पाणिनीयधातुपाठस्य वृत्तय:

आचार्यपाणिने: धातुप्रवचनकालादारभ्य अद्यावधि अनैकै: आचार्यै: पाणिनीयं धातुपाठम्‌ आश्रित्य वृत्तय: कृता:। किन्तु तासु काश्चन एव इदानीमुपलभ्यन्ते। अनेकासां नामान्यपि अज्ञातानि। अत्र परिज्ञाता: वृत्तिकारा: वृत्तयश्च उद्ध्रियन्ते-

पाणिनिः सुनागः भीमसेन: पारायणः नन्दिस्वामी राजश्री नाथीयधातुवृत्ति: कौशिक:
क्षीरस्वामी मैत्रेयरक्षितः हरियोगी देवः काश्यपः आत्रेयः हेलाराजः सायणः