागृहगमनाय प्रस्तुतस्य युधिष्ठिरस्य मार्गमवरुध्याहं स्थिता। प्रज्वलिताग्निशिखामिव मां पुरस्ताद् विलोक्य युधिष्ठिर: कोमलस्वरेण बभाषे—मार्गं देहि याज्ञसेनि! मम धर्ममार्गानुसरणमनुजानीहि—।’’
अहं सक्रोधं विरुद्धवती—''आर्यपुत्र! यन्मेऽभूतपूर्वमभावि चापमानं सङ्घटितं क्रूरैस्तेन किं भवतो मनो न सन्तुष्टम्? किमयं भवतो धर्म:? अन्यायनिमन्त्रणस्वीकारो नैव कदाचिद्धर्माय कल्पते। अयं भवतोऽहङ्कार:। स्वाक्षमतां जानन्नपि न भवान् द्यूतक्रीडाविमुख:। स्वपत्नीं, पुत्रान्, भ्रातृन्, राज्यवासिनश्चासुरक्षितान् विधाय स्वधर्मपरायणतां विनम्रतां च विज्ञापयितुमिच्छति भवान्? किमयं राजधर्म:?’’
''अद्याह्वानं प्रत्याख्यायेन्द्रप्रस्थप्रत्यावर्तनेनापि कौरवा: शान्त्या राज्यशासनमस्माकं सम्पादयितुं न स्वप्नेऽपि चिन्तयिष्यन्ति। अतोऽन्तिमप्रयासेन भाग्यखेलस्य प्रत्यक्षीकरणे कुण्ठा किमर्थम्?’’—इति ब्रूवन् युधिष्ठिरो मे निवारणमस्वीकृत्य सभास्थलं प्रति जगाम।
अग्नो प्रज्वलन्ती भस्मीभूता शान्तिं लभेय, परन्तु वह्निजाताऽहमिति क्षोभक्रोधाग्निरपि न मां भस्मीकुरुते, केवलं दहति। दहनवेदनायन्त्रणयाऽस्थिरोद्वेगेनेतस्ततोऽहं पदचारणां करोमि। संसारस्य चरमलाञ्छनाया: परं किमपरमवशिष्टमिति प्रतीक्ष्यास्मि।
माया मां प्रबोधयति—''मा चिन्तिता भव सखि! दुष्टस्य दुर्योधनस्येन्द्रप्रस्थैश्वर्यप्राप्त्यै लुब्धा दृष्टि:। तत् प्राप्य स शान्तो भविष्यति। स सम्यग् जानाति यत् पाण्डवास्तवापमानस्य प्रतिशोधमवश्यं दास्यन्ति। अत: पाण्डवानामिन्द्रप्रस्थप्रत्यावर्तनं कदापि न स आत्मना कामयते। पाण्डवानां देशान्तरीकरणं तदीयमुद्देश्यम्। तदेव भवतु। पाण्डवा यत्र गमिष्यन्ति, तत्रेन्द्रप्रस्थसमां राजधानीं संस्थाप्य सुखेन कालं यापयिष्यन्ति। ऐश्वर्यसुखं पाण्डवानां गमनमार्गस्य धूलिकणतुल्यम्। ते त्वयि सत्यां किं किं न कर्त्तुं समर्था:? किं त्वया न ज्ञातं यत्त्वं लक्ष्म्यंशेन जातेति?’’
इयति दु:खे, इयत्यामशान्त्यामपि अहं किञ्चिदहसम्। अवोचम्—''माये, त्वं किं चिन्तयसिराज्यधनभ्रंशभयादहं चिन्तिता? यदाहमर्जुनं वृतवती, तदा स आसीद् वनचारी ब्राह्मणभिक्षुक:। यदा च पञ्चपाण्डवै: सह मे परिणयोऽभूत्तदा ते हृतराज्या नि:स्वा राजपुत्रा आसन्। तदानीं मे दु:खं नोत्पन्नम्। तदानीन्तनं सुखमिन्द्रप्रस्थराज्ञीरूपेणापि न मया लब्धम्। धनैश्वर्यसुखोपादानैर्नाहं निर्मिता। परन्तु वारं वारमन्यायाह्वानस्य पुरस्ताद् युधिष्ठिरस्य विनम्रमात्मसमर्पणं न मया सोढुं शक्यते। मां पणीकृत्य द्यूतक्रीडाया: पश्चान्मे मनस: शान्तिर्नष्टा। अस्या अशान्तेरस्यापमानस्य च ज्वालापेक्षया कस्यचन वनचारिणो नि:स्वस्य सुपुरुषस्य सहधर्मिणीरूपेण जीवनयापनं कस्या अपि नार्या: श्रेयस्तरम्।’’
अदृष्टं किं तुण्डे सन्निधीयते! मम मुखात् प्रसङ्गस्यासमाप्ते: पूर्वं समाचार आयातो यत्—क्रीडाया: पणरूपेण युधिष्ठिर: पत्नीभ्रातृभि: सह द्वादशवर्षाणि वनवासम्, एकवर्षात्मकं चाज्ञातवासमङ्गीकृतवान्।
मदर्थमयं दु:समाचारो नासीत्। पतिभि: सह वनवासजीवनं क्षणात् पूर्वमकामये। परन्तु या: प्रजा: धर्मराजयुधिष्ठिरबाहुच्छायाश्रयाय हस्तिनापुरं विहायेन्द्रप्रस्थं निवासस्थलं चक्रु:, तासां सम्प्रति किं स्यात्? दुर्योधनस्य प्रतिहिंसयाऽन्यायविचारेण च ता: कां यातनां न सहिष्यन्ते? कौरवभ्रातृणां बीभत्सकामनानिष्पीडिता इन्द्रप्रस्थस्य पतिव्रता रमण्यो निर्यातनामशेषां लप्स्यन्त इति मम मध्येसभं लाञ्छनया प्रमाणितपूर्वम्। प्रजानां कृते युधिष्ठिरस्योदासीनता किं वास्तविको राजधर्म:? सपणद्यूतक्रीडायां राज्यवासिन: सकृदपि किं तन्मनसि नापतिता:? राज्यधनं प्रति यदि स इयान् वीतस्पृहस्तर्हि राजचक्रवर्त्तित्वेन प्रजानां प्रियभाग् बभूव किमर्थम्?
रामचन्द्र: स्वर्णमृगमनुधावन् स्वयं दु:खमङ्गीचकार। परन्तु युधिष्ठिरो द्यूतक्रीडान्ध: सर्वेषां दु:खकारणं बभूव।
अविचलितं युधिष्ठिरस्य मन:। स: स्थितप्रज्ञ:। अन्येऽप्यनुजास्तदनुगामिन:। अहमपि युधिष्ठिराय न किञ्चिदब्रवम्। सम्प्रति किं मूल्यं मे विचारस्य?
पाण्डववनवाससमाचारस्तडिद्वेगेन चतुर्दिशं मुहूर्त्तेन प्रचारित:। भोजराजोऽन्धक:, कृष्णीक:, चेदिराजो धृष्टकेतु:, महावीर:कैकय:, मम भ्राता धृष्टद्युम्न:, पिता द्रुपदश्चागत्योपस्थिता:। सर्वान् सान्त्वयन् युधिष्ठिर: प्रवासप्रणतिं व्यज्ञापयत्। पितरं सह मां नेतुमिच्छन्तं निवारयन्ती अहमुक्तवती—''पितृदेव, स्त्रीधर्मपालनस्यायमवसरो मे। पत्या सह वनं गत्वाऽशेषं कष्टं सेहे सती सीता। सोऽयं महार्घोऽवसरो मज्जीवन आगत:। मम सम्प्रति न रावणाद् भयम्। यतोहि जीवनस्य सर्वतो दु:खदायिनी लाञ्छना क्षणेभ्य: पूर्वं मम जीवने व्यतीता। यद्वा दु:खमायास्यति, तन्नितान्तं गौणं स्यात्। भवता निश्चिन्तेन कृपया भाव्यम्। यो मे चरमापमाने संरक्षक:, सोऽवश्यं मे सहायक: स्यादिति विश्वासोऽयं मे शक्तिं प्रगुणीकरोति। जीवनस्य किमपि दु:खान्तरं न मां कातरीकरिष्यति।’’
एतावता कृष्णमहं मनसोद्दिश्य प्रणमामि, अपश्यम्—कृष्णो मे पुरस्तात् स्वयमुपस्थित:। अहं सावेगमधीरतया तत्पादौ स्पृष्ट्वा प्रणन्तुं गच्छामि—स मे हस्तौ धृत्वाऽरुणत्। अहं व्यस्ततयाऽवदम्—''वासुदेव, कृतज्ञताज्ञापनाय मम भाषैव नास्ति। तव पुण्या कीर्त्ति: प्रतियुगमार्त्तजनानामाश्वासनमेव स्यात्। जन्मनि जन्मनि अहं तव पददासी जाता।’’
कृष्ण: सुमधुरस्वरेणोवाच—''सखि, एवमुक्त्वा मां मा दूरय। अहं तव सखा। त्वत्कृते मया किं कृतम्? युधिष्ठिरस्य द्यूतक्रीडासमयेऽहं शौभनगरस्य राज्ञा शाल्वेन सह युद्धरत आसम्। अन्यथाऽहं तं द्यूतान्न्यवारयिष्यम्। वाराङ्गना, द्यूतम्, मृगया, सुरापानं च पुरुषं श्रीभ्रष्टं सम्पादयन्ति। मयि द्वारकायामसति पाण्डवानामियं विपत्तिरापतिता। एकस्मिन् द्वीपे स्थितोऽहं समाचारमेनमाप्य व्याकुलितोऽत्र धावित:।’’
अहं सोच्छ्वासमवदम्—''प्रभो, त्वमिच्छामय:। तवागोचरं किमपि किं संसारे सम्भवति? कुरुसभायां द्रौपदीलाञ्छनां त्वदतिरिक्त: को बत मोचयितुं शक्नुयात्? यदाऽहं दु:शासनेन केशेष्वाकृष्य सभास्थल उपस्थापिता, तदानीमहं रजस्वला, एकवस्त्रा च। अहं पाण्डवानां सहधर्मिणी, धृष्टद्युम्नभगिनी, श्रीकृष्णप्रियसखी, भरतवंशकुलवधूश्च। तथापि दु:शासनस्य कुकार्यं न केनापि निवारितम्। मम महावीरा: पतयोऽपि नीरवद्रष्टार आसन्। दु:शासनदुर्योधनयोरश्लीलेङ्गितमसाधुभाषा:, कर्णस्य श्लेषपूर्णानि वाक्यानि चाधुनाऽपि मम हृदयं विदारयन्ति। राजसभायां गुरुजनस्थानीयानां, वीराणां, विज्ञपुरुषाणां च समक्षं दु:शासनो दुष्टो यदा मे वस्त्रमाचकर्ष, तदाऽहमन्वभवम्—न मेऽत्र कोऽप्यस्ति सहायक:। अहमपीदमन्वभवम्—मम पतयो न सन्ति, पुत्रा न, बन्धुभ्रातृपितृशुभाकाङ्क्षिणश्च न सन्ति। तदानीन्तनीं मेऽसहायतां मदतिरिक्त: को जानातु? भीमार्जुनयो: पराक्रमं धिक्। किं मूल्यं नकुलसहदेवयो: शुद्धताया नीतिशीलतायाश्च? युधिष्ठिरस्य विनयं धर्मपरायणतां च शतवारं धिक्। यस्मिन् देशे नारीसम्मानाय पुरुष उदासीन:, तस्य देशस्य ध्वंसोऽवश्यम्भावी। तस्य देशस्य पुरुषो निन्दित: कलङ्कितश्च। तदानीं केवलं मया प्रतीक्षितस्त्वमेव। कुतश्चिदपि प्रत्ययमप्राप्य मया स्वात्मा तुभ्यं समर्पित:। तवालौकिकसाहाय्येन न केवलं मे सम्मान: सुरक्षितोऽपितु देशसम्मानो विवर्धित:। भारतस्य पवित्रभूमौ नार्यसम्मानिता नैव भवितुं शक्नोतीति तवानुकम्पया प्रमाणीकृतम्। वरमहं लाञ्छिता भवेयं, परन्त्वस्या भूमेर्महत्त्वं जगत्युद्घोषितम्। इयं हि सत्स्वेतावत्सु दु:खेषु सान्त्वना। हे कृष्ण, अहं ते पदतले दासीरूपेण स्वजीवनं यापयितुमिच्छामि। एतेन कदाचित्तव ऋणभार: किञ्चिन्न्यूनीभवेत्..........इति सन्तापहारकस्य करुणामयस्य कृष्णस्य पुरस्ताद्धृदयमुन्मोच्य मुखमण्डलं वस्त्रेणाच्छाद्य च विलपितुमहं प्रवृत्ता। कुरुसभायां लाञ्छनाया: परं मे पतय: सकृदपि न मया धिक्कृता:। बिन्दुमात्रमप्यश्रु नामुञ्चम्—साभिमानमेकमपि वाक्यं न व्याहरम्। ये पतय: शक्तिशालिनोऽपि मद्दुखकारणभूता:, तेषु किं मूल्यमभिमानस्य? एषां पुरस्ताज्जीवने कदाऽपि नाभिमानं दर्शयिष्यामीति प्रतिज्ञायाहं तूष्णीमासम्। परन्तु, अद्य भक्तबन्धुं कृष्णमवाप्यात्मानं कथं वा नियन्त्रयेयम्? अहं यन्नारी!’’
कृष्ण: साञ्जलिरुवाच—''देवि! स्वयं पददासीति प्रकाशयन्ती सापराधं मां मा कुरु। कर्तव्याद् बहिर्न किमपि मया विहितम्। त्वया यत् कृतं मदर्थम्, तत् प्रतिदानेन सम्प्रत्यहं ऋणमुक्त:। ममोपचारार्थं तव पत्युपहृतां गृहप्रवेशशुभशाटिकां विपाट्य त्वं मे हस्ते बबन्धिथ। वस्त्राकारेण तदेव मया परावर्त्तितं केवलम्। सूत्रदानेन वस्त्रं लभ्यत इति मे विश्वास:।’’
अहं साश्रुदृष्ट्याऽवालोकयम्। कृष्ण: स्वसुगन्धितमुखमार्जन्या स्वेदबिन्दुं प्रोञ्छन्नुवाच—''पश्य, तव स्नेहमयं दानं (परिधानम्) तदारभ्याहं प्रत्यहं व्यवहरामि। सखि! अहं सर्वदा स्नेहभिक्षु:। अत: मह्यं केवलं स्नेहं ददस्व। तेनाहं धन्य: स्याम्। एतावती दया मह्यं विधेया।’’
अहं चमत्कृता। कृष्णो यन्मे परिहितवसनांशं व्यवहरन् मत्कृतं सामान्योपचारं प्रतिमुहूर्त्तं स्मरतीति भावोऽयं मे मानसिको जीवनस्य सकलं दु:खं प्रक्षालितवान्। अहं प्रेमार्द्रस्वरेणावोचम्—''सखे, अस्या हृदयस्य निर्मलप्रेम्णोऽधिकारी त्वमेव। आजन्मनो हृदयमिदं तुभ्यं समर्पितम्। अतस्तत् पुन: ब्रूवन् त्रपयसि मां कथम्?’’
कृष्णो हसन्नाह—''कृष्णे, त्वं लक्ष्म्यंशेन जाता। त्वां विना कृष्णोऽलक्ष्मीक: सम्पद्येतेति विस्मर्तुं त्वं नार्हसि।’’
अहं कृष्णादभयप्राप्ते: परं स्वयं शक्तिमयीं मन्ये। दृढं चोक्तवती—सखे! कुरुसभायां यै: पापात्मभि: द्रौपद्या बीभत्सलाञ्छना कृता कारिता च, ते यद्युपयुक्तं दण्डं न लप्स्यन्ते, तर्हि भारतेतिहासो नारीनिर्यातनाया: कलङ्कितोपाख्यानैर्दूषित: स्यात्। बलीयांसो महाराजा: स्वकुत्सितवासनातृप्त्यै सुन्दररमणी: पतिगृहाद् बलादाकृष्य सभास्थले विवसना: करिष्यन्ति। नारीनग्नसौन्दर्यस्य सलालसदृष्ट्योपभोग: कामुकपुरुषाणां सामान्यो विलास: स्यात्। सखे, मद्रक्षणाय त्वमसि। मम पुनश्चिन्ता क्व? दुर्योधनदु:शासनप्रभृतयो यदि स्वपापफलं न लप्स्यन्ते, तर्हि भावी नारीसमाजो घोरं दुर्दिनं सम्मुखीकरिष्यति। इदं म आश्चर्यं यत्—महात्मपाण्डुपुत्रवध्वा: पाण्डवपत्न्या: वासुदेवप्रियसख्या: कुरुसभायां वस्त्रहरणप्रयासात् परमप्यद्यावधि दुरात्मनां विनाशो नाभवत् कथम्?
यदा पापात्मनो मे वस्त्रहरणं चक्रु:, तदा निरुपाया सती सीतेवाहं स्वलज्जां गोपयितुं वसुधागर्भेऽलेष्यम्। ममानुनयेन धरित्री न द्विधाऽभविष्यत्? परन्तु न मया तथा कृतम्। तथा कृते सति लज्जा मे सुरक्षिताऽभविष्यत्, किन्तु नारीसमाजस्य समस्या न समाधास्यत। सहिष्णुता नार्या भूषणम्। परन्तु, अन्यायस्य शिर: संनमय्य सहनं न कदापि धर्म:। अनुसृतान्यायमार्गं पतिं यदि पत्नी नीरवतया सहते, तर्हि क्षति: सर्वेषाम्। पृथिव्या: पापभारो वर्धते। तस्य पापस्य फलं निष्पापं मनुष्यमपि क्लेशयति। अत: भयङ्करलाञ्छनाया:, असह्यापमानात् च परमपि शरीरेणाहं जीवामि। सुखं, सम्पत्, राजभोगश्चेति न मे जीवनलक्ष्यम्। कृष्णाया अद्य नवजन्माभवत्। जीवनस्यावशिष्टदिनानि जीविष्यामि केवलमन्यायाधर्मपापविरोधसङ्ग्रामाय। अहं प्रतिज्ञाबद्धा यद् दु:शासनरुधिरेण प्रक्षाल्य वेणीं संहरिष्यामि, अन्यथाऽयं कवरीभारश्चिरायोन्मुक्तो भविष्यति। एतदर्थं जगन्मां राक्षसीमभिदध्यात्। परन्तु जगदिदमपि जानीयाद् यद् या नारी सृष्टिकारिणी कल्याणी च, साऽपि पापात्मनां दुराचाराणां ध्वंसकारिणी भवेत्। नारीं दुर्बलां मत्वा केशान् मे आकर्षतो दु:शासनस्य शोणितेन कवरीभारबन्धनेन जगदवगमिष्यति—''नारी कोमलहृदया भवेत्, न तु दुर्बला। हे कृष्ण, मम प्रतिज्ञापूरणे यदि त्वं सहायको न स्यास्तर्हि तवेयं रमणीया सृष्टि: पापभारेण नचिरान्नङ्क्ष्यति।
मम दृढप्रतिज्ञापूर्णवाक्येन कृष्ण: प्रीतो बभूव, प्रतिश्रुर्तिं च ददौ—''कृष्णे, तवेयं प्रतिज्ञा यथार्था। यैस्त्वमपमानिता, यै: सलालसदृष्ट्याऽलोक्य पापं प्रोत्साहितं, ते सर्वे युद्धभूमौ त्वद्भर्तुरर्जुनस्य शरैर्विनाशं भजिष्यन्ति। महासमरे धृष्टद्युम्नो द्रोणाचार्यं नाशयिष्यति, शिखण्डिद्वारा पितामहो भीष्मो हनिष्यते, भीमसेनगदाप्रहारेण दुर्योधनस्योरुभङ्ग: सम्भविष्यति, धनञ्जय: कर्णस्य वक्षो भेत्स्यति। त्वत्कारणादनेकक्षत्त्रक्षय: पृथिव्यामवश्यम्भावी। कुरुसभायां तव लाञ्छनाया: परं धरित्री निश्चयेन महासमरोन्मुखिनी। अन्यथा भविष्यदि पापमसीमतां यास्यति। काले काले दुष्टानां विनाशेन धरित्रीहृदयं रक्तरञ्जितं भवति। आकाशं भूपतितं स्यात्, हिमाचलो रसातलगामी सम्भवेत्, सूर्यचन्द्रौ भूमौ पतेताम्, भूमण्डलं च शतधा विदीर्यताम्, परन्तु तव प्रतिज्ञापूरणाय दुष्टनिधनकर्मणि पाण्डवानां सहायतायां किञ्चिदपि त्रुटिं न करिष्यामि। सखि, अलं शोकेन। मम प्रतिश्रुति: कदाचिदप्यन्यथा न भवति, न च भविष्यति।’’
प्रवासबेलोपस्थिता। माता कुन्ती दु:खेन परिभूता। पितृहीनानामबोधबालकानां सुखाय राजनन्दिनी पाण्डुपत्नी कुन्ती कियद् दु:खं न सेहे! स्वपत्यू राजत्वेऽपि धृतराष्ट्रस्येर्ष्यया राजसुखवञ्चिता कुन्ती वनवासदु:खमपि ववार। अरण्यवासकालेऽपि सा स्वपतिनाशं प्रत्यक्षीचकार। पुत्राणां शिक्षासमाप्ते: परं पुन: प्राणरक्षायै मुखं गोपयित्वाऽरण्येषु साऽऽट। मम पुत्रवधूत्वेनागमनात् परं लक्ष्मी: प्रससाद। माता कुन्तीदं मेने यदद्यारभ्य सुतानां सुखं विलोक्य प्राणान् विस्रक्ष्यतीति। परन्तु सुखं यथा तया सहाहरह: वैराय प्रतिज्ञाबद्धम्। सम्प्रति तत्सुता: सह पुत्रवध्वा त्रयोदशवर्षात्मकं वनवासं गच्छन्ति। अज्ञातवासकाले च तेषां सन्धानप्राप्त्या पुन: द्वादशवर्षात्मको वनवास:। को जानाति, पुत्रशोकपीडिता राजा दशरथ इवान्त्ये पुत्रमुखान्यदृष्ट्वा प्राणान् त्यक्ष्यतीति! माता कुन्ती स्वपुत्राणां कृते व्याकुलिता, अहं तु मम पञ्चपुत्राणां कृते।
अद्यापि मे कनिष्ठौ पुत्रौ स्तन्यं पिबत:। त्रयोदशवर्षाणि तान् विहाय कथं बत जीविष्यामि? तान् मया सह नेतुमुपायो नास्ति। सुभद्रान्तिके ते स्थास्यन्ति। सुभद्रानिकटे ते सुखेन वत्स्यन्तीति नास्ति सन्देह:। भद्राऽत्यन्तं सुशीला स्नेहशीला च। अभिमन्युर्यथैव मे प्रियस्तथैव मे सुतास्तस्या:। मम भद्रायाश्च सन्ततिषु किं वा पार्थक्यम्? पञ्चपाण्डवानां जनन्यौ कुन्तीमाद्र्यावपि यथा ते कुन्तीहृदि समानास्तथैवावयोस्तनया नौ लब्धतुल्यवात्सल्या:। सुभद्रा तनयान् नीत्वा श्रीकृष्णेन सह द्वारकां प्रस्थास्यति। मातुलालयं यास्यन्तीति तेऽपि मुदिता:। शिशवो द्वारकायां स्थास्यन्तीति सख्यु: कृष्णस्य मनस्यानन्दोऽसीम:। परन्तु कथं मे मन: स्थिरीभवतु? बालकानां मुखदर्शनं विना वनवासक्लेश: शतगुणतां यास्यतीति मदन्य: कोऽपि ज्ञातुं न प्रभविष्यति। यदि मम दु:खं काऽप्यवगच्छेत्, सा केवलं माता कुन्ती।
माता कुन्ती दु:खेन मां प्रबोधयति—''वत्से, कृष्णे, त्वं सती, साध्वी, विद्यावती च। स्वस्वभावगुणैरुभयकुलमुखमुज्ज्वलीकृतं त्वया। कथं वा त्वां सान्त्वयिष्यामि? मम पुत्रान् प्रति दु:खेनाभिमानेन वाऽवहेलां मा प्रदर्शयितुमर्हसि। अनतिक्रमणीयं हि भाग्यलिखितम्। अतो युधिष्ठिरस्य दोषो न मन्तव्य:। भीमोदरक्षुधा ध्यानेन समाधेया। नकुलसहदेवौ प्रत्यधिकतरा बद्धादरा स्या:, यतोहि तौ कनीयांसौ, स्वभावत: स्नेहकामिनौ च। अन्त्येऽपर एकोऽनुरोधो मे यत् क्षन्तव्य: कर्ण:। कर्णेन यो व्यवहारस्त्वां प्रति प्रदर्शित:, सोऽत्यन्तं दु:खदायक:। सङ्गदोषात्तस्यैवमाचरणम्। तवाचलप्रतिज्ञा मे हृदि गभीरमालोडनं सृजति। तव प्रतिज्ञाऽवश्यं यथार्था। परन्तु कर्णो निर्दोष:। आबाल्याल्लब्धलाञ्छनाकारणात्तस्यैवमाचरणम्, अन्यथा स्वभावत: सोऽत्यन्तं भद्र: सुशीलश्च। मा तं प्रति मनसि वैरं कुर्या:। अन्तत: स तु मे धर्मपुत्र:।’’
माता कुन्ती समुच्छलितनयना बभूव। अहं विस्मयाभिभूता मातृहृदययन्त्रणां विज्ञातुं प्रयेते। मातृहृदयोदारता मे मनसि पुन: कर्णं प्रति संवेदनासूक्ष्मसरणीं समुदतोलयत्। अहं निरुत्तरा तूष्णीं स्थितवती।
विदुरभवने मातोवास। कृष्णसुभद्रे शिशून् नीत्वा प्रतेस्थाते। प्रस्थानबेलायां कृष्णो मृदु हसन्नुवाच—''पाण्डवेभ्य: प्रचुरेर्ष्योत्पद्यते। त्वां स्त्रीरत्नभूतां सहैव नीत्वा वने निश्चिन्तभ्रमणं परमसौभाग्यस्य विषय:। ममानुजा सुभद्रा सम्प्रति त्रयोदशवर्षाणां विरहं वृतवती। अत: सखि, त्वमेव सौभाग्यवती। युष्माकं सुखांशभाग् भवितुमहं मध्ये मध्येऽरण्यकुटीरे वोऽवश्यमागमिष्यामि। सखि! तव स्वहस्तपाकमनास्वाद्य कथं त्रयोदशवर्षाणि यापयिष्यामि? तेनैतेन लोभेनाहं पाण्डवानामतिथिर्भवामीति सर्वे जानन्ति।’’
अहमपि सानन्दमब्रवम्—''सखे! मयापि तुभ्यं स्वनिर्मितभोजनपरिवेषणे आनन्दोऽपारोऽनुभूयते। मम हस्तस्पर्शेण खाद्यममृतायत इति त्वयैकदाऽभिहितम्। तदेव कस्याश्चिदपि गृहिण्या अतिथिपरायणाया: सौभाग्यं नाम। नारी नामान्नदात्री। स्ववक्षसोऽमृतदानशक्ति: केवलं नार्या एवास्ति, न तु पुरुषस्य। अत: कमप्यतिथिं यथेच्छभोजनेन तर्पयन्ती नारी सहजमानन्दमनुभवति। अमृतदानशक्तेर्नारीजातिर्धन्या, तत्स्रष्टाऽपि धन्य:। हे केशव! अवश्यमहं त्वां प्रतीक्षिष्ये। मध्ये मध्ये तवातिथेरातृप्तिभोजनेन दूरस्थाऽहं स्वसन्ततिभोजनतृप्तिसुखमनुभविष्यामि। शिशवोऽतिथय ईश्वरश्च मद्दृष्टौ समाना एव।’’
कृष्ण: सस्मितमाह—''सखि! नाहं ते शिशुरतिथिरीश्वरो वा। अहं तु तव सखा। त्वमपि मे सखी। मनुष्याणां परस्परसम्बन्धात् परतरोऽस्माकं सम्बन्ध:। सम्बन्धस्यास्य संज्ञानिरूपणं मनुष्यज्ञानशक्तिभ्यां बहि:। स एव म आनन्दो नाम।’’
सखा प्रस्थित: पुनर्दर्शनं प्रतिजानन्। हस्तिनाराजमार्गेऽस्माकं वनगमनदृश्येन पुरवासिनो रुरुदु:, शतशतसङ्ख्याभिश्चास्माभि: सह वनं प्रस्थातुं स्वस्वगृहाणि सन्त्यज्य बहिरागता:। युधिष्ठिरस्तान् प्रबोध्य पितामहभीष्मधृतराष्ट्रगान्धारीकुन्त्यादीनां सेवायायनुरुध्य च निवर्त्तयामास। पुरवासिष्वनेके ब्राह्मणा: निवृङ्क्षत्त युक्तां न मेनिरे। यस्मिन् राज्ये धर्मो नास्ति, तत्र ब्राह्मणानां धर्मं जीवनं च प्रति प्रतिपदं विपदवश्यम्भाविनीति विज्ञाय युधिष्ठिरस्तान् बलान्न निवर्त्तयामास। अरण्य एतावतां विप्राणां पोषणं सर्वथाऽसम्भवमिति चिन्तितो युधिष्ठिरो धर्मदेवं सूर्यमस्तौत्। सन्तुष्टो दिनकरस्ताम्रनिर्मितमेकमक्षयपात्रं तत्करे प्रदायोवाच—''क्षुधार्त्तेभ्य आहारदानं श्रेष्ठं दानमेव। यतोहि तेन जीवनरक्षा भवति। अक्षयपात्रेऽस्मिन् द्वादशवर्षाणां खाद्यानि सन्ति। अस्मिन् पात्रे पाचनात् परं यावद् द्रौपद्यभोजना, तावत् बहुभिस्ततो भुक्तमपि तथा तद् भोजनपूर्णमेव भविष्यति। परन्तु द्रौपद्या: स्वभोजनाय परिवेषणात् परं पात्रात् तस्यैव दिवसस्य खाद्यं समाप्तिं यास्यति।’’
सूर्यदेवं प्रणम्याक्षयपात्रेण सह सब्राह्मणैरस्माभि: काम्यकवनयात्रायै सशान्तचित्तं स्थिरीकृतम्। अभुक्तायाहारदानाय ममाक्षयपात्रमस्तीति राज्यधनसम्पत्तिप्रतिपत्त्यादीनां मोहोऽत्यन्तं तुच्छ: प्रतीयाय। सम्प्रति समग्नारण्ये मनुष्यपशुपक्षिकीटपतङ्गादिषु न कोऽपि निराहार: स्थास्यतीति मे दु:खवद्हृदयमानन्देन तृप्त्या च परिपूर्णमभूत्।
वनचरवेशेन पञ्चपाण्डवा हस्तिनाराजमार्गे वनाय प्रतिष्ठन्ते। अहमपि तै: सहाधोमुखी सञ्चरामि। साश्रुनेत्रा राज्यवासिनोऽस्मासु पुष्पाणि वर्षन्ति। पुरनार्य उद्गतमावेगं गोपयित्वा मङ्गलध्वनिं कुर्वन्ति। गुरुजनाश्च नानामन्त्रपाठै: पाण्डवमङ्गलं कामयन्ते। केचित्तु स्वस्वामूल्यद्रव्याणि उपहरन्ति न:। साञ्जलिर्युधिष्ठिर: सविनयमभिधत्ते—''भवतां स्नेह एवास्माकं पाथेय:। उपहारस्वीकाराय वयमक्षमा:। सर्वस्वं सन्त्यज्य वनाय प्रस्थिता वयं भवतां मूल्यवन्ति वस्तूनि कथं ग्रहिष्याम:? एषां सर्वेषामधिकारी तु राजा दुर्योधन:। भवन्तोऽस्मभ्यमुपहर्तुमिच्छन्तीति पर्याप्तम्।’’
मार्गस्य किञ्चिदतिक्रमणात् परं पथमध्ये कतिपयपरिचारकै: सह कर्णदु:शासनौ प्रतीक्षमाणावपश्याम। अचिन्तयाम यत् प्रायेण सर्वान् द्वेषान् विस्मृत्य स्वत्रुटिं स्वीकर्त्तुं प्रतीक्षते दु:शासन:। विरहस्य सुफलमिदं यत् स सर्वान् विद्वेषान् प्रक्षालयतीति।
दु:शासनेन न: पथरोधोऽकारि। युधिष्ठिरस्तदंशे हस्तं निवेश्य स्नेहसजलकण्ठेनावोचत्—''अनुज! सर्वं विस्मर। गृहे भ्रातृणां परस्परं क्नोधरोषाभिमानादय: स्वाभाविका:। समय: पुन: सर्वं समाधत्ते। दूरत्वमदर्शनं च विच्छिन्नान् निकटतरीकुरुत:। त्रयोदशवर्षेभ्य: परं पुनर्वयं सर्वं विस्मृत्य नेदीयस्त्वमनुभविष्याम:। कृष्णा प्रायेण तदा सर्वं विस्मरिष्यतीत्याशासे। सुखेन निवस। वृद्धपित्रो:, पितामहस्य, मातु: कुन्त्याश्च भारं स्वीयं जानीहि।’’
दु:शासन: साट्टहासं सव्यङ्ग्यं चोवाच—''त्वं वाक्यव्याहारे खलु वीरोऽसि, न त्वन्यस्मिन्। कियत् सुमधुरं वाक्यम्! चिन्तयसि किं त्वन्मधुरवाक्येन सर्वं विस्मरिष्यामीति? यूयं सह किं किं द्रव्यं नयथेति निरीक्षितुमत्र वयं प्रतीक्षमाणा:। प्रत्येकं वस्त्रमेकं, स्वास्त्रं च विनाऽन्यदपि किञ्चित् सह न नेतुमर्हथेति राज्ञो दुर्योधनस्य निर्देश:।’’
युधिष्ठिर: स्मितेनाह—''किमर्थमियता कष्टेन प्रतीक्षसेऽनुज दु:शासन!? राज्ञो दुर्योधनस्याज्ञाऽस्माभिरक्षरश: स्वीकृता। पश्य, अस्त्रवस्त्रे विना न किमप्यन्यदस्मास्वस्ति। कर्णकुण्डलानि, गलहारा:, कङ्कणानि, मुद्रिकादयोऽस्माभिर्भण्डारगृहे संन्यस्ता:।’’
दु:शासनोऽपि साट्टहासं जगाद—''त्वं साधुरिति न मे सन्देह:, परन्तु भीमे कदापि न विश्वसिमि। स स्वस्मै किञ्चिद् खाद्यं वस्तु न नयतीति को जानाति?’’
अहं कठोरकण्ठेन प्रत्यवदम्—''कोटिजनानां कृते भूरिभोजनदानेन सन्तोषलब्धये पवित्रा क्षमता सूर्यदेवेनास्मभ्यं प्रदत्तेति भीमसेन: पुन: हस्तिनापुरीत: खाद्यमुष्टिं सह कथं नयतु?’’
''परन्तु प्रकृतिदोषोऽपरिहार्य: किल’’—इति ब्रूवन् दु:शासनोऽस्माकमस्त्राणि सम्यक् निरीक्ष्य मार्गं ददौ।
वयमग्रेसराम:, पश्चाद् दु:शासन आदिशत्—''तिष्ठ याज्ञसेनि! मद्दृष्टौ धूलिप्रक्षेप: सम्भव:, परन्तु, न: मित्रस्य कर्णस्य दृष्टौ स न सरलो व्यापार:। धिक् राजकन्यायास्तव क्षुद्रालङ्कारप्रलोभनम्। यदस्तु नाम, तव तु नारीस्वभाव:। पतीनामाभूषणक्रयायापारगत्वं विज्ञाय ते मनसि तल्लोभ: स्वाभाविक:।’’
अहं स्थिरीभूता। मम वक्षसो मणिहारं, करयो: कङ्कणानि, कर्णपुष्पे, विवाहाङ्गुरीयकं च वारं वारं निरीक्षमाण: कर्णो धीरस्वरेणावादीत्—''सर्वानलङ्कारान् विहाय वस्त्रमेकमात्रं परिधाय राज्यसीमातिक्रमणाय महाराज्ञो दुर्योधनस्यादेश:। अन्यथाऽस्मान् मा चिन्तय। वयं तु केवलमाज्ञाकारिण:।’’
अहं शान्त्यावोचम्—''भवन्तं प्रति न द्वेक्ष्यामीति मातु: कुन्त्या: पुरस्तान्मे प्रतिज्ञा। भवान् मातुर्धर्मपुत्र:। अतो भवान् नमस्योऽस्माकं प्रियश्च। अहं सधवा नारी। मायानिवारणकारणादेतान्याभूषणानि मया परिहितानि। एतदर्थं मया मातुर्गान्धार्या अनुमतिरपि गृहीतपूर्वा।’’
''गान्धारी राजमाता। परन्तु वयं राजनिर्देशं पालयाम:।’’—गम्भीर: कर्णोऽब्रवीत्।
दु:शासनो मत्पुरस्तात् कार्कश्येनोवाच—''बलात्कारात् पूर्वमलङ्कारानर्पय सुन्दरि! निरलङ्कारतयाऽपि ते सौन्दर्यं न न्यूनीभविष्यति।’’
मायानितम्बिन्यौ मामनसृत्यागते। तदानीं माया मच्छरीरात् सर्वाणि आभूषणानि निस्सारितवती। किं बहुना, मन्नासाग्रपुष्पमपि निस्सारयितुमहं निरदिशम्। नितम्बिनी पुष्पैस्तन्मालाभिश्च मम शरीरं मण्डितवती। सुमधुरं चाभाषत—''सखि! त्वं ऋषिकन्येव पवित्राऽनिन्द्या च प्रतीयसे। ते पथरोधाय प्रतीक्षन्त इति विज्ञाय मया पूर्वं पुष्पालङ्कारा: प्रस्तुता:। माया तु मायाविनी। तदाग्रहाश्रवणेन तेऽपमानमेवं नाभविष्यत्।’’
कोमलपुष्पकलिकामालाभिराभूषितं मे शरीरं कथं दृश्यत इति यद्यप्यहं स्वयं न विलोकितुं शक्नोमि, तथापि मामेवावलोक्य मत्पतय: प्रमुदिता इति स्वयमहं स्वीयमनिन्द्यं रूपं मनसा परिकल्प्य मोदे। अर्जुनो मामुपसृत्य कर्णेऽभाषत—''रूपेणानेन त्वमेवं सुन्दरी दृश्यसे इति विज्ञाय त्रयोदशवर्षाणां स्थाने त्रिशतवर्षाणां वनवासमङ्गीकर्तुमभिलाषो मनसि जागर्ति। धातुनिर्मिता अलङ्कारा नूनं ते शरीरं क्लेशयेयु:। पुष्पालङ्कारा एव समुचितास्तुभ्यम्।’’
अहं लज्जयाऽऽनन्देन च प्रियजनप्रवासदु:खं व्यस्मरम्। हठादपश्यम्—कर्णो मुग्धदृष्ट्या लयेनैकेन मामेव पश्यति। नयने निर्निमिषे। तस्यां दृष्टौ कुत्सितकामनाया न दहनशिखा, अपितु मधुरकरुणममताया: स्तिमिता शिखा काऽपि प्रस्फुटति सङ्गोपनेन, कुण्ठितावेगेन च। अकस्माच्चमत्कृतं हृदयम्। पुनरात्मानं धिक्कृतवती। य: स्पन्दरोधिनोऽपमानस्य कारणम्, तस्य मुग्धा दृष्टिरेखा मामान्दोलयितुमपि क्षमा! धिक्, किं मे किञ्चिदप्यात्मसम्मानं नास्ति?
अवज्ञाकटाक्षेणेषद् तं विलोक्य अहमग्रेसरम्। दु:शासनकर्णौ पुनरस्मान्ननुसरन्तौ बभूवतु:। पुरनारीणां मध्ये गुरुपत्नी हरिता, कर्णपत्नी ऋतुमती च पथि अर्घ्यपात्रमादाय प्रतीक्षमाणे आस्ताम्। हस्तिनापुर्या अन्तिमसीमानं वयं प्राप्ता:। निर्गमनसंवर्धनाज्ञापनाय पुरनार्य: प्रतीक्षन्ते।
गुरुपत्नी हरिता मां हृदयेनाश्लिष्यारुदत्। अवदच्च—''कृष्णे! पतिर्मे कृपया क्षन्तव्य:। स गुरुब्राह्मणोऽपि सन् समुचितं नाचचार। सभास्थले तवापमानस्य नीरवसमर्थनेन तस्य समस्तं पुण्यं क्षयं गतम्। तवाभिशापेन तद्वंशनाश: सम्भविष्यतीति विज्ञायापि कौरवाणां सोऽन्नं भुङ्क्त इति पुरस्तादन्यायं पश्यन्नपि तूष्णीमुपविवेश। तस्य सर्वमपराधमहं स्वीकरोमि। कृपया मेऽश्वत्थामा पुत्र एकल मा शप्तव्य:। अहं ते मङ्गलं कामये। मम नि:सङ्गजीवनस्यान्तरङ्गसखी त्वमेव। तव वनवासो मह्यं कियान् कष्टदायक इति त्वं स्वयमेव ज्ञातुमर्हसि।’’
अहमपि हरिताया हृदये मुखं संन्यस्याश्रुबिन्दून्नमुञ्चम्। अभाषे च—''प्राणसङ्गिनि हरिते! तव सुतोऽश्वत्थामा ममापि पुत्रतुल्य:। अहं तवापि मङ्गलं कामये। किन्तु सखि! गुरुं द्रोणं क्षन्तुं काऽहम्? अहं त्वेका नारी—विदुषां ज्ञानवतां च दृष्ट्या तु नार्या: काऽपि निजस्वसत्ता नास्त्येव। नार्याश्च मानापमानव्यक्तिमहनीयतादयो न सन्तीति कुरुसभायां मे लाञ्छनया तत् प्रमाणीकृतम्। मनुष्यस्य समस्तकर्मणां विचारक ईश्वर:। यो मया क्षन्तव्य: सोऽपीश्वरेणेति तु न प्रमाणम्।’’
मम वक्तव्यं न समाप्तम्, ऋतुमती मां हस्ताभ्यां धृत्वोवाच—राज्ञि! कृष्णे! तव हृदयज्वलनमवगच्छामि। यतोहि अहमप्येका नारी। मम पत्या याऽभद्रता प्रदर्शिता, तदर्थं स भूयान् दु:खित:। स आत्मानं भृशं धिक्करोति। महासमरे तन्मृत्युरवश्यम्भावीति तत्पापप्रायश्चित्तं वारं वारं ब्रूवन् मां रोदितवान्। कदाचिन्मे पत्युर्महनीयतां त्वमुपहसे:। परन्तु विश्वसिहि—कौरवाणां मध्ये तस्य व्यक्ति: परिवर्त्तते। तव स्वयंवरसभायां तदपमानज्वाला कौरवाणां मध्ये तस्य हृदये विवर्धते। तस्यामानुष्यं च जायते। तेनापराद्धमिति वेद्म्यहम्। तथापि तत्पत्नीरूपेणाहं क्षमां प्रार्थये। ऋतुमती अस्राण्यमुञ्चत्।
अहं शान्त्याऽवदम्—''मात्रा कुन्त्या प्रतिज्ञाताऽहं तद्धर्मपुत्राय कर्णाय विद्वेषं नाचरिष्यामीति। कदाचिदपि नाहं मात्राज्ञाया बहिर्गता। तदादेशवाक्यमात्रेण मया पञ्चपतयोऽङ्गीकृता:। अत: कुरुसभायां कर्णेन भृशं निन्दिताऽपि नाहं लज्जिता। सुखेन तिष्ठ ऋतुमति! तव पतिपुत्राणामभ्युदयो भवतु।’’
अवलोकितं मया यद्दूरे कर्ण आवयोर्वार्त्ताविनिमयं शृणोति, तद्दृष्टिरपि वाष्पाकुला।
ऋतुमती मां हस्तेनाकृष्य रुणद्धि। तत्सहचर्य: सहानीतादर्घपात्रात् सज्जितान्मूल्यवतोऽलङ्कारान् निस्सार्यैकैकशो मां मण्डयितुमुपक्रामन्ति। सर्पाहतेवाहमकस्मादब्रवम्—''किमेतत्? एतावन्तोऽलङ्कारा: किमर्थम्? का नामाऽऽवश्यकता वनचारिण्या अलङ्कारै:?’’
ऋतुमती सविनयमुवाच—''समस्तैरलङ्कारैस्त्वन्मण्डनाय मम पत्यिर्नर्देश:। त्वं तदनुजवधू:। श्रीहीनारूपेण तव बहिर्गमनं तदपमानाय। एष्वलङ्कारेषु राज्ञो दुर्योधनस्य न कोऽप्यधिकार:। एते सर्वे कर्णस्यैव। दु:शासन: सर्वानेतान् ते शरीरान्निस्सारयिष्यतीति विज्ञाय कर्णेनैतदर्थं मह्यं समाचार: प्रेषित:।’’ कर्णस्यान्तरङ्गपरिचारिकाऽस्मिता साहङ्कारमाह—''अनेन सामान्यदानेन विस्मिता मा भवितुमर्हसि राजनन्दिनि! दाता कर्ण: स्वसर्वस्वं, किं बहुना, स्वजीवनमपि अकुण्ठं प्रदातुं समर्थ:।’’
अहं श्लिष्टस्वरेणावोचम्—''मद्देहात् सर्वानलङ्कारान् निस्सारयितुं प्रेरयत: कर्णस्य स्वालङ्कारै: प्रतीक्षादेशो दातृत्वस्य चरमं निदर्शनम्। किन्तु ऋतुमति! इयमलङ्कारसम्पति: कर्णस्य न स्वार्जता। यतोहि कर्ण: स्वपुरुषकारेण नाङ्गदेशराज:। तन्मस्तकशोभितं राजमुकुटं पापात्मनो दुर्योधनस्य दयादानमेव। अत: दुर्योधनस्येदं धनं नाहं स्वीकर्त्तुं शक्ष्यामि। तथापीदं न विस्मरामि, स्थाने कर्णस्य दातृत्वं परीक्षिष्यते। मदर्थमयं क्लेशोऽङ्गीकृत इति साधुवादा:।’’
मद्वाक्यैरपमानेन कर्णो म्लानो बभूव। कर्णापमानेन दु:शासन: प्रज्वलन् प्रालपत्—''अहह, महाराजो द्रुपदो याज्ञसेनीं रत्नभूतां नपुंसकतुल्येभ्योऽसमर्थेभ्य: समर्प्य महान्तमपराधं कृतवान्। सम्प्रति भिक्षुकैरेभि: सह दीनहीनवेशेन याज्ञसेन्या वनगमनदृश्यं विलोक्य स कदाचित् पुनरङ्गराजाय वीरपुरुषाय कर्णाय स्वकन्यामेनां समर्पयितुमिच्छेत्। राजनन्दिनि! त्वं सम्प्रति भिक्षुकान् पाण्डवान् परित्यज्य वित्तवन्तं कर्णं, कमप्यन्यं वाऽङ्गीकुर्या:। यदि पञ्चपतिवरणेनापि ते सतीत्वं सुस्थिरं तर्हि पतित्वेन कस्याप्यन्यस्यैकस्य वरणेनापि तेऽखण्डं सतीत्वं क्षुण्णं न स्यात्। त्वादृशी वराङ्गना केवलं भोग्या राज्ञै:, न तु भिक्षुकै:।’’
दु:शासनस्य कुत्सितेन मन्तव्येन क्रुद्धो भीमसेनो जगर्ज—''अरे मूर्ख! तवास्फालनं क्षणस्थायि। एवमपमानजनकैर्वाक्यै: कुललक्ष्म्या राजलक्ष्म्याश्च द्रौपद्या: कोमलहृदये यथा क्षुरिकाघात: कृतस्त्वया, तथैव ते हृदयं विपाट्य तद्रुधिरेण राजलक्ष्म्यायर्घ्यं समर्पयिष्यामि, ये च त्वद्वाक्यानि समर्थयन्ति तांश्च यमालये प्रेषयिष्यामि।’’
युधिष्ठिरो भीमं हिंसाक्रोधादीन् परिहृत्य स्थिरशान्तचित्तेन यात्रायै प्रबोधयामास। अहमपि ज्ञातवती यद् यदि भविष्यति कोऽपि मे सम्मानं रक्षेत्, तर्हि सोऽयं स्पष्टवादी, निर्मलहृदय:, क्षणकोपो भीमसेन एव। य: स्वगृहलक्ष्मीमर्यादासंरक्षणासमर्थ:, युद्धं चापाकर्त्तुं राजमर्यादासुरक्षाऽसमर्थो वैराग्यमहिंसाव्रतं चावलम्बते, स धर्मात्मा सन्नपि कापुरुष एव। तादृश: पुरुषो भक्तियोग्य:, न तु प्रेमयोग्य:।
(२९)
उदारा प्रकृतिर्यत्र स्वयं विस्तीर्णा जगज्जीवनाय, तत्र मनुष्यस्य सङ्कीर्णता स्वार्थपरता च कियत्यौ न्यून इत्यहमन्वभवं काम्यकवने प्रविशन्ती। गङ्गानद्यास्तीरे तीरे दिवसत्रयपथश्रमात् परं कुरुजाङ्गलदेशस्य काम्यकवने वयं समागता:। काम्यकवनस्यापूर्वशोभयाऽस्माकं क्लान्ति: समस्ता दूरीभूता।
दीर्घवेणूनां चमत्कारिपटान्तराले सलज्जा काऽपि किशोरी निलीयमानाऽस्मत्, सहास्माभिर्बहुदूराच्चलति। कदाचित् बातेरितवेणुपत्राणां सन्धौ दृश्यते तस्या: क्षीणा च्छन्दोमयी तनुवल्लरी, परक्षणे चारण्यस्य हरित्पटान्तरिता निलीयते। अस्माभि: साकं बन्धुत्वाय तस्या अदम्य आग्रह:, परन्तु लज्जाऽपि घोरा। श्रूयेते तद्धास्यकलनाद:, पदपातच्छन्दश्च। पुनररण्यनिर्जनतायां दीर्घीभूय मुहुर्लीयते तत्स्वर:। चिराद्वयं तां निरीक्षामहे। परन्तु सा नायाति नियन्त्रणे। मम चरणयोर्यात्रावशतायां युधिष्ठिरो मां प्रबोधयति—''पश्य, अनादिकालादरण्यबन्धुरमार्गेऽज्ञातसुदूरजन्मस्थलात् प्रवहति गिरिकन्याऽविश्रान्ता तन्द्रावती। सा तु नावशा। लक्ष्यं तस्या: सागर:। सागराय प्रवहन्ती कठोरां प्रस्तरितां वनभूङ्क्षम चिरश्यामलां सम्पादयति। इदं हि जीवनम्। जीवने लक्ष्यस्थलमभिसरन् मनुष्यो यदि स्वबन्धुपरिजनदेशसमाजजगज्जनानां च कल्याणं न साधयति, तर्हि किं तज्जीवनेन? किं मूल्यं तद्देहधारणेन? नद्या: मधुरं जलं तृष्णां निवारयति, न तु सागरस्य लवणाक्तजलम्। यद् वैभवमन्यस्य दारिद्र्यं न दूरीकुरुते, किं तेन वैभवेन? दुर्योधनोऽद्य हस्तिनेन्द्रप्रस्थाधीश्वर:। परन्तु प्रजामङ्गलं यदि तद्व्रतं न स्यात्, तर्हि को लाभ: सिंहासनलाभेन? याज्ञसेनि! द्वादशवर्षाणां वनवासकाले प्रकृत्या याऽस्माभि: शिक्षाऽवाप्स्यते, सा पुस्तकविद्याया महत्तरा भविष्यति। आनन्ददायिनी च स्यात्। ईश्वरस्य मङ्गलोद्देश्येन निश्चयेनास्माकं वनवास:।’’
कीचकानां घनत्वान्तराले निर्झरिणीमिमां विलोक्याहं युधिष्ठिरस्योक्तिसत्यतां मनसोपालभे।
अरण्यस्य हरिद्वर्णोपरि सुनीलाकाशचन्द्रातप:। आकाशं किमियन्नीलं सम्भवेत्? आकाशनीलिम्नोऽपि घनतराऽऽकाशचन्द्रातपस्य सूक्ष्मशाटिकेव तरङ्गायिता पर्वतश्रेणी। नीलाकाशनीलपर्वतयो: परस्परं प्रतिस्पर्धिता। आकाशात् पर्वतनीलिमा घनतर इति पर्वताग्रे आकाशं कतिपयधवलमेघशकलान् प्रलिम्पति। योगाविष्टमहर्षे: शरीरे भस्मरेखेव मनोहरा दृश्यते श्वेताभ्ररेखा। योगाविष्टपर्वतस्य ध्यानभङ्गाय पत्रपुष्पनता अगणिता: पादपा नर्त्तका इव वृष्टेरनुतालं नृत्यनिमज्जिता:। परन्तु पर्वतस्य ध्यानं न भज्यते। मेघभस्मानि पादोदकमिश्रितानीव निपतन्ति योगाविष्टपर्वताग्रात् पृथिव्यामाशीर्वादरूपेण।
वनपक्षीव मेघोऽत्र बन्धनमुक्त:। स्वेच्छयेतस्ततो भ्रमत्यभ्रखण्डो जीवनस्यार्थमन्विषन्।
अदूरदृश्यमानां शावरपल्लीं मेघ आवृणोति, कदाचिदाकाशस्य लोभातुरा दृष्टि: सुसुन्दरे कुण्डलिते पत्रकुटीराणां ग्रामे न पतत्वित्याशयेन।
घनवनमध्ये क्षुद्रा: शवरपल्ल्य:—भिन्नप्रकारका: पादपलता: परस्परमाश्लिष्यारण्यश्यामलिमानं निविडं कुर्वन्ति। अत्र वृक्षेषु, पुष्पेषु, फलेषु च रूपगुणादिभि: परस्परं भेदो नास्ति। प्रशस्ता प्रकृति: स्वयं विस्तारयति संहतिमैत्रीवार्तां प्रसारयन्ती। कठोरभूमौ वृक्षाणामालोकलिप्साऽसीमा। सूर्यं स्प्रष्टुं सर्वे दीर्घा:। परन्तु नान्यं खर्वीकृत्यैते दीर्घा:। अत्र सर्वे स्वस्थाने गरीयांस:। सर्वे दीर्घा:, सूच्चा:, बलिष्ठाश्च। परन्तु मानवोऽन्यं गौणीकर्तुमन्यायाधर्ममार्गमाश्रयते। अस्य प्रकृष्टं प्रमाणं कौरवाणां पाण्डवमारणनीति:।
विजनताया मोहनमन्त्रेण वयं मुग्धा:। युधिष्ठिरो दार्शनिक: परिणत:। अर्जुनस्य कवित्वपूर्णं नयनद्वन्द्वं सुन्दरतरं प्रतीयते। भीमसेनो मन्यते यत् न कोऽप्यधीश्वरोऽस्मदतिरिक्तोऽत्र। नकुलो निर्झरिणीजले स्वरूपशोभां निरीक्षते। सहदेवोऽरण्यदिशं निर्णीय भाविकर्मपथं मनसा स्थिरीकुरुते।
अहं मुग्धस्वरेणावोचम्—''वनवाससमये द्वादशवर्षाणीह काम्यकवने निवत्स्याम:। तन्द्रावतीनिर्झरिण्या: कूले कूले कुटीरं निर्माय शान्त्या कालं यापयिष्याम:।’’
युधिष्ठिर: सहदेवस्य मतं जिज्ञासितवान्। सहदेव: स्थिरकण्ठेनाह—''वनचारिणां कृते काम्यकवनं सर्वत: सुखप्रदं स्यात्, यदि किरातवंशधरा अत्र न स्यु:।’’ युधिष्ठिर: साश्चर्यमपृच्छत्—''का क्षतिस्तेषां वसत्या? वरं तै: सहास्माकं मित्रता सम्भवेत्। प्रवासदु:खं दूरीभवेत्। तै: सह वयमभिन्ना जीविष्याम:।’’
''परन्तु तेऽस्माभि: साकं मित्रत्वं नाचरिष्यन्ति। तेभ्यो भयान्मुनयोऽत्र योगसाधनायै नायान्ति। ब्राह्मणा: क्षत्रियाश्च किरातानामत्याचारभयादत्र काम्यकवने नैव प्रविशन्ति।’’
''किन्तु, ब्राह्मणक्षत्रियेभ्य: किरातानां कथं विद्वेष:?’’—अहमपृच्छम्।
सहदेव: स्थिरशान्तचित्तेनाभाषत—''किरातवंशधरो जारनामा कश्चित् कदाचित् शिक्षालाभाय द्रोणाचार्यस्य प्रार्थी बभूव। तदानीं दुर्योधनदु:शासनादय: कौरवास्तं परिजहसु:। राजपुत्राणां किरातपुत्राणां चैकत्र शिक्षालाभो राजपुत्राणामपमानायेति ते मेनिरे। कौरवाणां भयाद् गुरुद्रोणाचार्योऽपि तस्य शिष्यत्वमुपैक्षत। गुरुद्रोणात् प्रत्यावर्त्तित: स गुरोर्मृण्मयीं मूर्त्तिं निर्माय तत्पुरस्तादेकाग्रतयाऽस्त्रचालनामभ्यसन् तस्यां पारङ्गमो बभूव। समाचारमेनमाप्य तदस्त्रविद्यादक्षतया द्रोणाचार्य: प्रामाद्यत। निश्चयेनैकदाऽस्त्रविद्यायां कौरवान् पराजेष्यतीति गुरुर्भीतो बभूव, कौरवाणां सुरक्षायै च गुरुदक्षिणाच्छलेन सरलमतेर्गुरुभक्तस्यैकनिष्ठस्य छात्रस्य तस्य दक्षिणकराङ्गुष्ठं ययाचे। किरातकुलं प्रति कौरवाणामपमानं, द्रोणाचार्यस्य च दक्षिणाच्छलेन कुटिलाभिसन्धिं किं किरातकुलं विस्मरिष्यति? एतस्मादेव कारणात् ते समूलविनाशायार्याणां प्रतिज्ञाबद्धा:।’’
भीमसेन उवाच—''किन्तु शबरतनयं छात्ररूपेण स्वीकर्त्तुं युधिष्ठिरार्जुनौ गुरुवरं द्रोणाचार्यमनुरुरुधतु:। मानवा: परस्परं समाना:, अत: शबरा: ब्राह्मणक्षत्रियेभ्य: केनापि गुणेन नैव न्यूनतरा: इति पाण्डवा: गुरुदेवं प्रबोधयामासु:। तथापि द्रोणाचार्य: स्वनियोगरक्षायै अत्यन्तं ज्ञानवानपि मूढ इवाचचार। अत्र पाण्डवानां क्वापराध:? किराता इदं नावगच्छन्ति कुत:?’’
अर्जुन: सस्मितं जगाद—''उपकर्तु: शतमुपकारा: क्षणेन विस्मार्यन्ते, परन्तु नैकोऽपकार:, नैकमपमानं वा। किराता: पाण्डवानां शत्रव: कदाचिन्न स्यु:, परन्तु तेऽवश्यं क्षत्रियशत्रव:। शत्रूणां कवलाद् हस्तिनापुरीतो दूरमागत्य यद्यत्र पुन: शत्रुसंमर्द:, तर्हि आनन्द: कुत:? अत: अरण्यान्तरगमनमुचिततरं स्यात्। सुखेन तिष्ठेत् किरातकुलम्।’’
—''असम्भवम्। किरातानां भयात् स्थानमिदं त्यक्ष्याम:? सति भीमे किरतानामपि पराक्रम:?’’—भीमसेनो जगर्ज।
युधिष्ठिरोऽवादीत्—''हिंसाक्नोधौ दु:खकारणे, उभयपक्षाभ्यामहितकरौ च। हिंसालब्धेन विजयेन धनसम्पत्तिराज्यक्षमतादय: प्राप्यन्ते, न तु शान्तिप्रीत्यानन्दादय:। दुष्टनाशनाय विप्लव आवश्यक:। परन्तु विप्लवधाराया: सर्वदा हिंसापथे गतिर्नोचिता। शत्रुवशीकरणाय मन्त्रान्तरमप्यस्ति। तं मन्त्रं याज्ञसेनी जानाति। अत: काम्यकवने शान्त्या निवासं सैव चिन्तयतु।’’
युधिष्ठिरेङ्गितमहमवागच्छम्। सपरमादरमभाषे—''काम्यकवने उच्चनीचयो:, जात्यजात्योर्मथो भेदो न भविष्यति। एकलव्यं प्रति योऽन्याय आचरितस्तस्य प्रायश्चित्तमत्र करणीयम्। किरातानामार्यविद्वेषो यथार्थ:। परन्तु तेषु सख्यबन्धनशृङ्खलं परिधाप्यार्यार्येतरमहामिलनं कारणीयम्। मत्करेऽस्त्यक्षयपात्रम्। प्रत्यहं काम्यकवने किरातपाण्डवा एकत्र पङ्क्तिभोजनं करिष्यन्ति। अहं स्वयं खाद्यं परिवेषयिष्यामि।’’
''सर्वेषामुच्छिष्टपत्राण्यहं परिष्करिष्यामि।’’—सानन्दमाहार्जुन:।
''सख्युर्यच्छिष्य:’’ इत्यहं सस्मितं पर्यहसम्।
अकस्माद्दूरेऽश्रूयताकालवज्रपातस्य शब्द:। सहदेव उवाच—''नायं वज्रपात:, अयं तु किर्मीककिरातस्य रणहुङ्कार:। किर्मीक: काम्यकवनकिरातकुलदलपति:। स युवा, निर्भीक:, अमितपराक्रमवाँश्च। क्षत्रियब्राह्मणानां रुधिरं प्रति तस्याजस्रं लोभ:। अद्य सुयोगो लब्ध इति स कदापि नैव त्यक्ष्यति। अद्यास्माकं सर्वेषां जीवनं विपन्नम्। किर्मीको विशालान् पर्वतानपि उत्पाट्य समुद्रगर्भे निक्षेप्तुं समर्थ:। सम्प्रति भगवन्तं विना गत्यन्तरं नास्ति।’’
सहदेवस्य वाक्यं न समाप्तम्, भीमसेनो गदां भ्रामयन् किर्मीकरणहुङ्काराभिमुखं क्षणेन प्रतस्थे। सर्वे वयं स्तम्भीभूता: प्रतीक्षामहे। दूराच्छ्रूयते रणहुङ्कारस्य, परस्पराघातस्य च शब्द:। युधिष्ठिरो विषण्णोऽब्रवीत्—''वनवासस्य प्रथमदिवसे पवित्रा वनधरित्रीयं रक्तरञ्जिता भविष्यति। इतोऽधिकं दुर्भाग्यं किमन्यत् स्यात्?’’
''एतदतिरिक्तो न कोऽप्युपाय:।’’—अर्जुन उवाच।
युधिष्ठिर: सदीर्घश्वासमाह—''अहं जानामि यद् भीमसेन: किर्मीकस्य प्राणनाशमकृत्वा न त्यक्ष्यति। शत्रोर्जीवननाशेन शत्रुता न नश्यति। अद्य किर्मीकनाशेन श्व: कोऽप्यपर: किरातवीर उत्थास्यति। कदाचित् समग्रं किरातकुलमरण्यस्यैकत्रितमस्मदाक्रमणं करिष्यति। यदि भीमार्जुनपराक्रमेण काम्यकवनकिरातकुलं नश्येत्, तर्हि किरातकुलं क्षत्रियब्राह्मणानां चिराय वैरमाचरेयु:। पृथिव्यां द्वयो: सम्प्रदाययो: परस्परं विभेदो वर्त्तिष्यते। तेन न केवलं वयम्, अपि तु पृथिव्यपि विपन्ना स्यात्। किर्मीको यदि कदाचित् प्राणनाशाद्रक्षित: स्यात्, तर्हि चिराय पाण्डवकिरातानां मैत्री संस्थापिता सम्भवेत्। परन्तु भीमसेनकवलाद् किर्मीकं रक्षितुं द्रौपदीं विना कस्यान्यस्य सामर्थ्यमस्तु?’’
अहं युधिष्ठिराशयं ज्ञातवती। रणभूमिं ससाहसमधावम्। अपश्यम्—भूमौ निपात्य तं गदाप्रहारेण चूर्णीकर्तुमुद्यतो भीमसेन:। आहत: किर्मीक: साञ्जलि: प्राणान् याचमानोऽपि गदां भ्रामयता भीमेन भीमसेनेन न स त्यज्यते। क्षणेनैव मत्पुरस्तात् किर्मीकस्याहतस्य शरणागतस्य शत्रोर्विशालं शरीरं विचूर्णीभविष्यति। भीमसेनो गदां प्रहर्तुमुद्यत:, तदानीं सद्योऽहं सर्वं विस्मृत्य, जीवनलोभं च विहाय तदग्र आविर्भूताऽनुनीतवती—''प्रभो! रक्ष तम्, किर्मीकं त्रायस्व।’’ स्वबाहुबले भीमसेनस्य यदि तथा नियन्त्रणं नाभविष्यत्, तर्हि निमेषेणैव क्षुद्रं मे शरीरमणुपरमाणुवन्निश्चिह्नं समभविष्यत्। परन्तु भीमसेन: स्थिरीभूत:। कतिपयक्षणेभ्यो गदया सह तद्बाहुद्वयमप्युत्तोलितमभूत्। मया प्राणास्तु लब्धा:, परन्तु भयेन, भीमस्य गदोत्तोलनबातेन चाहं भूपतिता चेतनां हृतवती।
परस्तादशृणोम्—निश्चितमृत्युमुखादुद्धृत: किर्मीकोऽनेन कार्येण विमुग्धो बभूव। का नाम देवी स्वजीवनं पणीकृत्य तच्छत्रोर्गदाप्रहारं प्रतिरोध्य तमधमं जीवयामासेति न स जानाति स्वयम्। देव्या: शरीरं भूमौ चेतनाहीनं लुठति। किर्मीको निर्झरिण्या जलमानीय देव्या मुखे सिषेच। पादौ निकषोपविश्य पदसेवया चेतनां प्रत्यावर्तयितुं प्रयेते। नयन उन्मील्याहमपश्यम् यद् भीमसेनो मे मस्तकोपरि, किर्मीक: पदयो:, युधिष्ठिरार्जुननकुलसहदेवाश्च मां परितस्तिष्ठन्ति। मच्चेतनया सर्वेषां मुखमुज्ज्वलमदृश्यत। किर्मीकोऽश्रूच्छलितकण्ठमुवाच—''का त्वं मात:! देवी पार्वती, जगज्जननी लक्ष्मीर्वा! अधमस्यास्य शबरस्य जीवनाय स्वप्नाणत्यागाय न पश्चात्पदाऽभू:! रूपमिदं, कार्यं चैतन्मर्त्यमानव्या न सम्भवे। मात:! स्वपरिचयं देहि, ऋणं ते कथं प्रतिदास्यामीति वद।’’
किर्मीकस्य निष्कपटहृदयभाषयाऽहं सकलं दु:खं व्यस्मरम्। हसन्त्यवदम्—''किर्मीक! 'मात:’ इति सम्बोधनात् परं परिचयान्तरस्यावश्यकतैव नास्ति। वयोनिर्विशेषेण नारी जननी। पञ्चपाण्डवभार्या द्रौपदी किं किर्मीककिराताय मातृत्वदानायासमर्था?’’ किर्मीक उच्चै: रुरोद। उवाच च—''मात:! क्षमस्व माम्। राजकन्या, राजपटमहिषी द्रौपदी वनवासिनीति जानामि। परन्तु सेयं काम्यकवने समागतेति न वेद्मि। स्वेच्छयेह स्थातुमर्हसि। अत्र ते न काऽपि बाधा सुखे सम्माने वा।’’
अहं सुयोगं विज्ञायागदम्—''त्वं यदि मे भर्तन् शत्रुत्वेन चिन्तयसि तर्हि अहं काम्यकवनं सद्यस्त्यक्ष्यामि। परन्तु विश्वसिहि—युधिष्ठिरभीमार्जुनादिदृष्ट्या शबराजातिर्नाधमा न्यूनतरा वा। मनुष्यं मनुष्य इति जानन्तीति द्रौपद्या पाणिग्रहणमेषां पञ्चानां स्वीकृतम्।’’
''मात:, प्रतिजानामि यदद्यारभ्य किरातकुलं पाण्डवानां मित्रम्। पाण्डवान् प्रति नास्माकं कोऽपि विद्वेष आसीत्, न चाद्यास्ति। कौरवाणामपमानकारणादस्माकमार्यकुलविद्वेष:। कौरवकुलध्वंसो न: परमं व्रतं जीवनस्य।’’
''तदेवापि परमं व्रतमस्माकम्। कुरुसभायां द्रौपद्या लाञ्छनाया: परं न: प्रतिज्ञैवम्। उभयेषां लक्ष्यस्थलमेकम्। अद्यारभ्यास्माकं मैत्री दृढा परस्परसापेक्षा च।’’—भीम आह।
युधिष्ठिर: प्रशान्तगम्भीरस्वरेण जगाद—''पृथिव्युत्पत्तिकाले मनुष्येषु परस्परं वर्णभेदो नासीत्। मानव: प्रकृतिपुत्र:। पृथिव्यामस्यां जीवनाधिकार: सर्वेषां समान:। चन्द्रसूर्यवर्षाशीतहेमन्तमरुदादयो मानवं समानतया स्पृशन्ति। मनुष्येषु विभेदस्रष्टा मनुष्य: स्वयमेव। समाजस्य सुरक्षार्थम्, सभ्यताया: प्रसाराय च यथैकस्मिन् परिवारे सामर्थ्यानुसारेण पतिपत्नीपुत्रादिषु कार्यं पृथक् पृथक् निर्धारितमस्ति, तथैव समाजे विविधकार्यसम्पादनाय विविधवर्णसृष्टि:। परिवारे माता सर्वेषामुच्छिष्टं, बालकानां मलं च मार्ष्टि, गृहं च परिष्कुरुते। परन्तु न सा यद्यस्पृश्या, तर्हि समाजे तानि कार्याणि कुर्वन् मानवोऽस्पृश्य: कुत:? मर्यादापुरुष: प्रभू रामचन्द्र: शबर्युच्छिष्टं जग्राहेति तन्मर्यादा किं न्यूनतां गता? स: प्रभु: सन्नपि गुहकेनादिमाधिवासिना सह मैत्रीं चक्रे। यो मनुष्येषु परस्परं भेदमुत्पादयति, स: सृष्टिकर्तुर्नियमस्य विरोधं कुरुते। प्रिय किर्मीक! न वयं तेऽपराधिन:। बन्धुत्वेनास्मान् कृतार्थीकुरु। अनुभविष्यसि यदरण्ये ऋषिमुनीनामाविर्भाव: सम्भविष्यति—अरण्याधिवासिनामशेषकल्याणं सम्पत्स्यते। पारस्परिकभावविनिमयेन सभ्यताया: प्रसारो भवति।’’
राजचक्रवर्ती सम्राट् युधिष्ठिरो विनीत: किरातेन किर्मीकेण सह बन्धुत्वस्थापनमिच्छतीति गौरवविषय: कोऽत: पर: स्यात्!
किर्मीक: सानन्दोच्छ्वासमवादीत्—''अस्माकं भाग्यं परिवर्तनोन्मुखि भवितुं गच्छति। अत: वनभूमौ भवतामाविर्भावोऽभवत्। इदमहं स्वकुटुम्बेभ्योऽवगमयिष्यामि। मम सहोदरौ किरातविरातावत्यन्तं क्षत्रियविरोधिनौ। तयोर्वश्यताभार: मातु: पाञ्चाल्या एव। अन्येषां तु मम। अहमरण्याधिवासिशबरदलकुलपति:। मदादेशोऽन्यथा न भवति। सुग्रीवेण सह मित्रतां संस्थाप्य यथा प्रभू रामचन्द्रो लङ्कां विजित्य रावणं जघान, तथैव सम्राट् युधिष्ठिर: शबरदलपते: किर्मीकस्य मैत्र्या हस्तिनापुरीं विजित्य कौरवान् हनिष्यति। यदि भवतामाज्ञा भवेत्, तर्हि हस्तिनाऽऽक्रमणायाधीनोऽयं शबर: स्वसेनामग्रेसारयितुं प्रयतिष्यते।’’
युधिष्ठिर: साञ्जलि: सातिविनयं प्राह—''बन्धो! अस्मान् माऽन्यथा चिन्तय। कौरवनिधनं हस्तिनाजयो वा न नो लक्ष्यम्। त्रयोदशवर्षाणां वनवासात् परमस्माकं न्याय्याधिकारप्राप्तिरेव पर्याप्ता। त्रयोदशवर्षपूर्त्तेरेकस्मादपि दिनात् पूर्वमहमिन्द्रप्रस्थराजपदं न स्वीकरिष्यामि। तेन केवलं वयं सत्यभ्रष्टा स्याम। कयाऽप्याकाङ्क्षया नस्त्वया सह मित्रत्वमिति मा चिन्तय। मित्रत्वमेवास्माकं मित्रत्वोद्देश्यम्। परन्तु, सत्यमिदं यद् वास्तविको बन्धुर्हि दु:खकाले सहायको भवति।’’
युधिष्ठिरस्य महत्तयाऽभिभूत: किर्मीक:। काम्यकवने तडिद्वेगेन प्रचारितो मैत्रीसमाचार:। किर्मीक:, किरात:, विरात:, सर्वेऽधिवासिन:, सर्वे वन्यजन्तवोऽप्यस्माकं दर्शनमात्रेणास्मान् मित्रत्वेनाङ्गीचक्रु:।
मैत्र्युत्सवस्य प्रथममित्रमिलनावसरे भोजोत्सवायोजिकाऽहमेवासम्। अक्षयपात्रे मत्प्रस्तुतानि खाद्यानि पाण्डवकिरातानेकत्रोपावेश्य पङ्क्तौ पर्यवेषयमहं स्वयम्। मम हस्तस्यामृतस्पर्शेणामृतमयी बभूव तदानीं सम्पूर्णा वनस्थली। तस्मिन् दिने चाहमुदघोषयम्—''काम्यकवने पाण्डवानामवस्थानं यावन्न कोऽप्यत्राभुक्त: स्यात्। प्रत्यहं पाण्डवकिराताश्चैकस्यां पङ्क्तौ भोजनं करिष्यन्ति। शबरीणां स्वहस्तपरिवेषणं स्वीकरिष्यन्ति पाण्डवा:, ममापि शबरा:। ग्रीष्मवर्षादिसमयनिर्विशेषेणायमेव स्यात् प्रत्यहं काम्यकवनकार्यक्रम:।’’
आनन्दकलरव:, पाण्डवजयजयकार:, नृत्यगीते, पाण्डवकिरातप्रीतिरित्यादिभि: काम्यकवनस्था: पादपपत्रलतादयोऽपि प्रीता इव प्रतीयन्ते। परमसन्तोषेणाहमचिन्तयम्—वस्तुतो मनुष्य: कियान् महान्! परन्त्वज्ञात्वा कियद् क्षुद्रीकुरुते, क्षुद्रतरीकुरुते चात्मानम्!
(३०)
अमृतमयाक्षयपात्रस्याधिकारिण्यहम्। परन्त्वादिवसमहमुपवसामि। यतोहि स्वस्या: कृते भोजनपरिवेषणात् परं सद्यस्तद्दिनस्य भोजनं न शिष्यते। अत: सर्वेषां स्वल्पाहार—मध्याह्नभोजनरात्रिभोजनेभ्य: परमनागतातिथीनां प्रतीक्षायां निष्ठया मयोपवासव्रतं निशार्धं यावदङ्गीक्रियते। तत्र तु न मे दु:खम्। एकस्यानाहारेण कोटिजन्तूदरं यदि पूर्यते, तर्हि तस्यानाहारत्वं श्रेय इति विचिन्त्य प्रत्यहं मनुष्यपशुपक्षिणो भोजयामि। काम्यकवने कीटपतङ्गादिष्वपि न कोऽप्यभुक्त:। सर्वेषां पूर्णोदरं दर्शं दर्शं बुभुक्षां पिपासां चाहं विस्मरामि।
नारी जननी अमृतमयी। सन्तत्युत्पत्त्या पुरुषो जनक:, नारी च जननी। किन्तु तद्बुभुक्षितमुखे वक्षसोऽमृतनिर्झरिणीं प्रवाहयति केवला नारी। सा शक्ति: पुरुषस्य तु नास्ति। अत: नारी नामामृतमयी, अन्नपूर्णा च। अन्यस्य क्षुधानिवारणस्पृहा, आनन्दश्च नार्या: सहजाते प्रवृत्ती। अहमपि नारी, पुनरन्नपूर्णांशेन जाता, अत: परेषां क्षुत्तृन्निवारणानन्दो मे जीवनस्य चरम एवानन्द:। अतश्च यथार्थतो धर्मदेवेनाक्षयपात्रं मह्यं समर्पितम्। तस्मादहं तस्मै चिरकृतज्ञा।
मध्ये मध्ये मे मनस्यापतन्ति मम पुत्रा:, अभिमन्यु:, सुभद्रा च। काम्यकवने बालवृद्धवनितानां पङ्क्तिभोजनकाले भोजनं परिवेषयन्त्या मे मनसोऽन्तराले गोपनेन दु:खमेकमाविर्भवति—मम सन्ततय: परितृप्ता:स्यु: कच्चित्! तेषां मनोऽनुरूपमवश्यं भोजयेत् सुभद्रा! अद्यापि मे कनिष्ठपुत्राय सहदेवसुताय श्रुतसेनायावारितं वक्षसोऽमृतं निस्सरति। वनवासस्य दारुणं मुहूर्त्तं यावन्मे स्तन्यमासीत् तज्जीवनम्। तत्त्यागदु:खं मे सर्वतोऽधिकम्। सुभद्रा तमत्यन्तं यत्नेन रक्षेत्। सख्यु: श्रीकृष्णस्य राज्येऽमृतमयभोजनस्याभावो न भवेत्। परन्तु मातृहृदयामृतं विना दीन: सुतो मनसा रुदेत्। क्षीणश्च भवेत्। अन्येऽपि शिशवो मे स्वहस्तपक्वानि तेषां प्रियखाद्यानि स्मरेयु:। अभिमन्युरपि मत्प्रस्तुतभोजनेन परमं सन्तोषं लभते। सुभद्रा सर्वेभ्यो यत्नवत्यपि सर्वेषां शिशूनां भोजनभारो ममैवासीत्। शबरशिशुभ्यो वात्सल्यप्रवाहेनाहं पुत्राणां विच्छेददु:खं विस्मरामि।
काम्यकवनस्य शबरवसतेर्नातिदूरेऽस्माकं कुटीरम्। प्रतिदिनमहं तत्र गच्छामि। तै: सह ममान्तरङ्गताऽनुदिनं वर्धते। यद्यहं कदाचिदपि दिवसे तत्र गन्तुं न प्रभवामि, तर्हि ते दलबद्धा अस्माकं कुटीरे समागच्छन्ति। पृच्छन्ति च— ''केनापराधेनाद्य दर्शनं नाददाज्जननी?’’ तेषां निष्कपटसरलहृदयप्रेम्णाऽहं बद्धा।
किर्मीकानुचरौ किरातविरातौ क्षत्रियनिधनप्रतिज्ञां व्यस्मरताम्। तौ सम्प्रति पाण्डवानुचरौ, तन्मित्रे च। काम्यकवने सम्प्रति न हिंसा, न च द्वेष:। सम्प्रत्यपि ऋषिमुनय: काम्यकवने मनोरमपरिवेशे निर्द्वन्द्वं तपस्यन्ति। तेषां पूजाहोमादिपवित्रकार्येषु सहायतां कुर्वन्ति शबरवसते: सरलबान्धवा:। काम्यकवनं सम्प्रत्यार्यानार्यमिलनपीठम्। पाण्डवा: शबरवेशेन सज्जिता:। त इव वल्कलपरिधाना: पाण्डवा:। वसनभूषणचलनादिषु विशुद्धशबरतामाचरन्ति। भीमसेन: शबरदलपतिरिव प्रतीयते, अहं च शबररमणीव। शबरवसतौ शबराकारा वयं सर्वे। तेषां पूजोत्सवादिषु वयं सम्मिलिता:। अस्माभि: स्वराजवंशजातार्यसन्ततित्वं विस्मृतम्। काम्यकवनस्य मायायां निपतिताऽहं चिन्तयामि यदिन्द्रप्रस्थापुनर्गमनेनाहं प्रसन्ना स्यामिति।
किन्तु सन्ततिचिन्ताऽहरहो मे मातृहृदयं वेदनापूर्णं कुरुते। शबरवसतौ चलचञ्चलशिशूनां क्रीडादर्शनेन मनस्यापतन्ति मे सुता:। वक्षसोऽमृतमनायासं प्रवहति। मम वक्षसोऽमृतयन्त्रणया मन:शरीरे ज्वरग्रस्ते भवत:। चिन्तयामि, यदि सन्ततिविरहो मेऽदृष्टलिखित आसीत्, तर्हि वक्षोऽमृतं कथं न शुष्यति? किरातकुटीरेषु कस्याश्चन मातु: स्वशिशवे स्तन्यदानं विलोक्य मे वक्षोऽमृतमनायासं प्रवहति—तत्र च नयनजलं मिलति। विषण्णहृदया प्रत्यावर्त्ते कुटीरम्। पतिं कञ्चित् पृच्छामि—''पुन: कियद्दिनात्मकमिदं कष्टम्—।’’
युधिष्ठिरो मे मर्मवेदनामवगच्छति। निरासक्तो योगीवोपदिशति—''याज्ञसेनि! उदारीकुरु स्वमन:, विशालं कुरु हृदयम्, जगत: शिशून् स्वकाँश्चावगच्छ। ज्ञास्यसि, पञ्चशिशुविरहदु:खं त्वां न विचालयिष्यति। त्वं माता—जन्मदात्री, अमृतमयी च। मातृहृदयं सागरवद् विशालम्। वात्सल्यवन्यां प्रवाहय पृथिव्या अगणितदीनदलितपतितेभ्य:, समस्तान् शिशून् निजीकुरु। अनुभविष्यसि, त्वत्तोऽधिकसुखमयी पृथिव्यां नास्तीति।’’
वेदवाक्यमिवादर्शमयं युधिष्ठिरस्य प्रत्येकं वाक्यम्। सर्वमादर्शकार्यं करणीयम्, किन्तु प्रत्येकमादर्शवाक्यं न सर्वदा स्वीकार्यं सम्भवति। मन:शान्त्यै युधिष्ठिरवाक्यं मर्मणाऽनुभूय वात्सल्यवन्यां प्रवाहयामि शबरवसते: कोणे कोणे।
विरातशबरस्य द्वौ यमजौ पुत्रौ कम्बु:, जम्बुश्च। कङ्कालसारौ तौ यस्मिन् दिनेऽपश्यम्, तदानीं मे हृदये करुणाया: काऽपि धारा प्रवाहिता। अस्मिन् सुन्दरे फलपुष्पपूर्णे काम्यकवने इमौ एतावन्तौ रुग्णौ शीर्णौ कथम्? एतौ टिमटिमायमाननयनौ कुटीरचत्वरशयानौ मामपश्यताम्। कङ्कालसारस्य करतलस्य कतिपयाङ्गुलीश्चुम्बन्तौ मातृहृदयामृतं मृगयत: स्म। तेन तयो: क्षुधा द्विगुणिता भवति स्म। व्याकुलबुभुक्षया मध्ये मध्ये क्रन्दनस्वरं समचारयताम्। किरातस्य स्त्रियं श्रीयामपृच्छम्—''किं शिशुयुगलस्य जननी वनं गतवती? एतौ दुर्बलावेतावन्तौ कथम्? अनयोर्यत्नं न कुरुते किमनयोर्माता?’’ श्रीया सकरुणवेदनमाह—''आम्, अनयोर्जननी वनं गतवती, परन्तु न प्रत्यावर्त्तिष्यते। बहुदिनेभ्य: पूर्वं वने व्याघ्राहृता सा। तदानीमनयो: शिशो: केवलं मासद्वयात्मकं वय:। तत्पश्चात्तयोरहमेव जननी। हृदयस्य समस्तं वात्सल्यमुत्सॢजतमपि मम वक्षसोऽमृतनिर्झरिणी तयो: कृते शुष्का। अद्यावधि नाहं जननी जाता। अमृतधाराप्रदानं शिशुभ्य: क्व मे सौभाग्यम्? मात्रमृतं विनाऽनयोरेवमवस्था। क्रमश: क्षीणौ क्षीणतरौ च जायेते। तयोर्जीवनाय सकल: प्रयासो विफल:। न ममापि कोऽप्युपाय:।’’—श्रीयाया: करुणामयी मूर्त्ति: सजलदृष्ट्या शिशुद्वयं पश्यति स्म।
अहं किमप्यविचार्योपाविशं मृत्तिकाचत्वरे। स्वोत्सङ्गे चानीतवती तौ। मम हृदयस्यामृतधारा वात्सल्येन प्रावहत्। अहं सानुनयमवोचम्—''भगिनि श्रीये! अहं स्वहृदयामृतेनानयोर्जीवनं रक्षिष्यामि, यदि ते न काचिदापत्ति:।’’
श्रीया सानन्दमुवाच—''का नामात्रापत्ति: स्यात्? इदं तु मे परमं सौभाग्यम्, किन्तु—।’’
''किन्तु—’’ अहं व्याकुलिताऽपृच्छम्। श्रीया नम्रस्वरेणावादीत्—''किन्तु भवती आर्यानारी। अनार्यशिशुमुखेऽमृतप्रदानेन भवत्या धर्मनाशस्तु न स्यात्? एकलव्यशबरो विद्याभ्यासायासमर्थो बभूवास्मादेव कारणात्।’’ श्रीयाया: करं स्पृशन्ती सानुनयमभाषेऽहम्—''भगिनि! अतीतं विस्मर। आर्याऽऽर्येतरभेदो मनुष्यकृत:। शरीररुधिरमातृस्तन्ययो: परस्परं न कोऽपि प्रभेद:। कृपया पुण्यार्जनाय सुयोगं प्रयच्छ।’’
श्रीया स्थैर्येणाह—''अस्माकं गृहखाद्याशनात् परं भवती स्तन्यं पाययितुमर्हति। शिशवे स्तन्यं पाययन्त्या: खाद्यं स्वतन्त्रम्। अपि च, अन्यस्य खाद्यसेवनेन शिशो: क्षति: सम्भवति। अत: किमस्मद्भोजनं स्वीकरिष्यति भवती? आर्या नारी अनार्याया भोजनं कथं गृह्णीयात्?’’
अहं करुणस्वरेणावदम्—''श्रीये, प्रभू रामचन्द्र: शबर्युच्छिष्टं जग्राह। तेन तन्महिमा न न्यूनीभूत:। मम पतिर्भीमसेनो राक्षसीं हिडिम्बां परिणिनाय। पातालकन्याया उलुप्या: पाणिं जग्राह धनञ्जय:। स्वर्गमर्त्यपातालवासिभि: सहास्माकं मैत्री, बन्धनं च। अतस्तव गृहस्य भोजनममृतं मत्वा स्वीकरिष्यामि, शिशुद्वयमुखाय च प्रदास्यामि स्वामृतधाराम्।’’
श्रीया वस्तुतो भोजनं मह्यं पर्यवेषयत्। निर्विकाराऽहं शबरकुटीरे सादरं भुक्तवती। शिशुभ्याममृतं पाययन्ती परमप्रशान्त्या प्रत्यावर्त्तिता युधिष्ठिरोक्तस्य सत्यतामनुभूतवती। तदारभ्य भुक्तेषु सर्वेषु प्रत्यहमगच्छं शबरकुटीरे। श्रीयया सहैकत्र भुक्त्वा कम्बुजम्बुभ्यां स्तन्यं पाययन्ती जननीहृदयवात्सल्यं सर्वमुदसृजम्। अबोधशबरबालकौ क्रमशो वर्धेते सुस्थौ सबलौ नीरोगौ च। बाल्यसुलभकण्ठेन ''मात: मात:’’ इति मामाकारयत:। अहं सम्प्रति अमृतमयी कम्बुजम्बुजननी। अहं जगज्जननी अन्नपूर्णा। जननीनयने सर्वे बालका: समाना:। न तत्र जातिधर्मभूपतिप्रजादिविचार:। अहं सम्प्रति प्रसन्ना। जननीनिकटे मनुष्यस्यैक एव परिचय:—स सन्तति:, अमृतसन्तति:।