अमरकण्टक:
(नर्मदाया उद्गमतीर्थम्)
भारतवर्षस्य नदीनां सप्त सुप्रसिद्धा:-गङ्गा, यमुना, सरस्वती, गोदावरी, नर्मदा, सिन्धु:, कावेरी चेति। अत एव स्नाने पूजने च तदिमा: समावाह्यन्ते श्रद्धालुभि:। यथा ह्यद्यत्वे सर्वासु सुप्रसिद्धतमा पूज्यतमा च सेयं भगवती गङ्गा तथा वैदिककाले ह्यासीत्प्रभाववती भगवती सरस्वती। किं यजु: किं वा ऋक्, सूक्तैरेतस्या: सर्वतोऽपि सुसमृध्यत:। काव्येष्विव सालङ्कारं रुचिरतमं चास्या: स्थाने स्थाने वर्णनं समुपलभ्यते संहितायाम्। वैदिककार्याणां भारतदेशीयत्वं साधयता श्रीमता सत्यव्रतसामश्रमिणा प्राचीनार्यावर्तस्य यद्वर्णनमन्विष्टं तत्र- सिन्धुनाम्ना यथा सम्प्रति सि(हि)न्धुस्थानमिति नामकरणं तथा सोऽयं सारस्वतो देश इति पुरा व्यपदेशमर्हतीति साधितोऽस्या महिमा। काव्यसाहित्येऽपि पुरातने स्थाने स्थाने समुपलभ्यते सरस्वत्या माहात्म्यम्। किन्तु हन्त! गभीरा सुदीर्घतमा चापि सेयं नदी सम्प्रत्यन्त:स्रोता: सती विलुप्तैवैकान्ततो भारतात्। अनुमीयतां परिवर्तनेनानेन वैदिककालस्य प्राचीनत्वं प्रभूतत्वं च।
गङ्गायमुनयोरुत्तरं प्रभूतो महिमा नर्मदाया अपि। कुर्वन्त्येतस्या: प्रदक्षिणां श्रद्धावन्त:। ते ह्येतस्या उद्गमस्थानमारभ्य यस्मिन् स्थाने सेयं समुद्रगामिनी भवति तदुत्तरतटमालम्ब्य पुन:परावर्तन्ते ह्येतस्या उद्गमस्थानमेव। महती सेयं नर्मदा नदी। मध्यदेशे भारतस्य प्रवहमाना सेयं विभजते भारतं द्वयोर्भागयो:। तटे ह्येतस्या भूयांसि नगराणि, बहुतराणि रम्यस्थानानि, मनोहरा घट्टा मन्दिराणि च कियन्ति सन्ति। घट्टेषु 'भेडाघाट’ प्रसिद्धतमम्। नर्मदाया ब्रह्माण्ड (बरमान)घट्टोपरि महानेको मेलकोऽपि संयुज्यते। नदी सेयममरकण्टकनामकात्पार्वत-प्रदेशादुद्गता। अयमेव गिरिस्तस्या उद्गमभूमि:। अत एव तदिदं स्थानमभिमन्यते पूज्यतमम्। प्रतिवर्षं परस्सहस्रा: पुरुषा: कुर्वन्त्येतस्य यात्राम्। तदिदं स्थानमद्यावधि धार्मिकदृष्ट्यैव महत्त्वपूर्णम्, किन्तु साम्प्रतमैतिहासिकमहत्त्वमपि भाग्यभुक्तमस्य कर्तुं प्रयतन्ते बहव:। कियत: कालादारभ्य कतिचित्पुरातत्त्वविद: पण्डिता: स्थानमिदं प्राचीनं लङ्काद्वीपं साधयितुं प्रयस्यन्ति। भारतस्य लङ्कायाश्च मध्ये शतयोजनानाम् (चतु:शतक्रोशानाम्) अन्तरालमिति रामायणे प्रसिद्धम्। अत एव अमरकण्टकस्यास्य सविध एव लङ्कास्थानं साधयद्भिरेभिर्मध्यवर्तिनी दूरता सा समीक्रियते। इहैव तै: समुद्रस्य, वानराणामृक्षाणां चाप्यनुसन्धानमाविष्कृतमिति चित्रीयतां चतुरै:। अस्तु. अमरकण्टकाय तदिदमैतिहासिकं महत्त्वं मिलेन्न वा, किन्तु यत्स्थानं पुरातत्त्वज्ञगवेषणायामेतावदधिरूढं तस्य यत्किञ्चित्परिचयस्तु संस्कृतज्ञैरपि प्राप्तव्य एव।
'बङ्गाल-नागपुरधूमशकट्या:’ एका शाखा कटनीतो विलासपुरपर्यन्तं गता। तदुपरि पेण्डरा-रोडनामकमेकमवमोचन१मस्ति, एदस्मादमरकण्टक: सप्तक्रोशान् (१४ मील) दूरे। मध्यमार्गोऽयं पार्वत: कान्ताराकीर्णश्च, परं मध्ये मध्ये हरितक्षेत्राण्यपि दृष्टिपथमुपयान्ति। अवश्यं वैशाखज्येष्ठादिमासेषु नेमानि दृश्यन्ते किन्तु वर्षासु प्राय: सर्वत्रैव हरिता भूमिरवलोक्यते। मार्गे साधुतापसानां कुटीराणि दर्शनीयानि। प्राकृतदृश्यानां तु कथैव का? क्वचित्प्रचण्डो नालको घोरध्वनिं कुर्वन्प्रवहति तर्हि कुत्रचिद् विशालशिलाशीर्षेभ्यो घर्घरारावं कुर्वत्पानीयं प्रपतति। अवनतभूमिषु स्थाने स्थाने विशालजलकुण्डा: शोभन्ते। गगनचुम्बिनो वन्यमहीरुहाश्चेद् दृष्टिमाकर्षन्ति तर्हि सरणीनाम् (सडक) उभयपार्श्वे प्रफुल्लिता अर्द्धारण्यकवृक्षा: समाहरन्ति निजशोभया मनांसि मानवानाम्। सन्ति मार्गे ग्रामा अपि मध्ये मध्ये, येषां बहुषु पथिकानां निवासाय धर्मशाला अपि दृश्येरन्। सुदीर्घस्यैकस्य नालकस्य तटे तु विशालविशाला: शतशो रसाला बहुदूरपर्यन्तं पङ्क्तिनिबद्धा: समालोक्यन्ते। सारं त्विदमेव, यत्कियद्दूरपर्यन्तं तु मार्ग: प्राकृतिकसुन्दरतया नितरां मनोहार्येव, किन्तु यत: पर्वतस्य प्ररोह: प्रारभ्यते तत आरभ्य पदातीनां पथिकानामवश्यं कष्टसम्भावना। वाहनमारुह्य यात्रां कुर्वाणास्तु सुखेन समुपगच्छेयुरमरकण्टकमिति न वाचा वक्तव्यम्।
अमरकण्टको रीवाँ-राज्यान्तर्गत:। निवसन्त्यत्र राज्यस्य कतिचित्कर्मचारिण:। पुरा तदिदं स्थानमासीदतिदुर्गमं किन्तु साम्प्रतमियं दुर्गमता गता भवति शनै: शनै:। सुभगसरणयो निर्मिता: स्थाने स्थाने। यद्यपीमा न सन्ति तथायता: किन्तु यात्रिणां यातायातयो: कृते प्रचुरं पर्याप्ता:। प्रधानसरणेरुभयत: सन्ति कियन्ति सुन्दराणि मन्दिराणि। सन्ति व्यापारिणां प्रगुणा आपणा अपि येषु पानभोजनयो: सर्वमेवोपकरणमासाद्यते यात्रिभि:। शालयस्त्वन्यदेशापेक्षया रुचिरा एव समासाद्यन्ते। न च न्यूनता घृतदुग्धादेरपि। सायं प्रातरमरकण्टकदेवालयेषु दृश्यते दर्शनार्थिनां भूयसी सङ्कुलता। यतस्तत: समाकर्ष्येत कोलाहल:, अनुभूयेत भूयानानन्दोत्सवो भक्तानाम्। जनसंघे यत्र तत्र गौडभिल्लाद्यसभ्यजातीया: पुरुषा अपि बहवो विलोक्येरन् येषां शरीरवर्ण: कृष्ण: केवलं कटिकौपीनेनैव च ये वस्त्रवन्त:।
अमरकण्टके प्रधानं तीर्थस्थानं नर्मदाया: कुण्ड:, तत्सविधसरण्यामेव श्रीनर्मदाया मन्दिरं च। एतन्मन्दिरस्य सम्मुखमेव प्रसिद्धमेकमन्यत्मन्दिरमस्ति भगवत: श्रीशङ्करस्य। उद्गमस्थानान्नि:सृत्य नर्मदाया जलमस्मिन् कुण्ड एवैकत्र भवति।
अमरकण्टके नास्ति न्यूनता देवालयानाम्। महाराज्ञ्या अहल्याबाईतिख्याताया धर्मशालापि तत्र सुप्रथिता। परमयं महान् खेदस्य विषयो यद् यत्कालिकोऽयं निबन्धलेखस्तस्मिन् समये भूयांस एव मन्दिरधर्मशालादयो भग्नावस्थायामासन्। मन्येऽहं, रीवाँराज्येनावधानमवश्यमस्मिन् विषये कृतं स्यात्। न चेत्कृतं तर्हि साम्प्रतमवश्यं तत्कर्तव्यम्। यानि स्थापत्यकार्याणि नाधुनापि नष्टानि तेषामेव चेद्रक्षणावेक्षणं क्रियेत तर्हि तीर्थस्थानस्याऽस्याऽमरकण्टकस्य महत्ता भूयस्स्वंशेषु सुरक्षिता स्यात्। राज्यस्यावधानम-
स्मिन्विषये समाकृष्टमित्यनुमीयतेऽपि। यतस्तत्प्रयत्नेन प्रतिवर्षमत्र शिवरात्रेर्मेलकोत्सव: संयुज्यते यत्र दूरदूरतोऽपि यात्रिण: समागच्छन्ति। आपणा: समायान्ति दूरदूरेभ्योऽपि नगरेभ्य:। कतिचिद्दिनानि भवति भूयान् समारोह:। पेण्डरा-रोडस्थानादारभ्य अमरकण्टकपर्यन्तं रक्षापुरुषाणां निरीक्षणं भवति, लभ्यन्ते च तदा सर्वविधान्येव वाहनानि।
अमरकण्टकात्कपिलधारा सार्द्धक्रोशं दूरे। तत्र त्रिंशद्'गज’समुन्नताद् गिरिशृङ्गान्निपतति निबिडा नर्मदानीरधारा निम्ने यस्या घोरनिर्घोष श्रूयते दूरदूरतोऽपि। परममनोहरमिदं दृश्यम्। मध्ये निपतन्ती नीरधारा परितश्च नानावनस्पतिनिबिडमकृत्त्रिमं वनम्। यत्र प्रफुल्लिता नानावनलता, परस्सहस्रप्रकाराणि काननकुसुमान्याहरन्ति हृदयं च घ्राणं च नयनं विलोकयताम्। पार्श्वपर्वतिकाया: समीप एव विलसन्ति वन्यजननिवासा: कतिचिल्लघवो ग्रामा अपि। प्रकृतिदेव्या नानाविधविहारस्थलीं सेयं नाकर्षेद्धृदयं सहृदयानाम्?
कपिलधारात: क्रोशार्द्धदूर एव दृश्यते दुर्लभदर्शना दुग्धधारा अत्रापि यात्रिजनशर्मदा नर्मदा समवतरति समुन्नतादचलशिखरान्मन्द्रमधुरशब्दमधस्ताद्। परं नेदं पर्वतशिखरं समतलभूमितस्तादृशमुन्नतं यादृशं कपिलधारायाम्, अत एव नाऽत्र घोरो ध्वनिराकर्ण्यते निपतन्त्या सलिलधाराया:।
अमरकण्टकशैलमालातो न केवलं नर्मदैव नदी नि:सरति, शोणभद्रनदोऽप्यस्मादेव समुद्भवति। नर्मदाया उद्गमस्थानतो ह्यनुत्तरवर्ती तदुद्भवप्रदेश:। अनयो: सरिदुद्गमयोर्मध्ये सार्द्धकक्रोशमन्तरालम्। एष हि शैलमालाया द्वौ विशालौ शिखरौ, मध्ये च निम्नो भूयानवकाशो यो 'घाटी’व दृश्यते। अत्रैव पर्वतशृङ्गारदेकस्मान्निपतति शोणभद्रधारा निराधारा नीचै:। अन्यस्मिन्समये साधाराणाकाराऽपि सेयं धारा वर्षासु विपुलाकारा भवति, या भयानकरूपेण निम्ने निपतन्ती समुद्भावयति भैरवं घोरावरम्, यो हि निस्तब्धनिशासु क्रोशक्रोशान्तरादपि विकटं श्रूयते।
शोणभद्रादर्द्धक्रोशान्तरे मञ्जुलमेकमुपवनम्, यद्धि भगवत्या नर्मदाया: सुखदा पुष्पवाटिकेति प्रख्यातं लोकेषु। अस्मादेवोपवनात्प्रत्यहं भगवत्या नर्मदाया: पूजायै प्राप्यन्ते पुष्पाणि। अत्रैव 'बकावली-पुष्प’-अपि ('गुलेबकावली’) लभ्यते यद्धि स्थानमिदं विहाय नान्यत्र कुत्रचित् प्राप्यत इति प्रसिद्धम्। पीतवर्णमिदं कुसुमं नेत्ररोगेष्वमोघमित्यपि लोके ख्याति:। पाठकेषु बहुभिरुर्दूभाषाप्रसिद्धं बकावलीपुष्पोपाख्यानं 'किस्सा गुलबकावली’ भवेत्कदाचिदाकर्णितम्। श्रूयते यद् येषां दुरधिगमप्रदेशानां गुहानां च वर्णनं तत्र प्रसिद्धं तानि स्थानान्यत्रैवासन्।
अमरकण्टक: पर्वतप्रदेश:। इह न्यून एव निदाघोष्मा, प्राकृतदृश्यान्यपि नान्यत्र द्रष्टुं शक्यानि तथाविधानि। प्रावृषि पर्वतशोभा सेयमलौकिकी किन्तु तस्मिन्नृतौ स्थानमिदमुपगन्तुं भवति पथिकानां कष्टसम्भावना बाल्येन यतस्तस्मिन्नवसरे प्रवर्द्धन्ते स्थाने स्थाने नदी-नद-नालकावेगेन। परमन्येषु ऋतुषु निरायासमेव यात्रिण: समुपगम्य देशान्तरे दुर्विमृश्ये प्राकृतदृश्यै: शक्नुयुर्मनांसि रञ्जयितुमिति विदितं विदाम्।
व्योम-विहार:
पूर्वार्धम्
नभोवृत्तानि
भूमिचरेणानेन नरेण स्वत: शतगुणितबलेष्वपि पशुषु विजयं प्राप्य यथा रथादिना स्थलयात्रा प्रारब्धा, तथा बलाच्छैलहरेष्वपि जलचरेषु विजयमवाप्य नौकादिना जलयात्रापि बलादधिकृता। किन्तु जले स्थले चाप्यधिकारं लब्ध्वापि नरस्यास्य न व्यपगतमनयाऽधिकारतृष्णया। एष हि बुद्धिबलेन गगनतलेऽप्यधिकारं लब्धुं चिरात्प्रायस्यत्। कृत्रिमैश्छत्रैरयमुड्डीन:, धूमभृतैर्गोलिकैरप्ययमगाद् गगने, यन्त्रयानैरप्ययमारोढुमैच्छन्नभ:। हन्त, हन्त! बहूनां बलिनां बलयोऽप्यस्मिन्नभूवन्। किन्तु मनुष्येणानेन नेयमधिकारेच्छा वा व्योमविहारेच्छा वा पर्यत्याजि। नाधिक: समयो व्यतीत:, कैशोर्यदशायामस्माभिरेव पत्रेषु गगनारोहणप्रयत्ना इमे साभिरुचि सकौतूहलं चाऽपठ्यन्त यत्र हि सरस्वत्यादिपत्रेषु सेयं सम्पादकटिप्पण्यपि निरगाद् यत् - ''अपि भवेदीदृशमपि दिनं यत्र हि विहरेयुर्विहायस्यपि मानवा अमी।’’ दिष्ट्याऽस्मिन्नेवायुषि कतिभिरेव वत्सरैस्तद्दिनमिदमस्माभिरेवाऽलोकितम्। सम्प्रति मानवेनानेन जले स्थले गगनतले चापि बुद्धिबलेनाधिकारो लब्ध इति सावलेपं शक्यते वक्तुम्।
ततश्च साहित्ये जलयात्रा स्थलयात्रा च यथा स्थानमलभत, तथा गगनतलयात्रापि सम्प्रति वर्णनावकाशं लेभे। प्रबलवेगं भूमियानमधिरूढस्य जनस्य दृष्टौ पर्यन्तदृश्यं कीदृशं वा भवेदिति वर्णनं यथा कौतुकाय तथा दृष्टिपथाऽतियानं विमानमधितिष्ठतो दृष्टौ भूतलदृश्यं कीदृशं वा सम्भवेदित्यपि निबन्धनं कौतूहलाय। वशीकृतगवीनां संस्कृतकवीनां दृष्टितो नेदमपि तारतम्यमभूत्तिरोहितम्। द्वयमपीदं मिथस्तुलनात्मकदृष्ट्येव वर्णितवानेकस्मिन्नेव स्थले (ग्रन्थे) महाकवि: कालिदास:-
''यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्द्ध विच्छिन्नं भवति कृतसन्धानमिव तत्।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो-
र्न मे दूरे किञ्चित् क्षणमपि न पाश्र्वे रथजवात्॥’’
यत्पूर्वं सूक्ष्मं भवति प्रबलवेगस्य वाहनस्य गतिवशात् तन्महाविपुलं दृश्यते, मध्ये विच्छिन्नोऽपि पदार्थो गगनवेगान्नूनं नीरन्ध्र इवालोक्यते, इत्यादिर्वस्तुस्वभाव: कियन्मधुरो वर्णितस्तदेतदनुभवनिकषेण मार्मिकै: परीक्ष्येत नाम। व्योमविहारवर्णनमपि दृश्यताम् -
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपा:।
सन्धानं तनुभागनष्टसलिल-व्यक्तया व्रजन्त्यापगा:
केनाऽत्युत्क्षिपतेव पश्य भुवनं मत्पाश्र्वमानीयते॥
गगनादतिदूरतो दर्शने भूमिस्तद्गता: शैलाश्चाऽप्यव्यक्ततया एकीकृता इवालोक्यन्ते, शैला: पृथिव्यां मन्ये निमग्ना:, किन्तु यथैव वयं नीचैरवतरामस्तथैव पृथिवीत: शैलानां भिन्नता बुद्धिगता भवति। ततश्च पृथिवीमध्ये निमग्ना इव पूर्वं दृश्यमाना: शैला उन्मग्ना इवोपर्यागच्छन्ति। एवं सति या पृथिवी पर्वतैरेकीभूतासीत्सा पर्वतेभ्योऽवतीर्य स्वसीमनि दृश्यते। उपरितो दर्शने पादपानां पत्राण्येव दृश्यन्ते अत एव पत्रेषु पादपा विलीना इव भवन्ति, किन्तु यथैवाऽग्रे समवतीर्यते तिर्यग्दृष्टिपातश्च भवति, तथैव वृक्षस्कन्धानां प्रत्यक्षीभावाद्वृक्षा: पूर्वोक्तां विलीनतां जहति। नदीनामतिसूक्ष्मा या जलवेणा उपरितो दूरदर्शने लुप्तेवासीत्, अत एव नदीनामप्यनुसन्धानं दुष्करमासीत् किन्तु निकटागमने सा सलिलरेखा व्यक्ता भवति। ततश्च नदीनामपीदानीं सन्धानमभूत्सुकरम् इत्यादि कियदनुभवैकवेद्यमिदं वर्णनमिति को वा नाभिनन्देत्? किन्तु टीकाकारस्य वीरराघवस्यात्र वीरता विलोकनीयैव। स हि व्याख्याति - ''उन्मज्जताम् ऊर्ध्वं नमतां शैलानां शृङ्गात् शिखरात् पृथिवी अवरोहतीव अधो नमतीव।’’ नमनम् अधो भवति ऊर्ध्वं वा? प्रह्वीभावार्थकस्य नमनस्य ऊर्ध्वमिति विशेषणं सत्यं विवेकिमूर्धन्यतां सूचयति। अस्तु, प्रस्तूयते प्रकृतम्।
यदिदं व्योमविहारवर्णनं खेचरगोचरं कविवरगोचरं वा केवलमासीत्पूर्वं तदधुना भौतिकविज्ञानस्य कृपया प्रत्येकनरगोचरं भवितुमर्हति मानसिकसारो रूप्यकझणत्कारो वा चेत्सहायकोऽत्र। अन्यथा तु गगनमुड्डीयमानस्याऽस्य दूरतो वर्णनेनैव कवित्वाभिमान: शक्य: साधयितुम्। यथा हि मम -
घनाक्षरी -
''उत्पतत्पतङ्ग1 इव पारिप्लव2-पक्षद्वयो
याति निर्भयोऽयमतिवेगं गगनालये
मीनाकृतिमध्यदेशमारोहन्ति साहसिनो
भ्रमणविलासिनो नियुद्धे निपुणाश्च ये।
मञ्जुनाथ मन्त्रमिव लब्ध्वा3 वाष्पयन्त्रबलं
चुङ्करोति घोरं व्योम्नि गगनजवोदये
वर्तमान-वैज्ञानिक-लोकस्याभिमानभूमि-4
माकाशे विमानमयमानमवलोकये॥’’
किन्तु यानस्वरूप-वर्णनमात्रान्न यात्रानुभव: शक्यो विज्ञातुमिति भारतस्य पूर्वत: पश्चिमपर्यन्तं (कलिकात्तातो योधपुर-पर्यन्तम्) विमानेन गगनं गाहमानस्य, सज्जनस्य स्वानुभूतो भ्रमणवृतान्तोऽनुपदमेव प्रकाश्यते। (उत्तरार्धे विमान-यात्रा शीर्षके।)
उत्तरार्धम्
विमानयात्रा
उत्तररात्रस्य त्रिवादन एव शयनीयं विसृज्योदतिष्ठम्। नासीदतिप्रत्यूषे जागरणस्याभ्यास:। अत एव यात्रारम्भात्पूर्वतन: कार्यकलाप: (अभ्यवहारादितो निवृत्तिरूप:) कथमिव तदानीमासीत्सुकर:? तथापि द्वित्रान् रसगोलकान् सरभसं गलाध: कृत्वा मण्डूकप्लुत्या मरुत्तरयानमारुह्य व्योमयानं ''विमान-पत्तनं (विमानाऽवमोचनम्)’’ प्रत्यधावम्। प्रात: पञ्चवादने व्योमयानं विहारमारभेत। आसीदिदानीमपि रात्रेरवसाने विलम्ब:। तदुपरि कुज्झटिकया व्याप्तोऽभूत्पर्यन्तदेश:। अत एव चरकस्येव तदिदं विमानस्थानं मे दुर्लभमभूत्। अस्तु, इतस्ततोऽनुसंधानेन यथाकथंचिदवाप्नवमहं विमानविश्रमस्थलम्। भवनकपाटावुद्घाट्य वायुयानस्य बहिर्निस्सारणाय प्राचलत्प्रयत्नस्तस्मिन्समये। अस्तु, बाहुशालिभिर्हस्ताहस्तिकयाऽवहेल्य वर्तमानकालिकमिदं ''पुष्पक’’ विमानं निरसार्यत बहि:।
अञ्जनानां विमानयन्त्राणां च परीक्षणे संवृत्ते सुहृद्भिर्विसर्जितोऽहमारोहं विमानमिमम्। द्वारकपाटं सरभसमुद्रयत्। सर्वप्रथममियमासीन्मे विमानयात्रा अत एव नासीत्परिसीमा कौतूहलस्य। अभूद्यात्रारम्भ:। पूर्वं घर्घरारावं विमुञ्चद्वायुयानं प्रान्तरस्य विपरीतदिशि भूतले प्रद्रवणमारेभे, यतोहि वायुयानं वायोर्विपरीतदिशं विहाय नोत्पतनारम्भे प्रभु। अत एव हि प्रत्येकविमानभवनस्य शिखरदेशे वायुगतिसूचकयन्त्रमास्थितं भवति। भूतले प्रधाव्य यानमिदं वायोर्विपरीतदिश्यभूदवस्थितम्। त्रिष्वप्यञ्जनेषु सहसैव भयङ्कररूपेण गर्जनारम्भ: समभवत्। एतस्मिन्नेव समये सहकारिसञ्चालको मत्समीपमागत्य वातायनद्वारमुदघाटयत्, अवदच्च मां हस्तवस्त्रमान्दोलयितुम्।
वायुयानं पूर्वमतिवेगेन भूमावधावत् ततस्तथान्दोलितमभवद्यथा घोटको धावति धारागत्या। इदमिदानीं भूमिं विहाय विहायसि रोहदासीत्। मध्ये मध्ये भुवं विहायोपर्युद्गच्छति पुनश्च चक्ररूपैश्चरणैर्भुवं स्पृशति। त्वरितमेव सर्वमिदमान्दोलनं पर्यशाम्यत्। अधोदेशदर्शनाद्विदितं यत् भूमेद्र्वित्रवंशानुपरि सञ्चराम:। किञ्चिदेवोपर्यारोहणे सर्वमपि विमानस्थानदृश्यमद्भुतमेवाऽऽलोक्यत। पर्यन्तत: सस्यक्षेत्राणि, भूमि:, पादपानां पङ्क्तय:, भवनानि, कुटीराणि, सर्वाण्येन वामनावतारमधारयन्। कतिभिरेव क्षणै: सहसा प्रतीतमभूद्यत् क्षेत्राणि पर्यन्तभूमयश्च सर्वाण्यपि पार्श्वमिव परिर्वयन्ति। अतिनीचैर्विमानविश्रमस्थले - अनेकानि हस्तवस्राण्युत्तरीयाणि चान्दोल्यमानान्यासन्। मम कनीयान् भ्राता हस्तावुत्थाप्य मां प्रत्यौत्सुक्यमसूचयत्। क्षण एव वयमत्युच्चैरारोहाम प्राचलाम च गङ्गां प्रति। कुज्झटिकावगुण्ठने कालिकातानगरमिदं सम्प्रति शयानमासीत्।
भूमितो वायुयानस्योच्चताया अनुमानं नासीद् बुद्धिगम्यम्। न चासीत्प्रश्नस्याप्यवकाश:। यतो हि यन्त्राणि तथा प्रबलवेगेन सिंहगर्जनामकुर्वन् येन व्याकुला: सर्वेऽपि कर्णरन्ध्रे तूलेनापूरयन्। तथापि पर्वतोपर्युड्डयनानुमानेन ज्ञातं यद् द्विसहस्रपादोच्चा (फीट) वयमुदलङ्घयाम गङ्गाम्। अतिविप्रकृष्टस्तस्या सेतुरप्यालोक्यत। सर्पिणीव वक्रोपसर्पिणी गङ्गाया धारा कुज्झटिकायामावृताऽभूत्। गङ्गामुल्लङ्घितवतामस्माकं दृष्टौ क्षेत्राणि भूमयश्च ''शतरञ्ज’’ क्रीडापट्ट इवाभान्।
त्रयाणामप्यञ्जनानां भयङ्करारवेण विमानमिदं कातरभावादिवावेपत। मध्ये मध्ये च वायोर्विघट्टनेन हिन्दोलकमिवोच्चावचं गच्छदासीत्। अतिनीचैर्लघ्वाकाराणि सरांसि, क्षेत्राणि, पर्यन्तभूमयश्चाऽवालोक्यन्त येषां मध्ये मध्ये पांसुमुच्छालयत्पशूनां वृन्दं पिपीलिकापङ्क्तिरिव प्रतीयते स्म। यत्र स्थाने गहना वृक्षश्रेणिरासीत्तत्र घनो हरिवर्ण: प्रत्यैयत। उपरितो नीचैर्विलोकयतामपर इव सम्पद्यते दृष्टिकोण:।
लोकेष्वासीत्प्रसिद्धं यद्वायुयानं धूमशकटिलेखाभि: सहैव व्रजतीति, किन्त्वतीव सूक्ष्मेक्षिकया दर्शनेऽपि वायुयानस्य मार्गे न क्वापि वाष्पयानस्य मार्गचिह्नमवालोक्यत। अवश्यं मध्ये-मध्ये वाष्पशकटे: प्रधानविश्रमस्थानान्यभूवन् दृग्गोचराणि, एकदा सामान्यावमोचनस्थलमप्यालक्ष्यत। सहकारि-सञ्चालको वितन्त्रिविद्युद्यन्त्रं विहाय समायासीन्मदन्तिके, पत्रनिर्मिते पानपात्रे चोष्णोष्णं चायरसमापूर्य मत्सम्मुखमतिष्ठिपत्। सस्मितमवादीच्च-सम्यगहं जाने यत् ''सैण्डविच’’ स्वादाद् भवान् सर्वथा वञ्चित: परं पत्ररसस्तु महामुनीनामप्युपादेय एव। स्मितेनैव सभ्यतागर्तरन्ध्रं समीकृत्य दर्शनीयेषु पुनर्मनोयोगमकार्षम्।
एतेषां भोजनव्यापारोऽयमपार:। समयासमयावविचार्य-अदुग्धशर्करश्चायरस:, रोटिका, नवनीतम्, विषकूटा:, ३पुटकपिहिता मत्स्या:, कदलीफलानि, नागरङ्गाणि, अण्डा:, शीतमामिषम् इत्यादीनामनवधिवस्तूनां नैवेद्यमहर्निशं चलति। स्वल्प एव समयान्तराले स एव महाभाग: पुनर्दर्शनमदात्। आसीदस्य हस्ते प्रश्नपत्रं ''मम परिमाणं कियत्’’ इति। मम जिज्ञासायां सूचितमनेन यत्सम्पूर्णयानस्य साम्प्रतं कियत्परिमाणमिति निश्चेतव्यं नाम। प्रश्नस्योत्तरं प्रदायाऽहमपि प्रतिप्रश्नमकरवम् ''सम्प्रति वयं भूमित: कियदुन्नता:’’। सञ्चालक (पायलट) सविधान्निश्चित्याऽवोचदसौ - 1,100 मीटर, अर्थात् 3,500 पादपरिमितम्। आश्चर्यम् इयदुपरि प्रवहणेऽपि नासीदुष्णतायां विशिष्य न्यूनता काचित्।
पश्यत एव मेऽधोवर्तिन: कच्छस्य हरितो धूसरश्च वर्ण: शनैररुणे पर्यणमत्। वृक्षघनतापि विरलतामगात्। मध्ये मध्ये सर: सरस्यस्तथा प्रतीयन्ते स्म यथा काष्ठचतुराधारे जटिता: स्वच्छमुकुरा:। तेषां सविध एव कृषक-कुटीरमया ग्रामा: शिशुक्रीडागृहाणीव प्रत्यभान्। भूमि: क्वाप्यासीदुर्वरा क्वचिच्चोषरा। विदितमभूद् यद् वीरभूमिप्राञ्चलमुल्लङ्घयाम: साम्प्रतम्।
अदूर एवोच्चावचा: शिशुशैला अदृश्यन्त, किन्तु स्वल्प एवान्तरे विशाला पर्वतश्रेणिरारभ्यत। दूरे-दूरे च बालुकापूर्णा नद्य:। पर्वतमेकमालोक्य पर्यचिनवं यदयं काशीपुर-पञ्चकोट्टशैल इति। तदनन्तरं पर्यायेण पर्वता:, पर्वतिका:, वनानि, कान्ताराणि, ऊषराणि चामिलन्। अन्तरान्तरा च बालुकावक्षसि रौप्यरेखेव कुटिलगामिनि काचित्तटिन्यप्यगाद्दृशोर्गोचरम्। अन्ते च सर्वमेकमयमिवाऽभवत्, मन्ये भगवतीं प्रकृतिं विहाय मानवमहोदयस्य कृतिरत्र विश्रान्ता।
(3)
नव-सार्द्धनववादने पर्वत-परिवृता सरिदेकाऽऽलोक्यत। अतिदूरतो दर्शनेऽपि स्थानस्यास्य परिचयो न शक्यो विस्मर्तुम्, यतो हि शोणनदी रोहिताश्वशैलश्चैकवारमालोकितौ न हृत्पटलमुज्झतो विलोकयितु:। सरित: समीपे विमानमस्माकं जातु नीचैरवाऽरोहत्। अधुना गोमहिषीणां व्रजा:, सैकतेषु गोपबालकानां धावनक्रीडा:, सरिति लोकानामवगाहनम्, महिलानां पटप्रक्षालनादिकं सर्वमपि सुस्पष्टमभूद्दर्शनीयम्। बालुकामये विशाले वक्षसि शोणजलवेणी सेयं खेलन्तीव प्रवहन्ती बभूव। अपरपारे च पर्वतश्रेणिर्विमानतोऽप्युच्चतराऽवलोक्यत। एतावत्कालमिमां पृथ्वीमपरिचितभावेन नीचैश्चिरमवलोक्य साम्प्रतं सहजभावेनोन्नत-मवलोकयतो मे चक्षुषी शीतलतामिवान्वभवताम्। वैमानिकवत्पुष्पकमिदमधितिष्ठतो मनस्यवश्यं गर्वोदयो भवति किन्तु समस्तेन परिचितजगता सह सहसैव विच्छेदमयो भावश्चेतसि विषादरेखामप्यङ्कयत्येव किञ्चित्। सत्यमिदमुच्यते यत् स्वहस्तधृतदण्डमातपत्रमिव उच्चै: पदमशान्तिमपि सह करोतीति।
नदीमुल्लङ्घय वायुयानं शनै: शनैरुपर्यारोहत्। इत: पर्वताग्रे पर्वतस्थता सममिलद्यथैषामन्त एव न भवेत्। प्रत्येकपर्वतस्याग्रे काचित्समतला भूमिस्तदग्रे पुन: पूर्वतोऽपि विशाल: पर्वत:। पर्वतश्रेणिरियं दानवानां निश्रेणिरिवाऽभात्। अस्तु, अत्युन्नतमारुह्य विमानमिदमुदलङ्घयत्पर्वतश्रेणिमिमाम्। पुन: प्रान्तरं समतला भूमिश्चालोके न्यपतत्। स्थाने स्थाने कुटीरमया ग्रामा:, एकद्वे लघु-नगरे, द्वित्रा: स्वल्पसरितश्चाभवन् दृग्गोचरा:। एकादशवादने व्यलोक्यत कालिन्द्या: सुनीला धारा। तामुल्लङ्घयतामस्माकमपततां दृशि यमुनाया: सेतु: प्रयागदुर्गं च। स्वल्पकाल एव प्रयागीय-म्योरमहाविद्यालयस्य शीर्षकघटीयन्त्रम् खुसरोमहोपवनम्, अन्यान्यानि च चिरपरिचितस्थानान्यवालोक्यन्त। किन्तु कतिभिरेव क्षणैर्महाभाग: प्रयाग: पर्यलङ्घयतास्माभि:। अहह, एतावतैव सम्मुखगगनेऽस्मत्तोऽप्युच्चतरे स्तरे वेगादुड्डीयमान किञ्चिदवालोक्यत वस्तु। चित्रितोऽहं व्यचारयम् अपि किञ्चिदन्यद्वयोमयानम्, कश्चिद् विहङ्गमो वा?
अस्मिन्नेव समये यन्त्राणां शब्द: विलीनोऽभवत्। दृश्यमानं तद्वस्त्वपि नेत्रयोरन्तर्हितमासीत्। किन्तु परस्मिन्नेव क्षणे दृष्टं यदेकं वायुयानमस्माकमग्रभाग एव शनै: शनैरधोऽवतरतीति। व्योमयानस्य नीचैरवतरणमतिसुखावहम्। न तदा कम्पते, न चान्दोलते। नाऽऽघाता न चोद्घातास्तदाऽनुभूयन्ते। यानयन्त्राणां नीरवतया न च कोऽपि कलकल: कर्णयोररुन्तुदो भवति। भूमितलस्पर्शस्य पूर्वक्षणपर्यन्तं सर् सर् इति शब्दायमानं व्योमयानं समवतरति शनै: शनै:। किन्तु भूतलं स्पृष्टवत्येव याने पुन: परिचालनीयानि भवन्ति यन्त्राणि। ततोऽञ्जनगर्जनारम्भे पुन: सवेगमुद्घाताऽवघाता: प्रारभ्यन्ते, यन्त्राणां घर्घरारव: पूरयति कर्णकुहरम्, विच्छायमुच्छलति च घोटक इव वायुयानम्। किन्तु परक्षण एव तलवर्तिना चक्रद्वयेन भूमिमास्पृश्य यानमिदं धावति धारागत्या। अथ स्वाभीष्टस्थलोपगमे यानस्याञ्जनमवरुद्धक्रियं क्रियते निरुध्यते च व्योमयानम्।
आसीत्प्रयागे महानूष्मा। विमानविश्रमस्थलमिदं नगरात्पञ्च-क्रोशान्तरे बनरोली-ग्रामे महामहत्येकस्मिन्प्रान्तरेऽवस्थितम्। वायुयानतोऽवतीर्य पदातिरहं चङ्क्रमणेन पदयोर्गतिमकार्षं पुनर्यथावस्थिताम्। एतस्मिन्नेवान्तरे पूर्वसूचनानुसारं मत्सुहृद्देवनायक: पानभोजनसामग्रीमादायोपातिष्ठत्। तस्य मरुत्तरयानमधिष्ठायैव वयं भोज्यसामग्रया: सदुपयोगमकरवाम। भुञ्जानैरवलोकितमस्माभिर्यद् धूसरवर्ण एको विमान: शनै: शनैस्तथैवाऽवतरतीति। अन्वेषणेन विदितं यदिदं फ्रांसदेशीयं वायुयानं सैगनम् (इण्डो चाइना) अभिगच्छति। मन्ये, तदेवेदमासीद् यन्नभस्युड्डीयमानं मया विलोक्यमानमभूत्। परिसमाप्य साङ्गोपाङ्गं भोजनमहमदर्शयमिदं व्योमयानं प्रियसुहृदे देवनायकायाऽन्यान्येभ्यश्च किन्त्वेतावतैव पुनर्घोरगर्जनमारभ्यत विमानस्याञ्जनेन। सञ्चालकमहोदयमूध्र्वबाहुमा-लोक्यैवाऽवेदिषं यत्सर्वं सज्जीभूतमिति। अस्तु, पुनरयं तत्रैवावलम्बितो वेताल:। चचाल च वायुयानम्।
(4)
नदीर्नदान्, क्षेत्राणि, प्रान्तराणि, जनशून्यानि कान्ताराणि, पुराणि, ग्रामांश्चापि नीचैरवलङ्घयद्विमानमिदमधावद् घोरघूङ्कारेणापारे वियति। उपरि वायोर्गतिर्विरुद्धदिश्यासीत्। अतो नीचै:स्तर एव (त्रिचतु:सहस्रपादोन्नतौ) प्रावहद्यानमिदम्। अश्रौषं यत्सहकारि-सञ्चालकमहाभागो वितन्त्रिणा शब्दविद्युद्यन्त्रेण भारतावस्थितै: सकलैरेव वायुग्रहै: (मेटीओरोलॉजिकल ऑफिस) सह प्राकृतिकपरिस्थिते: सम्बन्धे वार्तालापं करोतीति। एकवारमेको महान् ह्रद इव किञ्चिददृश्यत, सुदूरायां क्षितिजरेखायामालोक्यत शैलानामस्पष्टा छायापि। ह्रदमिमं परित: सरला रेखा इव नालिका: काश्चिदासन्। बोधितमिदं मे यदित: क्षेत्रसेचनार्था: कुल्या:।
कुल्या इमा अभितो हरितहरितान्यासन् क्षेत्राणि, तत्सन्निधौ च महामहान्ति प्रान्तराण्यासन् येष्वसंख्या गोमहिष्यो घास चरन्त्यो विचरन्त्यश्चाभूवन्। मध्ये मध्ये राशीकृतानि क्षेत्रसस्यान्यालोक्यन्त। छिन्नसस्यानीमानि क्षेत्राणि बभु: संमृष्टान्यङ्गणानीव। वायोर्विपरीतवाहितया प्राचलदतिनीचैर्वायुयानम्। अत एव लोकानां मुखान्यप्यालोक्यन्त सुस्पष्टम्। ते ह्यस्माकमिदं वायुयानमालोकयन्तोऽभूवन्साभिलाषम्, अदर्शयच्चाऽपर: सङ्केतमन्यम्। अद्यावध्यहमपि सकौतुहलमपश्यं वायुयानमदर्शयं चान्यान्। अयं मे प्रथम एवासीदवसरो यद् दर्शकश्रेणितोऽहं दृश्यश्रेणिभुक्तोऽभूवम्।
१. अभितो योगे द्वितीया।
गवामजानां च समजा वायुयानस्य घर्घरनादमाकर्ण्य चकिताश्चतुर्दिक्षु पलायन्त। ऊर्ध्वदर्शनस्य नासीत्तेषां मति:, किन्त्वस्मिन्विषये महिष्यो गभीराशया: प्रत्यभान्। तासामधिकसंख्या: स्वमुखमुन्नमय्य निजसहचरीणामिममकाण्डसभ्रमं सस्मितमिवाऽवैक्षन्त, धीरभावेन च पुनर्जठरपूजाकार्ये दत्तचित्ता अभूवन्। बह्वयस्तु मुखोन्नयनेऽप्युपेक्षाभावमदर्शयन्।
शनै: शनैरधस्तनमृत्तिकाया रूपरागयोरलक्ष्यत परिवृत्ति। वृक्षगुल्मा अपि लोपमस्पृशन्। लघुमहान्त: शैला अप्यलक्ष्यन्त। विदितमभूद्-राजपुत्रप्रदेशमधिविशाम:। पुरुषाणामुष्णीषे स्त्रीणामावरणवस्त्रेषु च नानारङ्गाणां व्यलोक्यत बाहुल्यम्। क्षेत्राणां मध्ये मध्ये रक्त-नारङ्ग-कर्बुरवर्णान्धोंऽशुकान् नीलवर्णानि चोत्तरीयाणि दधत: स्त्रीणां समूहा: समपतन् दृशोर्गोचरम्। शनैरवर्धत शैलसंख्या। गिरयोऽमी 'अजन्तात:’ 'एलोरा’ गमनमार्गे विन्ध्याद्रेरुपपर्वता इवासन् समतलपृष्ठा: श्रेणीबद्धाश्च। व्यभादेवं मनसि यथा एकोत्तरमेकेति क्रमबद्धा: समुद्रस्य लहर्य इव घनीभावमापद्य याता: पाषाणताम्। लम्बग्रीवाणामुष्ट्रमहोदयानामप्यभूद्दर्शनम्। क्वचित्क्वचिद्भधूराणामुत्सङ्गे गण्डशैलान्तरिता नीलपयोवाहिन्यो वाहिन्योऽप्यगुर्दृष्टिपथम्। एकस्तथाविधोऽप्यमिलन्महीधरो यस्योपत्य-कामारभ्याऽधित्यकापर्यन्तमशेषोऽपि प्रदेशो जीर्णै: कृष्णवर्णैमेघमसीमलिनैर्मन्दिरैर्मठैश्चाच्छाद्यत। प्राय: पञ्चवादने सायं योधपुरराजधान्या: समुन्नतं दुर्गं तदधस्तादावासितं नगरं चावालोक्यत दूरात्। पञ्चवादने वयमवापाम योधपुरम्।
प्रयागादारभ्य योधपुरं यावन्मारुतस्य तीव्रतया विपरीतदिग्वाहितया च वायुयानमतीवाऽऽकम्पत। मारुतहिन्दोलेष्वापतितमलोठद् गगनस्योच्चावचस्तरेषु। व्योमयानस्य सहसैव नीचैरवतरणस्यानुभवो न विशिष्य सुखावह:। तथा प्रतीयते यथा चरणयोरधस्तन आधार: केनाप्यपसारितो भवेत्, गात्रस्य पश्चार्द्धमध: प्रवेशोन्मुखं वा स्यात्। महावात्यया समुद्रकल्लोलानामुत्तालोत्तालदशायां पोतमारुह्य सुदृढनिस्पन्दायां तटभूमौ यदा पदं दध्मस्तदा प्रतीयते यथा भूमिरपीयमुत्कम्पते। अवरोहणस्याऽव्यवहितक्षण एव प्रधानसञ्चालकेन समागत्य जिज्ञासितम्- 'अपि भृशमुद्घातिनी सेयमनुभूता यात्रा? ननु भवत: सोऽयं प्रथमावसर:, अपि न किञ्चित्प्रकृतेरस्वास्थ्यम्?’
प्रत्यवादिषम्- मैवम्, न किञ्चित्तथा।
अस्माकम् उत्तराखण्डयात्रा
अस्माकं देशे ग्रीष्मर्तौ धार्मिकजनानां प्रमुख: कार्यक्रमो भवति, उत्तराखण्डस्य तीर्थयात्राया:। हिमाचलाञ्चलस्थानां तीर्थानां यात्रा केवलं ग्रीष्मर्तावेव सम्भवति यतोऽन्यर्तुषु गिरिशृङ्गस्थानीयानि तीर्थानि हिमाच्छादितानि तिष्ठन्ति। अतोऽस्माभिर्ग्रीष्मे उत्तराखण्डयात्राया: कार्यक्रमस्तस्मिन् वर्षे निरधार्यत। समग्रामपि यात्रां ये 'बस’ शकटिद्वारा कुर्वन्ति न ते गिरिरामणीयकं, हिमाचलवनप्रान्तरसुषमां च द्रष्टुं शक्रुवन्तीत्यस्माभिर्निर्धारितं यदधिकतमं पदयात्रामेव वयं करिष्याम:। यद्यपि अस्माकं दले महिला:, वृद्धजनाश्चाप्यभूवँस्तथापि हिमाचलोपत्यकापर्यन्तं वाहनैर्यात्रां कृत्वा वयं हिमाचलारोहणयात्रां पद्भ्यामेव विधास्याम:, इत्यभूदस्माकं निश्चय:। पदयात्रायां भूयान् समयावधिरपेक्ष्यते यतो हि समुल्लासमये, शीतलेऽपि तस्मिन् स्थले प्रतिदिनं दशक्रोशाधिका पदयात्रा महिलाजनैर्वृद्धजनैश्च न कर्तुं शक्या, पर्वतारोहणस्य श्रमसाध्यत्वात्। एवं हि प्रायो मासमेकं सेयमस्माकं यात्रा पर्यचलत्। अस्यामस्माभिरुत्तराखण्डस्य बहूनां स्थलानां सौन्दर्यमवलोकितम्। यात्राया अस्या: उत्तराखण्डस्य कतिपयतीर्थानां च विवरणमत्र प्रस्तूयते।
हृषीकेश: लक्ष्मणझूला च
उत्तराखण्डयात्राया: शुभारम्भो हृषीकेशयात्रया भवति। सुरम्यमिदं स्थलं हिमाचलोपत्यकासु गङ्गातटे विद्यते। अत्रत्यं गङ्गाजलं शुद्धमतिशीतलं स्वच्छं चास्ति। अत्र बहुभि: साधुभि:, संस्थाभिश्च कीर्तनागारा:, धर्मशाला:, मन्दिराणि, अन्यानि च सार्वजनिकधर्मस्थलानि निर्मापितानि सन्ति यत्र यात्रिणो विश्रम्योत्तराखण्डयात्राया आरम्भं कुर्वन्ति। गीताप्रेसाख्या गोरखपुरीया संस्थाऽत्र 'परमार्थनिकेतन’- स्वर्गाश्रमादिनामभि: सुरम्याणि यात्रिस्थलानि निर्मापितवती यत्र ग्रीष्मर्तावन्यान्यसमयेष्वपि च निरन्तरं प्रवचनकथादिधर्मकार्याणि प्रचलन्ति। यात्रिनिवासव्यवस्थाऽप्यत्र वर्तते। बाबाकालीकमलीवाला इत्याख्यसंन्यासिना स्थापिताया: संस्थाया: शाखा: हृषीकेशे सर्वत्रोत्तराखण्डे च प्रसृता:। ता अपि यात्रिणां सौकर्यार्थं तत्परा: प्राप्यन्ते।
हृषीकेशस्य मीलत्रयदूरान्तरे सुप्रसिद्धं 'लक्ष्मणझूला’ स्थानमस्ति यद्धि मानवकौशलेन सह दैवचमत्कारस्यापि प्रतिसूचकम्। सेयं दन्तकथा यतस्तत: श्रूयते यत् श्रीरामचन्द्रस्य भ्रात्रा लक्ष्मणेन अस्मिन्नेव स्थाने अक्रियत तप:। तेनैव च देवतानां पवित्रस्थाने मानवयात्रां सुगमां कर्तुं भगवत्या गङ्गाया उपरि सोऽयं सेतुरास्थापित:। हरिद्वारादर्धक्रोशदूरे एव 'भीमगोडा’ नामकमैतिहासिकं तीर्थं, यस्य विलोकनाय समायान्ति यात्रिणो: बहव:। अत्र हि पाण्डवेन भीमसेनेन निजं-जानु (गोडा) सहसा समारोपितमभूदिति किंवदन्ती। एवमेव 'मोटर’ द्वारा हृषीकेशयात्रायां प्रक्रान्तायां, सप्तमीलदूरान्तरे मार्गे एव सत्यनारायणस्य भगवतो मन्दिरमपि मिलति यत्र हि यात्रिण: सर्वेऽप्यवतीर्य भगवद्दर्शनाय गच्छन्ति। सत्यनारायणस्य गौरी मनोहरा च मूर्तिरतिहारिणी वर्तते। इह हि यात्रिणो भक्तिपूर्वकं सत्यनारायणस्य पूजनमुपहारादिकं च कुर्वन्ति। सत्यनारायणदर्शनं कृत्वा अग्रे प्रस्थितेषु यात्रिषु, अग्रे 'सौंग’ नाम्नी नदी मिलति याहि 'घोडा पछाड’ नाम्नापि प्रसिद्धा।
हृषीकेशस्य 'त्रिवेणी’ नामके गङ्गातटे यात्रिणां समवायो बाहुल्येनाऽऽलोक्यते, यतो हि स्थानेऽस्मिन् स्नानदानादेर्विशिष्टं फलमुपकीर्तयन्ति। एतस्य समीप एव भरतस्यातिप्राचीन मन्दिरमस्ति, यस्य सविधे बहूनां साधुमहात्मनां दर्शमुपलभन्ते श्रद्धालव:। किञ्चिद् दूर एव 'मुनि की रेती’ नामकं स्थानम्, यत्र हि शत्रुघ्नस्य सुप्रसिद्धं मन्दिरम्। इत: स्थानादेव यात्रिणो भारवाहकस्य कुली 'डंडी’ (पृष्ठे मानववहनस्य), एतदादे: प्रबन्धं कुर्वन्ति। स्थानादस्मात् १० मीलदूरे मरुत्तरयानस्य संसरणं लभ्यते यद्धि नरेन्द्रनगरं प्रयाति।
देवप्रयाग:
हृषीकेशाद्देवप्रयागपर्यन्तं ४४ चतुश्चत्वारिंशन्मीलमितं मार्गं साम्प्रतं मोटरयानद्वाराऽति-वाहयन्ति यात्रिण:। सेयं यात्रा भूमण्डले अनुपमशोभाशालिनी, किन्तु सहैव रोमाञ्चकारिण्यपि। पर्वतघाट्यां सर्प इव लहर्याकारेण वक्रवक्रेण मार्गेण यदा मरुत्तरयानं प्रयाति तदा एवंविधयात्रायामनभ्यस्ता: पुरुषा मनोविकृतिमनुभवन्ति। बहूनां वमनानि भवन्ति। किन्तु, एवं सत्यपि मार्गस्योभयतो यद् दृश्यं चक्षुषोरुपगच्छति तद्धि सर्वदाऽर्थं हृदयपटलेऽङ्कितं भवति। मार्गस्यैकतो गगनचुम्बिहिमगिरे: शिखरमवलोक्यते यस्य शिरोभागश्चन्द्रधवलो विलोक्यते दूरत:। श्वेतभागादधोदेशे हरितहरितै: पार्वतमहीरुहैराच्छन्न: स हिमालयदेश:। द्वितीयपार्श्वे चेत् दृष्टिर्निक्षिप्यते तर्हि पातालतलमिव महागभीरो गिरिगर्त:, यस्मिन् कलकलध्वनिबहुला सर्वदैव फेनायमाना वेगवाहिनी जलवेणी प्रवहति। मम विचारे यात्रायामस्यां सोऽयं भागो महाभयावह:। यतो हि मरुत्तरशकटिचालकस्य हस्तो यदि स्वल्पमपि कम्पितो भवेत्तर्हि मरुतयानं प्रस्तरविशङ्कटे पातालतले पतितं भवेद् यत्रास्य एकैकमप्यङ्गं पृथक्पृथग् भूत्वा अन्वेषणीयमेव भवेत्। यदि तु अपरपार्श्वे हस्त: कम्पितो भवेत्तर्हि हिमगिरे: शिलाभिराचूर्णितं खण्डखण्डमेव भवेत्।
अत्र हि पङ्किलजलवाहिनी अलकनन्दा, विमलसलिलवाहिनी भागीरथी चेत्युभे अपि द्वे सख्याविव अतीव प्रेमाऽऽवेगेन मिलत:। दृश्यमिदमतीव रमणीयं विलोकयताम्। भागीरथ्या: परपारे गङ्गोत्तरीं प्रति प्रयाति पन्था:। मार्गस्योपरिभागे यात्रायां प्रसिद्धं श्रीरघुनाथमन्दिरमस्ति। एवमन्यान्यपि कतिचित्प्राचीनस्थानानि दर्शनीयानि। स्थानादस्मात् एको मार्ग: टेहरीनगरे भूत्वा गङ्गावतरणं प्रति प्रयाति। अयमेव मार्गो गङ्गोत्रीयात्रिणां कृते प्रशस्त:। देवप्रयागे अलकनन्दाभागीरथ्यो: सङ्गमोऽयं परं पवित्र: परिगण्यते। अत्र हि सर्वेऽपि यात्रिण: श्रद्धया स्नान्ति, पितृभ्य: पिण्डदानं च कुर्वन्ति। रावणवधस्य पश्चाद् भगवता रामचन्द्रेण स्थानेऽस्मिन्नात्मशुद्धे: कृते कञ्चित्कालं निवास: कृत:, इति हि अत्रत्यानां किंवदन्ती।
देवप्रयाग: प्रशस्ता वसति:। अयं हि द्वयोर्भागयोर्विभक्त:। अलकनन्दाया अस्मिन्पारे कालीकमलीवालास्वामिनो धर्मशाला, अन्नक्षेत्रं चास्ति। नगरे लघीयान् राजपथ:। दण्डविभागीयानामास्थानम् (पुलिसचौकी), प्रेषण-विभाग: (डाकघर), विद्युद्वृत्तप्रेषणालय: (तारघर) तथा राजप्रबन्धेन स्थापित औषधालयश्चास्ति। अलकनन्दासेतो: परस्मिन्पारे तीर्थपुरोहितानाम् (पंडे) प्रशस्ता वसति:। श्रीबदरीनाथयात्रिणां दर्शनतीर्थपूजनादिपौरोहित्यकार्यं सम्पाद्य शीतकालमिमे देवप्रयागे एव यापयन्ति। पुरीक्षेत्रे हि- एषां कार्यं वैशाखमारभ्य आषाढश्रावणयोरेव प्राय: परिसमाप्यते। तीर्थपुरोहितानामेषां भारतस्य नानाप्रदेशेषु परिभ्रमणात्तेषामेषा वसतिस्तत्प्रदेशीयानामन्यान्यनगराणामपेक्षया सौष्ठवेन आवासितेव। यत्र किल मरुत्तरयानं विश्राम्यति तस्मात्स्थानात्किञ्चिद्दूरेऽवस्थिता उपरि स्थले निविष्टा चैषां गृहमाला दूरतो रमणीया प्रतीयते। विशेषतश्च-उच्चावचेषु जनशून्येषु गिरिशिखरेषु निराशं भ्रमन्ती लोकानां लोचनमाला यदा हि दूरत: सुनिविष्टामिमां वसतिलेखां विलोकयति तदा भृशमुत्कण्ठितेव प्रेमतस्तामिमामालोकयति। स्थानस्याऽस्या भामिन्यो जलाहरणार्थं नदीतटमुपयान्ति। तासां सहजा सरलता, नैसर्गिकी सुन्दरता च प्रदेशान्तरवासिनामतीव हारिणी भवति। देवप्रयाग: सोऽयं तीर्थपुरोहितानां दुर्गमिव। एते हि प्रत्येकं प्रकारेण सर्वेषामपि यात्रिणां समुचितं साहाय्यं विदधति। वर्तमानकाले समयोचितां विद्यामधीत्य इमे पूर्वतोऽपि शिष्टाश्चतुराश्च सम्पन्ना:।
देवप्रयागादस्मात् 37 मीलदूरे रुद्रप्रयाग:। किन्तु एकोनविंशतिमीलान्तरे मध्ये कीर्तिनगरमस्ति, यत्पर्यन्तं मोटरयानं गच्छति। इतोऽग्रे श्रीनगरपर्यन्तं पद्भ्यामेव गन्तव्यं भवति (अत्र हि गङ्गाया उभयत: पार्श्वे अतीवोच्चावचो मार्ग:, अत एव तत्र सेतु निबध्य मार्गस्य सूल्लङ्घयतां कर्तुमिच्छन्ति देशाधिकारिण:। साम्प्रतं तु तत्र निमार्णकार्यं प्रचलत् परिलोक्यते)। श्रीनगरमिदं गढवालप्रान्तस्य लघुनगरं, यद्धि काश्मीरप्रदेशीय-श्रीनगराद् भिन्नम्। इदं हि उन्मुक्ते प्रान्तरे आवासितम्। अत्र हि भगवान् कमलेश्वर: शिवो यात्रिणां दर्शनीय:। बाबाकालीकमलीवालामहाभागस्य धर्मशाला अत्र यात्रिणां साहाय्यमाचरति। श्रीनगरात् ऊनषष्टि (59) मीलान्तरे ''चमोली’’ पर्यन्तं पुनर्मोटरयानस्य मार्ग:। श्रीनगरादग्रे मध्ये ''गुलाबरायचट्टी’’ लभ्यते। मार्गेऽस्मिन् मुहुर्मुहुरारोहणं, पुन: पुनरवतरणमिति उच्चावचता प्राप्यते।
रुद्रप्रयाग:
'गुलाबरायचट्टी’ त: सार्द्धमीलान्तरे रुद्रप्रयाग: प्रसिद्धं तीर्थम्। रुद्रप्रयाग: अलकनन्दा-मन्दाकिन्यो: सङ्गमोपरि अवस्थित:। सङ्गमे यात्रिण: स्नात्वा, शतशतसोपानैर्दुरारोहं तटमारुह्य भवगत: श्रीरुद्रनाथस्य दर्शनं कुर्वन्ति। अत्र हि सम्पूर्णैराभूषणै: सुशोभितं भगवत: शिवस्य मुखं यस्य दर्शनस्य महन् माहात्म्यं कीर्तयन्ति पौराणिका:। अस्य समीप एव पितृणामुद्धारकारिणी वैतरणी अस्ति, यत्र पितृणामुद्धारकामनया पिण्डदानं कुर्वन्ति श्रद्धालव:। इत: पश्चिमदिशि गोस्थलं तीर्थं यद्धि गोपेश्वरनाम्ना विख्यातम्। तत्र हि एकं त्रिशूलमस्ति, बलपूर्वकं यदि कश्चित् तत् त्रिशूलं परिचालयितुमिच्छेत् तर्हि तस्य स्पन्दनमात्रमपि न शक्यते कर्तुम्। किन्तु यदि भक्तिभावेन तत् स्पृशति तर्हि कनिष्ठिकयाऽपि तत् परिचाल्यते। तत्र कुन्दस्याऽप्येको वृक्षोऽस्ति यो हि प्रत्येकसमये पुष्पितस्तिष्ठति।
रुद्रप्रयागे अलकनन्दा-मन्दाकिन्यो: सङ्गम:। तत्र हि अलकनन्दातो बदरिकाश्रमं प्रति, तथा मन्दाकिनीत: केदारनाथं प्रति मार्ग: प्रयाति। केदारनाथदर्शनं विना बदरीनाथयात्रा न पूर्णा भवतीति प्राय: केदारेश्वरदर्शनं कृत्वैव जना बदरिकाश्रमं प्रयान्ति। रुद्रप्रयागात् 20 मीलपर्यन्तं सरल: (उच्चावचो न) मार्गोऽस्ति। इत एव एको मार्ग: 'चमोलीं’ मध्ये कृत्वा, साक्षाद् बदरीनाथं प्रत्यपि प्रयाति। किन्तु वयं सम्प्रति केदारेश्वरमार्गस्य वर्णनं कुर्म:। रुद्रप्रयागात् सप्तमीलान्तरे रामपुरग्राम:। ततोऽग्रे अगस्त्यमुनेराश्रम:, यत्र मुनेरस्य मन्दिरमस्ति। तत: किञ्चिद्दूरे गुप्तकाशी अस्ति यत्र भगवत: शङ्करस्य दर्शनं क्रियते। यावत्स्मरामि तावत् केदारनाथस्य तीर्थपुरोहितानामयमेव निवासभूमि:। केदारनाथस्य पौरोहित्यकार्यं सम्पाद्य शीते तीर्थपुरोहिता अमी गुप्तकाश्यामेव तिष्ठन्ति। काश्यामस्यां यात्रिणां कृते निवासस्य सौकर्यम्। बहव आपणा: सन्ति। प्रेषणालय: (डाकघर) अप्यस्ति। मन्दाकिन्या: परपारे 'ऊखीमठ:’ अस्ति। काशीत: सार्द्धमीलान्तरे 'नालाचट्टी’ अस्ति। इत एव केदारेश्वरं प्रति गम्यते। केदारेश्वरात्पुन: अस्मिन्नेव च स्थाने परावृत्यते। 'नालात:’ साद्र्धमीलत्रये 'व्यूंगचट्टी’ प्राप्यते। अत्र हि काष्ठनिर्मितानि, नानारागै रञ्जितानि पात्राणि यात्रिण: क्रीणन्ति। 'व्योंग’ त: मीलद्वये मैखण्डास्थले महिषमर्द्दिन्या मन्दिरमस्ति यत्र भगवत्या दर्शनं कुर्वन्ति यात्रिण:।
मीलद्वयान्तरे 'फाटा’ स्थानमस्ति। इतो मीलत्रयान्तरे रामपुरमस्ति। रामपुरे कालीकमलीवालास्वामिनो धर्मशाला, अन्नक्षेत्रं चास्ति। यात्रिण: प्राय: प्रतिदिनव्यवहारादधिकं वस्तुजातमस्मिन् रामपुरे एव स्थापयन्ति, यतो हि केदारनाथात्प्रत्यावृत्य पुनरस्मिन् स्थाने एव आगन्तव्यं भवति।
त्रियुगी नारायण:
रामपुरग्रामात् साद्र्धचतुष्टयमीलान्तरे त्रियुगिनारायणतीर्थमस्ति। मध्ये 'पाटागाडस्य’ सेतुरेको लभ्यते। सेतोरस्मात् उपरित: सपादमीलत्रयान्तरे (3 1/4 मील) भगवतस्त्रियुगि-नारायणस्य दर्शनमस्ति। सर्वोऽप्ययं मार्ग: आरोहात्मक एव। अत एव त्रियुगिनारायणस्य मन्दिरं समुद्रतलादत्युन्नते प्रदेशेऽवस्थितम्। अत एवास्मिन् स्थाने शीतमत्यधिकं भवति। अत्र भगवत: अतिप्राचीनं मन्दिरमस्ति। नारायणस्य नाभेर्जलं प्रवहति, यद्धि बहिर्निस्सृत्य कुण्डे तिष्ठति। अत्र 'भगवत्या: पार्वत्या: विवाहकाले योऽग्नि: प्रज्वालित: सोऽद्यापि होमकुण्डे प्रज्वलति’ इति तीर्थपुरोहितानामुक्ति:। अत एव यात्रिणोऽस्मिन् अग्नौ हवनमपि कुर्वन्ति। अत्र ब्रह्मकुण्ड-रुद्रकुण्ड-विष्णुकुण्ड-सरस्वतीकुण्डमिति चत्वारो जलकुण्डा: सन्ति। एतेषु कस्मिंश्चित्स्नानम्, कस्मिंश्चित्तर्पणम्, कस्मिंश्चिच्च आचमनादिकं कर्तव्यं भवति। सरस्वतीकुण्डे पीतवर्णा: सर्पा जले भ्रमन्तो दृश्यन्ते, किन्तु ते स्वत: एव मनुष्येभ्यो दूरे भवन्ति, न तेभ्यो भयस्यापेक्षा। नारायणमन्दिराभ्यन्तरे प्रकाशागमनस्य नास्ति मार्ग:। अत एव प्रायोऽन्धकार एव भवति। विद्युद्दीपा टार्चादिद्वारा यात्रिणो दर्शनसौकर्यं लभन्ते। त्रियुगिनारायणस्य आरोहमार्गं प्रत्यारुह्य (अवतीर्य) मीलत्रयान्तरे गौरीकुण्डोऽस्ति। कुण्डस्याऽस्य जलमुष्णं तीक्ष्णं चास्ति। अस्य पर्यन्ततो मृत्तिका रक्तवर्णास्ति। कुण्डस्याऽस्य तटे गौरीश्वरस्य मन्दिरम् यस्य दर्शनं कृत्वा यात्रिणो मृत्तिकया शिरसि तिलकं धारयन्ति। गौरीतीर्थाद्दक्षिणदिशि एकक्रोशान्तरे वैनायकं द्वारमस्ति, यत्र भगवतो गणेशस्य दर्शनं कुर्वन्ति। स एवायं भगवान् गणेशो यो हि अङ्गरागं कृत्वा गात्रोद्धृतेन मलेन स्वहस्तेन निर्माय भगवत्या द्वारे धृत:। स्वयं च स्नानेच्छया अन्त: प्राविशत्। तत: पार्वती दर्शनेच्छया समागतेन भगवता शङ्करेण निरोधं कुर्वतस्तस्य बालकस्य शिरश्छिन्नं, पुन: पार्वत्यनुरोधेन हस्तिशिर: संयोजितं च। गौरीकुण्डादेकमीलान्तरे 'चीरवासा भैरव:’। अयमेव केदारक्षेत्रस्य रक्षक: कोट्टपाल:। अमुं हि वस्त्रोपहारं दत्त्वा प्रीणयन्ति, अन्यथा सोऽयं केदारदर्शनपुण्यमपहरति। भैरवादेकमीलान्तरे ''भीमसेनशिला’’ तत्समीपे भगवत्या: कालिकाया दर्शनम्। इमां प्रणम्यैव केदारक्षेत्रे व्रजन्ति यात्रिण:। गौरीकुण्डाच्चतुर्मीलान्तरे ''रामबाडा’’ नामकं विश्रमस्थानमस्ति। इदं हि केदारक्षेत्रस्य सन्निहितमस्ति। केदारेश्वरे भयानकं शीतम्। अत एव प्रायो यात्रिण: प्रात: केदारनाथे गत्वा सायमस्मिन् स्थान एव प्रत्यावर्तन्ते।
श्रीकेदारनाथ:
रामबाडास्थानामीलत्रयान्तरे भगवत: श्रीकेदारनाथस्य पावनं दर्शनम्। केदारनाथस्य मार्ग: आरोहात्मक एव। केदारमन्दिरं समुद्रतलात् 11753 (सार्द्धसप्तशताधिक-एकादशसहस्र- ''फिट’’ समुन्नतम्)। अत एवात्र पूर्णं शीतम्। रामबाडास्थानात् मीलद्वयान्तरे देवदर्शनी (देवदिखनी) स्थानम्। अस्मात्स्थानाद् भगवत: केदारेश्वरस्य मन्दिरं, मन्दिरस्य विपुलश्चूडाप्रदेशश्च दृश्यते। भगवत: केदारनाथस्य मन्दिरं पाण्डवैर्निर्मापितम्। मन्दिरे भगवत: शङ्करस्य लिङ्गं पिण्डं वा नास्ति। किन्तु मध्ये उन्नता श्यामवर्णा एका शिला इवास्ति यस्या उपरि पूजया सह घृतमालिप्यते। (पुराणकथाऽऽधारेण अत्रत्या: कथयन्ति यत् महिषरूपस्य पृष्ठभाग: अस्मिन् केदारेश्वरे। द्वितीयकेदारे (मध्यमहेश्वरे) नाभि:, तुङ्गनाथे बाहू। रुद्रनाथे मुखम्, तथा कल्पेश्वरे जटा: सन्ति। एते एव पञ्च केदारा: सन्ति)। नेपाले पशुपतिनाथनाम्ना शिरोभागोऽस्ति। अत्र हि (केदारनाथे) बदरीनाथपुरीतोऽप्यधिकं शीतम्। पुर्यामस्यां प्रेषणालय: (डाकघर) विद्युत्प्रेषणालयश्चास्ति। अतितुङ्गतया सेयं पुरी षण्मासान् यावत् हिमाऽऽच्छादिता तिष्ठति।
केदारेश्वरमन्दिरस्य समीपे एव ''उदककुण्डम्’’ अस्ति, यत्र चरणामृताऽऽचमनस्य माहात्म्यमधिकं कीर्तयन्ति। अत्र भृगुपथ-मधुगङ्गा-क्षीरगङ्गा-वासुकिताल-भैरवशिलाप्रभृतीनि कतिचित्पूजास्थानानि सन्ति।
पुराणे प्रसिद्धमस्ति यन्महाभारतयुद्धे गोत्रहत्यापातकात्परं खिन्ना: पाण्डवा: पापक्षयनिमित्तं भगवन्तं शङ्करमविषयन्त: अत्राऽऽगच्छन्। अत्रागतान् तान् वीक्ष्य तेषां धैर्यपरीक्षार्थं भगवानत्रापि धरायामन्तर्हितोऽभूत्। भूमौ प्रविशन्तं शिवमालोकितवन्त: पृष्ठानुगतास्ते पाण्डवा:। ततश्च भूमौ प्रविशत: शिवस्य पृष्ठभागं ते स्पृष्टवन्त:। पृष्ठभागस्य संस्पर्शेनैव ते गोत्रहत्यापातकान्मुक्ता बभूवु:।
तद्दिनादारभ्य भगवत: पृष्ठभागोऽत्र तिष्ठतीति पातकनिवृत्तये घृतेन विलिप्य वक्षसा सर्वेऽपि यात्रिण: स्पृशन्ति तमिमं भागम्।
शिवमन्दिरात्किञ्चिद्दूरे पूर्वदिशि हंसकुण्डोऽस्ति, यत्र हंसरूपं धृत्वा भगवान् ब्रह्मा समागत:। कुण्डोऽयं पितृणामुद्धारकारक:। अत एव यात्रिण: कुण्डेऽस्मिन् पितृभ्य: पिण्डदानं कुर्वन्ति।
केदारनाथाद् बदरीनाथस्य मार्ग:
श्रीकेदारनाथाद् बदरीनाथदर्शनम् एकाधिकैकशतमीलान्तरे। केदारनाथदर्शनं विधाय बदरिकाश्रमयात्रार्थं पुन: ''नालाचट्टी’’ स्थाने एव परावर्तनीयं भवति (यथा हि पूर्वं सूचितमपि)। गुप्तकाशीतो मीलत्रयान्तरे, एवं नालाचट्टीतोऽपि मीलत्रयान्तरे ''ऊखीमठ:’’ अस्ति। अस्मिन् मार्गे अर्ध्ंमार्ग: पूर्वमवतरणात्मक: प्राप्यते ततो मन्दाकिन्या: सेतुमुल्लंघ्य अवशिष्टोऽर्धमार्ग: (1 मीलात्मक:) आरोहात्मकोऽस्ति। तत आरोहमार्गं परिसमाप्य ''ऊखीमठ:’’ प्राप्यते। शीतकाले हिमैराच्छादिते केदारेश्वरे तस्य पूजा अस्मिन्मठे एव भवति। ''ऊखीमठ:’’ बाणासुरपुत्र्या: उषाया: (उषस:) मन्दिरम्। अत्र मन्दिरे अनिरुद्धस्य, चित्रलेखायाश्च (उषस: सख्या:) मूर्ती स्त:, ययोर्दर्शनं कुर्वन्ति यात्रिण:। समीपे एव ओंकारेश्वरस्याऽपि मन्दिरमव-लोक्यते। अस्मिन् जनपदेऽपि प्रेषणालय:, शासकद्वारा परिचालितश्चिकित्सालयोऽप्यस्ति। वसतिरियं रमणीया, आपणा अपि सर्ववस्तूनामत्र विलाक्येरन्। अस्मात् स्थानात् किञ्चिद्दूरे मध्यमहेश्वरं गन्तुं मार्गोऽस्ति, यो हि आरोहात्मक:। मध्यमहेश्वरो द्वितीयकेदारेश्वरनाम्ना विख्यात:, यो हि पञ्चकेदाराणामन्यतम:। विशिष्टश्रद्धाशालिन: केचिदस्य महेश्वरस्य दर्शनं कुर्वन्ति।
तुङ्गनाथ:
ऊखीमठात् सपादमीलत्रयोपरि गणेश (कन्था) चट्टी। एतदुत्तरं मीलत्रयोपरि ''पोथीबासा’’। किन्तु मार्गे मीलद्वयोपरि ''ग्वालिया बगड’’ एकं दर्शनीयं स्थानम्। पोथीबासातो मीलत्रयोत्तरं ''चोपता’’ विश्रमस्थानम्। मार्गे आरोहणस्य परिश्रमो भूयान् भवति किन्तु मार्गे स्थाने स्थाने प्रस्रवन्तो जलनिर्झरा:, नयनरमणीयानि वनानि च दृश्यन्ते। ''चोपता’’ चट्टीतो मीलत्रयात्मकम् आरोहमार्गमुल्लङ्घ्य तृतीयकेदारस्य भगवतस्तुङ्गनाथस्य दर्शनं लभ्यते। अयं भगवान् अतितुङ्गे पर्वतशिखरेऽवस्थित:। मन्ये, अत एव भवेत्तुङ्गनाथ इति नामधेयम्। इह हि भयानकं शीतम्। यदा तु यात्रासमये वृष्टिरप्युपयाति तदा तु यात्रिणां प्राणपरीक्षणमिव। तदुपरि सङ्कटमिदं यत् आरोहात्मकेऽस्मिन् मार्गे वृक्षस्तावदेकोऽपि न लभ्यते। पङ्क्तीनामासां लेखको यदा स्वकीयेन संघेन सह तुङ्गनाथस्याऽऽरोहमार्गमुल्लङ्घयन्नासीत्तदैवाऽकस्माद् वृष्टिरुपागात्। न केवलं जलवृष्टिरेव, अपितु सहैव करकावृष्टिरप्यभूत्। नासीन्मार्गमध्ये वृक्ष: कश्चिद् यस्य व्यवधाने वराको मनुष्य: स्वात्मानं रक्षेत्। सवेगो झञ्झावातो मार्गमारोहतां पादौ इतस्तत: कम्पयति स्म। सार्थेऽस्मिन् वृद्धा:, अवरोधवासिन्य: स्त्रिय:, स्तनन्धय एको बालकश्चासीत्। अत एव आरोहस्य मध्यभागे एव आकस्मिकमिममुपद्रवं प्राप्य महत् सङ्कटमुपातिष्ठत्। शीघ्रं मार्गोल्लङ्घनस्य प्रत्याशया त्वरितं चलन्त: सर्वेऽपि संघस्था मनुष्या: प्राय: पृथक्-पृथक् बभूवु:। वृद्धवयस्का एका पुरन्ध्री करकावर्षायां शीतेन कम्पमाना मार्ग एव निपपात। न चासीत्समीपे वृक्षपाषाणदिकमावरणाय किञ्चित्। किन्तु रक्षा इयमेवाऽऽसीद् यदिदानीं मार्ग: स्वल्प एवावशिष्टोऽभूत्। अत एव एक: पुरुष: प्रधाव्य तुङ्गनाथमन्दिरपरिसरे प्रापत्। एकं च ''कण्डी’’ वाहकमानीय, कण्डिकायां स्थापयित्वा तामिमां तुङ्गनाथसमीपे प्रापयत्।
बदरीनाथयात्रा प्रतिवर्षमेव समारोहेण भवति। किन्तु अस्मिन् वर्षे (सन् 1956) यात्रिणां प्रवाहस्तावता समारोहेण संघीभूतोऽभूद् यथा विश्रामस्थलीषु जनानां महाकष्टतोऽपि समावेशो दुष्करोऽभूत्। अत एव यथाकथञ्चित् तुङ्गनाथमन्दिरसविधे प्राप्तावपि निवासस्थानसमस्या कठिनाऽभवत्। प्रथमं तु शिखरदेशे आवासितस्य अस्य परित: परिधिरेव परिमितोऽभूत्। तदुपरि यात्रिणां संख्याबाहुल्यम्। ततोऽपि जलवृष्टिरासीत्। अत एव सर्वाण्यपि स्थानानि यात्रिभिरवरुद्धान्यासन्। किन्तु प्रारम्भादेव दीनसहायक: श्रीजगन्नायक: सङ्कटानि स्वत एव संहरति स्म। अत एव अत्रापि भगवान् पूर्वत एव मार्गद्वारमुद्घाटयति। आरोहमार्ग एव तीर्थपुरोहित एको मिलति स्म, यो हि पञ्चाम्बुविश्वविद्यालयस्य शास्त्री। संस्कृतभाषयैव संलपन् स हि निजपरिचयमदाद् यत्स: महामहोपाध्याय-श्रीगिरिधरशर्म-चतुर्वेद-महोदयस्य शिष्यो मैठाणीति गोत्राऽवटङ्क:। अत एव पंक्तीनामासां लेखकस्यास्य नाम श्रुत्वैव स हि अस्मत्सार्थस्य सहायकोऽभूत्। तेन हि आत्मविश्रामोचितमेकं स्थानमस्मत्कृते स्थिरीकृतम् यस्मिन् कट: प्रावृत आसीत्। अग्रिश्च प्रज्वलन्निवारयति स्म मार्गजातं शीतसंघातम्। तत्प्रदत्तै: कम्बलै: कृतशीतावरणा सा रात्रिर्य्पतीयाव।
मैठाणीमहोदयेन यथानियमं व्यवस्थां कृत्वा भगवतस्तुङ्गनाथस्य कारितं दर्शनम्। विशालं शिवलिङ्गं श्यामवर्णम्। अन्येऽपि देवा: सन्ति दर्शनीया:। अमृतकुण्ड:, आक्रोशकुण्डश्चास्ति समीपे एव यत्र स्नानं तर्पणं च कुर्वन्ति यात्रिण:। अस्माकं सार्थेन शिवदर्शनं कृत्वा यथानियमं तीर्थपुरोहितादीनां पूजनमपि व्यधायि। सर्वकार्येभ्यो निवृत्त्य यथैवाऽग्रे प्रस्थानस्य प्रबन्धं कुर्मस्तथैव अतर्किता शोचनीयैका घटना समघटत।
अस्माकं संघे श्वासरोगिणी एका वृद्धाऽऽसीत्। एतावत्कालं सा हि यथावस्थितमुत्साहपूर्वं यात्रामकरोत्। किन्तु तुङ्गनाथस्य तुङ्गमिदं शिखरं समवाप्य, वृष्टिकरकावृष्ट्यो: सम्मुखयुद्धे श्वासस्तस्या: प्रवृद्धिमगच्छत्। किन्तु धीरतया नैषा काञ्चिद् विकृतिमदर्शयत्। किन्तु भगवतस्तुङ्गनाथस्य दर्शन-पूजनादिकं कृत्वा, पुरोहितपूजामपि यथावद् विधाय, यथैव सेयं 'कण्डिकाम्’ आरोहणाय उपसर्पति तथैव प्रोक्तमनया- ''मम चित्तं सम्प्रति विकृतिमेति, शिरो धूर्णते।’’ इत्युक्त्वैव सा भूमावस्वपत्। चक्षुषी उद्वृते अभूताम्। कतिपयक्षणैरेव सा लोकमिमं पर्यत्यजत्!! भगवतस्तुङ्गनाथस्यैव दर्शन-पूजन-प्रतीक्षायां सा जीवितमद्यावधि दधार। पुन: किमासीत्? सर्वेऽपि वयं तस्या: सम्बन्धिन:। अत एव अग्रे यात्राप्रबन्धं त्यक्त्वा स्वर्गताया एतस्या: शिवलोकयात्राया: आनुषङ्गिकप्रबन्धे चिन्तिता अभवाम। आसीत्तस्मिन् दिने मेघाच्छन्नमम्बरम्। परित: शीतस्यासीत्साम्राज्यम्। अस्मिन् दुर्दिने क: कुर्यादन्नशुष्ककाष्ठादीनां प्रबन्धपूर्वकं स्वर्गताया और्व्कदैहिककार्याणि? किन्तु मैठाणीमहोदय: सर्वमन्यत्कार्यं परित्यज्य एतस्या दाहकार्ये व्यस्तोऽभवत्। अस्माकं सार्थे एक एवाऽऽसीत्पुरुष:। कथमेकेन नदीतटपर्यन्तं भवेन्निर्हरणम्? किन्तु मैठाणीमहोदय: स्वयमपि संयुज्य निर्हरण-दाहादिकार्यं परिसमापयत्। किं विस्तरेण, दिनत्रयं तत्रैव निवासोऽभवत्। पुरोहितकर्मकाण्डिनामनुमत्यनुसारं दिनत्रयकार्यम् अस्थिसञ्चयादिकं तत्रैव निरवर्य् त। केवलं प्रधान-प्रधानानि कानिचिदस्थीनि दशगात्रकृत्यार्थं नीत्वा, स्वर्गताया: पिण्डदानाधिकारी भ्रातृव्य: (पत्यु: भ्रातृव्य:) अग्रे यात्रामकरोत्।
बदरिकाश्रम:
उत्तराखण्डस्य यमुनावतरणम् (यमुनोत्तरी), गङ्गावतरणम् (गंगोत्तरी), केदारनाथ:, श्रीबदरीनाथ: इति चत्वारि प्रमुखतीर्थानि। पर:सहस्राणि वर्षाण्यारभ्य धर्मप्रेमिण: श्रद्धालव: पर्वतस्य दुर्लङ्घ्यं मार्गमारुह्य तीर्थानामेषां यात्रां कुर्वन्ति। पूर्वं यमुनावतरणं दृष्ट्वा गङ्गावतरणे यात्रां कुर्वन्ति। ततो द्वयोरपि तीर्थयोर्यात्रां विधाय साम्प्रतं 'टेहरी’ नगरे परावर्तन्ते। ततो मरुत्तर ('मोटर’) शकट्या कीर्तिनगरम्, श्रीनगरम्, पश्यन्तो जना: 'केदारनाथम्’ पश्यन्ति। तां यात्रां सविधि समाप्य 'चमोली’, 'पीपलकोटी’ स्थानयो: मरुत्तरशकट्या 'ज्योतिर्मठम्’ ('जोशीमठ’) प्राप्नुवन्ति। इत एव स्थानात् बदरीनाथयात्रां चिकीर्षन्तो जना: पद्भ्यां व्रजन्ति।
ज्योतिर्मठात् 'बदरिकाश्रम:’ दशक्रोशान्तराले। मार्गमेनं दिनद्वये उल्लङ्घयन्ति। ज्योतिर्मठात् नव 'मीला’न्तरे 'पाण्डुकेश्वर:’। अत्र रात्रौ विश्राम्यन्ति यात्रिण:। सर्वविधा भोजननिवासादे: सुविधा चाऽप्यत्र। स्थानेऽस्मिन् महाभारतकालिकस्य महाराजस्य पाण्डो: स्मारकमेकं मन्दिरम्, यत्रानेका: प्राचीनमूर्तयो विद्यन्ते। पाण्डुकेश्वरात् नातिविप्रकर्षे विनायकचट्टी, या हि यात्रिणां सौकर्याय साम्प्रतमेव प्रचलिता। पाण्डुकेश्वरात् बदरीकानाथधाम सार्ध्वदश मीला’न्तरे। प्रभाते प्रस्थाय यात्रिणो मध्याह्ने बदरिकाश्रमं प्राय: प्राप्रुवन्ति। मार्गोऽयं तथा कठिनोऽपि नास्ति।
अलकनन्दाया: सेतोरग्रे 'बदरीनाथपुर्या:’ प्रारम्भो भवति। अत्र हि रथ्याम् (बाजार) उल्लङ्घय बदरीनाथस्य मन्दिरम्, तत्सम्बद्धा धर्मशालाश्चावलोक्येरन्। अत्रत्या रथ्या यात्रिणां प्राय: सौकर्याय। चूर्ण- तण्डुल-घृत-शाकादीनि सर्वाण्येवाऽत्र लभ्यन्ते। वणिजो रात्रिविश्रमाय स्थानम्, किञ्चिद् द्रव्यप्रदाने आस्तरणावरणाद्यर्थं कम्बलादीन्यपि प्रददति। पर्वतोत्पन्ना: मूल-कन्दादय औषधयश्चाऽप्यत्र प्राप्यन्ते।
तप्तकुण्ड:
बदरीनाथमन्दिरस्यैव समीपे तप्ततोयस्य अनेकानि स्रोतांसि सन्ति। तान्येकत्र कृत्वा 'मन्दिर-समित्या’ एक: सुन्दर: कुण्डो निर्मितो यत्र यात्रिण: सुखेन स्नान्ति। कुण्डस्य समीप एव अलकनन्दा प्रवहति, किन्तु नितान्तशीतलेऽस्या: सलिले कश्चिदेव स्नाति। किञ्च तप्तकुण्डस्य स्नानमेवाऽत्र माहात्म्याय। रोगनिवारकमपि चात्र स्नानम्। पर्वतस्रोतोनि:सृतं तदिदमुष्णं जलं बहूनां रोगाणां प्रशमाय। तप्तकुण्डस्य समीपे एव भगवतो बदरीनाथस्य मुख्य: पूजक: (रावलजी) निवसति, यो हि दक्षिणप्रान्तीय 'नम्बूद्रि’ ब्राह्मणजातीय:। महाभागोऽयं विनम्र:, आचारवान्, मृदुभाषी चास्ति। मन्दिरस्य सर्वोऽपि प्रबन्ध: एतस्यैवाधीन:। अयमस्ति नैष्ठिक-ब्रह्मचारी। परं साम्प्रतं श्रूयते यत्-बदरीनाथमन्दिरस्य सर्वोऽपि प्रबन्ध:, व्यवस्था च उत्तरप्रदेशीयसर्वकारस्य कार्यकर्तृभिरेव क्रियते।
भगवत: पूजाया: प्रकामं विस्तृत: कार्यक्रम:। सन्ति एतस्य पूर्वतो नियता नियमा:। धनिनो मानिनश्च श्रद्धालव: पूर्वतो नियतं द्रव्यराशिं 'भाण्डागारे’ समप्र्य भगवत: पूजादिषु विविधकार्येषु सम्मिलिता भवन्ति। साधारणतया तु मन्दिरे दर्शनं प्रत्येकपुरुष: कर्तुं शक्नोति। मन्दिरस्य पाश्र्वत एवैको मार्ग: 'तिब्बत’ देशं प्रति प्रयाति। उत्तराखण्डयात्राया: अनुक्रमे बदरीनाथयात्रा चरमं प्रस्थानं परिगण्यते, ततश्च यात्रिण: स्वगृहान् परावर्तन्ते। प्रायो मासमेकं हिमाचलस्थतीर्थान्यवलोक्य वयमपि स्वगृहान् परावृत्ता:।
विश्वस्य असाधारणं तीर्थस्थलं भगवान् श्रीअमरनाथ:
(1)
दिव्याभिश्चन्द्रकलाभि: सह वर्धनक्षयणशीलं भगवत: श्रीअमरनाथस्य 'हिमशिवलिङ्गं’ पुण्येऽस्मिन् भारते भक्तजनानां भवभयविमुक्तये सर्वतो महनीयमनुपमं दर्शनीयम्। तदिदं गगनचुम्बिनां काश्मीरपर्वतानां मध्ये सागर-तटात् अष्टादशसहस्र ''फुट’’ तुङ्गे शैलशृङ्गे समवस्थितम्। श्री अमरेश्वरस्याऽस्य साधारणतया यस्यां कस्याञ्चन पूर्णिमातिथौ दर्शनं कर्तुं शक्यम्, किन्तु श्रावणपूर्णिमायाम् दर्शनस्य महत्वं विशेषतोऽवगम्यते धार्मिकै:। अत एव जम्बू-काश्मीरयो राज्यसर्वकारपक्षात् पूर्णिमायामस्यां भक्तयात्रिणां सुखसुविधायै प्रबन्धविशेषो विधीयते। काश्मीरमहाराजस्य स्वीयविभागस्य प्रबन्धकानां निरीक्षणे विशिष्ट: प्रबन्धो भवति। तत एव सेयं यात्रा प्रतिवर्षं सुव्यवस्थितरूपेण श्रावणपूर्णिमायामेव भवति। सहस्रशो यात्रिणो दूरदूरतोऽस्मिन्नवसरे भगवतो दर्शनेनाऽऽत्मानं पावयन्ति। रम्यस्थल-दर्शन-कौतुकिनां वैदेशिकानामपि कृते तदिदं विशेषत: आकर्षकं नूनम्।
श्रीअमरनाथस्य पावनी सेयं गुहा श्रीनगरात् 88 मीलदूरे, सागरतलाद् 18000 'फुट’ तुङ्गे शैलशृङ्गे विराजमाना। 'भृङ्गीशसंहितायां दशमपटले भैरव-भैरवी-संवादे अमरेश्वरस्य कथा विस्तरतो वर्णिता। तस्या: सार:-आदौ परब्रह्मण: सकाशात् नियतिरुत्पन्ना। तस्या: सकाशादेव देव-मनुष्य-राक्षस-गन्धर्वप्रभृति: चतुर्दशप्रकारा सृष्टिरुद्भूता। यदा सेयं सृष्टि: सर्वाऽपि मृत्युना आक्रान्ता, तदा सर्वेऽपि सम्भूय भगवत: शङ्करस्य शरणं ययु:। विविधाभि: स्तुतिभि: स्तूयमानो भगवानाशुतोषस्तानुवाच - ''कथं भवन्त: समुपगता:, किं च सम्प्रति वाञ्छथ’’। देवैरखिलैर्मृत्योर्भयमावर्णितम्। तदा शम्भु: स्वशीर्षस्थां चन्द्रकलामामोटयामास। शिर:शीर्षस्थचन्द्रकलात: सुपवित्रा 'अमरावती’ सरित्प्रावहत्। ततो भगवता निजस्य लिङ्गरूपमाविष्कृतम्, यद्धि हिमरूपं स्वल्प एव समये जलरूपमभवत्। तत: खिन्नैर्देवै: पुनर्भगवत: स्तुतिरारब्धा। तत: प्रसन्नेन गङ्गाधरेणाज्ञप्तम् - 'इत: प्रभृति ममेदं लिङ्गम्’ 'अमरेश्वर’ नाम्ना प्रसिद्धं स्यात्। ये किल तदिदं-द्रष्टुं शक्नुयुस्ते प्राप्रुयुरमरपदम्।
श्रीअमरनाथस्य यात्रा रक्षाबन्धनात् पूर्वत: कतिचिद्दिनेभ्य: प्रागेव श्रीनगरात् 'शिवध्वज’ (छड़ी’) रूपे प्रचलति। यात्रायामस्यां प्रायश: साधव: संन्यासिन एव बहुलायन्ते। साधारणजनास्तु 'बस’ द्वारा 'पहलगाँव’ स्थाने (60 मील विप्रकृष्टे) शिवध्वजयात्रायामस्यां सम्मिलन्ति। अमरनाथयात्रायास्तदिदं 'प्रथमं’ विश्रमस्थलम्। तदिदं समुद्रतलात् 62000 (फुट) उच्चे पर्वतशृङ्गेऽस्ति। इतोऽग्रे न केनचिद् यानेन गन्तुं शक्यम्। सर्वेऽपि पदचारेणैव गन्तुमभिमन्यन्ते। अशक्त प्राय: घोटकेन, 'दण्डिकया’ ('डाँडी’) वा अग्रे व्रजन्ति।
'पहलग्राम’तो द्वितीयं विश्रमस्थलं 'चन्दनबाड़ी’ति, यद्धि अष्ट 'मील’ दूरे। 'मील’द्वयान्तरे 'लिदरघाटी’। तदिदमतिरमणीयं प्राकृतस्थलम्, अस्याऽधस्तादेव लिदरनदी प्रवहति। एतस्या: प्राक्तनं नाम 'नीलगङ्गा’, यस्यां स्नानमतिपवित्रं परिगण्यते। 'चन्दनवाटी’ स्थलपरिसर एकमीलात्मक:, यो हि समुद्रतलात् 9500 'फुट’ समुन्नत:। एतस्य प्राकृतिक- सौन्दर्यमत्यन्तमाकर्षकम्। अष्ट 'मीला’न्तरितं पर्वतमार्गं समुल्लङ्घ्य यात्रिणो यदा स्थानेऽस्मिन् प्राप्नुवन्ति, तदा ते महतीं सान्त्वनां प्रमोदं च लभन्ते। मार्गश्रमं ते सहसैव विस्मरन्ति। द्वितीयदिने सहस्रसहस्रायात्रिणां दलमिदं 'शेषनाग’ ह्रदस्थलाभिमुखं भवति, यद्धि चन्दनवाटीत: सप्त 'मील’ दूरस्थम्। किन्तु मध्ये 'बिस्सू घाटी’ आरोहणमतिक्लिष्टम्। मार्गोऽत्यन्तं सङ्कीर्ण:। तिर्यग्वक्रा गमनपथा: सन्ति, किन्तु श्रद्धालवो यात्रिण: 'हर हर महादेव’, 'जय अमरनाथ स्वामिन्’ इति भक्तिनादै: एकादश-सहस्र-'फुट’ समुन्नतं शिखरं श्रद्धाबलाऽवलम्बनेन सम्यक् समारोहन्ति।
एतस्याऽऽरोहस्योत्तरम् अवतरणमुपलभ्यते। तदुत्तरं पुन: कठिनतममारोहणं कर्तव्यं भवति। इदानीं 13000 'फुट’ समुन्नतौ (शेषनागह्रद:) समुपलभ्यते, यस्य हि प्राकृतिकसौन्दर्यमतिमनोहारि। एतस्य पृष्ठे त्रिभि: शिखरैर्मण्डितो महानेक: पर्वत:। तत्रत्य-पौराणिक-परम्परानुसारं शिखराणीमानि ब्रह्म-विष्णु-महेशानां प्रतीकभूतानि।
एतदनन्तरम् 'महाङ्कुश’ पर्वतस्य सुमहानारोह:, यो हि 14000 'फुट’ समुन्नत:। एतदनन्तरं पुन: अवरोहणम् ('उत्तरार्ध्त’) पञ्च-'मील’-परिमितं प्राप्यते। इतोऽग्रे पञ्चतरणीनामकं विश्रमस्थलमुपलभ्यते, यद्धि प्राकृतशोभया सुतरां रमणीयम्।
पच्चतरणीमुल्लङ्घ्य सर्वेऽपि यात्रिण: साम्प्रतं भगवत: श्रीअमरनाथस्य दर्शनाय परमामुत्कण्ठामावहन्ति। भगवत: श्रीअमरनाथस्य पवित्रां गुहामभिमुखीकृत्य नानाविधैर्जयजयकारैस्ते अग्रसरा भवन्ति। किन्तु सोऽयं मार्गो 'मील’ पर्यन्तमतिसङ्कीर्ण:, स्थाने स्थाने तिर्यग्वक्र: क्लेशकरश्चास्ति। एतदग्रे 'मील’पर्यन्तं दृढतर:(ठोस) हिमव्याप्तो मार्ग:। इमं पन्थानमुल्लङ्घ्य भगवत: श्रीअमरनाथस्य पावनी गुहा दृशोर्गोचरीभवति। वामभागे चास्य पर्वतात्प्रपतन्ती अमरावती नदी समवलोक्यते।
स्थलेऽस्मिन् किञ्चिद्विश्रम्य श्रद्धालवो यात्रिण: 'अमरगङ्गायाम्’ (अमरावती) स्नान्ति। तत: पवित्रीभूता यात्रिणो भगवत: श्रीअमरनाथस्य पावनीगुहां प्रविशन्ति। अभ्यन्तरे प्रविष्टैर्यात्रिभिर्भगवत: श्रीअमरनाथस्य रमणीयतमस्य सुप्रभावशालिनश्च हिमलिङ्गस्य दर्शनं क्रियते, यद्धि सुतरां कान्तियुक्तम् पञ्च 'फुट’-समुन्नतं चाऽस्ति। एवमेव दक्षिणभागे षट्'फुट’समुन्नत:, वामभागे च एको लघीयान् हिमपिण्ड: श्रद्धालुभि: समवलोक्यते, यो हि क्रमश: श्रीगणेश:, श्रीपार्वती चेति, सश्रद्धमखिलै प्रणम्यते।
चमत्कारश्चायं सर्वैरवलोक्यते यत् त्रयोऽप्यमी हिमपिण्डा: यथा यथा चन्द्रमा: सोऽयमभिवर्ध्ोते तथा तथा अमी अपि वर्धन्ते। यथा यथा च सोऽयं चन्द्र: क्रमश: क्षीयते तथा तथा त्रयोऽप्येते ह्रस्वा भवन्ति।
सर्वथा नमोऽस्मै भगवते अमरेश्वराय अमरनाथाय॥ शुभम्॥
भगवत: श्रीकृष्णचन्द्रस्य लीलाभूमि: श्रीवृन्दावनम्
श्रीवृन्दावनं भारतवर्षस्य तादृक् पावनस्थलमस्ति यस्य नामश्रवणेऽपि भावुकानां हृदये गद्गदता भवति, यस्य च दर्शनेन प्रत्येकमास्तिक: पुरुष: श्रद्धयाऽवनतो भवति। प्राचीना प्रसिद्धिरस्ति यत्-श्रीवृन्दावने समागत्य भक्तकविशिरोमणि: श्रीतुलसीदास: तादृक् प्रभावित: समभूद् यद् वृन्दावनस्य सम्मुखे वैकुण्ठमपि लघु लक्ष्यते स्म। महाभागेन अनेन बुद्धितुलया सन्तुलय्य प्रोक्तम्-
'वृन्दावन वैकुण्ठ स्यों तोल्यो तुलसीदास।
गरुओ हतो सो भुईं रह्यो हलको उठ्यो अकास।’’
(बुद्धितुलया तोलनेन गुरुतरं वृन्दावनं निम्रे (भूमौ) अतिष्ठत्, लघुतरं वैकुण्ठम् उपरि आकाशे अगच्छत्। पौराणिकान् भक्तकवीनारभ्य अद्यपर्यन्तं ये ये कवय: समभवन्, तेषां हि वृदावनमालम्ब्य नानाविधा: सूक्तय: सुप्रसिध्यन्ति। प्राचीनसाहित्यात् प्रतीयते यत्पुण्या सेयं व्रजभूमि: द्वयोर्भागयोर्विभक्तेवाऽऽसीत् यस्यां हि द्वादशवनानि, चतुर्दश च उपवनान्यासन्, ययोर्नामनी बृहद्वनम् वृन्दावनं चेत्यास्ताम्; श्रीयमुना च द्वयोरनयोर्मध्यगता बभूव।
श्रीमद्भागवतात्प्रतीयते यत् प्राक्तनं वृन्दावनमद्यतनाद् वृन्दावनात्सुविस्तृतं, सङ्कुलं चासीत्। तस्मिन् समये वृन्दावनं स हि समग्रोऽपि भाग: परिगण्यते स्म, यत्र हि अद्यतनवृन्दावनादतिरिक्त: श्रीगोवर्ध्तन:, काम्यवनम्, वरसानु: (बरसाना), नन्दग्रामप्रभृतयो वसतय: आवासिता: सन्ति। पुराणेषु-वृन्दावने गोवर्ध्रनपर्वतस्य स्थिति: सुस्पष्टाऽस्ति, यो हि वर्तमानवृन्दावनात् कतिक्रोशान्तरितोऽस्ति। प्रकारेणानेन क्षेत्रदृष्ट्या वर्तमानकालिकं वृन्दावनं पुराणकालिकवृन्दावनस्य खण्डभूतमेव परिगण्येत नूनम्।
वर्तमानवृन्दावननाम्ना यो भूभागोऽस्माभि: परिज्ञायते, तस्य एवंरूपे स्थापनाया: श्रेयो महाप्रभो श्री चैतन्यदेवस्याऽस्ति। चैतन्यमहाप्रभुर्यस्मिन् समये श्रीवृन्दावनपरिसरे समागतवान् भगवत: श्रीकृष्णस्य लीलास्थलानि चाऽवलोकितवान् तदा स हि वृन्दावनस्य तरुलतावल्लरीषु तथा प्रभावित: समभूद् यथा तस्य देहाऽनुसन्धानमपि नासीत्। कालियह्रदस्य 'कालीदह’ श्रीयमुनाया: उत्तालतरङ्गाणां लीलाखेलमवलोक्य उन्मदिष्णु: स हि यमुनायामेव झम्पामदात्, यत्र तस्य सहचरैस्तस्य शरीररक्षा व्यधीयत। श्रीचैतन्यदेवो व्रजभूमे: सर्वेष्वेव स्थलेषु यात्रामकरोत् परन्तु वर्तमानकालिकं वृन्दावनमेव महाप्रभोरस्य सर्वापेक्षयाऽधिक-माकर्षकमभूत्। तस्य व्रजप्रवासस्य भूयानवकाश: श्रीवृन्दावने एव व्यतीतोऽभूत्। तस्मिन् समये वृन्दावनमिदं घनघोरविपिनमभूत्। अत एव रात्रिसमये श्रीचैतन्यदेवस्याऽनुचरास्तमेनम् 'अकूरघट्टम्’ अनयन्। किन्तु महाप्रभु: प्रातरुत्थायैव पुन: श्रीवृन्दावनाभिमुखोऽभवत्, यत्र लतावृक्षाणामालिङ्गनं विधाय श्रीकृष्णसन्निधानस्येव सुखमविन्ददसौ।
सुखावह: संयोग सोऽयमभूद् यत् श्रीचैतन्यदेवस्यानन्तरं तस्य शिष्या: श्रीरूपसनातनगोस्वामिप्रभृतयोऽपि श्रीकृष्णानुरागाद् वृन्दावनमुपगतास्तदा ते अत्रैव सुभृशमानन्दिता भूत्वा कीर्तनसेवनादिना भूमिमिमाममण्डयन्। तदनन्तरं क्रमशो मन्दिराणामपि निर्माणमत्र प्रारभ्यत। शनै: शनैर्भक्तानामत्र निवास: प्रावर्ध्डत। प्रयाति समये सेयं स्थितिरभूद् यद् य एव श्रीकृष्णभक्त्यानुप्राणितोऽभवत्, स एव वृन्दावने वसतिमाकांक्षति स्म। स्वामी श्रीहरिदास:, महाप्रभु: श्रीहितहरिवंश:, 'कृष्णगढ़’ नरेशो नागरीदास:, ओरछाराजपुरोहित: कविवर-हरिराम व्यास:, मुहम्मदशाहस्य (रंगीले) 'मीरमुंशी’ घनानन्दसदृशा: अनेके भक्ता गृहं विहाय वृन्दावनमाश्रयन्। सेयं परम्परा उत्तरोत्तरमवर्ध्,त। आम्बेरधराधीशस्य वर्तमानजयपुर-नगर-प्रतिष्ठापकस्य महाराजाधिराज-श्रीजयसिंह-देवस्य परमसम्मानित: श्रीमान् देवर्षि श्रीकृष्णभट्टकविकलानिधिरपि श्रीजयसिंह-ईश्वरीसिंह-माधवसिंहानां शासनकाले सर्वविधसम्मानं राज्ञां परस्परकलहादिकं च सर्वमनुभूय अन्ते श्रीवन्दावनक्षेत्रे विश्राममाकांक्षत। किन्तु माधवसिंह-महाराजेन स्नेह-गौरव-विश्रम्भादिकारणान्नायं बहिर्गन्तुमन्वमन्यत। अत एव निर्विण्णेन श्री कविकलानिधिमहाभागेन 'पद्ममुक्तावल्याम्’ प्रोक्तम् -
''मिथ्याकथन-दुरत्यय-नृपवर-कृतरक्षण-व्यथादुष्ट:।
हा वृन्दावन! भवता सम्प्रति दूराद्विमुक्तोऽस्मि॥’’
अद्यापि सेयं यथावत् प्रवर्तमानाऽस्ति। एवं किलं तदिदं वृन्दावनं शनै: शनै: नगरस्य रूपमधारयत्। वर्तमानमिदं वृन्दावनं भगवतो: श्रीराधाकृष्णयोश्चरणचिह्नाङ्किता तयोर्विहारभूमि:, रसकेलिस्थली, रासक्रीडास्थलीरूपे सर्वत: सुप्रसिद्धमस्ति। वृन्दावनविषये सर्वत: सुप्रसिद्धं यद्ववृन्दावने एकमपि ईदृशं भवनं नास्ति यत्र भगवत: श्रीकृष्णस्य मन्दिरं न भवेत्। वास्तवे वृन्दावनस्य प्रत्येकं गृहे भगवत: सेवापूजा निर्विशङ्कं शक्यते विलोकयितुम्। भगवत: श्रीकृष्णस्य नानाविधलीलासम्बन्धिन्य: अनेका: स्थल्यो भक्तिमार्गस्याऽऽचार्ये: स्थापिता: सन्ति, या हि सर्वेषामेव श्रद्धाभक्त्योर्भाजनानि सन्ति। एतदतिरिक्तम्-वृन्दावने भक्तकवीनाम् प्राचीनकलाकाराणां, भक्तमहात्मनामनेका: कुट्य: विश्रामस्थलानि समाधिस्थानानि च विद्यन्ते, येन हि न केवलं भक्तानाम्, अपितु कलाप्रेमिणाम्, साहित्यकाराणां चापि तदिदं तीर्थस्थलमस्ति।
लोकरङ्गमञ्चस्य दृष्ट्या वृन्दावनं रासमण्डलीनां निकेतनं परिगण्यते। साहित्यसाधकानां दृष्ट्याऽपि अत्रत्येषु प्रत्येकं देवमन्दिरेषु, प्राचीनानां गोस्वामिनां भवनेषु, पारम्परिकपण्डितानामालयेषु हस्तलिखितानां ग्रन्थानामेवंविधानि भाण्डागाराणि निह्नुतानि सन्ति, येषां दर्शनेन, ग्रन्थानामध्ययनेन च बहूनां विद्याव्यसनिनां भूयान् काल: साम्प्रतमपि सम्यक् संव्यतीयेत। श्रीवृन्दावनस्य महत्त्वमनेकदृष्ट्या अनेकविधं प्रतीयेत, किन्तु जनसाधारणस्य कृते नगरस्याऽस्य सर्वप्रमुखमाकर्षणम् अत्रत्यानि मन्दिराणि। वृन्दावनस्य प्राचीनमन्दिरेषु-श्रीगोविन्द-गोपीनाथ-मदन-मोहन-राधावल्लभ-युगलकिशोराणां महान्ति मन्दिराणि। मन्दिराण्येतानि रक्तपाषाणनिर्मितानि, कारुकार्यकृते सर्वप्रशसंनीयानि। एतेषु सर्वश्रेष्ठं स्थापत्यं श्रीगोविन्दमन्दिरस्यास्ति। तदिदं मन्दिरम् आम्बेरनरेशेन श्रीमानसिंहमहाराजेन निजगुरो: गोस्वामिश्रीरूपस्याऽऽज्ञया निर्मापितम्। स्थापत्यदृष्ट्या उत्तरभारतीयमन्दिरेषु तदिदमद्वितीयं परिगण्यते। एतस्य निर्माणं सन् 1590 वर्षे पूर्णमभूत्। उत्कृष्टकलापूर्ण एतस्योपरितनो भागो विविधचित्राङ्कितत्वेन दर्शनीयोऽस्ति। मन्दिरस्य विभिन्नेषु भागेषु विभिन्नमूर्तीनां सौन्दर्यस्य तत्सम्बन्धि-नानामुद्राणां च शिल्पकला वर्तमानसमयेऽपि कलामार्मिकाणां सुतरां विस्मापयित्री। एतस्मिन् प्रतिष्ठित: श्रीगोविन्दस्य श्रीविग्रहस्तु यवनेभ्यो रक्षानिमित्तं स्थानादस्मात् जयपुरे नीत:, यो हि राजहर्य्:मालाया: सम्मुखस्थे विशाले मन्दिरे सम्प्रति विराजते, यस्य दर्शनार्थं कालिकाता-विहार-वृन्दावनादि-प्रदेशेभ्य: शतशो वङ्गीयभक्ता: प्रतिवर्षं समायान्ति। 15, 20 तमशताब्द्यो: निर्मितानि बहूनि मन्दिराणि सन्ति, किन्तु सर्वेष्वेतेषु विशालतावैभवादीनां दृष्ट्या श्रीरङ्गमन्दिरं सर्वप्रमुखं परिगण्यते। एतद्धि मथुरानगरस्थेन श्रेष्ठिलक्ष्मीचन्द्रेण मद्रासप्रदेशीयश्रीरङ्गमन्दिरस्यानुकृत्या निर्मापितभूत्। मन्दिरेऽस्मिन् 50 'फुट’ उन्नत: सुवर्णस्य महान् स्तम्भ: अत्रत्यवैभवस्य प्रतीकमिव प्रकाशते। मन्दिरेऽस्मिन् प्राय: उत्सवा भवन्ति। सप्तभि: आवरणै: (परकोटा) परिवेष्टितं तदिदं दुर्गमन्दिरं रामानुजसम्प्रदायस्य सर्वप्रमुखं केन्द्रमिव विभासते।
द्वितीयं प्रमुखमन्दिरं तरङ्गायितानां मर्मरपाषाणस्तम्भानामुपरि राजहर्य्ामिव सुशोभते, यद्धि लखनऊनगरस्य कुन्दनलाल-फुन्दनलालशाह-महोदयाभ्यां निर्मापितम्। द्वावपीमौ अवधनवाबानां सम्मानितौ, अतिपरिष्कृत-रुचिशालिनौ धनिकावास्ताम्। यौ हि श्रीकृष्णभक्तया अनुप्राणितौ, अन्ते श्रीवृन्दावने एव निवासमकल्पयताम्। आभ्यां भक्तिविषयिणी अतिमधुरा हिन्दीकाव्यरचनाऽपि कृताऽभूतया हि ललितकिशोरी-ललितसरसमाधुरी-नाम्ना प्रख्याता। १९९६ तमे ख्रिष्टीयवत्सरे ग्वालियरनरेशेन निर्मापितं ताम्रशिखरमन्दिरम्, लालाबाबूमन्दिरम्, राधादामोदरमन्दिरम्, राधावल्लभ-राधागोपाल-दाऊजी, गोपेश्वर-महादेव-मन्दिरम् एतत्प्रभृतीनि वृन्दावने प्रमुखानि परिगण्यन्ते।
परमेषु दिनेषु वृन्दावने सर्वतोऽधिका यस्य मान्यता तद्धि 'श्रीबाँकेबिहारी’ मन्दिरम्। मन्दिरेऽस्मिन् भगवतो मूर्तिरतिमनोहारिणी। सोऽयं श्रीविग्रह: हरिदासस्वामिना निजनिवासस्थले 'निधिवने’ प्राप्त इति प्रसिद्धम्। एतदतिरिक्तम्, लतापताकाभिराकर्षकतमं 'निधिवनं’ 'सेवाकुञ्ज:’ चापि दर्शनीयतम:। निधिवनं स्वामीश्रीहरिदासमहाभागस्य निवास:। सेवाकुञ्जस्य वर्तमानरूपे स्थापना श्रीहितहरिवंशमहाभागेन अकारि। भक्तानां साम्प्रतमपि भावना यत् रात्रौ नित्यं भगवान् श्रीकृष्णो रासलीलां विधत्ते। अत्र मयूरा वानराश्च सर्वतोऽधिका: क्रीडन्ति।
एतदतिरिक्तम् -भगवत: श्रीकृष्णस्य लीलास्थलेषु वंशीवट:, शृङ्गारवट: कालियह्रद:, चीरघट्ट:, ब्रह्मकुण्ड:, धीरसमीर:, रासमण्डलम्, इत्यादीनि स्थलानि विशिष्योल्लेखनीयानि यत्र हि प्रत्येकं भक्तो मस्तकमानमय्य हृदयोल्लासमाप्नुवन् जीवनस्य धन्यतां मन्यते। एवं किल तदिदं वृन्दावनधाम मथुरात: क्रोशत्रितयान्तराले (६ मील) समवस्थितम्, जनसंख्यायां स्वल्पमपि सत् निजमहिम्रा नूनमद्वितीयमेवाऽस्ति। श्रीवृन्दावनेऽस्मिन् वर्तमानकाले ब्रह्मचारिमहाभागस्य शिष्येण वैष्णवशिरोमणिना जयपुरमहाराजाधिराजेन श्रीमाधवसिंहदेवेन निर्मापितं प्राचीनवृन्दावनपरिसरे निर्मितं विशालं तन्मन्दिरमपि धाम्रोऽस्य शोभायै, यस्य हि शिल्पकार्यं समस्तेऽपि भारते प्रशंसनीयं यस्य च विशाल: प्रारूपो दूरत एव चक्षूंषि कर्षति।