दिवादिप्रकरणम्‌

दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु। दिवादिभ्य: श्यन्‌ (पा०सू० ३/१/६९) शपोपवाद:। श्यनो ङित्वात्‌ गुणाभाव: हलि च (पा०सू० ८/२/७७) इति दीर्घ: दीव्यति। दीव्यत:। दीव्यन्ति। अदीव्यत्‌। दीव्यतु। दीव्येत्‌। आशिषि यासुट्‌ दीव्यात्‌। दीव्यास्तां लिटि दिदेव। दिदिवतु:। दिदिवु:। दिदेविथ। लुङि अदेवीत्‌। णौ चङि अदीदिवत्‌। देविष्यति। अदेविष्यत्‌। देविता। सनीवन्तर्ध० (पा०सू० ७/२/४९) इतीड्विकल्प: दिदेविषति। इडभावे च्छ्‌वो: शूडनुनासिके च (पा०सू० ६/४/१९) इति ऊठ्‌ द्विर्वचनं दुद्यूषति। यङि देदीयते।

षिवु तन्तुसन्ताने।

सिवु गतिशोषणयो:।

ष्ठिवु निरसने। पूर्ववत्‌।

क्लसु ह्वरणदीप्त्यो:।

प्लुष दाहे। क्लस्यति। प्लुष्यति इत्यादि।

नृती गात्रविक्षेपे। नृत्यति। अनृत्यत्‌। आशिषि यासुट्‌ नृत्यात्‌। ननर्त्त। ननृततु:। ननृतु:। ननर्तिथ। लुङि अनर्त्तीत्। णौ चङि अनीनृतत्‌। अननर्त्तत। सेऽसिचि कृतचृतच्छृदतृदनृत: (पा०सू० ७/२/५७) इतीड्विकल्प: नर्त्स्यति। नर्तिष्यति। अनर्त्स्यत्‌। अनर्त्तिष्यत्‌। नर्त्तिता। सनि निनृत्सति। निनर्त्तिषति। नरीनृत्यते।

त्रसी उद्वेगे। वा भ्राश० (पा०सू० ३/१/७०) इत्यादिना वा श्यन्‌ त्रस्यति। अत्रस्यत्‌। पक्षे शप्‌ त्रसतीत्यादि। आशिषि त्रस्यात्‌। तत्रास। वा जॄभ्रमुत्रसाम्‌ (पा०सू० ६/४/१२४) इत्येत्वाभ्यासलोपविकल्प: त्रेसतु:। तत्रसतु:। त्रेसु:। तत्रसु:। त्रेसिथ। तत्रसिथ। लुङि अत्रसीत्‌ अत्रासीत्‌। त्रसिष्यतीत्यादि।

कुथ पूतीभावे।

पुथ हिंसायाम्‌।

गुध परिवेष्टने। उदाहरणमूह्यम्‌।

क्षिप प्रेरणे। क्षिप्यतीत्यादि। आशिषि क्षिप्यात्‌। चिक्षेप। चिक्षिपतु:। चिक्षिपु:। चिक्षेपिथ। लुङि अक्षैप्सीत्‌। णौ चङि अचिक्षिपत्‌। क्षेप्स्यतीत्यादि।

कृष विलेखने। कृष्यतीत्यादि। लिटि चकर्ष। चकृषतु:। चकृषु:। चकर्षिथ। लुङि अकार्षीत्‌। करिष्यतीत्यादि।

पुष्प विकसने। पुष्प्यतीत्यादि।

तिम तीम ष्टिम ष्टीम आर्द्रभावे। तिम्यति। तीम्यति। स्तिम्यति। स्तीम्यति।

व्रीड चोदने लज्जायां च। व्रीड्यति।

इष ईष गतौ। प्रेष्यति। प्रेष्येत्‌। आशिषि प्रेष्यात्‌। लिटि इयेष। ईषतु:। ईषु:। इयेषिथ। लुङि ऐषीत्‌। प्रेषिष्यतीत्यादि। ईषेर्लिट्यां ईषयामास।

जृष्‌ जॄष् वयोहानौ। ऋत इद्धातो: (पा०सू० ७/१/१००) इति ईत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: जीर्यति। अजीर्यत्‌। जीर्यतु। जीर्येत्‌। आशिषि यासुट्‌ जीर्यात्‌। जजार। किति ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: न शसददवादिगुणानाम्‌ (पा०सू० ६/४/१२६) इति गुणकृतस्याकारस्य अत एकहल० (पा०सू० ६/४/१२०) इत्यादि कार्यप्रतिषेधे प्राप्ते वा जॄभ्रमुत्रसाम्‌ (पा०सू० ६/४/१२४) इति एत्वाभ्यासलोपौ जजरतु:। जेरतु:। जजरु:। जेरु:। जजरिथ जेरिथ। लुङि जॄस्तम्भु० (पा०सू० ३/१/५८) इत्यादिना वा च्लेरङ् ऋदृशोङि गुण: (पा०सू० ७/४/१६) अजरत्‌ अजारीत्‌। णौ चङि अजीजरत्‌। लृलुटो: वॄतो वा (पा०सू० ७/२/३८) इति ईट्‌पक्षे दीर्घ: जरिष्यति जरीष्यति। अजरिष्यत्‌ अजरीष्यत्‌। जरिता जरीता। सनि सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इति इट्‌प्रतिषेधे प्राप्ते इट्‌ सनीव० (पा०सू० ७/२/४९) इतीड्विकल्प: इट्‌ पक्षे दीर्घविकल्प: जिजरिषति जिजरीषति। अन्यत्र इको झल्‌ (पा०सू० १/२/९) इति कित्वं ऋदिद्धातो: (पा०सू० ७/१/१००) इतीत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: जिजीर्षति। यङि ऋत इद्धातो: (पा०सू० ७/१/४१००) इति इत्वं जेजीर्यते।

।। क्षिपि वर्जन्ता। सेट: परस्मैभाषा:।।

षूञ् प्राणिप्रसवे। प्रसूयते। प्रासूयत इत्यादि। आशिषि स्वरति० (पा०सू० ७/२/४४) इत्यादिना इड्विकल्प: प्रसोषीष्ट प्रसविषीष्ट। लिटि सुषुवे। लुङि प्रासोष्ट प्रासविष्ट। प्रासोष्यते प्रसविष्यते इत्यादि। सनि श्र्युक: किति (पा०सू० ७/४/११) इत्यधिकृत्य सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌ प्रतिषेध:। इको झल्‌ (पा०सू० १/२/९) इति कित्वं स्तौतिण्योरेव (पा०सू० ८/३/६१) इति नियमात्‌ अभ्यासात्परस्य षत्वाभाव: पूर्ववत्‌ सन: (पा०सू० १/३/६२) इत्यात्मनेपदं प्रसुसूषते।

दूङ परितापे। दूयते। अदूयत आशिषि दविषीष्ट। दुदुवे। लुङि अदविष्ट। दविष्यते इत्यादि।

दीङ्‌ क्षये। दीयत। इत्यादि आशिषि प्रागेव प्रत्ययोत्पत्ते: मीनातिमिनोतिदीङां ल्यपि च (पा०सू० ६/१/५०) इत्यात्वं दासीष्ट। लिटि दीङो युडचि क्ङिति (पा०सू० ६/४/६३) इति युट उपदिदीये। लुङि पूर्ववदात्वं उपादास्त। णौ चङि उपादीदपत्‌। उपदास्यते। उपदाता। उपदिदीषते। उपदिदासत इत्येव। उपदेदीयते।

मीङ्‌ हिंसायाम्‌। प्रमीयते। प्रामीयत इत्यादि। आशिषि प्रमेषीष्ट। लिटि प्रकृति जशां प्रमिम्ये। प्रामेष्ट। प्रमेष्यते। प्रामेष्यत। प्रमेता। प्रमिमीषते। प्रमेमीयते।

डीङ्‌ विहायसा गतौ। डीयते। आशिषि डयिषीष्ट। प्रकृतिजशां प्रकृतिजश: डिड्ये इत्यादि।

धीङ्‌ अनादरे। उदाहरणमूह्यम्‌।

रीङ्‌ स्रवणे। रीयते। अरीयत। रीयताम्‌। आशिषि रेषीष्ट। रेषीढ्वम्‌। लिटि रेरिर्ये। क्रादिनियमादिट्‌ विभाषेट: (पा०सू० ८/३/७९) रिरयिढ्‌वे। लुङि अरेष्ट। अरेषाताम्‌। ध्वमिमूर्धन्य: अरेढ्वम्‌। णौ चङि अर्तिह्री०(पा०सू० ७/३/३६) इत्यादिना पुक्‌। शेषं पूर्ववत्‌ अरीरिपत्‌।

लीङ्‌ श्लेषणे। लीयते इत्यादि। आशिषि एज्विषये विभाषा लीयते: (पा०सू० ६/१/५१) इति वा आत्वं लेषीष्ट लासीष्ट। लिटि लिल्ये। लुङि पूर्ववदात्वम्‌ अलास्त। अलासाताम्‌। अलेष्ट। अलेषाताम्‌। णौ चङि प्रलम्भने शालीनीकरणयोश्च णौ नित्यमात्वं लिय: संमाननशालीनीकरणयोश्च (पा०सू० १/३/७०) इत्यात्मनेपदम्‌ उपालीलपत। आलीलपत:। अन्यत्र वा आत्वम्‌ आत्वपक्षे लीलोर्न्नुग्लुकावन्यतरस्यां स्नेहनिपातनविषये लुगागम:। आत्वाभावे नुगागम: अलीलपत्‌। अलीलनत्‌। स्नेहनिपातनादन्यत्र पुगात्वविकल्प: अलीलपत्‌। लास्यते लेष्यते इत्यादि। सनि लिलीषते। यङि लेलीयते।

प्लीङ्‌ गतौ। प्लीयते इत्यादि। आशिषि प्लेषीष्ट। लिटि इयङ्‌ पिप्लिये। लुङि अप्लेष्ट।

प्रीङ्‌ वृणोत्यर्थे। पूर्ववत्‌।

सूदूरीदीधीधिय: पञ्च प्लीव्रीलीमीरिङस्तथा।
ओदित्वमेषामेषृव्यं निष्ठानत्वं विधिसुभि:।


पीङ्‌ पाने। पीयते अपीयत शेषं नेयम्‌।

प्रीङ् प्रीतौ। प्रीयते। अप्रीयत। प्रीयताम्‌। प्रीयेत। आशिषि प्रेषीष्ट। लिटि पिप्रिये। अपिप्रयत्‌। प्रेष्यते। अप्रेष्यत। प्रेता। पिप्रीषते। यङि पेप्रीयते।

ईङ् गतौ। ईयते। ऐयत। ईयताम्‌। ईयेत। उदेषीष्ट। उदीये। उदयिष्ट। उदैषाताम्‌। उदैषत इत्यादि योज्यम्‌। इङ्सूयतिर्विभाषित: आत्मनेभाषा:।

शो तनूकरणे। ओत: श्यनि (पा०सू० ७/३/७१) इति श्यतिप्रभृतीनाम्‌ ओकारलोप: श्यति। अश्यत्‌ श्यतु। श्येत्‌। आशिषि आदेच० (पा०सू० ६/१/४५) इत्यात्वं शायात्‌। लिटि शशौ। शशतु:। शशु:। शशाथ। इत्याल्लोप: शशिथ। लुङि विभाषा घ्राधेट्‌शाच्छास: (पा०सू० २/४/७८) इति वा सिज्लुक् अशात्‌। अशाताम्‌। अशु:। अन्यत्र यमरम० (पा०सू० ७/२/७३) इति सगिटौ अशासीत्‌। अशासिष्टाम्‌। णौ चङि शाच्छा० (पा०सू० ७/३/३७) इत्यादिना युक्‌ पुगपवाद: अशीशयत्‌। शास्यति। अशास्यत्‌। शाता। शिशासति। शाशायते।

छो छेदने।

षो अन्तकर्मणि।

दो अवखण्डने। अवस्यति। व्यवस्यति इत्यादि। आशिषि छायात्‌। घुमास्था० (पा०सू० ६/४/६६) इत्वे प्राप्ते एर्लिङि (पा०सू० ६/४/६७) इत्येत्वम्‌ अवसेयात्‌। अवदेयात्‌। लिटि अभ्यासे चर्च (पा०सू० ८/४/५४) इति द्वितीयस्य प्रथम: चच्छौ प्रकृतिचरां प्रकृतिचर: अवससौ। प्रकृतिजशां प्रकृतिजश: अवददौ। लुङि विभाषा घ्राधे० (पा०सू० २/४/७८) इत्यादिना वा सिज्लुक् अवाच्छात्‌। लुगभावे सगिटौ अवाच्छासीत्‌। अवासात्‌। अवासासीत्‌। द्यते: गातिस्था० (पा०सू० २/४/७७) इति नित्यं लुक् णौ चङि शाच्छा० (पा०सू० ७/३/३७) इति पुक् छे च (पा०सू० ६/१/७३) इति तुक्‌ अचिच्छयत्‌। अनित्यमागमशासनमिति पक्षे दीर्घो लघो: (पा०सू० ७/४/९४) अचीचयत्‌। दीर्घाद्‌ (पा०सू० ६/१/७५) इति वा तुक्‌ अचीछयत्‌। द्यते: पुक्‌ अवादीदपत्‌। छास्यतीत्यादि। पूर्ववत्‌ द्यते: सनि दित्सति। यङि देदीयते। स्यते: सेसीयते।

।। अनिट: परस्मैभाषा:।।

जनी प्रादुर्भावे। शिति ज्ञाजनोर्जा (पा०सू० ७/३/७९) इति जादेश: जायते। अजायत। जायताम्‌। जायेत्‌। आशिषि जनिषीष्ट। लिटि गमहनजन० (पा०सू० ६/४/९८) इत्युपधालोपस्य स्थानिवत्त्वाद्द्विरुक्ति: जज्ञे। लुङि दीपजन० (पा०सू० ३/१/६१) इत्यादिना कर्तृवाचिनि त शब्दे परतो वा च्लेश्चणादेश: चिणो लुक्‌ (पा०सू० ६/४/१०४) अत उपधाया: (पा०सू० ७/२/११६) इति वृद्धिर्नास्ति जनिवध्योश्च (पा०सू० ७/३/३५) इति प्रतिषेधात्‌ अजनि। चिणभावे सिच इट्‌ अजनिष्ट। णौ चङि अजीजनत्‌। जनिष्यते। अजनिष्यत। जनिता। जनिष्यते। यङि: ये विभाषा (पा०सू० ६/४/४३) इत्यात्वं जाजायते। आत्वाभावेऽभ्यासस्य नुक्‌ जञ्जन्यते।

दीपी दीप्तौ। दीप्यते। अदीप्यत। दीप्यताम्‌। दीप्येत। आशिषि दीपिषीष्ट। दिदीपे। लुङि पूर्ववत्‌ च्लेश्चण्विकल्प: अदीपि अदीपिष्ट। णौ चङि भ्राजभ्रास० (पा०सू० ७/४/१३) इत्युपधाह्रस्वविकल्प: अदीदिपत्‌। दीपिष्यते। अदीपिष्यत। दीपिता सनि दिदीपिषते। देदीप्यते।

पूरी आप्यायने। आपूर्यते। आपूर्यत। पूर्यताम्‌। पूर्येत। पूर्षीष्ट। पुपूरे। प्राग्वच्चिण्विकल्प: अपूरि अपूरिष्ट इत्यादि।

कूरी त्वरणहिंसयो:। कूर्यते।

सूरी दाहे।

पूरी जूरी हिंसावयोहान्यो:।

मारी जूरी हिंसागत्यो:।

शूरी हिंसास्तम्भनयो:।

मूरी दाहे। पूर्ववत्‌। उदाहार्यम्‌।

तप ऐश्वर्ये। तप्यते। आशिषि तप्सीष्ट तेपे लुङि झलि सलोप: अतप्त तप्स्यत इत्यादि।

वृङ्‌ वरणे। व्रियते।

क्लिश उपतापे। क्लिश्यते।

काशृ दीप्तौ। काश्यते।

वाशृ शब्दे। यजमानस्य प्रतिख्याय वाश्यते।

।। तपि वृङ्वर्जं तासि सेट आत्मनेभाषा:।।

मृष तितिक्षायाम्‌। परिपूर्वात्‌ परेर्मृष: (पा०सू० १/३/८२) इति नित्यं परस्मैपदम्‌। अन्यत्र केवलात्‌ सोपसर्गाच्च विभाषा परिमृष्यति मृष्यति मृष्यते अमृष्यत्‌। अमृष्यत। अमृषत। आशिषि मृष्यात्‌। मर्षीष्ट। ममर्ष। ममृषे। लुङि अमर्षीत्‌। अमर्षिष्ट। णौ चङि अमीमृषत। अमीमर्षत्‌। मर्षिष्यति। मर्षिष्यते। सनि मिमर्षिषति मिमर्षिषते।

ईशुचिर् पूतीभावे। अनुबन्धयोर्मध्ये धातु: शुच्यति। अशुच्यत्‌। शुच्यते। अशुच्यत। आशिषि शुच्यात्‌। शोचिषीष्ट। शुशोच। शुशुचे। लुङि अशुचत्‌। अशोचीत्‌। अशोचिष्ट।

णह बन्धने। णो न: (पा०सू० ६/१/६५) नह्यति। नह्यते। आशिषि नह्यात्‌। नहो ध: (पा०सू० ८/२/३४) चर्त्वं नत्सीष्ट। लिटि ननाह। ननद्ध। नेहिथ। नेहे। लुङि नहो ध: (पा०सू० ८/२/३४) चर्त्वं हलन्तवृद्धि: अनात्सीत्‌। अनाद्धाम्‌। अनात्सु:। झलि सलोप: नहो ध: (पा०सू० ८/२/३४) झषस्तथोऽर्धो ध: (पा०सू० ८/२/४०) अनद्ध। अनत्साताम्‌। अनत्सत शेषं नेयम्‌।

रञ्ज रागे। अनिदिताम्‌ (पा०सू० ६/४/२४) इति नलोप: रज्यति। रज्यते। आशिषि रज्यात्‌। चो: कु: (पा०सू० ८/२/३०) अनुस्वारपरसवर्णौ इण्को: (पा०सू० ८/३/५७) इति षत्वं रङ्क्षीष्ट। ररञ्ज। ररञ्जे। लुङि हलन्तवृद्धि: अराङ्क्षीत्‌। झलि सलोप: अरङ्क्त। अरञ्जाताम्‌। यङि नलोप: राराज्यते।

शप आक्रोशे। शप्यति। शप्यते।

।। मुषिशुची सेटावितरेऽनिट उभयतो भाषा:।।

पद गतौ। प्रपद्यते। प्रापद्यत। प्रपद्यताम्‌। प्रपद्येत। प्रपत्सीष्ट। प्रपेदे। लुङि कर्तरि चिण्ते पद: (पा०सू० ३/१/६०) इति च्लेश्चिण्‌ अपादि। अपत्साताम्‌। अपत्सत। पत्स्यते। अपत्स्यत। सनि सनिमीमा० (पा०सू० ७/४/५४) इत्यादिकार्यं प्रपित्सते। यङि नीग्वञ्चु० (पा०सू० ७/४/८४) इत्यादिनाभ्यासस्य नीक्‌ पनीपद्यते।

विद सत्तायाम्‌। विद्यते। अविद्यत। विद्यताम्‌। विद्येत। वित्सीष्ट। विविदे। लङि लिङ्‌सिचा० (पा०सू० १/२/११) इति सिच: कित्त्वम्‌ अवित्त। अवित्साताम्‌। अवित्सत। वेत्स्यते।

खिद दैन्ये। खिद्यते। अखिद्यतेत्यादि पूर्ववत्‌।

बुध अवगमने। बुध्यते। अबुध्यत। बुध्यताम्‌। बुध्येत। पूर्ववत्‌ कित्त्वं भष्त्वचर्त्वे भुक्षीष्ट। बुबुधे। लुङि पूर्वविच्चिण्विकल्प: अबोधि। पूर्ववत्‌ कित्वं अबुद्धेत्यादि।

युध संप्रहारे। युध्यते। लुङि अयुध्य। अयुत्साताम्‌। शेषं नेयम्‌।

युज समाधौ। युज्यते इत्यादि। पूर्ववत्‌।

अन प्राणने।

अनुरुध सकामे च। अनुरुध्यते। अन्वरुध्यत। अनुरुध्यताम्‌। अनुरुध्येत। अनुरुत्सीष्ट।

मन ज्ञाने। मन्यते। अमन्यत। मन्यताम्‌। मन्येत। मंसीष्ट। मेने। अमंस्त। मंस्यते।

सृज विसर्गे। सृज्यते। असृज्यत। सृज्यताम्‌। सृज्येत। आशिषि लिङ: कित्वं सृक्षीष्ट। ससृजे। लुङि सिच: कित्वम्‌ षत्वष्टुत्वे असृष्ट णौ चङि असीसृजत्‌। अससर्जत्‌। अकितिसृजिदृशोरिति अमागम: स्रक्ष्यते। अस्रक्ष्यत। स्रष्टा। सन: कित्वं सिसृंक्षते। सरीसृज्यते।

लिश अल्पीभावे। लिश्यते। अलिश्यत। लिश्यताम्‌। लिश्येत। आशिषि लिङ: कित्वं लिक्षीष्ट। लुङि च्ले: क्स: अलिक्षत् इत्यादि।

।। अनिवर्जमनिट आत्मनेभाषा:।।

राध साध संसिद्धौ। राधोकर्मकाद्वृद्धावेव राध्यति। अराध्यत्‌। राध्यतु। राध्येत्‌। आशिषि यासुट्‌ राध्यात्‌। लिटि रराध। रराधतु:। रराधु:। क्रादिनियमादिट्‌ रराधिथ। हिंसायां तु राधो हिंसायाम्‌ (पा०सू० ६/४/२३) इति एत्वाभ्यासलोपौ रेधतु:। रेधु:। रेधिथ। लुङि चर्त्वम्‌ अरात्सीत। रात्स्यति। अरात्स्यत्‌। सनि रिरात्सति। राराध्यते। एवं साध्यतेरपि।

व्यध ताडने। ग्रहिज्या० (पा०सू० ६/१/१६) इत्यादिना संप्रसारणं विध्यति। अविध्यत्‌। विध्यतु। विध्येत्‌। आशिषि विध्यात्‌। लिट्यभ्यासस्य (पा०सू० ६/१/१७) संप्रसारणं विव्याध। कित्वात्संप्रसारणं विविधतु:। विविधु:। विव्यद्ध। विव्यधिथ। लुङि वृद्धि: चर्त्वं अव्यात्सीत्‌। व्यत्स्यति। वेविध्यते।

पुष पुष्टौ। पुष्यति। अपुष्यत्‌। पुष्यतु। पुष्येत्‌। पुष्यात्‌। पुपोष। पुपुषतु:। पुपुषु:। पुपोषिथ। लुङि पुषादिद्युताद्‌० (पा०सू० ३/१/५५) इत्यादिना च्लेरङ्‌ अपुषत्‌। इत: परमागणसमाप्ते: पुषादयो येषां लुङि च्लेरङ्विधि: णौ चङि अपूपुषत्‌। पोक्ष्यति पोष्टा। पुपुक्षति। पोपुष्यते।

शुष शोषणे।

तुष तुष्टौ।

पुष वैकृत्ये। पूर्वेण तुल्या:।

श्लिष आलिङ्गने। श्लिष्यति। अश्लिष्यदित्यादि। आशिषि आश्लिष्यात्‌। लिटि आशिश्लेष। आशिश्लिषतु:। आशिश्लेषिथ। लुङि श्लिष आलिङ्गने (पा०सू० ३/१/४६) इति च्ले: क्स: आश्लिक्षत्‌ कन्याम्‌। आलिङ्गनादन्यत्र आश्लिष तु यतु काष्ठम्‌। आश्लिष्यतीत्यादि।

शक विभाषितो मर्षणे। कश विभाषित। इति क्वचित्‌ पाठ:। कश्यतीत्यादि लुङि अकश्यत्‌।

ञिक्ष्विदा गात्रप्रक्षरणे। क्ष्विद्यति। अक्ष्विद्यत। लुङि अक्ष्विदत्‌। क्ष्वेत्स्यति। अक्ष्वेत्स्यत्‌ इत्यादि।

क्रुध कोपे। क्रुध्यति। लुङि अक्रुधत्‌। क्रोत्स्यतीत्यादि।

क्षुध बुभुक्षायाम्‌।

शुच शौचे।

षिधू संराधौ। पूर्ववत्‌।

रध हिंसासंराध्यो:। रंध्यति। अरध्यत्‌। लिटि रधिजभोरचि (पा०सू० ७/१/६१) इति नुम्‌ ररन्ध। ररन्धतु:। ररन्धिथ। वलादौ आर्द्धधातुके परत: रधादिभ्यश्च (पा०सू० ७/२/४५) इति इड्विकल्प: इडभावे नुमभाव: ररन्ध। नेट्यलिटि रधे: (पा०सू० ७/१/६२) इति लिटोऽन्यत्र इडादौ प्रतिषेध: लुङि रधेरङ्‌ अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप: च्लेरङ्‌ अरधत्‌। णौ चङि अररन्धत्‌। पूर्ववदिड्विकल्प: इटि नुम्प्रतिषेध: रधिष्यति। चर्त्वं रत्स्यति। अरधिष्यत्‌। अरत्स्यत्‌। रधिता रद्धा। रिरन्धिषति। रिरत्सति। रारध्यते।

णश अदर्शने। णो न: (पा०सू० ६/१/६५) नश्यति। अनश्यत्‌। लिटि ननाश। नेशतु:। नेशु:। नेशिथ। इडभावे मस्जिनशोर्झलि इति नुं षत्वष्टुत्वे नकारस्यानुस्वार: ननंष्ठ। लुङि अनशत्‌। नसिष्यति। पूर्वनन्नुम्‌ षत्वकत्वष्टुत्व परसवर्णविधि: नंक्ष्यति। शेषं नेयम्‌।

तृप प्रीणने। तृप्यति। अतृप्यत्‌। ततर्प। ततृपतु:। ततृपु:। ततर्पिथ ततर्प्थ। लुङि अतृपत्‌। स्पृशिमृशीत्यादिनोपसंख्यानेन सिच इडागमविकल्प: अमागमविकल्पश्च अतर्प्सीत्‌। अत्राप्सीत्‌। इड्विकल्प: अनुदात्तस्यचर्दुपधस्य अन्यतरस्याम्‌ (पा०सू० ६/१/५९) इत्यमागमविकल्प: तेन त्रैरूप्यम्‌ त्रप्स्यति तर्प्स्यति तर्पिष्यति इत्यादि। सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं तितृप्सति। इट्‌पक्षे तितर्पिषति।

दृप हर्षविमोचनयो:। पूर्वेण तुल्यम्‌ त्रुप्यतिद्रुप्यत्यो: अनुदात्तत्वेमर्थम्।

द्रुह जिघांसायाम्‌। द्रुह्यति। अद्रुह्यत्‌। लुङि अद्रुहत्‌। लृलुटो: इट्‌पक्षे द्रोहिष्यति। वा द्रुहमुहष्णुहष्णिहाम्‌ (पा०सू० ८/२/३३) इति घत्वपक्षे भष्भाव: ध्रोक्ष्यति। ढत्वपक्षे षढो: क: सि (पा०सू० ८/२/४१) इति कत्वं तथैव रूपम्‌ शेषं नेयम्‌। सनि इट्‌पक्षे रलो व्युपधात्‌० (पा०सू० १/२/२६) इति वा कित्वं इडभावे कत्वघत्वभष्त्वचर्त्वषत्वानि दूधूर्षति, ढत्वभष्त्वकत्वषत्वानि वा दुध्रुक्षति।

मुह वैचित्ये।

ष्णुह उद्गिरणे।

ष्णिह प्रीतौ। सर्वं पूर्ववद्भष्भाववर्जम्‌ रधादय इड्विकल्पविधावष्टौ।

रधिर्नशिस्तृपि: प्रोक्तो दृपिर्द्रुहिमुही तथा।
ष्णुहिष्णिहिर्विकल्पेटौ वलादावार्धधातुके।।

शमु उपशमने। शमादीनां माद्यतिपर्यन्तानाम्‌ अष्टानां शमामष्टानां दीर्घ: श्यनि (पा०सू० ७/३/७४) इति दीर्घ: शाम्यति। अशाम्यत्‌। शाम्यतु। शाम्येत्‌। आशिषि शम्यात्‌। शशाम। लुङि अशमत्‌। शमिष्यति। अशमिष्यत्‌। शमिता। शिशमिषति। शाशम्यते।

तमु काङ्क्षायाम्‌।

दमु उपशमने।

श्रमु तपसि खेदे च।

भ्रमु अनवस्थाने।

क्षमूष्‌ सहने।

क्लमु ग्लाने।

मदी हर्षे। पूर्वेण तुल्या:। क्लमेस्तु वा भ्राश० (पा०सू० ३/१/१७०) इति शप्पक्षेऽपि ष्ठिवुक्लमुचमाम्‌ (पा०सू० ७/३/७५) इति दीर्घ: क्लामति।

असु क्षेपणे। अस्यति। आस्यत्‌। आशिषि अस्यात्‌। आस। लुङि अट् अस्यतेस्थुगिति थुक्‌ (पा०सू० ७/४/१७) आसिष्यतीत्यादि उपसर्गात्‌ परस्य उपसर्गादस्यत्यूह्योर्वाचनमित्यात्मनेपदम्‌ निरस्यते निरास्यते आशिषि निरसीष्ट निरासे अस्यतिवक्ति (पा०सू० ३/१/५२) इत्यादिना अड्‌ थुक्‌ निरास्थतेत्यादि शेषं नेयम्‌।

जसु मोक्षणे।

तमु उपक्षये।

दमु च।

वसु स्तम्भे।

प्लुष विभागे। उदाहरणमूह्यम्‌।

भृशु भ्रशु म्रशु अध: पतने। भ्रश्यति। अभ्रश्यत्‌।

मुष मण्डने। मुष्यति।

उच समवाये। उच्यति।

वृष वरणे। वृष्यति।

कृश तनूकरणे। कृश्यति। अकृश्यत्‌। कृश्यतु। कृश्येत्‌। कृश्यात्‌। चकर्ष। अकृशत्‌। कर्शिष्यतीत्यादि।

ञितृषा पिपासायाम्‌। तृष्यति।

हृष तुष्टौ। हृष्यति। अहृष्यत्‌। हृष्यतु। हृष्येत्‌। हृष्यात्‌। जहर्ष। जहृषतु:। जहृषु:। जहर्षिथ। लुङि अहृषत्‌। हर्षिष्यतीत्यादि।

रुष रोषे। रुष्यति। अरुषत्‌। रोषिष्यति। अरोषिष्यत्‌। तीषसह० (पा०सू० ७/२/४८) इत्यादिनेड्विकल्प: रोष्टा रोषिता।

कुप क्रोधे। कुप्यति। लुङि अकुपत्‌। कोपिष्यति।

गुप व्याकुलत्वे। गुप्यति। गुप्यात्‌।

लुभ गार्द्धे। लुभ्यति। अलुभ्यत्‌। लुङि अलुभत्‌। लोभिष्यति। अलोभिष्यत्‌। तीषसह० (पा०सू० ७/२/४८) इत्यादिनेड्विकल्प: लोब्धा लोभिता।

क्षुभ सञ्चलने। क्षुभ्यति। अक्षुभ्यत्‌। लुङि अक्षुभत्‌। णौ चङि अचुक्षुभत्‌। क्षोभिष्यतीत्यादि।

क्लिदू आर्द्रभावे। क्लिद्यति। लुङि अक्लिदत्‌। क्लेदिष्यति। क्लेत्स्यति।

ञिमिदा स्नेहने। मिदेर्गुण: (पा०सू० ७/३/८२) इति शिद्विषये गुण: मेद्यति। अमेद्यदित्यादि। अमिदत्‌। मेदिष्यतीत्यादि। सनि रलो व्युपधाद्‌ (पा०सू० १/२/१२६) इति वा कित्वं मिमिदिषति मिमेदिषति।

ञिक्ष्विदा स्नेहनमोहनयो:। क्ष्विद्यति। अक्ष्विद्यत्‌। लुङि अक्ष्विदत्‌। क्ष्वेदिष्यति। अक्ष्वेदिष्यत्‌। क्ष्वेदिता। चिक्ष्वेदिषति चिक्ष्विदिषति। क्ष्वेदिता।

ऋधु वृद्धौ। समृद्ध्यति। समार्ध्यत्‌। समृध्यतु। समृध्येत्‌। समृध्यात्‌। लिटि लघूपधगुण: द्विरुक्ति: उरत्वम् अभ्यासस्य दीर्घ: तस्मान्नुड्‌ द्विहल: (पा०सू० ७/४/७१) इति नुट्‌ आनर्ध। नुड्विधौ द्विहल्ग्रहणसामर्थ्यान्नुट्‌ आनृधतु:। आनृधु:। लुङि अड्‌ आड्‌वृद्धि: समार्धत्‌। णौ चङि आर्दिधत्‌। लृलुटो: समर्धिष्यति। समार्धिष्यत्‌। समर्धिता। सनि सनीवन्तर्ध० (पा०सू० ७/२/४९) इत्यादिना वा इट्‌ द्वितीयस्यैकाचो द्विरुक्ति: अर्दिधिषति। इडभावे आप्ज्ञप्यृधामीत्‌। इतीत्वं रपरत्वमभ्यासलोप: चर्त्वम्‌। ईर्धति ऐर्धत्‌।

गृधु अभिकाङ्‌क्षायाम्‌। गृध्यति। अगृध्यत्‌। आशिषि गृध्यात्‌। लिटि जगर्ध। जगृधतु:। जगृधु:। जगर्धिथ। लङि पुषादित्वादङ्‌ अगृधत्‌। णौ चङि अजीगृधत्‌। अजगर्धत्‌। गर्धिष्यति। अगर्धिष्यत्‌। गर्धिता। जिगर्धिषति। जरीगृध्यते।

।। अत्र कशि: सेट्‌। ऊदितो रधादयश्च विकल्पितेट:।

शमादयो माद्यन्ता: सेट:।

ऋध्यति गृध्यति च इतरेऽनिट: परस्मैभाषा:।

।। इति हरियोगिन: प्रोलाचार्यस्य कृतौ शाब्दिकाभरणे श्यन्विकरणा दिवादय समाप्ता:।