अथ तनादिप्रकरणम्‌

तनु विस्तारे। प्रागेवलडादय: तनादिकृञ्भ्य उ: (पा०सू०३/१/७९) इत्युप्रत्यय: शपोपवाद: सार्वधातुके गुण: तनोति। ङित्वाद् गुणाभाव: तनुत:। इको यणचि (पा०सू० ६/१/७७) इति यणादेश: तन्वन्ति। अतनोत्‌। तनोतु। तनुयात्‌। आशिषि तन्यात्‌। लिटि ततान। किति लिटि अत एकहल्मध्ये (पा०सू० ६/४/१२०) इत्यादिकार्यम्‌ तेनतु:। तेनु:। तेनिथ ततन्थेति। निगमे लङि अतनीत्‌ अतानीत्‌। तनिष्यति। अतनिष्यत्‌। तनिता। सनि पतिदरिद्रणाम्‌ इतीड्‌विकल्प: तितनिषति इडभावे अज्झनगमां सनि (पा०सू० ६/४/१६) इत्यधिकृत्य तनोतेर्विभाषा (पा०सू० ६/४/१७) इति दीर्घविकल्प: तितांसति तितंसति। यङि नुगतोऽनुनासिकान्तस्य (पा०सू० ७/४/८५) इति नुक्‌ तंतन्यते। टेरेत्वं तनुते। अतनुत। अतनुताम्‌। लिङः सलोपोऽनन्त्यस्य (पा०सू० ७/२/७९) इति सीयुट्‌ सकारलोप: यणादेश: तन्वीत। तन्वीयाताम्‌। आशिषि तनिषीष्ट। तेने। लुङि अतनिष्ट। तनादिभ्यस्तथासो: (पा०सू० २/४/७९) इति सिचो लुक्‌ पक्षे अनुदात्तोपदेश (पा०सू० ६/४/३७) इत्यनुनासिकलोप: अतत। अतनिषाताम्‌। अतनिषत। अतथा:। अतनिष्ठा:। इत: परमागणपरिसमाप्तेस्तमादिभ्यस्तथासोरिति तथासो परत: सिचोलुग्विधिरनुसंधेय:। तत्र यथा संभवम्‌ अनुनासिकलोपश्च तनिष्यत इत्यादि पूर्ववत्‌।

षणु दाने। षत्वं णत्वनिवृत्ति: सनोतीत्यादि पूर्ववत्‌। सनिमीमा० (पा०सू० ७/४/५४) इति इड्‌विकल्प: सिसनिषति इडभावे जनसनखनां सञ्झलो: (पा०सू० ६/४/४२) इत्यात्वं सकारस्य स्तौतिण्योरेव (पा०सू० ८/३/६१) इति नियमाभावात्‌ इण्को: (पा०सू० ८/३/५७) इति षत्वं यत्‌ सिषासति। सोमायटियेनिभाषा इत्यात्वं सासायते। आत्वाभावे अभ्यासस्य नुक्‌ संसन्यते। तथा सनुते। असनुतेत्यादि। लुङि तनादिभ्यस्तथासो: (पा०सू० २/४/७९) इति सिचो वा लुक्‌ जनसनखनां सञ्झलो: (पा०सू० ६/४/४२) नित्यात्वम्‌ असान लुगभावे असनिष्ट। असनिषाताम्‌। असनिषत। असाथा:। असनिष्ठा:।

क्षिणु हिंसायाम्‌। क्षिणोति। अक्षिणोत्‌। क्षिणोतु। क्षिणुयात्‌। क्षिण्यात्‌। लिटि चिक्षेण। चिक्षिणतु:। चिक्षिणु:। चिक्षेणिथ इत्यादि। क्षिणुते। अक्षिणुत। क्षिणुताम्‌। क्षिण्वीत इत्यादि। लुङि सिचोऽनुनासिकलोप: अक्षिणित। अक्षेणिष्ट। अक्षिथा:। अक्षेणिष्ठा:। लिटि चक्षण। चक्षणतु:। चक्षणु:। चक्षणिथ। लुटि ह्म्यंन्तक्षण० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध: क्षणिष्यति इत्यादि। क्षणुते। अक्षणुत। क्षणुताम्‌। क्षण्वीत। आशिषि क्षणिषीष्ट। विचक्षणे। लुङि अक्षणिष्ट। अक्षणिषाताम्‌। अक्षणिषत। अक्षथा:। अक्षणिष्ठा: इत्यादि।

ऋणु गतौ। ऋण: उयत्‌। अर्णोति। अर्णोत्‌। अर्णोतु। अर्णुयात्‌। आशिषि ऋणुयात्‌। अत आदे: (पा०सू० ७/४/७०) तस्मान्नुड्‌ द्विहल: (पा०सू० ७/४/७१) आनर्ण। आनृणतु:। आनृणु:। आनर्णिथ। लुङि लघूपधगुण: मा भवानार्णीत्‌ इत्यादि योज्यम्‌। अर्णुते । आर्णुत। आर्णुताम्‌। अर्ण्वीत। आर्णिषीष्ट। लिटि आनृणे। आनृणाते। लुङि आर्णिष्ट। आर्णिषाताम्‌। आर्णिषत्‌। आर्था: आर्णिष्ठा:। णौ चङि आर्णिणत्‌। आर्णिष्यते। आर्णिष्यत। आर्णितासे। आर्णिणिषते।

तृणु अदने।

घृणु दीप्तौ। तनादिकार्यसहितमनयोरुदाहरणमूह्यम्।

सेट उभयतोभाषा:।

वनु याचने। वनुते। अवनुत। वनुताम्‌। वन्वीत। वनिषीष्ट। लिटि ववने। ववनाते। लुङि अवनिष्ट। अवथा: अवनिष्ठा:। वनिष्यते। वनिता। विवनिषते।

मनु अवबोधने। मनुते। अमनुत। मनुताम्‌। मन्वीत। मनिषीष्ट। मेने। मेनाते। लुङि अमत। अमनिष्ट। अमनिषाताम्‌। अमनिषताम्‌। अमथा: अमनिष्ठा:। मनिष्यते। अमनिष्यत। मनितासे। मिमनिषते। मंमन्यते।

।। सेटावात्मनेभाषौ।।

डुकृञ् करणे। उभयत्र सार्वधातुकयोरिति गुण: करोति। सुट्‌कात्पूर्व: अडभ्यासव्यवायेपीत्यनुवृत्तौ सम्परिभ्यां करोतौ भूषणे समवाये च उपात्प्रतियत्नवैकृत वाक्याध्याहारेषु च (पा०सू० ६/१/१३९) इति सुटागम: सुटमिति समो सकारस्य कुत्वं विसर्जनीय: तस्य वा शरि (पा०सू० ८/३/३६) इति विसर्जनीय: एवं सर्वत्र प्राप्ते संपुकानां सत्ववचनमिति नित्यं सत्वं पूर्वस्य वर्णस्य विकल्पेनानुस्वारानुनासिकौ संस्करोति। सार्वधातुकस्य ङित्वाद् गुणाभाव: अत उत्सार्वधातुके (पा०सू० ६/४/११०) इत्युत्वं संस्कुरुते। यणादेश: संस्कुर्वीत। वस्मसोर्नित्यं करोतेत्युकारलोप: संस्कुर्व:। संस्कुर्म:। लङि अड्‌व्यवायेपि इति सुट्‌ नमस्करोत्‌। लोटि संस्करोतु। मध्यमैकवचने सेर्हि: अतो हे: (पा०सू० ६/४/१०५) उतश्च प्रत्ययादसंयोगपूर्वात्‌ (पा०सू० ६/४/१०६) इति हेर्लुक्‌ संस्कुरु। एवं सर्वत्र तनादिषु लिङि ये चेत्युकारलोप: हलि च (पा०सू० ८/२/७७) इति दीर्घे प्राप्ते न भकुर्छुराम्‌ (पा०सू० ८/२/७९) इति प्रतिषेध: संस्कुर्यात्‌। आशिषि रिङ्शयग्लिङ्क्षु (पा०सू० ७/४/२८) इति रिङादेश: ननु सुटि सति गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) इति गुण: कस्मान्नभवति सुटो बहिरङ्गलक्षणस्यासिद्धत्वाद्भक्तत्वाद्वा सुट: संस्क्रियात्‌ लिट्यभ्यासव्यवासे सुट्‌ संचस्कार। ऋतश्च संयोगादेर्गुण: (पा०सू० ७/४/१०) इत्यत्र संयोगादेर्गुणविधीनेसंयोगोपधग्रहणं कृञर्थमिव वलाद्गुण: संचस्करतु:। संचस्करु:। थलि ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इतीट्‌ प्रतिषेध: कृञोसुट एवेष्यते। संचस्करिथ। असुट्‌कस्य चक्रतु:। चक्रु:। चकर्थ। लु समस्कार्षीत्‌। णौ चङि अकर्त्रभिप्राये क्रियाफले मिथ्योपपदात्‌ कृञोभ्याम्‌ इत्यस्मिन्विषये आत्मनेपदम्‌। मिथ्या अचीकरत्‌। कर्त्रभिप्राये सर्वत्र णिचश्च (पा०सू० १/३/७४) इति अचीकरत। इतरत्र शेषत्वात्‌ परस्मैपदं अचीकरत्‌। संस्करिष्यति। समस्कसिष्यत्‌। संस्कर्ता। संचिस्कीर्षति। संचेस्यिते। गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) यङि च (पा०सू० ७/४/३०) इति गुणो न भवति पूर्वोक्तदेव हेतो: परिष्करोतीत्यत्र परिनिविभ्य: सेवसितसयसिवुसहसुट्‌सुस्वञ्जाम्‌ (पा०सू० ८/३/७०) इति षत्वं अकर्त्रभिप्राये क्रियाफले गन्धनादिष्वर्थे करोतेरात्मनेपदं विहितं तत्र तु परापूर्वात्‌ अनुपराभ्यां कृञ: (पा०सू० १/३/७९) इति परस्मैपदं कर्त्रभिप्राये तु स्वरितञित० (पा०सू० १/३/७२) इत्यात्मनेपदं संस्कुरुते। समस्कुरुत। संस्कुर्वीत। आशिषि पूर्वं धातु: साधनेन युज्यते पश्चादुपसर्गेणेतस्मिन्दर्शने सुटो बहिरङ्गलक्षणस्यासिद्धत्वाद् ऋतश्च संयोगादे: (पा०सू० ७/४/१०) इति न भवति उश्च (पा०सू० १/२/१२) इति कित्वाद्गुणाभाव: संस्कृषीष्ट। सुडभावे कृषीष्ट। लिटि पूर्ववत्‌ गुण: संचस्करे। लुङि समस्कृत। समकृथा इत्यादि।

इति स्नाविकरणास्तनादय: