(४१)
फलपुष्पनम्रस्य काम्यकवनस्य स्वीयैका मायाऽस्ति। अस्य सुशोभितशान्तपरिवेशे वसतो: सत्यभामाद्वारकाधीशयो: सप्ताहमेकं व्यतीतम्। तथापि सत्यभामा द्वारकां प्रत्यावर्त्तितुं नेच्छति। सख्याविवावामानन्दप्रमोदयो:, दु:खसुखयो:, हासपरिहासयोश्चोन्मुक्तहृदये आलपाव:। अनेकदिनेभ्यो हरितासुभद्रामायानितम्बिन्यादिभि: सहोन्मुक्तालापसुयोगो मे व्यपगत:। अतोऽद्य सत्यामवाप्याहं यावती प्रगल्भा जाता, ममातिथ्यादरयत्नादिभिरनाविलममत्वेन च सा तावती चपला सम्पन्ना। एकस्मिन्नेव सप्ताहे मम पञ्चपतिभि: साकं प्रेममयदाम्पत्यजीवनस्य मधुरप्रवाहेण साऽभिभूता। न केवलमेतेनापितु बहुनारीकाम्यस्य तस्या: पत्युर्मां प्रति आकर्षणेन सा विस्मिता, किञ्चिदीर्ष्यान्विता च। युगपदहं पञ्चपतीनां प्रेमास्पदा स्वयं सुखिता चेति सा विस्मयाभिभूता। नैतन्मात्रमपितु, कृष्णेन सह ममाबाधमिलनमकुण्ठादरं च मे पतय उदारहृदया: कथं स्वीकुर्वन्तीति तस्याश्चिन्ताशक्तेर्बाह्यं तत्। भयङ्करोऽसन्तुष्टश्च पुरुषो भीमसेन: कथं मे व्यवहारेण पूर्णत: सन्तुष्ट इति तस्या अयं सर्वत आश्चर्यविषय:। इहास्मिन्निवासकालेऽपि सख्या कृष्णेन सह तस्यास्तर्करोषमानाभिमानपर्वापि असकृदनुष्ठितम्। प्रतिवारं तयोर्मलनाय मयैव माध्यस्थ्यमाचरितम्। अथचैकदाऽपि तयाऽस्माकं दाम्पत्यस्य मानाभिमानसूत्रात्तिलमपि न लब्धम्। अस्माकं गृहे गुरुतरचर्चासु स्वस्वाधीनचिन्तामुचितं विचारं च विना भीर्तिं प्रकाशयामि, पतीनामनुचितविचारानपि दृढतया न्यक्करोमि। युधिष्ठिरमपि प्रतिवदामि, भीमसेनस्यानुचितमपि तर्कं खण्डयामि। तथापि न: परस्परं मनोमालिन्यं नोत्पन्नं कदाचिदपि। वरं मम पतय: प्रतिपदं मेऽभिमतं प्रतीक्षन्ते, तद् विना ते च किमपि नैव निष्पादयन्ति। सर्वमिदं विलोक्य सत्याऽत्यन्तं स्तम्भीभूताऽऽश्चर्येण।
मम प्रतिच्छायेव विचरन्ती सा मे कार्यकलापान् निरीक्षते। मम सफलयुग्मजीवनकुञ्चिकामन्विषति। पारिवारिकजीवने सहधर्मिण्या: समुचितमर्यादासूत्रं समन्विषति च सा। किन्तु न किमपि लभते। एकदाऽपराह्णे मे पतिषु कृष्णेन सह काम्यकवनस्थशबरपल्लीमहोत्सवे निष्क्रान्तेषु सत्यभामा सादरं मां पप्रच्छ—''भगिनि कृष्णे! त्वं युगपत् पञ्चभर्तन् कथं सन्तोषयसि? अहमनुभवामि यत्ते यां कामपि तवेच्छां पूरयितुं निरन्तरं प्रस्तुता: सन्ति। तव युग्मजीवनेऽसन्तोषस्य चिह्नमपि नैव प्रतीयते। अथ च वयं द्वारकायामष्टपटमहिष्योऽगणिताश्चोपपत्न्यस्तं स्वप्नेमपाशेन बद्धुं नैव शक्नुम: कथञ्चित्। स कदा कुत्र गच्छति, किं च कुरुत इति न जानीम:। अस्माकं स्नेहममतारज्जुं छित्वा कदा कुत्र कस्या: स्नेहपाशबद्धो भविष्यतीत्यपि न विद्म:। पश्य, तव तु सुखदु:खे विज्ञातुं पञ्चवर्षाणि अरण्येष्वाटत्। सखि! त्वं किं ते पतीन् वशीकर्त्तुं मन्त्रतन्त्रौषध्यादीन् प्रयुङ्क्षे? कृपया तज्ज्ञानं मह्यमप्यर्पय।’’
निशम्यैतदहमकस्मादकथयम्—''न न सत्ये, मैवं वद। मूर्खा विचारशून्याश्च स्त्रिय: पतिं वशीकर्तुमेवमुपायानाश्रयन्ति। तेन ता: पत्युरास्था विश्वासं च नाप्नुवन्ति, कदाचिदपि ता: स्वमूर्खतया पत्युर्नानाभयरोगवाचालतामरणानां च कारणतां यान्ति। सत्ये, त्वं मे सख्यु: कृष्णस्य प्राणप्रिया पत्नी। अहं भगिनीरूपेण निवारयामि यदेवमुपायं कदापि माऽऽचरेति। अन्यथा त्वत्पतिस्त्वां स्वशय्याशायिनीं कालसर्पिणीं मत्वाऽऽदरवान् नैव भवेत्।’’
''तर्हि तु केनोपायेन स्वपतीन् वशीकरोसि?’’ व्याकुलिता सत्या सादरमपृच्छत्।
अहं निर्मलं सरलहृदयाया: सत्याया: पुरस्तात् पतिप्रीतिरहस्यमुद्घाटितवती। अहं सस्मितमुक्तवती—''शृणु सत्ये! स्वजीवने प्रयोक्ष्यसि यदि प्रभविष्यसि। अहं स्वस्या अहङ्कारं दूरीकृत्य पतीनां पदतले मम नारीत्वं पूजापुष्पमिव निष्कामप्रेमजलेन सुरभितं कृत्वा समर्पयामि। कस्यामपि परिस्थितौ स्वयमीर्ष्यातुरा न भवितुं प्रयते। अत: भद्रा मेऽत्यन्तमादरणीया। अभिमन्युघटोत्कचौ मे स्वपुत्रेभ्योऽपि प्रियतरौ। अहं सर्वदा सस्मिता चारुशीला च भवितुं प्रयासं करोमि। पतीनां भोजनात् पूर्वं भोजनं, शयनाच्च पूर्वं शयनं कदापि न करोमि। तेषां शय्यात्यागात् पूर्वं शय्यां त्यजामि। तेषां कार्येषु कदापि आलस्यं नाचरामि। तेषां दूरयात्राया गृहागमने तेषां कृते आसनभोजनजलविश्रामस्थानानि प्रस्तूय प्रतीक्षे। गृहस्य प्रत्येकं कार्यं स्वयमहं सम्पादयामि, पतीनां प्रियभोजनानि स्वयं प्रस्तूय परिवेषयामि सत्स्वप्यनेकदासेषु। अहं स्वदु:खेन दुश्चिन्तया च कदापि तेषां मस्तिष्कं नैव भाराक्रान्तं करोमि, यद्यपि तेषां दु:खं दुश्चिन्तां विज्ञाय तल्लाघवायोपायं चिन्तयामि। प्रसाधनस्नानवेशपरिपाटीषु नाधिकं समयमहं यापयामि। तेषामनुपस्थितावेतानि त्यजामि। तत् कार्यं नैव करोमि, यत्र तेषां मनो न रमते। तेभ्य: किं रोचते, किं च न रोचत इति तेषां प्रकाशनात् पूर्वं स्वयं विज्ञाय तदनुसारेण विदधामि। अहं विना कारणं कालव्ययं न करोमि, न च मुदिता भवामि। सञ्चलनाचारव्यवहारखाद्यविश्रामप्रेमादिष्वहं संयममाचरामि। विशेषत: पतीनामाचरणेषु न कदाचिदपि संशयमुत्पादयामि, निष्कारणाभियोगेन न तान् क्नोधयामि, न च किमपि तेभ्यो गोपयामि। अपरोऽपि विशेषो यत् तेषां पुरस्तात् न कदापि तेषां वंशस्य मातुर्वा विरोधशब्दमात्रमुच्चारयामि। तान् पञ्चान् समानतया व्यवहरामि, न कस्यापि गुणं दोषं वाऽन्यस्य पुरस्तात् व्याहरामि। मम पतीनां दासीभि: करणीयमादेशमहं स्वयं सम्पादयामि। स्वपितृगृहस्य वैभवं कदापि तेषां पुरस्तान्न प्रस्तौमि, न चान्येषां वैभवप्रस्तावेनात्मानं धिक्करोमि। किं बहुना, तेषां पुरस्तादपि कामप्यन्यां स्त्रियं मत्त: सौभाग्यवत्तरीं नैव प्रतिपादयामि। मया कदापि स्वाजस्रकामना न प्रकाश्यते, निर्जनेऽन्यपुरुषेण सह कालो न च याप्यते। खलस्त्रीभि: सह न मे मैत्री। पतीनां समक्षं स्वयं सुन्दरी चिरयौवना च भवितुं यते। तेषां कारणात्तु वयं सन्तानवत्य:, सौभाग्यवत्य:, गृहिण्यो, लब्धसुखाश्च। सुरक्षासामाजिकसम्मानमातृत्वदानाय नैव कदापि कुण्ठन्ते पतय:। तत: वयं वस्तुत आत्मनाऽनुरागवत्य इति अनुभावयितुं किं नास्माकमुचितम्? सुभद्रेवाहमपि स्वपित्रालयेऽस्थास्यम्। अहं किमर्थं पतिभि: सह वनवासकष्टमङ्गीकरोमि? अस्माकीनं केवलं तेषां सुखमिति न, दु:खमपि न:। विपदि धैर्यशक्तिप्रदानं स्त्रीणां धर्म:। सर्वमेतन्निरन्तरं ध्यायामि........’’
आकर्ण्यैतत् सत्याऽस्थिराऽवोचत्—''अलमलं कृष्णे! आचरणं तु दूरे, श्रवणमात्रेण व्यथोत्पद्यते शिरसि। अहं जानामि यन्नैतदस्माभि: सम्भवम्, न च कृष्णोऽस्माकं भविष्यति। जाने, पत्नीत्वायेयं नियमिता साधनेति।’’
अहं सस्मितमुक्तवती—''अत्रैव ते त्रुटि: सत्ये! कृष्णस्तव स्यादिति मा विचिन्त्य त्वं स्वयं कृष्णस्य न भवसि कथम्? एतावन्मात्रेण तु कृष्ण: स्वयं बद्धो भवेत्। गोपिकास्वन्यतमा चन्द्रावली श्रीकृष्णस्य परमप्रेमिका। किन्तु चन्द्रावली—श्रीराधयोर्मध्ये भावगतं भेदं जानासि? चन्द्रावल्या: कृष्णं प्रति ''त्वं ममैवे’’ति भाव:। परन्तु श्रीराधायास्तु ''तवैवाहमि’’ति। एतावता भेदेन श्रीराधा चन्द्रावल्यपेक्षया श्रेष्ठा। ममापि कृष्णं प्रति सोऽयं भाव:। अहं कथयामि ''हे कृष्ण! कृष्णा तवैवे’’ति। आजन्मनोऽनेन भावेनाहं तस्मै समर्पिता। ममेमं सम्पूर्णसमर्पणभावं यो भ्रान्तं मन्यते, स: कृष्णं न सम्यग् जानाति। कृष्णप्रेमा नैव कदापि मानवीयशृङ्गारधर्मी। एतन्मे पतयो जानन्तीति ते कृष्णप्रेेमाणं स्वसौभाग्यं मन्यन्ते।’’
सत्यभामा वाष्पनेत्रा मम हस्तौ धृत्वाऽऽह—''भगिनि! त्वया स्वपतयो जिता:, मत्पतिश्च। परन्तु त्वयाऽस्माकं पतिर्यथा ज्ञात:, न तथा मया। ''कृष्णो मम—कृष्णो ममे’’ति वयमष्टपटमहिष्य: कृष्णं स्वबलानरूपमाकर्षाम:। तस्मात् कृष्ण: कस्या अपि न जात:। अस्मान् द्वारकायां सन्त्यज्य स कृष्णाया एवाभवत्। अद्यारभ्य त्वं मे शिक्षयित्री। त्वदुपदेशपालनेन कदाचित् स मे भवेत्—’’
अहं पुन: सस्मितमुक्तवती—''भगिनि! त्रुटिं पुनर्मा कुरु। उच्चर—कृष्णो न मम, अहं कृष्णस्य—अहं कृष्णस्येति।’’
आवयो: कथोपकथनं कदारभ्य कृष्णार्जुनौ शृणुत:, न जानीव:। अर्जुनो रसिकतया बभाषे—कृष्णे! अलमलमेतावता। त्वं यदि कृष्णस्य स्या:, अर्जुनस्य पुन: का स्यात्? वद—काऽर्जुनस्य? इति उत्तरं मे प्रश्नस्य। अन्यथाऽस्य द्वन्द्वस्य समाधानाय भीमसेनं शब्दापयामि। तत्फलं तु त्वं जानास्येव!
अहं नि:सङ्कोचमवदम्—''अहं कृष्णस्य, कृष्णोऽर्जुनस्य। अत: कृष्णाऽप्यर्जुनस्य। कोऽत्र सन्देहस्यावकाश:?’’
सत्या नयने निमील्य ''अहं कृष्णस्य, अहं कृष्णस्य, अहं कृष्णस्य’’ भेजे। चक्षुषोर्वाष्पं प्रावहत्। साऽऽत्मानं विसस्मार।
श्रीकृष्ण: प्रस्थातुमिच्छन्नवादीत्—''जाने, न केवलं सत्यामपितु सर्वा अष्टपटमहिषीरेकदा त्वदन्तिक आनेष्यामीति। तर्हि कदाचित् सत्याया रुक्मिण्या वाऽऽकर्षणान्मुक्तिर्लभ्येत!’’
सत्यभामाया आगमात् परमभिमन्युप्रभृतीनां पुत्राणां कुश्लत्वं जिज्ञासितमपि प्रत्यावर्तनकाले पुनस्तेषां कुश्लत्वमहं पृष्टवती। अत्रान्तरे ते किं पठन्ति, किञ्चिद्वर्धिता न वा, भोजने शयने चेमामरण्यवासिनीं मातरं स्मरन्ति न वेति पृच्छन्ती स्वयमहमनायासमरुदम्।
मां प्रबोधयन्ती सत्यभामोवाच—''पुत्रास्ते कथं त्वां स्मरेयु:? भद्रा, वयं च मातुल्यो यत् स्म:! तेषां को नामाभावो यत्ते त्वां स्मरेयु:? त्वं तावन्निश्चिन्ता भव। एतानि दिनानि व्यतीतानि। वर्षत्रयं त्ववशिष्टम्। परावृत्य त्वं तान् ज्ञातुं शक्ष्यसि न वेति चिन्तय। ते सर्वे सम्प्रति सुस्था दीर्घाश्च जाता:। अभिमन्युस्तु धनञ्जयस्य भ्रातेव प्रतीयते।’’
अहमधिकतरं वाष्पं प्रवाहयन्त्यवदम्—''ते मां न स्मरन्ति, नान्विषन्ति, न मनसीकुर्वन्ति?’’ पुनरहं रुदितवती। एतेन कृष्ण: सस्मितमभाषत—''इदं जानीहि सत्ये! इतो गत्वा भागिनेयान् दु:खितान् कुरु। अर्धभोजनं देहि। वनेषु समिदाहरणाय प्रेषय। प्रत्यहं प्रहर। तदा ते स्वमातरं कृष्णां स्मरिष्यन्ति। तेन चात्र कृष्णाऽरण्ये प्रसन्ना भवेत्।’’
अहमश्रु प्रोच्छन्ती सत्याया: करं धृतवती। व्याकुलकण्ठेनावोचम्—''सत्ये! सख्यु: परगृहनाशनोक्तिं मा शृणु। पुरुषो मातृहृदयवेदनां कथं जानातु? शैशवे बाल्ये च सुतान् दूरे विहाय कियता कष्टेन कालं यापयामीति त्वमेवानुभविष्यसि, न तु सखा कृष्ण:। कृपया मे तनयेभ्यो मम दु:खं न वेदयितुमर्हसि। मां च तत्र न स्मारय तेभ्य:। मां स्मरन्तस्ते क्लेशान् प्राप्स्यन्ति। भद्रायां मे स्नेहं वद। वदिष्यसि यत्तस्या: पति: स्वर्गराज्यात् प्रत्यावर्त्तितो मयेति। पुनश्च वक्तव्यं यदित: प्रत्यावर्तनात् परं गृहे द्रौपदी तत्पतिसुखं नैव विभाजयिष्यतीति। यतोहि अर्जुनेन कर्णवधावधि: जायाऽस्पर्शप्रतिज्ञा कृताऽत्र। निकटस्थाऽपि द्रौपदी तत्पदसेवासौभाग्यवञ्चिता।’’ एतावत् प्रकाशयन्त्या मे नेत्रे नीराकुलिते बभूवतु:। अहं तद् गोपयितुं कुटीराभ्यन्तर आत्मगोपनमकरवम्।
महर्षेस्तृणबिन्दोराश्रम: स्वर्गभुवने देवराजस्य नन्दनकाननाद्रमणीयतर इत्यनुभवन्ती तद्विषयेऽर्जुनं पृष्टवती अहम्। अर्जुनोऽपि तदाश्रमशोभाविमुग्धोऽचिन्तयद् यन्नन्दनकाननशोभाऽवश्यं म्लानाऽस्य पुरत:। पतीनां काम्यकवने गभीरप्रदेशे मृगयागमनकालेऽहं तृणबिन्दोराश्रमेऽवस्थातुमैच्छम्। पुरोहितं धौम्यमाश्रमे मदर्थं संन्यस्य पञ्चपाण्डवा मृगयार्थं प्रस्थिता:। अहं चपलबालिकेव पुष्पोद्याने भ्रमामि। उपवनशोभयाऽहं विमुग्धा काव्यमयी जाता, निकटे लेखनसामर्ग्यभावात् कविता मे कण्ठे मधुरसङ्गीतस्वरेण प्रवाहिता:। भ्रमरीव पुष्पात् पुष्पं गत्वा मृदु स्वनामि।
उद्यानस्यापरपार्श्वे सरलोऽध्वैको गच्छति। तेन मार्गेण विवाहप्रवृत्तवरयात्रिकदलमेकं षड्सहस्रं रथै: सह वाद्यानि वादयत् साडम्बरं प्रसरति। वरवेशेन सुसज्जित: सुन्दरो युवको निश्चयेन कोऽपि राजा स्यात्। तेन सहानेके राजकुमारा अपि वरयात्रिकरूपेण सञ्चलन्ति। दूरान्मे सङ्गीतं निशम्योद्यानदिशं विलोकयन्तो मे निरुपमवनचारिणीशोभया स्तम्भीभूतास्ते बभूवु:। वरवेशेन सञ्जितो युवा स्यन्दनादवततार। अहं ह्रिया तृणबिन्द्वाश्रममपसृता। अचिन्तयम्—अहह, पतयो मे दूरं गता इति एवं मुक्तकण्ठं गायं गायमविवाहिता तरुणीवोद्याने किं भ्रमेयम्?
कियत्क्षणेभ्य: परं राज्ञ: सुरथस्य पुत्र: कोटिक आश्रमद्वारि समाजगाम। तदानीमहमुत्कलिकस्य कदम्बवृक्षस्य शाखाश्रयेणापराह्णस्य नीलमाकाशं विलोक्य मनसा कवितापङ्क्तीनां छन्द:पातं करोमि। कोटिको मेऽपूर्वशैल्या विमोहिता जगाद—''का त्वमनिन्द्या सुन्दरी? त्वं यक्षकन्या, स्वर्गराज्यस्याप्सरा:, नागकुमारी, देवी काचिद्वा? अरण्यस्य श्यामलिम्नि त्वं सौन्दर्यदावानलशिखेव ज्वलसि, नीलमेघस्य विद्युदिव त्वमपि काननशोभां प्रगुणीकरोसि। एवं सम्पूर्णसुन्दरी मयाऽदृष्टपूर्वा। शैवालं नीलपद्ममिव ते सागरतरङ्गसमनीलकुन्तलं मुखमण्डलं कमनीयतरीकुरुते। तव कण्ठस्वर: सरस्वतीविपञ्चिझङ्कारादपि ललितमधुरतर:। त्वं या काऽपि भव, सिन्धुराजो जयद्रथस्ते दर्शनाभिलाषी। अखण्डविभववतो हस्तिनाराज्यस्य महाप्रतापस्य दुर्योधनस्य एक एव भगिनीपतिर्जयद्रथ: शाल्वराजकुमारीं परिणेतुं प्रस्थितस्तेऽनिन्द्यरूपशोभया विमुग्धस्त्वद्दर्शनाय प्रतीक्षते। दर्शनं विना ते सोऽग्रेसर्त्तुं नेच्छति।
मम प्रियननान्दुर्दु:शीलाया: पत्युर्जयद्रथस्य नाम श्रुत्वाऽहमुत्फुल्लिता। कौैरवा अस्माकं शत्रव:, किन्तु दुश्शीला तु न: प्रीत्यास्पदम्। अहं तु तां सुशीलेति शब्दापयामि। बहुदिनेभ्य: बन्धुपरिजनमिलनं मे न जातम्। अत: स्वपरिचयं प्रदायातिथ्यायाश्रमे जयद्रथं सादरं निमन्त्रितवती। राज्ञां बहुवल्लभत्वेन गौरवं वर्धते। अत: जयद्रथस्य शाल्वराजकन्यापरिणयो गौरवस्य विषय:। अस्मिन् शुभावसरे यद्यहं तस्मै शुभेच्छामाशीर्वादं च न ज्ञापयामि, तर्हि जना: किं वदेयु:? जयद्रथायाभिनन्दनाविज्ञापनेन युधिष्ठिरो मामत्यन्तं सङ्कीर्णमानसामीर्ष्यापरायणाञ्चाभिदध्यात्। भीमसेनस्तु सद्य: प्रकाशयेत्। अहं जयद्रथं सादरं प्रतीक्षितवती।
वरवेशेन सुसज्जितं जयद्रथमभिवन्द्य सस्नेहमुक्तवती—''किं नाहं ते परिचितपूर्वा यत्त्वं दूरे स्थित्वा साक्षात्कारायानुमतिं याचसे? मया त्वं द्वित्रिवारं दृष्टोऽपि नैव विस्मृत:। त्वं सिन्धुराजो महाप्रतापदुर्योधनभगिनीपतिर्हृतराज्यपाण्डवपत्नीं वनवासिनीं द्रौपदीं कथं वा ज्ञातुमर्हसि? सुशीला कथमस्ति? सा मां स्मरति कच्चित्? भ्रातृषु वैरं स्वाभाविकम्, परन्तु भगिनी सर्वेषां भ्रातृणाम्। अनेन पथा शाल्वदेशं विवाहाय प्रस्थित इति पूर्वं कथं न ज्ञापितवान्? विज्ञाय पाण्डवा अवश्यमेव प्रतीक्षेरन्। ते मृगयार्थं बहुदूरं गता: सायङ्कालात् पूर्वं न प्रत्यावर्त्तिष्यन्त इति तेषां पक्षत: मम शुभेच्छामाशीर्वादं च स्वीकुरु। परावर्तनकाले नववध्वा सहात्र रमणीये काम्यकवने दीनपाण्डवानां जीर्णकुटीरे रात्रिमेकामतिवाह्य प्रस्थातुमर्हसीति मम निमन्त्रणमवेहि। पाण्डवा अनेनातीव प्रसन्ना: स्यु:।’’
ममैतावतां भाषणानां नैव किमप्युत्तरमदाद् जयद्रथ:। मदोन्मत्त इव निर्निमेषदृष्ट्या मां विलोक्य प्रालपत्—''तव दर्शनात्परं शाल्वकन्यां परिणेतुं नैव गमिष्यामीति मनसा स्थिरीकृतं मया सुन्दरि!। त्वं मे प्रजावती वा काऽपि वा भव, त्वामेव परिणेतुं कामये। सुन्दरनारीभोगो वीरस्य गौरवम्। त्वादृशीं नारीं यो लप्स्यते, तस्यावश्यं यशो वर्धिष्यत इति नात्र सन्देह:। आयाहि, त्वां राजधान्यां नेष्यामि। सुखमकलितं दापयिष्यामि। त्वादृग्रत्नलाभाय पाण्डवा नितान्तमयोग्या:। पश्य स्वस्या दीनहीनामवस्थाम्।’’
अहमनलशिखा मुहु: परिणता। प्रज्वलन्ती चागर्जम्—''पुनस्तथोच्चारणेन मे पतीनां हस्तैस्ते नाश: सुनिश्चत:। अरे दुष्ट पापात्मन्! विवाहितां रमणीमेकामपमानयन् त्वं जीवसि कथम्? पापस्यास्य प्रायश्चित्तमेकदाऽवश्यं तु स्यादेव।’’
कामजर्जरो जयद्रथो मां रथायाचकर्ष, उवाच च—''पाण्डवा नगण्या भिक्षुका:। ते किं मे कुर्यु:? सुन्दरि! अद्यारभ्य त्वं सिन्धुदेशराज्ञी भविष्यसि। येन दुर्योधनेन त्वं राजसभायामसम्मानिता, तस्य भगिनी ते चरणसेविका दासी भविष्यति। मदुक्तिस्त्वया सम्मता स्यादिति जानामि। को वा विशालतर: प्रतिशोधो भवेदेतस्मात् पाण्डवै: कौरवाणाम्?’’ रथस्तस्य द्रुतमधावत्, तस्य पापात्मन: स्पर्शाद् विमुक्त्यै रथात्कूर्दन्तीं मां स पुनर्बलाद् बाहू प्रसार्याचकर्ष। अहमसहाया 'कृष्ण कृष्ण’ वदन्ती मूर्छता।
अहं चेतनाप्रत्यावर्तनमात्रेणान्वभवं यदहं शय्यायां सुप्ता। मां परितो मे पतीनामालापस्वर: श्रूयते। अहमाश्वस्ता यदहं तस्य दुष्टात्मन: कवलान्मुक्ता। पुरोहितेन धौम्येन मां बलान्नापहर्तुं भूयाननुरोधोऽकारि। तं पदेन दूरीकृत्य मां स रथे उपावेशयत्। मम पतिभ्य इममशुभसमाचारं वक्तुं प्रधावन् धौम्यो रथान्मे दृष्टिगोचरीभूत:। मम भर्त्तार: समुचितसमये समाचारमाप्य मामुद्दध्रु:। किन्तु पाण्डवैस्तस्योचितदण्डविधानं कृतं न वा?
मामाश्वास्य भीमसेन उवाच—''अलं भीत्या पाञ्चालि! त्वं सम्प्रति विमुक्ता।’’
अहं कठोरकण्ठेनाभाषे—''तस्य पापात्मनो मृतशरीरमपि वीक्षितुं नेच्छामि। मम दृष्टिपातात् पूर्वं तस्य शरीरं वन्यशृगालानां भोजनायारण्ये प्रक्षिप। कलुषितं शरीरं सत्कारं नार्हति।’’ वर्षाधाराभि: सह विद्युच्छिखेव मम चक्षुषोरश्रुभि: साकं बह्निशिखापि स्फुरति। युधिष्ठिरो ममोद्गारं निशम्याहतकण्ठेनावादीत्—''याज्ञसेनि, तवैवं हृदयहीनता नाशास्यते कथञ्चित्। जयद्रथेन पापं कृतमिति सत्यम्। परन्तु पापाय दण्डो मृत्युश्चेत् पृथिव्यां न कोऽपि जीवितोऽवशिष्ट: स्यात्। पुरुषस्य सुन्दरीं नारीं प्रत्यासक्ति: स्वाभाविकी। विवेकवान् पुरुष: स्वकामनां नियन्त्रयति। परन्तु विवेकहीनो जयद्रथस्तेऽपमानं चकार। स तु एक एव नो भगिनीपतिरिति विस्मरसि कथम्?’’
अहं तडिल्लतेव प्रज्वलिता। शय्यां सन्त्यज्योत्थिता। शाणितकण्ठेनोद्गीर्णवती—''त्वं प्रायेण मर्यादापुरुषाद्रामचन्द्रादपि अधिकक्षमाशील:? सीताहरणापराधेन ज्ञानवानपि रावणो रामचन्द्रेण निहत:। परन्तु स्वभगिनीपतये पापात्मने मृत्युदण्डो न देय इति स्थिरीकृतं भवता? पत्न्यपमानो न त्वां कदापि क्लेशयति, न च विचालयतीति ममाश्चर्यमुत्पद्यते। इदं शास्त्रोक्तं यत् स्त्रीराज्यापहर्त्रे शरणागतायापि जीवनदानं नोचितमिति। स समाजस्य परम: शत्रु:।’’
भीमसेनो मां समर्थितवान्। अर्जुननकुलसहदेवास्तु शान्ता:। युधिष्ठिरस्य क्षमामाहात्म्यप्रबोधनेन शनै: शनैरहं कोमलीकृता। वस्तुत: पृथिव्यां मनुष्येषु पापकामनेयती परिपूर्णा यत् प्रतिपदं धर्मन्यायसत्यादिनि विपद्यन्ते। प्रत्येकं पापस्य दण्डो मृत्युश्चेत् पृथिव्यां न कोऽप्यवशिष्येत। अस्माकं समाजस्येयं प्रसिद्धा प्रथा यत् पुरुषस्य पापकारणात् नारी आजीवनं दु:खं सहते। जयद्रथेन स्वपापाय यदि मृत्युदण्डो लभ्येत तर्हि ननान्दु: सुशीलाया आजीवनं वैधव्यदु:खमेव सारं स्यात्। बहुनारीभोगो न पुरुषस्य पापायापितु गौरवाय। अत: पारोक्ष्येण सुशीलैव दण्डिता भवेत्। यद्यपि कतिचित् स्थलेषु तद्बहुवल्लभत्वं पापाय कल्प्यते, तथापि तदक्षमणीयमिति न। अत: पुरुषस्येयती आस्पर्धा। सुन्दरनारीबलात्कारदृष्टान्तोऽनेकोऽस्तीतिहासे। अत: जयद्रथेन समाजबहिष्कारकार्यं न किमपि कृतम्। यतो हि स पुरुष:, राजा च। सुन्दरनारीबलात्कार:, पापदृष्ट्या व्यवहारश्च तद्गौरवाय, राज्ञोऽधिकारश्च। अभिमानो म उदियाय समाजाय, मत्पतिभ्य:, संसारस्रष्टे्र च। अचिन्तयम्—यस्या अदृष्टे दु:खं टङ्कितमस्ति तामीश्वर: सुन्दरनारीरूपेण जनयति, अथवा रमणीयरमणीजन्मनाऽदृष्टं दु:खमयं सम्पद्यते। यदस्तु, सुशीलाऽपि मादृशी नारी। साऽपि सदाचारिणी, पतिव्रता, ममतामयी च। सा पुन: कथं विना दोषं संसारस्य चरमं दु:खं सहताम्?
अहं वाष्पाकुलाऽवोचम्—''अस्तु, मुच्यतां जयद्रथ:। को दोष: सुशीलाया:? जयद्रथवधेन यदि संसारनियमो न परिवर्त्तिष्यते, तर्हि को लाभस्तं हत्वा सुशीलाजीवनयन्त्रणया? नार्या: परपुरुषकामनेव यदि पुरुषस्य परस्त्रीकामनाऽक्षमणीया लज्जाजनयित्री चाभविष्यत्तर्हि संसारे व्यभिचारा दोषाश्चैतावन्तो न समभविष्यन्। मातु: सीताया जीवनं दु:खमयं नाभविष्यत्। रावणवधात् लङ्कापुरीध्वंसाच्च परं पृथिव्या नारीं प्रति बलात्कारपाशविकात्याचारावुदच्छेत्स्यताम्। राज्यं धनं वैभवं चेव कलत्रमपि पुरुषस्य विजेयं वस्तु। शक्त्यनुसारेण पुरुष: परस्त्रियमपि जयति। पतिं युद्धे पराजित्य तत्पत्नीजय: क्षत्रियधर्मस्यैको महीयान् दृष्टान्त:। जयद्रथ: पराजित इति तन्मे सौभाग्यम्। तद्विजयेन तु न्यायतस्तस्याहं रक्षिताऽभविष्यम्।’’ मया जयद्रथाय क्षमा प्रदत्ता, परन्तु समाजस्य नियमासाम्यान्नारीजन्मानिन्दम्।
जयद्रथो भीमसेनेन मुण्डितमस्तक: पाण्डवानां दासत्वं स्वीचक्रे। मम पादौ धृत्वा साष्टाङ्गं प्रणन्तुं जयद्रथं भीमसेन आदिदेश। जीवनभयेन सोऽपि तस्मिन् सम्मतोऽभूत्। वरवेशेन सज्जित: सिन्धुराजो मुण्डितशिरा दीनहीनदास इवैकवस्त्रो भूमौ साष्टाङ्गप्रणिपाताय मे चरणौ स्प्रष्टुं बाहू प्रसारयतीति जुगुप्सयाऽहं मुखं परावृत्य पादावपसारयन्ती थूत्कृतवती—''विवेकहीनस्य कामुकस्य स्पर्शस्तु दूरे, छायादर्शनमपि पतिव्रतयाऽनुचितम्। त्वं मे चरणधूलिमपि ग्रहीतुं न योग्य:।’’
केशहीनमस्तकोऽर्धनग्नो जयद्रथोऽधोमुख: प्रसारितबाहु: साष्टाङ्गप्रणिपातावस्थो निपतितो भूमाविति विलोक्य भीमनकुलावुच्चैर्जहसतु। अहं जुगप्सया मुखं परावृत्य नि:सृतवती।
परन्तु लज्जित: पराजितो भग्नमनोरथो जयद्रथ: स्वराज्यं नैव प्रतिजगाम। हरिद्वारे शिवं प्रसादयितुं तपश्चचार। प्रसादितात् शङ्करात् स वरं ययाचे—''पाण्डवान् युद्धे पराजेतुमस्त्रं मे प्रयच्छतु। वरमेकस्मै दिवसायास्तु नामेति।’’ शिवस्तूवाच—''तव वरप्रार्थनाया आन्तरिकमुद्देश्यमहं जानामि। पाण्डवान् सङ्गरे जित्वा क्षत्रियधर्मानुसारेण वनचारिणीं द्रौपदीं लब्धुं व्याकुलितस्त्वम्। परन्तु मया पूर्वमेवार्जुनाय सर्वत: शक्तिमदस्त्रं प्रदत्तम्। त्वं किन्तु एक दिवसमात्रायार्जुनातिरिक्तान् चतुर: पाण्डवान् जेतुं शक्ष्यसि।’’
जयद्रथोऽपि लब्धशङ्करवर इतस्ततो वक्तुं प्रचक्रमे—''अनेन प्रतीयते यन्ममाशा पूॄत्त यास्यतीति। कर्णोऽर्जुनं जेष्यति, अहं च शिष्टान् चतुर:। उभौ मिलित्वा द्रौपदीं भोक्ष्यावहे। युगपद् बहुपुरुषभोग्यत्वाभ्यासस्तस्या अस्तीति न किमप्यसौविध्यं स्यात्।’’
समाचारमेनमाकर्ण्य क्रुद्धो भीमसेनो युधिष्ठिरमुवाच—''क्षमाया: फलं दृष्टं नु! द्रौपदीलिप्सामद: कमपि पुरुषं ज्ञानशून्यं कारयिष्यति। क: पुनर्दोषो जयद्रथस्य?’’
अहं पुनरचिन्तयम्—''को दोषो ममैव? पतिं विजित्य तत्पत्नीभोग: शास्त्रसम्मत इतीमं दोषं कोऽवगच्छेत्? को वा विरुद्ध्येत्?’’
(४२)
वातावरणपरिवर्तनाय कतिपयदिनेभ्यो वयं द्वैतवनाय प्रस्थिता:। मनसि मे सुखं नासीत्। मम स्वीयं रूपयौवनमभिशाप इव मां खेदयति। अर्जुनो मां न स्प्रक्ष्यतीति कृतप्रतिज्ञ:। वनवासकाल: क्रमेण समाप्तिं गच्छतीति भाविकार्ययोजनायै युधिष्ठिरश्चिन्तित:। भीमसेनोऽरण्ये विचरन् मध्ये मध्ये हिडिम्बान्तिके गच्छतीति तेन न मे किमप्यसौविध्यं भवति। अत्रान्तरे दुर्गमारण्येषु मार्गसौविध्यमपि सम्पन्नम्। अत: भीमसेन: पूर्ववन्मां न क्लेशयति। नकुल: शबरकुटीरेषु नृत्यगीतमहोत्सवादिषु निरत:, सहदेवश्चाज्ञातवास: कथं व्यतीयेतेति तद्विषये नानागणनानिमग्नः:। वस्तुतोऽहं निस्सङ्गजीवनं यापयामि, कामनावासनाभ्यां दूरीभूय सन्न्यासिनीजीवनमङ्गीकर्त्तुं यथा कोऽपि मां प्रेरयति। पुरुषस्य कामनाया: स्वसुन्दरशरीरयौवनाभ्यां च जुगुप्सोत्पद्यते। अस्माकं कष्टापमानादीनां, पाण्डववनवासराज्यनाशादीनां च मूले एकस्या: सुन्दररमण्या: प्राप्तिग्लानि:। सा रमणी अहमेव—कृष्णा। को जानाति यद् वनवासान्ते राज्यप्रत्यावर्तनात् परं किमशुभशकुनमस्मान् प्रतीक्षत इति। दुर्योधनदु:शासनकर्णजयद्रथादीनां दृष्टिर्मदुपरि। अथ च केवलं सौन्दर्यं विना कोऽन्यो मे दोष:? मध्ये मध्ये भगवन्तं प्रार्थये—''हे नियामक! मम सुन्दरशरीरविनिमयेन मह्यं शान्तिं प्रयच्छ, मम पतिभ्य: शान्तिं प्रदेहि, आर्यावर्त्ते शान्तिं प्रत्यावर्तय। मम समस्तसुन्दरताविनिमयेन पृथिवीं सुन्दरीं सम्पादय, मनुष्यहृदयं च सुन्दरीकुरु।’’ मम प्रार्थनां कोऽपि शृणोति न वेति न जाने। परन्त्वहमनुभवामि—जपतप:पूजोपासनादिभि: ब्रह्मचर्यपालनेन च मम शरीरसौन्दर्ये नैसर्गिकी दीप्तिर्विद्योतते। अहमधिकरूपमयी दृश्ये। मां ज्वालयितुं सर्वं सौन्दर्यं यथाऽदृष्टमापातयति मयि!
(४३)
तद्दिने निर्झरिणीनीरे स्वप्नतिविम्बं विलोक्याहं न विमुग्धाऽपितु शङ्किता जाता। अमन्ये—कोऽपि बलवान् पुरुषस्तु मद्रूपलोभेनाकस्मादागत्य बलात्कारं न कुर्यात्! बलात्कारेणानाचारेण च संसारोऽयं सरति।
हठात् कश्चन शबरयुवा जवेन धावन् समागत्य समाचारं प्रादात्—मात:! कोऽपि सुन्दरो युवकोऽरण्ये भूमौ पतितो मया दृष्ट:। तस्य शरीरात् कर्णाभ्यां च रुधिरं प्रवहति। तन्मस्तके राजमुकुटमपि शोभते। प्रवहद्रुधिरधारोऽपि सोऽरण्ये मृगयां कुर्वन् आसीत्। शरीराच्छोणितधारामविगणय्य स: स्वापूर्ववीरत्वेन महाबलं शार्दूलं व्यापादयामास। किन्तु, अकस्माद् भयावहविषधरदंशनेन स मूर्छित:। अस्माकं सकल: प्रयासो विफलीभूत:। अनुबेलं तद्रुधिरे सर्पविषं प्रविशति। तस्य जीवनं विपन्नम्। महर्षिर्विप्रपाद आदिदेश माम्—''पशुपक्षिसरीसृपवशीकरणसामर्थ्यं तवास्ति। त्वन्निर्देशेन सर्पो युवकस्य क्षतस्थानात् स्वविषं निस्सारयिष्यति बहि:। स च जीवितो भविष्यति। द्वैतवनस्य नरभक्षकं व्याघ्रं व्यापाद्य तेनास्माकं महानुपकार: कृत:। यदि तस्यैवं मरणं भवेत्, तर्हि न कोऽपि वनेऽस्मिन्नागच्छेत्।’’
अहं विना वाक्यव्ययं मूर्छितयुवकशरीरनिकटे समागत्याश्चर्येण स्तम्भीभूता। अयं तु महावीरो दाता कर्ण:! कवचकुण्डलार्पणेन तस्य शरीरादधुनाऽपि रुधिरं वहति। तं दृष्ट्वाऽचिन्तयम्—दाता प्रायेण कठोर:। अन्यथा स्वशरीरं छित्वा कोऽपि किं दातृत्वगौरवमाप्रुयात्! इममभिशप्तं पुरुषं प्रति मनसि मे मायोत्पन्ना। परक्षणे तु मनस्यापतिता तस्यार्जुनवधस्याचलप्रतिज्ञा। अत: सम्प्रति भयस्य कारणमेव पुनर्नास्ति। कतिपयमुहूर्त्तेषु विषज्वालया कर्णस्य प्राणवायुर्नर्गमिष्यति। तत: परमर्जुनो निष्कण्टक:—पाण्डवा विपन्मुक्ता:। दुर्योधनस्य शक्तिर्मन्त्रणादाता चार्जुनशत्रु: कर्ण:। तद्विनाशात् परं स्वयं दुर्योधन: पाण्डवशरणमायास्यति, इन्द्रप्रस्थेन सह हस्तिनापुरीमपि प्रत्यावर्तयिष्यते। जातमुचितम्। ईश्वरो यत् कुरुते तन्मङ्गलाय। कर्णं हत्वाऽर्जुन: कुन्तीदारुणदु:खापराधं नैव करिष्यति।
परन्तु, न जाने, किमर्थमहमनुक्षणं दुर्बलतरीभवामि। मदभ्यन्तरस्था ममतामयी नारी मनुष्यस्य दु:खेन यन्त्रणया विनाशेन च कातरीभवति। मदन्त:करणे मातु: कुन्त्या: कारुण्यं विलपति। अहं स्वत एका माता भवामि। मत्सम्मुखे कोऽपि मनुष्यो मरणाभिसारिशय्यायाम्। अहं तस्य पुनर्जीवनाय समर्था। स पुन: न कोऽपि साधारणो मानव:। स तु परमशौर्यवान् वीरपुरुष: कर्ण:। कदाचिदपि स आसीन्मे जीवनदाता!
अहं व्यस्मरम्—कर्णो मे पतीनां शत्रुरिति, कर्णो मे दु:खापमानलाञ्छनानां कारणमिति, कर्णश्च मे भाविसुखिजीवनमार्गस्य कण्टकमिति। परन्तु पश्याम्यहं पुरस्तात् कञ्चिद् वीरपुरुषं, कुन्त्या धर्मपुत्रं, मम जीवनदातारं मूच्र्छागतं मनुष्यमेकम्।
अहं कोमलस्वरेण कालसर्पमाहूतवती। स यथा ममावाहनं प्रतीक्षमाण आसीत्। मन्निर्देशेन स विषहरणं चक्रे, मदनुरोधेन च प्रतिगत:। कर्णस्य चेतना प्रत्यावर्त्तते। मन्निर्देशेन शबरयुवानो महौषधिपत्राण्यादाय तद्रसं क्षते प्रलिप्तवन्त:। तस्य शरीराद्रुधिरप्रवाहोऽवरुद्ध:, तत्तेजोऽप्यनुपममदृश्यत। कर्ण: प्राप्तचेतन उत्थित:। तस्य नयन उन्मील्य विलोकनात् पूर्वमहं ततो व्यपगता। कर्णस्याहङ्कारवत: पुरुषस्य कार्तज्ञ्यमप्यहङ्कारशून्यं न स्यात्। तद्भारसहनं दुष्करम्। स मे जीवनदाता—ऋणमात्रं प्रत्यॢपतं मया। तत्कृतज्ञता न मे काम्या।
स्वरो मन्द्रमधुर: कर्णस्याश्रूयत। स वदति—''देवि! त्वं या काऽपि भव नाम, त्वं मे नमस्या, जीवनदात्री, जननीसदृक्षा। जन्मदायिनीरूपं मया न दृष्टम्, परन्तु जीवनदात्रीरूपदर्शनेन मे जीवनं धन्यम्। अस्याधमस्याभिशप्ततनयस्यापराधान् क्षमस्व। यतोहि त्वं जननी क्षमाशीला च। न त्वयि, अपि तु कस्याँञ्चिन्नार्यामहं कृतापराध:—तां ज्वालयितुं मे प्रतिज्ञा प्रबला। यतो हि पुरुषोऽहम्, पौरुषापमानं नैव विस्मरामि, आमरणमपि न विस्मरिष्यामि। अद्य स्ववैभवप्रदर्शनेन तां पुनर्दाहयितुं दुर्योधनेन सहात्राहमागत:, किन्तु स्वयं विषज्वालयाऽङ्गारतामगमिष्यम्। सा नारी शक्तिमयी, अतो मे नमस्या। अहमाचिराच्छक्तिशौर्योपासक:, अथ चाद्य तां न प्रज्वाल्य न गन्तुं प्रभविष्यामि। देवि! क्षमस्व माम्।’’
अहं द्रुतं प्रत्यावर्तमाना वनमार्गेऽश्रु अनायासं व्यसृजम्। कर्णहृदयस्य निस्सङ्कोचहाहाकारो मे जननीहृदयं स्पृशति, झङ्करोति मनस: सूक्ष्मतमामपि तन्त्रीम्—अहं मनसा कर्णस्य समस्तापराधानविचाराँश्च विस्मृतवती, यतोहि जननी हि सन्तते: समस्तापराधक्षमाप्रदानसमर्था।
आश्रमे समागत्य पाण्डवानां पुरस्तात् कर्णदुर्योधनयोद्र्वैतवनागमनसमाचारं प्रकाशितवती, कर्णजीवदानप्रसङ्गं चावर्णयम्। मदुक्तिं निशम्य युधिष्ठिरार्जुनौ 'साधु—साधु’ इति ब्रूवाणौ प्रसन्नौ बभूवतु:। युधिष्ठिर उवाच—''याज्ञसेन्याऽद्यापरं पुण्यकार्यमपि सम्पादितम्।’’
अर्जुनोऽब्रवीत्—''कर्णवधसुयोगो याज्ञसेनीकारणाल्लब्धो मया। अद्य कर्णनाशेन तद्वधविधानानन्दलाभवञ्चितोऽभविष्यम्। मम वीरत्वं विज्ञातुं संसारवासिनो नैव प्राभविष्यन्। अतो याज्ञसेन्याद्य स्वबुद्धिमत्त्वपरिचय: प्रदत्त:।’’
क्रुद्धो भीमसेनो जगर्ज—''द्रौपदी प्रशंसालोभेनास्माकं चिरशत्रवे जीवनं प्रादात्। अथ च द्रौपदीकारणात् कर्णो नश्चिरशत्रु:।’’ भीमसेनस्य विचारशून्यमन्तव्येनाहं दु:खिताऽपि तूष्णीमाचरम्। भीमसेनस्त्वाचिरादेवम्!
क्षणेभ्य: पश्चात् समाचार आगतो यद् दुर्योधनो गन्धर्वराजचित्रसेनेनावरुद्ध:। गन्धर्वराजचित्रसेनस्याप्सरोभि: सह द्वैतवने सरोवरे जलक्रीडामभद्रदृष्ट्या विलोकयन् दुर्योधन: कामातुरो बभूव। आरक्षिणां निवारणेनापि ततोऽनिर्गतेन दुर्योधनेन सह गन्धर्वाणां युद्धमारब्धम्। कर्णस्य युद्धान्निर्गमनेन दुर्योधन: पराजितो बद्धश्च। समाचारमाप्य पञ्च पाण्डवा: सद्यश्चित्रसेनान्तिकं प्रस्थिता:। तत्र बन्धुमर्जुनमाविष्कृत्य चित्रसेन: प्रसन्नोऽभूत्। दुर्योधनमुक्त्यर्थमनुरुध्यार्जुन उवाच—''दुर्योधनस्याभद्राचरणाय वयं क्षमां प्रार्थयामहे। अस्माकमग्रजस्य युधिष्ठिरस्येयमिच्छा—तं भवान्मोचयत्विति। यदस्तु नाम, तथापि कौरवा न: सहोदरा:। अत्र सत्स्वस्मासु तस्य रोधोऽस्माकमपमानाय। अस्माकं मैत्रीं संस्मृत्य कृपया तं मोचयत्विति।’’
चित्रसेन: साश्चर्यमाह—''अहो! युष्माकमपमानाय स्वसैन्यबलपरिवृतो दुर्योधनो निजवैभवं प्रदर्शयितुमिहागत:। विज्ञायैतत्ते पिता देवराज इन्द्रो मामत्र तत्पराभवाय प्रेषितवान्। अथ च त्वं तन्मुक्तिभिक्षां कुरुषे?’’
''अयं हि तस्मै समुचितो दण्ड:। स्ववैभवप्रदर्शनायेहागतस्यास्मद्द्वारा जीवनमुक्तेरधिकतरमपमानं तस्य किमन्यत् स्यात्?’’ अर्जुनो हसन् जगाद। चित्रसेनो दुर्योधनं मोचयित्वा तं पाण्डवानां पदरज: स्वीकर्त्तुं निर्दिदेश। पाण्डवैरपि चित्रसेनचरणधूलिग्रहणाय प्रेरितो दुर्योधन उभयेषां पदधूङ्क्षल गृहीत्वा चरमलज्जयाऽपमानेन च हस्तिनां प्रत्यावर्त्तित:।
आश्रमे आगत्य भीमसनोऽवादीत्—''ज्ञातं नु कर्णकापट्यम्? विपन्नं मित्रं विहाय कथं सोऽपसृत:? किमिदं पुरुषस्य कार्यम्?’’
सहदेवो गम्भीरया वाचोवाद—''कर्णोऽहङ्कारवान्, न तु कामातुरलम्पटप्रकृतिक:। स यथा सच्चरित्र: पुरुष आर्यावर्त्ते विरल:। दुर्योधनस्याभद्राचरणेन क्षुण्ण: स निर्गत: पूर्वम्। कतिपयकारणेभ्य: स द्रौपदीं प्रति विद्विषन् असकृदसुजनव्यवहारं प्रदर्शितवान्, परन्तु न स: स्वप्नेऽपि कामुकवृत्ति:।’’
कर्णो मे आचिराच्छत्रु:, अथ च तमहं मनसा प्राणमम्।
(४४)
अज्ञातवासचिन्तया सर्वे विचलिता वयम्। परन्तु युधिष्ठिरो निर्विकार:। अस्माकं मनसि भयमुत्पद्यते—अज्ञातवासकाले यदि केनापि प्रकारेणास्मान् कौरवा: कुत्रचित् स्थितान् जानीयुस्तर्हि पुनर्वनवासो द्वादशवर्षात्मकोऽवश्यम्भावी। युधिष्ठिर: प्रायेण मनसा तदेवेच्छति। हस्तिनाप्रतिगमनात् परं युद्धं निश्चितमिति अनुजानां मतं स सम्यग् वेत्ति। अत: स आश्वासयति ''भवितव्यं भविष्यति, अद्य तच्चिन्ता पुन: कथम्?’’
एकदा द्वैतवनेऽटन्तो वयं क्लान्ता:। युधिष्ठिरस्तृषमन्वभवत्। निकटस्थसरोवराज्जलाहरणाय तेन सहदेव: प्रेषित:। सहदेवो न प्रत्यागत:। अत: पुनर्नकुल: प्रेषित:। न स आगत इत्यर्जुनो गत:। अर्जुनस्यागमनविलम्बाद् भीमसेनो जगाम। सोऽपि न प्रत्यागत इति प्रतीक्षमाणयोरावयोर्मध्याह्नं व्यतीतम्। न जाने, मनसि किमर्थं मेऽशुभाशङ्का आयान्ति। स्थितेऽपि युधिष्ठिरे संसार: शून्य इव प्रतीयते मम।
अन्त्ये आवां सरोवरदिशा तेषामन्वेषणाय प्रस्थितौ।
सरोवरतटे चत्वार: पाण्डवा निश्चिन्तनिद्रागता:। अहं मनसाऽचिन्तयम्—किमिदं स्वकर्मनिर्वाहमतिहीनत्वम्? अग्रजस्तृषा छटपटायते, अथ च जलायागता अनुजा दिवसेऽपि निद्रिता:। अहं तृतीयपाण्डवस्यार्जुनस्य चरणान्तिक उपविष्टा। स: क्लान्तो निस्तेजाश्च दृश्यते। महती मायोदपद्यत मनसि। दीनोऽसावाजीवनं वनवासेन, ब्रह्मचर्यसाधनया च दुश्चिन्तया कालं यापयति। मामपि न स्प्रक्ष्यतीति प्रतिज्ञातं तेन। अहं यथा संसारस्य महापातकिनी! अहमेवं किमपि किमपि चिन्तयामि—युधिष्ठिरो गम्भीरकण्ठेनोवाच—''याज्ञसेनि! त्वं विदुषी। सत्यस्य स्वीकारं विना गत्यन्तरं नास्ति। एकदा सर्वोऽवश्यं मृत्युं लभेत। परन्त्वकाले मां विहायैते मृत्युमभजन्तेति दु:खम्।’’
अहं किमप्यवगन्तुं न शक्नोमि। को मृत:? कस्मै युधिष्ठिरो दूनोति?
इदम्प्रथमतया सम्प्रति मया युधिष्ठिरस्याश्रुवर्षणं विलोकितम्। स भ्रातृणां गुणान् संस्मृत्य, स्वतृषं धिक्कृत्य च रोदितुं प्रारेभे। एतावन्मात्रमहं ज्ञातवती यन्मे पतयश्चत्वारो मृता:। अहमर्जुनचरणयो: पतिता क्रन्दितुं प्रवृत्ता। अहं तच्छीतलचरणयुगलं हृदये धारयन्ती मूर्च्छिता।
मच्चेतनां प्रत्यानेतुं जलाय सरोवरे प्रविवेश युधिष्ठिर:। परन्तु जलाहरणात् पूर्वं जलाशयतटस्थवृक्षासीन: कश्चिद् गृध्र उवाच—''युधिष्ठिर! मत्प्रश्नानामुत्तराण्यदत्त्वा मदवज्ञया जलपानेन चत्वार: पाण्डवा इव त्वमपि मृत्युमाप्स्यसि। अहं कश्चिद् यक्ष:। अस्याहं जलाशयस्य रक्षक:। मदवज्ञया चतुर्णां तेऽनुजानां विनाशो जात:।’’
युधिष्ठिरो यक्षस्य गभीराणां गहनतत्त्वपूर्णानां प्रश्नानामुत्तराणि ददौ। अत्रान्तरेऽहं प्राप्तचेतना युधिष्ठिरस्य पाण्डित्यपूर्णान्युत्तराणि निशम्य मनसा दु:खेऽप्येतावति तस्मै भक्तिं ज्ञापयामि। युधिष्ठिरस्यागाधज्ञानस्य पुरस्तान्मे विद्याबुद्धिवैदुष्याणि नितान्तं पराजितानि नगण्यानि प्रतीयन्ते।
युधिष्ठिरोत्तरैश्चमत्कृतो यक्ष उवाच—''त्वदुत्तरैरहं तुष्ट:। त्वं यदीच्छसि तर्हि चतुर्षु अहं कमप्येकमेतेषु जीवयितुं समर्थ:। वद, कस्य जीवनं ते आवश्यकम्?’’
अर्जुनचरणौ हस्ताभ्यामवलम्ब्य निपतिताऽहं स्वार्थपरतया चिन्तयामि यदर्जुनप्राणभिक्षा प्रायेण मह्यं सुखं वितरिष्यत्यधिकतरमिति। अथ च प्रत्येकमेषु मे पति:! यदि यक्ष: कस्यचिदेकस्य जीवनं दातुं क्षमस्तर्हि जीवनमर्जुनस्यैवाहं प्रायेण कामये।
अनुपदं युधिष्ठिर: शान्तकण्ठेन ययाचे''नकुलं जीवयतु तावत्।’’
अहं नकुलस्य जीवनलाभं विज्ञायोत्फुल्लिता, किन्तु परक्षणेऽर्जुनो नोत्थास्यतीति भृशं दूनहृदयाऽभूवम्। एवं विडम्बितं जीवनं कस्या बत स्यात्?
यक्षोऽपि साश्चर्यं पप्रच्छ—''भीमार्जुनौ ते हस्तौ। तौ च कुन्तीपुत्रौ। त्वया यद् याचितं माद्रीपुत्रजीवनम्?’’
अहमपि मनसा तदेवापृच्छम्। युधिष्ठिरो न्यायपरायणतायाश्चरमं निदर्शनं समुदाहरन्नाह—''मातु: कुन्त्या: ज्येष्ठ: सुतोऽहं जीवित:, अतस्तद् दृष्ट्या नकुलजीवनयाचनमुचितम्।’’
यक्षो युधिष्ठिरस्य निरपेक्षविचारेणात्यन्तं प्रीतस्तत्क्षणं चतुर्ण्णां पाण्डवानां जीवनानि प्रत्यावर्तयामास। सर्वे निद्रोत्थिता इवोपविष्टा:। तदानीमहमर्जुनचरणौ धृत्वा धरण्यां लुठामि, अश्रुजलेन च सरोवरतीरमृत्तिकां सेचयामि।
अर्जुन: स्वचरणौ मत्कराभ्यामपसार्योवाच—''त्वं पञ्चानां पतीनां पत्नी, सर्वेभ्यस्ते समानमाचरणं स्यात्। परन्तु त्वामहमजयमिति मदर्थं तवाधिका प्रीतिरन्यायाय। अन्यायाचरणेन पाण्डवानां पराजयोऽवश्यम्भावी। कृष्णे! कृपया मत्तस्तमन्यायपर्वतमपसारय। त्वामहमनुरुन्धे—’’
अहमचिन्तयम् यद् दु:खं मेऽनुभूयार्जुनो मां सादरं सान्त्वयिष्यति। परन्तु न्यायधर्मादीनां नीतिवाणीं श्रावयन् स: पुनर्मां तदस्पृश्यां चकार, अहं चाश्रुणा प्राक्षालयम् स्वपतिप्रीतिपापकालिमानम्।
(४५)
विचित्रदृश्यराजिसमन्वितस्य मज्जीवननाटकस्यायं कश्चिद् विडम्बितोऽङ्क:। मत्स्यदेशराजधान्यां विराटनगर्यां राजप्रासादे सम्प्रति वयं छद्मवेशेनाश्रिता:। निर्विघ्नेनैकवर्षयापनेन प्रायेण मे जीवनदु:खमयनाटकस्य यवनिकापात: स्यात्। तत: पूर्वं नाटकस्य चरमं दृश्यमभिनीयत इति विचार्यात्मानमहं सान्त्वयामि।
अज्ञातवासस्य चत्वारो मासा: कथञ्चिद् व्यतीता:। युधिष्ठिर: कङ्कनाम्ना विराटराजस्य सभासद्रूपेणाश्रित:। स: सम्प्रति द्यूतक्रीडामुख्य:। अहोरात्रं द्यूतक्रीडया राज्ञो मनोरञ्जनं तस्य केवलं कार्यम्। ययाऽस्माकं वनवासदु:खस्यारम्भ:, तयैव तद्दु:खं समाप्तिं यास्यति! ब्राह्मण: कङ्क: सम्राजो युधिष्ठिरस्य मित्रमिति विज्ञायातीव सम्मन्यते तं विराटराज:।
मम शक्तिशालिनाऽत्यन्तं खाद्यप्रियेण पत्या भीमसेनेन निजसौकर्याय कार्यमेकमङ्गीकृतम्। स: सम्प्रति विराटराजप्रासादे पाचको 'वल्लभ:’। द्रौपद्या: प्रत्यक्षमार्गदर्शनेन युधिष्ठिरस्य प्रासादे पाचक: स आसीत्, मल्लयुद्धे च पारङ्गत इति विज्ञाय विराटराजेन मुख्यपाचकत्वेन नियुक्त:।
मम शौर्यवत: कन्दर्पतुल्यस्य पत्युरर्जुनस्य भूमिका तु अकथनीया। यस्मात् कारणादहं दूये, तद्यथा तद्भाग्ये लिखितपूर्वम्! स सम्प्रति एको नपुंसको नृत्यसङ्गीतगुरु: 'बृहन्नला’। चित्रसेनगन्धर्वादधीतैर्नृत्यगीतै: स उर्वश्या अभिशापेनाधुनाऽज्ञातवासं यापयति। कदाचित् स द्रुपदराजनन्दिनीद्रौपद्या: प्रियसखी आसीदिति राज्ञा: सुदेष्णाया:, राजकन्याया उत्तरायाश्चादरोऽर्जुनाय परिवर्धित:। पौरुषविहीनो धनञ्जय: सम्प्रति नारीव शाटिकां परिधाय शरीरस्य स्कन्धस्य च बाणचिह्नान्यावृत्य तिष्ठति। दीर्घकेशानां वेणीं कृत्वा तत्र पुष्पाणि मण्डयति। कर्णनासिकाहस्तबाहुचरणेषु नानालङ्कारान् धारयति। अधरोष्ठे रक्तरञ्जनं, कपाले कुङ्कुमबिन्दुं, नयनयो: कज्जलं प्रलिप्य प्रसाधनेनात्मानं रमणीतुल्यं रमणीयं कुरुते। स राजकन्यायै उत्तरायै नृत्यशिक्षां ददाति, राजभवने भोजोत्सवादिषु नृत्यं परिवेषयन् राज्ञ्या: पुरनारीणां च मनो रञ्जयति। अन्येषां छद्मवेषान् कथमप्यहं सोढुं शक्नोमि। परन्तु परमशौर्यवन्तमर्जुनं बृहन्नलारूपेण विलोक्य प्राणान् विस्रष्टुमिच्छामि। सर्वे तस्यापूर्वनृत्यशैलीं विलोक्य चमत्कृता: करतालिका: वादयन्ति, अथचाहं सहसा ततो दूरीभूय वाष्पं निभृतं मुञ्चामि, स्वभाग्यं निन्दन्ती दु:खलज्जादिभिर्भग्नमना भवामि च। सम्यग् जानामि यत्—अर्जुनस्येदं पौरुषहीनं जीवनं कतिपयदिवसमात्रस्थायि। तथापि क्षणाय स्यान्नाम, अर्जुनस्य पौरुषविहीनाऽवस्था, हास्यकरमङ्गसञ्चालनम्, नारीसुलभ: स्वर:, महिलामुखमार्दवम्, लयबद्धा: पदपाता इत्यादय: किं मया कल्पितपूर्वा आसन्? काऽपि रमणी किं स्वपत्युरेवमवस्थां स्वप्नेऽपि सोढुं समर्था? राजभवननार्यो बृहन्नलया सह यदा कौतुकामोदनिमग्ना:, तदाऽहं गम्भीरा विषण्णा सती निजधैर्यं परीक्षे। बृहन्नलाया नारीसुलभभावविलासादिभि: परिहसन्तीषु पुरनारीषु, सर्वेषां समक्षमुद्घोषयितुमिच्छामि यत् का बृहन्नला—का तस्या: कीर्त्ति:—कियच्च तस्या अखण्डं गौरवमिति। परस्तादात्मानं प्रस्तरीकृत्याश्रु गोपयित्वाऽन्यत्र निर्गच्छामि। अर्जुनस्थाने नकुलो यद्यस्यां भूमिकायामवतीर्णोऽभविष्यत्तर्हि अहमपि वसनभूषणप्रियस्य निजरूपसावधानस्य नकुलस्य रूपान्तरेण प्रमोदमन्वभविष्यम्। परन्तु यस्य पत्यु: शौर्यं मे गर्व:, गौरवमाश्वासनञ्च, तमस्यां भूमिकायामवतारयतोऽदृष्टस्य यथाऽयं मां दाहयितुं कोऽपि विलास:!
युधिष्ठिरस्य भूतपूर्वोऽश्वरक्षक इति परिचयेन 'ग्रन्थिक’ नाम्ना नकुलो विराटराज्येऽश्वरक्षकरूपेण नियुक्त:, सहदेवश्च गोसेवया पुण्यार्जनाय 'तन्त्रपाल’ नाम्ना विराटराजस्य गवां रक्षणावेक्षणोत्तरदायित्वं वहति। स्वस्वभूमिकायां नकुलसहदेवौ सुखिनौ सन्तुष्टौ च।
इयं हि अज्ञातवासभूमिका महाराजपाण्डुपुत्राणाम्। द्रुपदराजनन्दिन्या द्रौपद्या विडम्बना यत् सैषा सम्प्रति विराटराजमहिष्या: सुदेष्णाया: केशविन्यासकारिणी, परिचारिका, दासी च। नामास्या: 'सैरिन्ध्री’।
ममापूर्वरूपशोभया विमुग्धा सुदेष्णा मे विडम्बितभाग्यविषये जातसन्देहा बभूव। वार्धक्येऽपि तस्या वृद्ध: पति: कदाचिन्मयि आकर्षित: स्यादिति साऽऽशङ्कते स्म। अहं सविनयमवदम्—''महाराज्ञि! अहं विवाहिता नारी। मद्भाग्यदोषान्मे पञ्च पतयो देशान्तरं गता इति केवलं स्वोदरभरणायाहं भवदाश्रयं याचे। आगतेषु तेषु तेऽवश्यं मां ससम्मानं स्वीकरिष्यन्ति। अतो मे रूपान्मा बिभीयात्। नाहं कमप्याकर्षितुमिच्छामि, न च मय्याकृष्टस्य निस्तार:। मम गन्धर्वपतयोऽवश्यं तं मृत्युदण्डेन दण्डयिष्यन्ति। परन्तु ममैक एवानुरोधो यदहं न कस्यापि पुरुषस्याज्ञां पालयिष्यामि, न चान्योच्छिष्टं स्प्रक्ष्यामीति।’’ तदारभ्याहं सुदेष्णाया विश्वस्ता सहचरी जाता। स्वमुक्तकेशान् वस्त्राञ्जलेनावृत्य सुदेष्णोत्तरयो: केशविन्यासदत्तप्राणाऽहम्।
युधिष्ठिर: परमसुखेन तु निवसति। नक्तन्दिवं राज्ञा सह द्यूतं क्रीडति, तेन सह च भोजनं कुरुते।
अर्जुनो राजकन्याया उत्तराया:, राज्ञ्या: सुदेष्णाया वा मनो रञ्जयन् स्वसमयं यापयति। निवसति सोऽन्त:पुरे एकस्मिन् स्वतन्त्रप्रकोष्ठे। राज्ञीभवने दासीनामर्जुनेन सह परिहासरसेन मे देहेऽग्नि: स्फुरति। मयि ताभ्य: क्रुद्धायां सत्यां ता: मामुपहसन्ति—''किं ते मनो न सहते? पञ्चपतिभिस्त्वं न सन्तुष्टेति स्वगृहं विहायागता, सम्प्रति बृहन्नलया सह कतिपयदिनानि यापयितुमर्हसि। अन्त:पुरे बृहन्नला हि मनोरञ्जनाय केवलो माध्यम:, तदतिरिक्तस्य पुरुषस्यात्र प्रवेशो निषिद्ध:। अपरोऽपि पुरुषो वर्त्तते—स न: परमोऽतिथिर्महाराज्ञीभ्राता कीचक:। स त्वय्याकृष्ट:। तव पञ्चपतय: सन्ति। षष्ठे आगते सति तव न काऽपि क्षति: स्याद् विशेषत:। हस्तिनाराजवधू: द्रौपदी पञ्चपतिकाऽपि पतिव्रता प्रथिता। कीचकं सन्तोषयिष्यन्त्यास्ते सतीत्वमपराहतं स्यात्। कीचकोऽस्मान् तीर्यगपि नावेक्षते। अन्यथा, किं वयमिमपुरुषं पृच्छेम?’’
अहं क्रोधेन जुगुप्सया चानलशिखा जाता। मम कोपानलेन समस्ता गोपनीयता नङ्क्ष्यतीति विचार्यार्जुनो मां परिहासेन रहस्याकृष्य ब्रूते—''सखि! चल, निभृतमालपाव:। ता: मा शृणु। अहं तु सर्वेषाम्। अहं राज्ञ:, राज्ञ्या:, तवापि।’’
दास्योऽश्लीलमन्तव्यै: कलनादिन्यो हसन्ति। मन्नयनयो: प्रवहति अश्रु। अत्यधिकक्रोधेन क्षोभेण च मे वाक्यं न स्फुरति।
अर्जुन: शनैर्वदति—''कृष्णे! अभिनयं सत्यं मत्वा त्वं निष्प्रयोजनं कष्टं सहसे। अवशिष्टानि कियन्ति वा दिनानि—गतप्राया दु:खरात्रिर्न:।’’
क्रोधं निरुद्ध्याहं भाषे—''यस्य शौर्यं मे कुमारीजीवनस्य स्वप्न आसीत्, तस्यायं लज्जाकरोऽभिनय: कथं मे सह्य: स्यात्? अभिनयेऽपि तवायं वेषभूषादिभावो मम कल्पनानीत: किल—’’
अहमश्रूणि प्रोच्छन्ती अर्जुनान्तिकादपगच्छामि। तं विलोक्य मनस: क्षोभ: शतगुणतामेति।
भीमसेनो रात्रिन्दिवमशेषं परिश्रमं कुरुते। तदागमनात् परं सर्वे पाचकास्तन्न्यस्तपाका निश्चिन्ता:। सोऽपि नाधिकमेतन्मन्यते। सुस्वादुभोजनानि निर्माय स स्वयं सर्वेभ्य: परिवेषयति। अन्त्ये स सर्वाणि निर्माणपात्राण्यादाय भोजनायोपविशति, अवशिष्टानि सर्वाणि खाद्यानि क्षणेन गर्भाय निक्षिपति। पाकसमाप्ते: परं स स्वगृहे प्रथमभोक्ता। खाद्यपरिवेषणे क्षणमात्रविलम्बेन तस्य प्रचण्डा मूर्त्तिर्भीषणतां धत्ते। भोजनाय तस्य ज्ञानधैर्यसंयमा मुहुर्नश्यन्ति। अथचेह स्वयं निर्मायाभुक्त्वाऽपरेभ्यो परिवेषयतस्तस्य दु:खं मद् विना कोऽन्योऽधिकं जानातु? अन्येभ्यो यदा भीमसेन: स्वलोभं संनियम्य भोजनं परिवेषयति, तदाऽहं स्वाश्रूणि नैव रोद्धुं प्रभवामि। चिन्तयामि, पाकात् परं सद्य: स्वयं भीमसेनाय भोजनानि परिवेषयिष्यामीति। परन्तु किमत्र मे कत्र्तृत्वम्?
वृकोदरो यदाऽन्त्येऽवशिष्टानि खाद्यानि तत्तत्पात्रेषु खादितुमारभते, तदा सर्वे पाचका:, दासा:, दास्यश्चैकत्रितास्तद्दृश्यं पश्यन्ति, नानापरिहासं च कुर्वन्ति। वदन्ति—''आजीवनं नैवानेन भोजनमेवमुपलब्धम्। दिष्ट्याऽत्र नियोजित इति नानास्वादानि खाद्यानि आस्वादयति। पश्य, कथं रङ्कबुभुक्षुरिव खाद्यानि निगिलतीति।’’
इच्छामि, चपेटापातैर्दासीनां मुखानि पिधास्यामीति। स्वक्रोधं कथमपि गोपयित्वा ब्रवीमि—''हस्तिनाराजपुत्रो भीमसेनोऽप्येवं भोजनं कुरुत इति मया श्रुतपूर्वम्। अपरिमितभोजनशक्तिस्तस्य गौरवम्। यतोहि स राजपुत्र:। परन्तु वल्लभ: कश्चित् पाचक इति एतस्य शक्ति: प्रलोभनं दारिद्र्यस्येव प्रतीयते। को बत जानाति, श्व: वल्लभो राजा न भविष्यतीति? एतस्य शक्तिस्तु नूनं राजसदृशी।’’
दास्य: कलकलं विहसन्त्यो वदन्ति—''जाते! वल्लभे राजनि त्वं तद्राज्ञी भवितुं कामयसे किम्? उचितमुचितम्, सत्सु पञ्चपतिषु यदि ते दासीयोग आसीत्तर्हि ते वल्लभाश्रयेण का क्षति:? वल्लभो राजा भवतु, न भवतु वा, राजरूपस्त्वस्त्येव।’’ दास्योऽश्लीलेङ्गितैर्विहसन्त्यो भूमौ निपतन्ति। अहं तु क्रोधेन जुगुप्सया वा ताभ्यो दूरीभवामि।
एवमन्तर्दाहै: कृतकालातिपाताया मे जीवने 'उत्तरा’ मरुभूमावुद्यानशोभेवासीदाश्वासस्य केन्द्रबिन्दु:। उत्तरां दृष्ट्वा सन्तानविरहदु:खमहं विस्मरामि। तदनिन्द्यकोमलं रूपम्, निष्पापं च सौकुमार्यं मे विक्षुब्धं हृदयं स्निग्धशैतल्येन नम्रमधुरं सम्पादयत:। तां हृद्याश्लिष्याहं ममतापूर्णस्वरेण कथयामि—''यदि मे तनयो राजपुत्रोऽभविष्यत्तर्हि त्वं मे पत्रवधूरवश्यमभविष्य:। तथापि कदाचिच्चेन्मे सुत: स्वशक्त्या राजसिंहासनं लप्स्यते, तर्हि त्वं मे पुत्रवधूर्भविष्यसि।’’ उत्तरा कैशोरकौतूहलेन पृच्छति—''त्वं यदेतावती सुन्दरी, त्वत्तनय: कियान् सुन्दरो नु न स्यात्। तव गन्धर्वपतयो यद्येतावत्पराक्रमवन्तस्तर्हि तेषां पुत्रस्तद्वद् वीरोऽवश्यं भवेत्।’’
उत्तराया: पुरस्तादहमभिमन्यो: रूपं वीरत्वमलौकिकप्रतिभां च वर्णयामि। उत्तरा विमुग्धा मे वर्णनं शृण्वन्ती वदति—''मन्मत्या तु यो वीर:, य: शौर्यवान्, स एव राजा भवितुमुचित:। राजपुत्रो यदि न योग्य:, स पुन: राजा कथं स्यात्?’’
अहमपि मनसा तन्मतं समर्थ्य चिन्तयामि—''यदि तथा, तर्हि सम्प्रति हस्तिनाधिपति: कर्ण एव स्यात्, न दुर्योधन:। परन्तु, अदृष्टस्य परिहासात् कर्णो न राजपुत्र:, अतस्तद्वीरत्वमुपहसितम्।’’
उत्तरा, अहं च यदैकत्र स्वस्तदा मे मनसो दु:खमपसरति। मम शरीरं स्वच्छं निर्मलं प्रतीयते। अत्रान्तरे कीचक आगत्योत्तरया सह कौतुकं कुरुते, मदर्थं च तस्य हृदये कामनोत्पन्नेतीङ्गितेन प्रकाशयति। पुरुषस्य शूरत्ववीरत्वपाण्डित्यादिनि प्रति मे यावदाकर्षणं, तस्य कामनामन्धवासनाञ्च प्रति तावती वितृष्णा। अत: कीचको मे जुगुप्साभाजनं सम्प्रति। अनुदिनं कीचकस्य लालसा वर्धते, कामना च बलवत्तरा जायते। नानोपहारास्तेन दासीहस्तेन मदर्थं विसृष्टा:, मया च ते सतिरस्कारं प्रत्याख्याता:। अन्त्ये स्वनग्नकामनाया निस्त्रपाभिलाषमरुचिकररीत्या प्रकाश्य प्रेमपत्रं प्रेषयामास मह्यम्। पत्राक्षराणि पठित्वा तत् सद्योऽग्रौ निक्षिप्य दासीं प्रत्युत्तरमुदगिरम्—''कामुकं कीचकं ज्ञापय यत्तन्मृत्युर्निकटतरायते। तन्नाशायाहं विषकन्येति तद्दर्शनात् प्रभृत्यहं जानामि।’’ तथापि कीचको लज्जाशून्य:। कामुकपुरुषस्तु पशुरिव। पशो: पुन: का लज्जा, कोऽपमान:?
लब्धे किलावसरे कीचकदुर्व्यवहारादिविषयान् सर्वान् युधिष्ठिराय ज्ञापयामि। सम्प्रति तु अर्जुन: शक्तिहीन: पौरुषशक्तिरहितो निरस्त्रश्च। भीमसेनस्तु ज्ञात्वोत्पातमेवं करिष्यति यदस्मत्परिचय: प्रकाशित: सम्भवेत्। अस्माकं मुख्यस्तु युधिष्ठिर:। तस्मै ज्ञापनेन दु:खमपसरिष्यतीत्यमन्ये। परन्तु स निर्विकार: पुरुष:। तन्निकटे उदारता-न्याय-धर्म-सहनशीलता-क्षमाद्यपेक्षया स्वपत्न्यमर्यादाऽसहायतादु:खयन्त्रणाऽपमानादिनि गौणानि। मम व्यस्ततामसहायतां क्रोधं च विलोक्य स नीतिवाणीं वर्षति। वदति—''याज्ञसेनि! त्वं खलु विद्यावती। आत्मानं स्वयं रक्षे:, न त्वन्य:। सावधानतया कीचककामनाग्रासाद् दूरीभव। तथा कदापि माऽऽचर, येनास्माकं परिचय: प्रकाशितो भवेत्, वयं च विपन्ना: स्याम। एवं कर्त्तुं नायमस्माकं समुचित: समय:। मत्स्यान्त:पुरे सतीष्वनेकासु सुन्दरललनासु कीचककुदृष्टिस्त्वयि कथं पतिता? पूर्वं सावधानता त्वयावलम्बनीयाऽऽसीदेव।’’
क्रोधेन विस्फुरणस्य नात्रावकाश:। चीत्कारेणापि दु:खभारलाघवस्य नेदं स्थानम्। अश्रुधारया स्वासहायताज्ञापनाय युधिष्ठिरो न योग्य: पति:। जीवने युधिष्ठिराग्रे मया कदापि न स्वव्यथा प्रकटीकृता, न प्रकटीकरिष्यते इति मे प्रतिज्ञा। अभिमानस्य मूल्यं यो न जानाति, तत्राभिमान: स्वोपहासायैव। अर्जुनाग्रे नाधिकमपि स्वाश्रु प्रवहामि। स मदभिमानेन स्वाभिमानं संयोज्य ममाश्रुप्रवाहं प्रगुणीकारयति। यदि कुत्रचिदश्रुनिवेदनं योग्यं, तर्हि स निर्मलहृदय:, उन्मुक्तमना:, स्पष्टवक्ता भीमसेन एव। यदि स मेऽश्रु यथार्थं मन्यते, तर्हि सागरलङ्घनं तेन न विचित्रम्। परन्तु, तस्मान्मे भयम्। मयि कीचकदृष्टि: पतितेति निशम्य प्राणनाशं विना न तं त्यक्ष्यति। येनाज्ञातवासरहस्यमुन्मुच्येत।
अहं सावधानतयाऽऽत्मरक्षार्थं प्रयते, ईश्वराय समर्पयामि चात्मानम्। पतिरीश्वरो नाम पत्न्या:। परन्तु यदि स पत्नीरक्षार्थमसमर्थस्तर्हि स तदीश्वर: कुत:? ईश्वर: स एव पुरुषो यो रक्षाकर्त्ता। अतोऽहं सखायं कृष्णमीश्वरासनमधिष्ठाप्य पूजयामि। स एव मे विपद्बान्धवो रक्षाकर्त्ता। अत: स ममेश्वरो हृदयेश्वर: प्रात:स्मरणीय: प्रियबान्धवश्च। दूरस्थमपि तं प्रतिमुहूर्त्तं स्वहृदि संस्थाप्य प्रत्येकं विपदमपसारयामि।
एकदा विराटान्त:पुरे कश्चनोत्सव आयोजित:। उत्सवकर्त्री स्वयं राज्ञी सुदेष्णा। नृत्यगीतपानभोजनादीनां विपुलमायोजनम्। युधिष्ठिर: सुखाद्यभोजनात् परं राज्ञा सह द्यूतक्रीडानिरत:। भीमसेन: पाकशालायां व्यस्ततर:। अर्जुनो नृत्यं परिवेषयति। नकुलोऽतिथीनामश्वानां भोजनविश्रामादिकार्यलग्न:। सहदेव: प्रतिदिनमिव गोशालायामवतिष्ठते।
सुदेष्णाया: सविधे उत्तराऽहं चोपविष्टे। बृहन्नलानृत्यं विलोक्य सर्वे मुग्धा:, परन्तु हृदयं मे शतधा विदीर्यते। य: सव्यसाची स्वयंवरसभायां पृथिव्या: सर्वान् पराजित्य कृष्णामासादितवान्, तस्य पुन: तदुपस्थितावन्त:पुरे नारीणां मनोरञ्जनाय नृत्यमदृष्टेन लिखितमासीत्!
सर्वा हसन्ति, अहं तु तीव्रमश्रुप्रवाहं कथमपि गोपयामि। तदानीं सुदेष्णाऽऽदेशसूचकगम्भीरकण्ठेनावोचत्—''सैरिन्ध्रि! सम्प्रति त्वं कीचककक्षान्मद्यपात्रेण सुगन्धिमद्यमानय। अयं ममादेश:।’’
अहमाहतकण्ठेन प्राकाशयम्—''महादेवि! नीचकार्यं न कदापि करिष्यामीति निवेदितपूर्वं मया भवत्या: पुरस्तात् नियुक्तिकाले। कीचक: सम्प्रति अत्यधिकमद्यपानेनोन्मत्तवद्विचरति स्वकक्षे। अत ईदृगवस्थस्य कामान्धपुरुषस्य कस्यचन कक्षे प्रवेश: कस्याश्चिदपि नार्या असम्मानजनको विपज्जनकश्च। कार्यमिदं कर्त्तुं नाहं शक्नोमि।’’
राज्ञी सुदेष्णा कदापि मां दासीमिव न व्यवहरति। स्वप्रियसखीमिव मां पश्यति। अथ चाद्य कठोरकण्ठेनोवाच—''ममादेशोल्लङ्घनं नाम राज्याद् बहिष्कार इति ननु जानासि पञ्चपतिके सैरिन्ध्रि!’’
अहं सम्प्रत्यात्मानं प्रस्तौमि तदर्थम्। ज्ञातवती यत् सुदेष्णा भ्रातु: कामवासनापूर्तये कूटनीतिमेवमाचरतीति। कतिपयमासेभ्यो मेऽत्राश्रय आवश्यक:। सर्वा साधना निष्फला यास्यति। कृष्णं स्मारं स्मारं मद्यपात्रं धृत्वा कम्पितचरणाऽहं कीचककक्षाभिमुखं समचरम्।
अहं जानामि यत् प्रज्ज्वलत्यग्नावहं प्रविशामि। अहं च जानामि यत् समुद्रस्यातलगह्वरे चरणं निक्षिपामि। अहमेतदपि जानामि यदहं हिंस्रव्याघ्रस्य रुधिरपिपासाशान्त्यै तदाह्वानं करोमि। इदं चाहं सम्यग् जानामि यत् कीचकस्य पुरतो मम शक्तिर्नगण्या। सत्स्वप्यत्र मे पञ्चपतिषु स्वात्मरक्षा स्वया करणीयैव। नारीत्वं मे सम्प्रति विपन्नम्। तथाप्यग्रेसरामि। शूलवेधायाभियुक्त: स्वेच्छया शूलस्तम्भाय नैव प्रसरति। तच्चरणौ राजाज्ञया चलत:। ममाप्यवस्था तथैव। क्षुधातुरशार्दूलपञ्जरे बलान्निक्षेप:, मद्योन्मत्तकीचककक्षप्रवेश इत्यनयोर्न कोऽपि प्रभेद:।
कीचकद्वारदेशेऽसहायतया पूर्णतस्त्रुटिताऽहं कृष्णं स्मृत्वा स्वगतोक्त्या न्यवेदयम्—''सखे! त्वं म ईश्वर: प्रियतमश्च। तव प्रियसख्या: कृष्णाया मानापमाने तवैव। त्वां विना कोऽद्य मां रक्षेत्?’’
कीचको मां प्रतीक्षमाण आसीत्। मां विलोक्य सहसा बाहू प्रसार्य तत्कामनाया: प्रज्ज्वलितशिखया कवलीकर्त्तुं तस्मिन्नग्रेसरति अहं स्वसमस्तशक्त्या हस्ताभ्यामाघातं कृतवती। स तेन शरीरभारसाम्यं विस्मृत्य नीचै: पपात। अस्मिन् सुयोगेऽहं त्रस्ता हरिणीव धावन्ती विराटराजद्यूतक्रीडासभागृहे उपस्थिता। क्रोधोन्मत्त: कीचको मामनुसरन् तत्रापि प्रविष्ट:। सर्वेषां समक्षं मे मुक्तकेशानाकृष्य मां नीचैरपातयत्, पदाघातै: सहाश्लीलभाषाभिर्मां भर्त्सितवान्। अहो आश्चर्यम्! युधिष्ठिरो नितान्तमविचलितो द्यूतं क्रीडति, शिर उन्नमय्यापि मां न पश्यति। अकस्मात्तत्र भीमसेन उपस्थित:। क्रोधाविष्टं कीचकप्रहारायैकस्मिन् विशालवृक्षे निक्षिप्तदृष्टिं तं विलोक्य भयेन युधिष्ठिर उवाच—''पाचकमहोदय! किमत्र ते कार्यम्? इन्धनमावश्यकं चेद् वनं याहि। अत्रावयो: क्रीडायां न कोऽपि व्याघात: स्यात्।’’ युधिष्ठिरादेशेन भीमसेन: क्रोधं शमयन् ततो नि:सृत:।
लज्जयापमानेन च जर्जरिताऽहं युधिष्ठिरमुद्दिश्य राजानमपृच्छम्—''नार्यै किमु सर्वतो न्यायमार्ग: पिहित:? अनेन कामुकपुरुषेण बलात्कार:, सर्वेषां समक्षं ममापमानश्च नित्यकर्मेव साधारणौ? —यदत्र किमप्यनुक्त्वा राजा द्यूतं निर्द्वन्द्वं क्रीडति? राजा यदि न नार्या रक्षकस्तर्हि तदात्महत्यार्थमनुमतिप्रदानं किं नोचितम्?’’
विराटराजो नीरव:। कीचकबाहुबलेन स राजा। स किमुत्तरं प्रदद्यात्? युधिष्ठिरस्तत्पक्षादुवाच—''सैरिन्ध्रि! किं जातमिति न वयं जानीमहे। अत: किम्भूतं न्यायं वक्ष्याम:? त्वं तावदन्त:पुरे गच्छ। नारीजनितो व्यापार: सभागृहेऽविचारणीय:। अन्त:पुरस्था एव तद्विषयं जानन्ति। सम्प्रति सर्वे महोत्सवनिमग्ना:। अत: रजनीं यावत् प्रतीक्षस्व। कदाचित्तव शक्तिमत्सु गन्धर्वपतिषु कश्चित्तवापमानप्रतिशोधायागच्छेत्। गच्छ, ब्रूहि वल्लभं रात्रिभोजनप्रस्तुत्यै। अद्य रात्रौ सर्वे शीघ्रमेव विश्रमिष्यन्ति क्लान्तिकारणात्। अस्माकं क्रीडायां मा व्याघातमापादय तावत्।’’
युधिष्ठिर: पुन: क्रीडितुमारेभे। अहमश्रु गोपयित्वा प्रत्यावर्तमाना कठोरस्वरेणावोचम्—''प्रायेण मे सतीत्वहरणात् परं मम गन्धर्वपतयो जागरिष्यन्ति। तदानीं ते मम मृतशरीरमेव लप्स्यन्ते। पतिरूपेण तेषामङ्गीकार: कदाचिन्मे पापायासीदिति तदपराधस्य फलं सम्प्रति भुञ्जे। मम ज्येष्ठपति: द्यूतक्रीडायां व्याघातं न सहते। किन्तु तस्य द्यूतक्रीडा मन्नाशाय भवतीति न स जानाति, जानन्नपि न तृणायापि मन्यते। तं प्रति यदि मे सम्मानदानं न्यूनीभवेत्तर्हि किं भवान्मामपराधिनीं मंस्यते?’’
नीरवो युधिष्ठिरोऽधोमुखो निरुत्तरश्च बभूव। अहमन्त:पुरं प्रत्यागता। युधिष्ठिरस्येङ्गितं बुध्वा भीमसेनाय सर्वमुक्तवती। भीमसेनप्ररोचनया कीचकं निशार्धे निभृतमिलनाय निमन्त्रितवती। अस्मिन्नेवावसरे भीमसेनस्तं व्यापाद्य मां ररक्ष। भीमसेनमीश्वरं मत्वा प्राणमम्, अश्रुनैवेद्यं च तत्पदाभ्यां समर्पितवती। पाकशालाया अपरिष्कृतभूमौ पतित्वा भीमसेनस्य प्रशस्तहृदये कृतज्ञताश्रु ज्ञापितवती। स च मह्यं समादरमभयं जिजीविषाप्रेरणां च प्रादात्।
परेद्यु: प्रात: सर्वेऽजानन् यन्मे गन्धर्वपतिषु कोऽप्येक: समागत्य कीचकमवधीत्। एतेनान्त:पुरे मम सम्मानमवर्धत। ममापि दु:खनिशा क्रमश: समाप्तिमेतीति मुदिताऽभवम्।
कीचकनिधनसमाचारस्तडिद्गत्या समग्नार्यावर्त्ते प्रचारितो बभूव। सुयोगेऽस्मिन् कौरवा विराटराज्यस्य विपुलसम्पत्त्यपहरणाय आक्रमण
मारेभिरे। कीचकविनाशेन तद्राज्यं शक्तिहीनं बभूव। पराजय: सुनिश्चित इति विज्ञाय राजाऽऽत्मसमर्पणाय प्रस्तुर्तिं चक्रे। परन्तु पाण्डवा: स्वविचक्षणतया युद्धे कर्णकौरवादीन् पराजित्य विराटराज्यस्वातन्त्र्यमक्षुण्णं चक्रु:। कौरवा: पूर्णत: पराजिता हस्तिनापुरीं परावर्त्तिता:। पाण्डवानां प्रकृतं परिचयमाप्य मत्स्यराजोऽत्यन्तं मुमुदे। प्रतीक्षितो नो मुक्तिदिवस उपस्थित:। पाण्डवानां वनवासदु:खं परिसमाप्तम्। अग्ने पुन: किमस्तीति को बत जानीयात्?