शाब्दिकाभरणस्य विषयपरिचय:

शाब्दिकाभरणस्य आरम्भ: ‘‘अथ शब्दानुशासनम्‌’’ इति वार्तिकेन भवति। ग्रन्थस्यायं प्रथमो भाग:। अत्र महाभाष्यपस्पशाह्निकस्य सार: प्रतिपादित:। भागेऽस्मिन्‌ एते विषया: विमृष्टा: दृश्यन्ते -

अथ शब्दानुशासनम्‌, शब्दा: नित्या: अनित्या: वा, शब्दस्याभिव्यञ्जकत्वम्‌, शब्दस्य परिणामो विवर्तो वा, वाण्या: स्वरूपम्‌, शब्दब्रह्म, सिद्धे शब्दार्थ-संबन्धे शब्दस्य ज्ञाने धर्म: आहोस्वित्‌ प्रयोगे, व्याकरणाध्ययनस्य प्रयोजनम्‌ इति।

एते विषया: शाब्दिकाभरणे पाणिनिशिक्षा-महाभाष्य-वाक्यपदीयग्रन्थान्‌ समाश्रित्य उपवर्णिता: सन्ति।

अनन्तरं भूत-वर्तमान-भविष्यकालस्य निरूपणात्‌ परं दशानां लकाराणाम्‌ अर्था: निरूपिता: सन्ति। तदनु भ्वादि-अदादि-जुहोत्यादि-दिवादि-स्वादि- तुदादि-रुधादि-तनादि-क्र्यादि-चुरादि-कण्ड्‌वादिप्रकरणानां व्याख्या कृता। ग्रन्थस्यान्ते सौत्रा: धातव: पठिता:।

अत्र प्रतिगणं धातुसंख्या एवं लभ्यते -
भ्वादिप्रकरणे
अदादिप्रकरणे
जुहोत्यादिप्रकरणे
दिवादिप्रकरणे
स्वादिप्रकरणे
७०३
०७२
०१८
१२६
०२५
तुदादिप्रकरणे
रुधादिप्रकरणे
तनादिप्रकरणे
क्र्यादिप्रकरणे
चुरादिप्रकरणे
१३३
०२६
००९
०५७
००१
ग्रन्थेऽस्मिन्‌ ११७० धातव: व्याख्याता:। चुरादौ चुर-धातो: व्याख्यानं कृत्वा आचार्यै: ‘‘एवमुत्तरत्रापि आगणपरिप्राप्ते वेदितव्यम्‌’’ इति विलिख्य सूचितं यत्‌ अग्रे चुरादिगणे अन्ये धातव: अनेनैव प्रकारेण निरूपणीया:।

शाब्दिकाभरणे धातो: व्याख्यानावसरे धात्वर्थनिदर्शनं कृत्वा लट्‌ लङ्‌ लोट लिङ्‌ आशिषि लिट्‌ लुङ्‌ लृट्‌ लृङ्‌ लुट्‌ एतेषु लकारेषु रूपाणि साधितानि। भू धातो: एध धातोश्च कर्तरि भावे सनन्ते यङन्ते रूपसिद्धि: दर्शिता:। अन्यत्र लट्‌ लोट्‌ लिङ्‌ लकारे रूपाणि प्रदाय अग्रिम: धातु: व्याख्यात:।