शाब्दिकाभरणस्य प्रकृतं सम्पादनम्‌

शाब्दिकाभरणस्य त्रय: हस्तलेखा: त्रिषु स्थानेषु यथाविवरणं प्राप्ता: -

(क) सरस्वतीभवनपुस्तकालय: वाराणसी
सूचीपत्र-भाग: १०, संख्या ३९४२२

(ख) राजकीयपुस्तकालय: त्रिवेन्द्रम्‌
सूचीपत्र-भाग: १, सन्‌ १९१२

(ग) मद्रासराजकीयहस्तलेखसंग्रह:
सूचीपत्र-भाग: ५, खण्ड: १। संख्या ४३१४

प्रकृत सम्पादने (क) सरस्वतीभवनपुस्तकालयस्य हस्तलेख: मूलाधाररूपेण स्वीकृत:। (ख) राजकीयपुस्तकालयस्य (ग) मद्रासराजकीय-हस्तलेखसंग्रहस्य च हस्तलेखौ पाठनिर्धारणाय प्रयुक्तौ।