जुहोत्यादिप्रकरणम्‌

हु दानादानयो:। लस्य तिबादय: कर्तरि शप्‌। जुहोत्यादिभ्य: श्लु (पा०सू० २/४/७५) इति तस्य लोप: श्लाविति द्विर्वचनम्‌ अभ्यासकार्यं सार्वधातुकगुण: जुहोति। ङित्वात्‌ गुणाभाव: जुहुत:। उभे अभ्यस्तमित्यभस्ताद्. अदभ्यस्ताद्. (पा०सू० ७/१/४) इति झेरदादेश: हुश्नुवो: सार्वधातुके (पा०सू० ६/४/८७) इति यण्‌ उवङोपवाद: जुह्वति। लङि अजुहोत्‌। अजुहुताम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस् जुसि च (पा०सू० ७/२/८३) इति गुण: अजहवु:। लोटि जुहोतु जुहुतात्‌। जुहुताम्‌। जुह्वतु। सेर्हि हुझल्भ्यो हेर्धि: (पा०सू० ६/४/१०१) इति हेर्धिरादेश: जुहुधि। लिङि जुहुयात्‌। जुहुयाताम्‌। उस्यपदान्तात्‌ (पा०सू० ६/१/९६) इति पररुपत्वं जुहुयु:। आशिषि अकृत्सार्वधातुकयोर्दीर्घ: (पा०सू० ७/४/२५) हूयात्‌। लिटि भीह्रीभुहुवां श्लुवच्च (पा०सू० ३/१/३९) इत्याम्विकल्प: जुहवाञ्चकार। अन्यत्र जुहाव। जुहुवतु:। जुहुवु:। जुहोथ। जुहविथ। लुङि सिचि वृद्धि: अहौषीत्‌। णौ चङि अजूहवत्‌। होष्यति। अहोष्यत्‌। होता। जुहूषति। जोहूयते।

ञिभी भये। गुण: बिभेति। हलादौ सार्वधातुके क्ङिति इद्दरिद्रस्य भियोऽन्यतरस्याम्‌ (पा०सू० ६/४/११५) इति वेत्वं बिभित: बिभीत: एरनेकाचो० (पा०सू० ६/४/८२) इति यण्‌ बिभ्यति। लङि सप्रजापतिरबिभेत्‌। अबिभिताम्‌। अबिभीताम्‌। जुसि च (पा०सू० ७/२/८३) इति गुण: अबिभयु:। लोटि बिभेतु बिभीतात्‌। बिभीताम्‌। बिभ्यतु। लिङि बिभ्यात्‌। बिभीयात्‌। बिभियाताम्‌। बिभियु:। बिभीयु:। आशिषि भीयात्‌। भीयास्ताम्‌। भीयासु:। लिटि पूर्ववदाम्विकल्प: बिभयाम्बभूव। बिभाय। बिभ्यतु:। बिभ्यु:। बिभयिथ बिभेथ। लुङि सिचि इगन्तलक्षणा वृद्धि: अभैषीत्‌। अभैष्टाम्‌। अभैषु:। णौ चङि हेतुभयविषये बिभेतेर्हेतुभये (पा०सू० ६/१/५६) इत्यात्वपक्षे युगागम: इतरत्र भियो हेतुभये षुक् उभयत्र भीस्म्योर्हेतुभये (पा०सू० १/३/६८) इत्यात्मनेपदम्‌ मुण्डो बीभयत। जटिलो बिभीषत। हेतुभयादन्यत्र अबीभयत्‌। भेष्यतीत्यादि।

ह्री लज्जायाम्‌। जिह्रेति। जिह्रीत:। संयोगपूर्वत्वात्‌ एरनेकाचो (पा०सू० ६/४/८२) इति यण्‌ न भवति इयङादेश: जिह्रियति। लङि अजिह्रेत। अजिह्रीताम्‌। अजिह्रयु:। लोटि जिह्रेतु जिह्रीतात्‌। जिह्रीताम्‌। जिह्रियतु। लिङि जिह्रीयात्‌। जिह्रीयाताम्‌। जिह्रीयु:। आशिषि ह्रीयात्‌। ह्रीयास्ताम्‌ लिटि पूर्ववदाम्विकल्प: जिह्रयाञ्चकार। जिह्रय। लुङि अह्रैषीत्‌। णौ चङि अर्तिह्री० (पा०सू० ७/३/३६) इत्यादिना पुक्‌ पुगन्तलक्षणगुण: अभ्यासकायम्‌ उपधाह्रस्व: अजिह्रिपत्‌। ह्रेष्यतीत्यादि।

पॄ पालनपूरणयो:। भृञामित्‌ (पा०सू० ७/४/७६) अर्तिपिपर्त्त्योश्च (पा०सू० ७/४/७७) इति श्लावभ्यासस्येत्वं गुण: पिपर्ति। पिपृत:। पिप्रति। पिपर्षि। लङि तिप्सिपोर्हल्ङ्यादिलोप: गुण: रपरत्वं विसर्जनीय: अपिप:। अपिपृताम्‌। अपिपरु:। पुनरपि अपिप: पिपर्त्तु। पिपृतात्‌। पिपृताम्‌। पिप्रतु। लिङि पिपृयात्‌। पिप्रियाताम्‌। पिपृयु:। आशिषि रीङृत: (पा०सू० ७/४/२७) रिङ्‌शयग्लिङ्‌क्षु (पा०सू० ७/४/२८) इति रिङ् प्रियात्‌। लिटि पपार। पप्रतु:। पप्रु:। पपर्थ। पप्रथु:। पप्र लुङि अपार्षीत्‌। परिष्यति। शेषं नेयम्‌। सनि पुपूर्षति। यङि रीङृत इति रीङ्‌ पेप्रीयते।

।। तास्यानिट: परस्मैभाषा:।।

डुभृञ् धारणपोषणयो:। भृञामित्‌ भृञादीनां त्रयाणां श्लौ भृञामिदित्याभ्यासस्येत्वं। बिभर्ति। बिभृत:। बिभ्रतीत्यादि। पूर्ववत्‌ लिटि श्लुवदां विकल्प: बिभराम्बभूव। बभार। बभ्रतु:। बभ्रु:। बभर्थ। लुङि अभार्षीत्‌। ऋद्धनो: स्ये (पा०सू० ७/२/७०) इतीट्‌ भरिष्यति। सनि कित्वदीर्घत्वोत्त्वदीर्घत्वानि बुभूर्षति। यङि रीङृत: (पा०सू० ७/४/२७) बेभ्रीयते। तथा बिभृते। बिभ्राते। बिभ्रते। अबिभृत। अबिभ्राताम्‌। अबिभ्रत। बिभृताम्‌। बिभ्राताम्‌। बिभ्रताम्‌। लिङ: सलोपोऽनन्त्यस्य (पा०सू० ७/२/७९) इति सीयुट्‌ सलोप: यणादेश: बिभ्रीत। बिभ्रीयाताम्‌। बिभ्रीरन्‌। आशिषि उश्च (पा०सू० १/२/१२) इति कित्वात्‌ गुणाभाव: भृषीष्ट। ध्वमि मूर्धन्य: भृषीढ्वम्‌। लिटि बिभ्रे। बिभराञ्चक्रे। बभराम्बभूव लुङि कित्वात्‌ गुणाभाव: झलो झलि (पा०सू० ८/२/२६) ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सिज्लोप: अभृत।

।। तासावनिट्‌ उभयतो भाष:।।

माङ्‌ माने। शप्‌ श्लु: श्नाभ्यस्तयोरात: (पा०सू० ६/४/११२) ईहल्यघो: (पा०सू० ६/४/११३) इति हलादौ सार्वधातुक क्ङिति इत्वं मिमीते। आल्लोप: मिमाते। मिमते। लङि अमिमीत। अमिमाताम्‌। अमिमत। मिमीताम्‌। मिमाताम्‌। मिमताम्‌। लिङि पूर्ववदाल्लोप: मिमीत। मिमियाताम्‌। मिमीरन्‌। आशिषि मासीष्ट। लिटि आतो लोप: इटि च (पा०सू० ६/४/६४) इत्याल्लोप: तस्य स्थानिवद्भावाद्द्विरुक्ति: ममे। लुङि अमास्त। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यं सस्य तत्वं पूर्ववत्सन: मित्सते। यङि घुमास्था० (पा०सू० ६/४/६६) इत्यादिना ईत्वे सति द्विरुक्ति: मेमीयते।

ओहाङ्‌ गतौ। पूर्ववदीत्वं जिहीते। पूर्ववदाल्लोप: जिहाते। जिहते। अजिहत। अजिहाताम्‌। अजिहत जिहीताम्‌। जिहाताम्‌। लिङि आल्लोप: जिहीत। जिहीयाताम्‌। जिहीरन्‌। लिटि जहे। लुङि अहास्त। अजीहपत्‌। हास्यत इत्यादि। यङि जाहायते। जेहीयते।

।। आत्मनेभाषौ।

ओहाक्‌ त्यागे। ककारो हश्च व्रीहिकालयो: (पा०सू० ३/१/१४८) इत्यत्रानयो: सामान्यग्रहणार्थ:। लट्‌ तिप्‌ शप: श्लु: श्लौ (पा०सू० ६/१/१०) इति द्विर्वचनमभ्यासकार्यं किमिदमभ्यासकार्यं नामोच्यते अत्र लोपाभ्यासस्य (पा०सू० ७/४/५८) इत्यधिकृत्य ह्रस्व: (पा०सू० ७/४/५९) इत्यनेन द्विमात्रस्याच स्थानेन्तरतम न्यायेन एकमात्र: एच: स्थाने इग्‌ भवति एच इग्घ्रस्वादेशे (पा०सू० १/१/४८) इति अनेकहलोभ्यासस्य एकहलो लोप: आदिहलाम्मध्ये हकारस्य कवर्गस्य च कुहोश्चु: (पा०सू० ७/४/६२) इति चुत्वं तत्र हकारस्यान्तरतम्याज्झकार: अभ्यासे चर्च (पा०सू० ८/४/५४) इति चकाराज्जश्त्वं जकार:। ननु चकारेत्यत्र जश्त्वं कस्मान्न भवति प्रकृतिचरां प्रकृतिचरो भवन्तीति वचनात्‌। अस्यार्थ: ये चरोऽभ्यासे वर्तन्ते तेषां प्रकृतिचर एव भवन्तीति चरां मध्ये ककारस्य आन्तरतम्यात् कुहोश्चु: (पा०सू० ७/४/६२) इति चुत्वं चकारेत्यादौ यरलवनमानामादिभूतानां नास्त्यभ्यासकार्यं ययौ ववौ ररौ ललौ ननामेति झभघढधानाम्‌ अभ्यासे चर्च (पा०सू० ८/४/५४) इति चकारात्‌ जबगडदा जशो भवन्ति कवर्गस्य चुत्वमेवान्तरतम्यात्‌ प्रकृतिजशां प्रकृतिजशो भवन्तीति जिगाय डिड्ये ददौ बुबुधे इति फछयौश्चरौ पचौ भवत: अनादिभूता अपि शर्पूर्वा: खय: शिष्यन्ते शर्पूर्वा: खय: (पा०सू० ७/४/६१) इत्यनेन इत्यादि द्रष्टव्यम्‌। जहाति हलादौ सार्वधातुके क्ङिति ईहल्यघो: (पा०सू० ६/४/११३) इद्दरिद्रस्य (पा०सू० ६/४/११४) भियोऽन्यतरस्याम्‌ (पा०सू० ६/४/११५) जहातेश्च (पा०सू० ६/४/११६) इति वा इत्वं जहित:। जहीत:। अजादौ पूर्ववदाल्लोप: अदभ्यस्तात्‌ (पा०सू० ७/१/४) जहति। लङि अजहात्‌। अजिहिताम्‌। अजिहीताम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्‌ उस्यपदान्तात्‌ (पा०सू० ६/१/१०९) इति अजहु:। लोटि जहातु जहीतात्‌। जहिताम्‌। जहीताम्‌। जहतु। सेर्हिरादेश: जहिहि जहीहि। अत्रापित्त्वात्‌ ङित्त्वम्‌ आ च हौ (पा०सू० ६/४/११७) इति पक्षे आत्वं जहाहि। लिङि लोपो यि (पा०सू० ६/४/११८) इत्याल्लोप: ईत्वापवाद: जह्यातम्‌। जह्याताम्‌। आशिषि एर्लिङि (पा०सू० ६/४/११७) इत्येत्वं हेयात्‌। हेयास्ताम्‌। लिटि जहौ। जहतु:। जहु:। आतो लोप इटि च (पा०सू० ६/४/६४) इत्याल्लोप: जहिथ। जहाथ। लुङि पूर्ववत्सगिटौ अहासीत्‌। अहासिष्टाम्‌। अहासिषु:। हास्यतीत्यादि। यङि घुमास्था० (पा०सू० ६/४/६६) ईत्वं द्विरुक्ति: जेहीयते। परस्मैभाषा:।

डुदाञ् दाने। ददाति। पूर्ववदाल्लोप: दत्त:। ददति। लङि अददात्‌। अदत्तम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्‌ अदु:। ददातु दत्तत्‌। दत्तम्‌। ददतु। सेर्हि: घ्वसोरेद्धावभ्यासलोपश्च (पा०सू० ६/४/११९) इत्येत्वाभ्यासलोपौ देहि। लिङि आकारलोप: ईहल्ल्यघो: (पा०सू० ६/४/११३) इति घुसंज्ञकानां पर्युदस्तत्वात् हलादावपि ईत्वं न भवति दद्यात्‌। दद्याताम्‌। दद्यु:। आशिषि एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं देयात्‌। देयास्ताम्‌। देयासु:। लिटि ददौ। ददतु:। ददु:। ददिथ ददाथ। लुङि गातिस्था० (पा०सू० २/४/७७) इति सिच्लुक्‌ अदात्‌। अदाताम्‌। आत: (पा०सू० ३/४/११०) इति झेर्जुस्‌ अदु:। णौ चङि पुक् अदीदपत्‌। दास्यतीत्यादि। सनि दित्सति। यङि घुमास्था० (पा०सू० ६/४/६६) ईत्वं देदीयते कर्त्रभिप्राये क्रियाफले ञित्वादात्मनेपदं पूर्ववदाल्लोप: दत्ते। ददाते। ददते। अदत्त्। अददाताम्‌। अददत। दत्तम्‌। ददाताम्‌। ददताम्‌। ददीत। ददीयाताम्‌। ददीरन्‌। आशिषि दासीष्ट। लिटि आतो लोप० (पा०सू० ६/४/६४) ददे। लुङि स्थाघ्वोरिच्च (पा०सू० १/२/२७) इति इकारादेश: सिच: कित्वाद्गुणत्वं सलोप: अदित। अदिषाताम्‌। शेषं नेयं ददातेराङ्‌पूर्वात्‌ कर्त्रभिप्राये स्वाङ्गेऽकर्मकात्‌ आङो दोऽनास्य विहरण (पा०सू० १/३/२०) इत्यात्मनेपदं व्यादत्ते। आस्य विहरणे तु व्याददात्यन्नमत्र मृत्युरिति।

डुधाञ् धारणपोषणयो:। पूर्ववत्‌ अयं तु विशेष:। तस्थसोर्ध्वमि सकारादिप्रत्यये च परतो दधस्तथो० (पा०सू० ८/२/३८) चेत्यनेन तथा सोश्च भष्भाव:।

णिजिर् शौचपोषणयो:। णो न: (पा०सू० ६/१/६३) निजादि त्रयाणामभ्यासस्य श्लौ निजां त्रयाणां गुण: श्लाविति गुण: नेनेक्ति। नेनिक्त:। नेनिजति। लङि अनेनेक्‌। अनेनिक्ताम्‌। अनेनिजु:। मिपोऽम् अनेनिजम्‌। अत्र नाभ्यस्तस्य (पा०सू० ७/३/६७) इत्यादिना लघूपधगुणप्रतिषेध: नेनेक्तु। नेनिक्तात्‌। नेनिक्ताम्‌। नेनिजतु। लिङि नेनिज्यात्‌। नेनिज्याताम्‌। आशिषि निज्यात्‌। निज्यास्ताम्‌। लिटि निनेज। निनिजतु:। निनिजु:। निनिजिथ। लुङि इरित्वादङ् अनिजत्‌। अनैक्षीत्‌। नेक्ष्यतीत्यादि। स्वरितेत्वादात्मनेपदम्‌ नेनिक्ते। नेनिजाते। अनेनिक्त। अनेनिजाताम्‌। अनेनिजत। नेनिक्ताम्‌। नेनिजाताम्‌। नेनिजताम्‌। नेनिजीत। नेनिजीयाताम्‌। नेनिजीरन्‌। आशिषि लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वं निक्षीष्ट। निनिजे। लुङि पूर्ववत्कित्वम्‌ अनिक्त। अनिजाताम्‌। अनिजत। इरितो वा (पा०सू० ३/१/५७) इत्यङ्‌ नास्ति तस्य परस्मैपदविषयत्वात्‌।

विचिर् पृथग्भावे। पूर्ववत्‌।

।। माङ्‌ प्रभृतयो विचिर्‌पर्यन्तास्तासौ नित्यमनिट:।।

विष्लृ व्याप्तौ। वेवेष्टि। वेविष्ट:। वेविषति। लङि जश्त्वचर्त्वे अवेट्‌ अवेड्‌। अवेविष्टाम्‌। अवेविषु: इत्यादि। वेवेष्टु वेविष्टात्‌। वेविष्टाम्‌। वेविषतु। वेविष्यात्‌। वेविष्याताम्‌। वेविष्यु:। लुङि लृदित्वादङ्‌ भवति अविषत्‌। अविषताम्‌। तथा वेविष्टे। वेविषाते इत्यादि। आशिषि वेषीष्ट। लिटि विविषे। लुङि अविष्ट।

।। सेडुभयतोभाषा:।।

घृ क्षरणदीप्त्यो:।

हृ प्रसह्यकरणे। उदाहरणमूह्यम्‌।

ऋ सृ गतौ। अर्तिपिपर्त्योश्च (पा०सू० ७/४/७७) अभ्यासस्येत्वं परस्य च गुण: अभ्यासस्यासवर्णे (पा०सू० ६/४/७८) इतीयङ्‌ इयर्ति। धूमं इयर्ति। इर्यृत:। इर्यति। लङि तिप्सिपोर्हल्ङ्यादिलोप: आट्‌वृद्धि: रपरत्वम्‌ ऐय:। ऐर्यत्‌। ऐयृताम्‌। जसि च (पा०सू० ७/३/१०९) इति गुण: ऐयरु:। इयर्तु इयृतात्‌। इयृताम्‌। इर्यन्तु। लिङि इयृयात्‌। इयृयाताम्‌। इयृयु:। आशिषि गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) इति गुण: अर्यात्‌। अर्यास्ताम्‌। लिटि आर। ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: आरतु:। आरु:। आरिथ। लुङि सर्तिशास्त्यर्तिभ्यश्च (पा०सू० ३/१/५६) इत्यङ्‌ ऋदृशोङि गुण: आरत्‌। आरताम्‌। आरन्‌। ऋद्धनो स्य (पा०सू० ७/२/७०) इतीट्‌ अरिष्यतीत्यादि। भौवादिकवत्‌ सृ इत्येतस्योदाहरणमूह्यम्‌।

भस भर्त्सनदीप्त्यो:। बभस्ति। लङि तिपि तिप्यनस्तेरिति दत्वम्‌ अबभत। अबभस्ताम्‌। अबभसु:। लोटि बभस्तु। लिङि बभस्यात्‌। आशिषि भस्यात्‌। लिटि बभास। लुङि अभसीत्‌। अभासीत्‌। लृङि भसिष्यतीत्यादि।

इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ शाब्दिकाभरणे श्लुविकरणाजुहोत्यादय: समाप्ता:।।