क्र्यादिप्रकरणम्‌

डुक्रीञ् द्रव्यविनिमये। धातुसंज्ञा। ञिकार: स्वरितञित (पा०सू० १/३/७२) इति कर्त्रभिप्राये क्रियाफले इत्यात्मनेपदार्थ:। लस्य स्थाने अन्तरङ्गत्वात्‌ तिबादय: ततो गुणत्वं प्राप्नोति। विकरणश्च कृताकृतप्रसङ्गित्वेन नित्यत्वाद्विकरण: श्ना प्रत्यय: शपोपवाद:। रषाभ्याम्‌ (पा०सू० ८/४/१) इति णत्वं क्रीणाति। सार्वधातुकमपित्‌ (पा०सू० १/२/४) इति ङित्वं श्नाभ्यस्तयोरात: (पा०सू० ६/४/११२) ई हल्यघो: (पा०सू० ६/४/११३) इतीत्वं क्रीणीत:। अजादौ श्नाभ्यस्तयोराल्लोप: एवमुत्तरत्रापि क्रीणन्ति। अक्रीणीत्‌। अक्रीणीताम्‌। अक्रीणन्‌। लोटि क्रीणातु क्रीणीताद्वा। क्रीणीताम्‌। क्रीणन्तु। क्रीणीहि। लिङि क्रीणीयात्‌। क्रीणीयाताम्‌। क्रीणीयु:। आशिषि क्रीयात्‌। क्रीयास्ताम्‌। क्रीयासु:। अचो ञ्णिति (पा०सू० ७/२/११५) वृद्धि: चिक्राय। चिक्रियतु:। चिक्रियु:। अत्र संयोगपूर्वत्वाद् एरनेकाचो (पा०सू० ६/४/८२) इति यण्‌ भवति चिक्रेथ। चिक्रयिथ लुङि सिज्वृद्धि: अक्रैषीत्‌। अक्रैष्टाम्‌। अक्रैषु:। णौ चङि क्रीन्दीत णावित्यात्वं पुक्‌ उपधाह्रस्वादि अचिक्रयत्‌। क्रेष्यति। अक्रेष्यत। क्रेता। सनि चिक्रीषति। चेक्रीयते। ञित्वादात्मनेपदं क्रीणीते। क्रीणाते क्रीणते। अक्रीणीत। अक्रीणाताम्‌। अक्रीणत। क्रीणीताम्‌। क्रीणाताम्‌। क्रीणताम्‌। लिङ: सलोपोऽनन्त्यस्य (पा०सू० ७/२/७९) इति सीयुट्‌ सलोप: क्रीणीत। क्रीणीयाताम्‌। क्रीणीरन्‌। आशिषि क्रेषीष्ट। लिटि चिक्रिये। चिक्रियाते। लुङि अक्रेष्ट। अक्रेषाताम्‌। अक्रेषत। क्रेष्यत इत्यादि। कर्त्रभिप्राये क्रियाफले परिव्ययपूर्वात्‌ परिव्यविभ्य: क्रिय: (पा०सू० १/३/१८) इत्यात्मनेपदम्‌।

प्रीञ् तर्पणे कान्तौ च। पूर्ववत्‌। णौ चङि अपिप्रीणात्‌। धृञ् प्रीतौ लुग्वक्तव्य: इति लुक्‌।

श्रीञ् पाके। श्रीणाति। अश्रीणादित्यादि योज्यम्‌।

मीञ् हिसायाम्‌। पूर्ववद्यथायोगम्‌ इत्वम्‌ आल्लोपश्च उपसर्गात्परस्य हिनुमीना (पा०सू० ८/४/१५) इति तिप्यभिगमे तु प्वादीनां ह्रस्व: (पा०सू० ७/३/८०) मीनातेर्भिगम इति ह्रस्वत्वं राजानं मित्रम्‌ प्रमिनाति। भाषायां तु प्रमीणाति। प्रमीणीत:। प्रमीणन्तीत्यादि। आशिषि प्रमीयात्‌। प्रमीयास्ताम्‌। लिटि विषये मीनातिमीनोतिदीङाम्‌ (पा०सू० ६/१/५०) इत्यादि आत्वं प्रममौ। आत औ णल: (पा०सू० ७/१/३४) किति लिडि आत्वाभाव: प्रमिमातु:। प्रमिम्यु:। थलि भारद्वाजीय इट्याल्लोप: प्रममिथ प्रममाथ। लुङि अगिटौ प्रामासीत्‌। प्रामासिष्टाम्‌। णौ चङि प्रमिम्ये। प्रमिम्याते। प्रामास्त। प्रामासाताम्‌। प्रामासत। प्रमास्यते इत्यादि।

षिञ् बन्धने। सिनाति। असिनात्‌। सिनातु। सिनीयात्‌। आशिषि सीयात्‌। लिटि सिषाय। लुङि सिचि वृद्धि: असैषीत्‌। सेष्यतीत्यादि। तथा सिनाते। असिनीत। सिनीताम्‌। सिनीत। आशिषि सेषीष्ट। सिचो लुक्‌ असेष्ट। असेष्यत इत्यादि।

षुञ् आप्लवे।

मुञ् बन्धने।

कुञ् शब्दे।

दुञ् गतौ। एतेषामुदाहणमूह्यम्‌।

पूञ् पवने। पूवादीनां प्ली गतौ इत्येतदन्तानां शिद्विषये प्वादीनां ह्रस्व: (पा०सू० ७/३/८०) इति ह्रस्व:। पुनाति। ङिति पूर्ववद्यथायोगमीत्वाल्लोपौ पुनीत:। पुनन्तीत्यादि। आशिषि पूयात्‌। पूयास्ताम्‌। पूयासु:। लिटि पुपाव। पुपुवतु:। पुपुवु:। पुपविष्ट। लुङि सिचिवृद्धि: शेषं नेयम्‌ अपावीत्‌। अपाविष्टाम्‌। णौ चङि अपीपवत्‌। पविष्यति। अपविष्यत्‌। पविता। सनि श्र्युक: किति सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌ प्रतिषेध: इको झल्‌ (पा०सू० १/२/९) इति कित्वं पुपूषति। यङि पोपूयते। तथा पुनीते। अपुनीत। पुनीयाताम्‌। पुनीत। आशिषि पविषीष्ट। पविषीयास्ताम्‌। लिटि पुपुवे। पुपुवाते। अपविष्ट। अपीपवत। पविष्यत इत्यादि।

लूञ् छेदने। पूर्ववत्‌।

स्तृञ् आच्छादने। स्तृणाति। स्तृणीत:। स्तृणन्ति। लङि अस्तृणात्‌। अस्तृणीताम्‌। अस्तृणन्‌। स्तृणातु स्तृणीताद्वा। स्तृणीताम्‌। स्तृणन्तु। लिङि स्तृणीयात्‌। स्तृणीयाताम्‌। स्तृणीयु:। आशिषि ऋत इद्धातो: (पा०सू० ७/१/१००) इति कित्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: यकारस्य द्वित्वं स्तीर्यात्‌। स्तीर्यास्ताम्‌। स्तीर्यासु:। लिटि अजन्तवृद्धि: तस्तार किति लिटि ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: तस्तरतु:। तस्तरु:। तस्तरिथ। लुङि सिचि इडागम: स्तृवा इति इटो दीर्घ: पक्षे प्राप्त: लिटि सिचि च परस्मैपदेषु (पा०सू० ७/२/४०) इति प्रतिषिध्यते सिचि वृद्धि: अस्तारीत्‌। अस्तारिष्टाम्‌। अस्तारिषु:। णौ चङि अतस्तरत्‌। लृलुटो: वॄतो वा (पा०सू० ७/२/३८) इतीट्‌ पक्षे दीर्घ: स्तरिष्यति स्तरीष्यति। अस्तरिष्यत्‌ अस्तरीष्यत्‌। स्तरिता स्तरीता। इट्‌ सनि वा (पा०सू० ७/२/४१) इतीड्विकल्प: इट्‌ पक्षे दीर्घ: तिस्तरिषति तिस्तरीषति। इडभावे इको झल्‌ (पा०सू० १/२/९) इति कित्वम्‌। तथा स्तृणीते। स्तृणाते। स्तृणते। अस्तृणीतेत्यादि। आशिषि वॄतो वा (पा०सू० ७/२/३८) इतीटो वा दीर्घ: लटीति प्रतिषिध्यते अस्तरिषीष्ट अस्तारिषीष्ट। असंयोगाल्लिट्‌ कित्‌ (पा०सू० १/२/५) इति लिट: कित्वं ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: आतस्तरे। आतस्तराते। आतस्तरिरे। वॄतो वा (पा०सू० ७/२/३८) इतीट: पक्षे दीर्घ: लुङि अस्तरिष्ट अस्तीर्ष्ट। अस्तरिषाताम्‌। अस्तीर्षाताम्‌। अस्तरिष्यत इत्यादि शेषं नेयम्‌।

कृञ् हिसायाम्‌।

वृञ् वरणे। कृणाति। वृणातीत्यादि पूर्ववत्‌।

धूञ् कम्पने। धुनाति। अधुनात्‌। धुनीयात्‌। आशिषि धूयात्‌। धूयास्ताम्‌। लिटि दुधाव। दुधुवतु:। स्वरति (पा०सू० १/३/७२) इत्यादिनेड्विकल्प: दुधोथ। दुधविथ। लुङि इड्विकल्पे प्राप्ते अञ्जे: स्तुसुधूञ्भ्य: परस्मैपदेषु (पा०सू० ७/२/७२) इति नित्यमिट्‌ अधावीत्‌। अधाविष्टाम्‌। णौ चङि अदूधुवत्‌। धूञवीञार्भुग्वक्तव्य: इति लुक्‌ लृलुटो: स्वरति० (पा०सू० १/३/७२) इत्यादिनेड्विकल्प: धोष्यति। अधोष्यत्‌। अधविष्यत्‌। धोता धविता। सनि श्र्युक: किति सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌ प्रतिषेध: दुधूषति। दोधूयते ञित्वादात्मनेपदम्‌। धुनीते। अधुनीत। धुनीताम्‌। धुनीत। आशिषि पूर्ववद्विकल्प: धोषीष्ट। धविषीष्ट। धोषीयास्ताम्‌। धविषीयास्ताम्‌।

दॄ विदारणे। ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) शॄदॄप्रां ह्रस्वो वा (पा०सू० ७/२/१२) इति गुण: ह्रस्वौ ह्रस्व पक्षे यणादेश: विदद्रतु:। विदद्रु:। विददरतु:। लुङि अदारीत्‌। अदारिष्टाम्‌। अत्र सिचि च परस्मैपदेषु (पा०सू० ७/२/४०) इतीटो दीर्घप्रतिषेध:। अभ्यासस्य अत्वं अददरत्‌। वॄतो वा (पा०सू० ७/२/३८) इति इट: पक्षे दीर्घ: दरिष्यति दरीष्यति। अदरिष्यत्‌ अदरीष्यत्‌। दरिता दरीता। सनि इघ्रति वा इति इट्‌ वा दीर्घश्च तेन त्रैरूप्यम्‌। दिदरिषति दिदरीषति इडभावे इको झल्‌ (पा०सू० १/२/९) इति कित्वं दिदीर्षति। यङि देदीर्यते।

हिंसायाम्‌।

पॄ पालनपूरणयो:। पूर्ववत्‌।

वॄ वरणे। णौ चङि अत्ववर्जं वृणातेस्तु इडभावे पक्षे उदे: पूर्वस्य इत्युत्वं विशेष: वुवूर्षति।

मॄ मरणे।

भॄ भर्जने।

झॄ भये।

नॄ नये।

शॄ पाके। एषां धातूनां पूर्वानुसारणोदाहरणमूह्यम्‌।

ज्या वयोहानौ। ग्रहिज्या० (पा०सू० ६/१/१६) इत्यादि सूत्रेण संप्रसारणं हल इति दीर्घ: तत: प्वादिलक्षणेन ह्रस्व: जिनाति। जिनीत:। जिनन्ति इत्यादि। आशिषि ग्रहिज्यादिसंप्रसारणं हल इति दीर्घ: दीर्यात्‌। लिटि जिज्यौ। किति संप्रसारणं द्विर्वचनम्‌ एरनेकाचो (पा०सू० ६/४/८२) इति जिज्यतु:। जिज्यु:। लुङि पूर्ववत्‌ सगिटौ अज्यासीत्‌। अज्यासिष्टाम्‌। णौ चङि अजिज्यपत्‌। ज्यास्यति।अज्यास्यत्‌। सनि जिज्यासति। यङि जेजीयते।

गॄ शब्दे। गृणाति। अगृणात्‌। गृणातु। गृणीयात्‌। आशिषि ऋत इद्धातो: (पा०सू० ७/१/१००) इतीत्वं रपरत्वं दीर्घ: गीर्यात्‌। गीर्यास्ताम्‌। गीर्यासु:। लिटि णलि वृद्धि: जगार। जगरतु:। ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: जगरु:। जगरिथ। लुङि अगारीत्‌। अगारिष्टाम्‌। अगारिषु:। णौ चङि अजीगरत्‌। वॄतो वा (पा०सू० ७/२/३८) इति इट: पक्षे दीर्घ: गरिष्यति गरीष्यति। सनि पूर्ववत्त्रैरूप्यम्‌ जिगरिषति जिगरीषति जिगीर्षति। यङि ऋत इत्वं परत्वं यो यङीति लत्वं जेगिल्यते इति केचित्‌। अन्ये त्वनभिधानाद्यङ्‌ नास्तीति सङ्गिरते।

जॄ वयोहानौ। पूर्ववत्‌।

वॄ वरणे। वृणातीत्यादि। णौ चङि अर्तिह्रीव्ली० (पा०सू० ७/३/३६) इत्यादिना पुक्‌ पुगन्तलक्षणगुण: उपधाह्रस्व: अविव्रियत्‌।

री गतिरेषणयो:। रिणाति। रिणीत:। रिणन्ति। लङि अरिणात्‌ अरिणीताम्‌। अरिणत्‌। रिणातु। रिणीताम्‌। रिणन्तु। रिणीयात्‌। रिणीयाताम्‌। रिणीयु:। आशिषि रिणीयात्‌। रिणीयास्ताम्‌। रिणीयासु:। लिटि रिराय। एरनेकाचो० (पा०सू० ६/४/८२) इति यण द्वित्वं रिरियतु:। रिरियु:। रिरेथ। रिरयिथ। लुङि अरैषीत्‌। अरैष्टाम्‌। अरैषु:। णौ चङि पूर्ववत्‌ पुगादय: अरीरिपत्‌। रेष्यतीत्यादि।

ली श्लेषणे। लिनाति। अलिनात्‌। लिनातु। लिनीयात्‌। आशिषि लीयात्‌। लिटि इट्‌ परमेद्विषये विभाषा लीयते: (पा०सू० ६/१/५१) इति वा आत्वं णलि ललौ। लिलाय। लिल्यतु:। लिल्यु:। लिलेथ। लिलाथ लिलयिथ। लुङि अलासीत्‌। लेष्यतीत्यादि।

प्ली गतौ। प्लीनाति इत्यादि। प्वादीनां पूर्वोविधि:।

व्ली वरणे। व्लीनाति। अव्लीनात्‌। व्लीनात्‌। व्लीनीयात्‌ इत्याद्युह्यम्‌।

भ्री भये। भ्रीणाति। अभृणात्‌। भृणात्‌। भृणीयात्‌। इत: परं जॄ वयोहानावित्यनेन तुल्य:।

क्षिष्‌ हिंसायाम्‌। षकारोङर्थ:। क्षिणाति इत्यादि शेषं नेयम्‌।

ज्ञा अवबोधने। शिद्विषये ज्ञाजनोर्जा (पा०सू० ७/३/७९) इति जादेश:। जानाति। पूर्ववत्‌ यथायोगमीत्वाल्लोप:। जानीत:। जानन्ति। लङि अजानात्‌। अजानीताम्‌। अजानन्त। लोटि जानातु जानीतात्‌। जानीताम्‌। जानन्तु। लिङि जानीयात्‌। जानीयाताम्‌। जानीयु:। आशिषि एर्लिङि (पा०सू० ६/४/६७) वान्यस्य संयोगादे: (पा०सू० ६/४/६८) इत्येत्वं ज्ञेयात्‌। ज्ञायात्‌। जज्ञौ। जज्ञाथ। जज्ञथाम्‌। लुङि पूर्ववत्‌ आकारान्तलक्षणे सगिडागमौ अज्ञासीत्‌। अज्ञासिष्टाम्‌। अज्ञासिषु:। घटादित्वात्वारणादिष्वर्थेषु मितां ह्रस्व: (पा०सू० ६/४/९२) अन्यत्र णौ चङि उपधाया: ह्रस्व: अजिज्ञपत्‌। ज्ञास्यति। अज्ञास्यत्‌। ज्ञाता। सनि ज्ञाश्रुस्मृदृशां सन: (पा०सू० १/३/५७) इत्यात्मनेपदम्‌ जिज्ञासति जानाते: कर्तृगामिनिक्रियाफले अनुपसर्गात्‌ अनुपसर्गाज्ज्ञ: (पा०सू० १/३/४४) इत्यात्मनेपदं विहितम्‌। सामान्येन सोपसर्गादपह्नवे अपह्नवे ज्ञ: (पा०सू० १/३/४४) इति केवलादि वाकर्मकात्‌ अकर्मकाच्चेति (पा०सू० १/३/४५) संप्रतिभ्यामनाध्याने (पा०सू० १/३/४६) च तत्र इत्येव सिद्धमात्मनेपदम्‌। अनुपूर्वात्सनन्तात्‌ नानोर्ज्ञ (पा०सू० १/३/५८) इति तन्निसिध्यात्‌। संग्रहश्लोकौ-

क्रियाफले कर्तृगतेनुसृष्टादपह्नवे सोपसर्गा:।
अकर्मकस्थात्‌ संप्रतिभ्यां चय: पर:।।
सनन्तादपि जानीयात्‌ जानातेरात्मनेपदम्‌।
नानुपूर्वात्‌ सनंतात्‌ प्रत्याभ्यां श्रव एव च।।

बन्ध बन्धने। स्नाप्रत्ययस्य ङित्वात्‌ अनिदिताम्‌ (पा०सू० ६/४/२४) इति नलोप:। शेषं पूर्ववत्‌। बध्नाति। बध्नीत:। बध्नन्ति। लङि अबध्नात्‌। अबध्नीताम्‌। अबध्नन्‌। लोटि बध्नातु बध्नीतात्‌। बध्नीताम्‌। बध्नन्तु। हल: श्न: शानज्झौ (पा०सू० ३/१/८३) इति श्नरादेश: बध्यात्‌। बध्नीयात्‌। बध्नीयाताम्‌। बध्नीयु:। आशिषि पूर्ववन्नलोप: बध्यात्‌। बध्यास्ताम्‌। बध्यासु:। लिटि बबन्ध। बबन्धतु:। बबन्धु:। बबन्धिथ। धत्वजश्त्वे बबन्ध। लुङि च्ले: सिच्‌ भष्त्वचर्त्वे हलन्तलक्षणावृद्धि: अभान्त्सीत्‌। झलि सलोप: अबाद्धाम्‌। अभान्त्सु:। भत्स्यतीत्यादि।

।। ऋदन्ता: सेट्‌ इति अनिट: परस्मैभाषा:।।

वृङ्‌ सम्भक्तौ। वृणीते। वृणाते। वृणीषे। लङि अवृणीत। अवृणाताम्‌। अवृणत। लोटि वृणीताम्‌। वृणाताम्‌। वृणताम्‌। वृणीत। वृणीयाताम्‌। वृणीरन्‌। आशिषि वॄतो वा (पा०सू० ७/२/३८) इतीट: पक्षे दीर्घविधिं च। लिङीति निषिध्यते वरिषीष्ट। वरिषीयास्ताम्‌। वरिषीरन्‌। उश्च (पा०सू० १/२/१२) इति लिटो कित्वन्नभवति अज्झलादित्वात्‌ लिङ्‌सिचोरात्मनेपदेषु (पा०सू० ७/२/४२) इतीड्विकल्पादिड्‌भावे उश्च (पा०सू० १/२/१२) इति कित्वं वृषीष्ट। वृषीयास्ताम्‌। वृषीरन्‌। वव्रे। वव्राते। वव्रिरे। क्रादिसूत्रेण प्रतिषेध: ववृषे। ध्वमि नित्यमूर्धन्य: ववृढ्‌वे। ववृवहि। लिङि इट्‌सनि वा लिङ्‌सिचोरात्मनेपदेषु (पा०सू० ७/२/४२) इतीड्विकल्प: इट्‌पक्षे वा दीर्घ: अवरिष्ट अवरीष्ट। इडभावे उश्च (पा०सू० १/२/१२) इति कित्वं ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सलोप: अवृत। अवृषाताम्‌। अवृषत। वरिष्यते वरीष्यते। अवरिष्यत अवरीष्यत। वरिता वरीता। सनि इट्‌ सनि वेतीट्‌पक्षे वॄतो वा (पा०सू० ७/२/३८) इत वा दीर्घ: तेन त्रैरूप्यं विवरिषते विवरीषते। इडभावे कित्वदीर्घत्वोत्वानि वुवूर्षते। यङि रीङृत: वेव्रीयते।

मन्थ विलोडने। अनिदिताम्‌ (पा०सू० ६/४/२४) इति नलोप: मथ्नाति। अमथ्नात्‌। मथ्नातु। मथ्नीयात्‌। आशिषि नलोप: मथ्यात्‌। लिटि ममन्थ। ममन्थतु:। ममन्थु:। ममन्थिथ। लुङि अमथ्नीत्‌। अमन्थिष्टाम्‌। अमन्थिषु:। मथिष्यतीत्यादि।

श्रन्थ मोचनप्रतिहर्षयो:।

श्रन्थ ग्रन्थ सन्दर्भे।

कुथ संक्लेशने। उदाहरणमूह्यम्‌। एषाम्‌ आदौ श्रन्थिग्रन्थिदन्भिष्वञ्जीनाञ्च इति वचनात्कित्वं अनुनासिकलोप: अत एकहल्मध्य (पा०सू० ६/४/१२०) इत्यधिकारे तृफलभजत्रपश्च (पा०सू० ६/४/२२) इत्यत्र चकारस्य अनुक्तसमुच्चयार्थत्वात्‌ अनेकहल्मध्यगतस्यापि एत्वाभ्यासलोपौ श्रेथतु:। श्रेथु:। श्रेथिथ। इतरत्र मन्थिना तुल्यं रूपम्‌।

मृद क्षोदे। मृद्‌नाति। अमृद्‌नात्‌। मृद्‌नातु। मृद्‌नीयात्‌। आशिषि मृद्यात्‌। लिटि ममर्द। ममृदतु:। ममृदु:। लुङि अमर्दीत्‌। अमर्दिष्यतीत्यादि।

मृड सुखने।

गुद रोषे।

क्षुभ सञ्चलने।

नभ तुभ हिंसायाम्‌। एषामुदाहरणमूह्यम्‌।

कुष निष्कर्षे। कुष्णाति। अकुष्णात्‌। कुष्णातु। कुष्णीयात्‌। आशिषि कुष्यात्‌। चुकोष। चुकुषतु:। चुकुषु:। चुकोषिथ। लुङि च्ले: सिच्‌ निर्‌पूर्वं निर: कुष: (पा०सू० ७/२/४६) इति वलादेरार्द्धधातुकस्येड्विकल्प: निरकोषीत्‌। इडभावे च्ले: क्स: कत्वषत्वे निरकुषत्‌। निरकुषताम्‌। लृलुटो: सनि च निष्कोषिषति। निष्कोष्यति। निरकोषिष्यत्‌। निरकोक्ष्यत्‌। निष्कोषिता निष्कोष्टा। निष्कुषिषति निष्कोषिषति। चुकुक्षति चोकुष्यते।

क्लिशू विबाधने। क्लिश्नाति। अक्लिश्नात्‌। क्लिश्नातु क्लिश्नीतात्‌। क्लिश्नीताम्‌। क्लिश्नन्तु। अक्लिश्नात्‌। क्लिश्नीयात्‌। आशिषि क्लिश्यात्‌। लिटि चिक्लेश। चिक्लिशतु:। चिक्लिशु:। ऊदित्वादिड्विकल्प:। चिक्लेशिथ। चिक्लेश। लुङि अक्लेशीत्‌। इडभावे इगुपधादि च्ले: क्स: षत्वकत्वचर्त्वादि अक्लिक्षत्‌। क्लेशिष्यति। क्लेक्ष्यति इत्यादि योज्यम्‌।

अश भोजने। अश्नाति। अश्नीत:। अश्नन्ति। अश्नात्‌। अश्नीताम्‌। अश्नन्‌। अश्नातु अश्नीतात्‌। अश्नीताम्‌। अश्नन्तु। अशान। लिङि अश्नीयात्‌। आशिषि अश्यात्‌। अश्यास्ताम्‌। अश्यासु:। लिटि आश। आशतु:। आशु:। आशिथ। लुङि आशीत्‌। आशिष्टाम्‌। आशिषु:। णौ चङि आशिशत्‌। आशिष्यति। आशिष्यत्‌। आशिता। आशिशिषति। सूचिसूत्रिमूत्र्यसूणोतीनामूपसंख्यानम्‌ इति यङ्‌ अशाश्यात्‌।

इष आभीक्ष्ये। इष्णाति।

विष विप्रयोगे। विष्णाति।

पुषु प्लुषु स्नेहनपूरणयो:। पुष्णाति। प्लुष्नाति।

कष पूतिप्रादुर्भावे। कष्णातीत्युदाहरणमूह्यम्‌।

मुष स्तेये। मुष्णाति। मुष्णीत:। मुष्णन्ति। लङि अमुष्णात्‌। अमुष्णीताम्‌। अमुष्णन्‌। मुष्णातु। मुष्णीतात्‌। मुष्णीताम्‌। मुष्णन्तु। मुषाण। लिङि मुष्णीयात्‌। मुष्णीयाताम्‌। मुष्णीयु:। आशिषि मुष्ण्यात्‌। मुष्ण्यास्ताम्‌। मुष्ण्यासु:। लिटि मुमोष। मुमुषतु:। मुमुषु:। लुङि अमोषीत्‌। अमोषिष्टाम्‌। अमोषिषु:। णौ चङि अमूमुषत्‌। लृलुटो: मोषिष्यति। अमोषिष्यत्‌। मोषिता। सनि लट्युपधाकित्वविकल्पे प्राप्ते रुदविद (पा०सू० १/२/८) इति नित्यं सन: कित्वम्‌। मुमुषिषति। यङि मोमुष्यते।

पुष पुष्टौ। पुष्णातीत्यादि पूर्ववत्‌। सनि रलो व्युपधात्‌ (पा०सू० १/२/२६) इति वा कित्वं पुपुषिषति पुपोषिषति।

।। सेट: परस्मैभाषा:।।

ग्रह उपादाने। ग्रहिज्यादि संप्रसारणं गृह्णाति। गृह्णीत:। गृह्णन्ति। गृह्णासि। गृह्णीथ:। गृह्णामि। गृह्णीव:। गृह्णीम:। लङि अगृह्णात्‌। अगृह्णीताम्‌। अगृह्णन्‌। अगृह्णा:। अगृह्णीतम्‌। अगृह्णीत। अगृह्णाम्‌। अगृह्णीव। अगृह्णीम। आशिषि संप्रसारणम्‌ गृह्यात्‌। गृह्यास्ताम्‌। गृह्यासु:। गृह्या:। गृह्यास्तम्‌। गृह्यास्त। गृह्यासम्‌। गृह्यास्व। गृह्यास्म। जग्राह। जगृहतु:। जगृहु:। जग्रहिथ। जगृहथु:। जगृह। जग्राह। जगृहिव। जगृहिम। जगृहेति निगमे लुङि ग्रहोऽलिटि दीर्घ: (पा०सू० ७/२/३७) इति इटो दीर्घ: अग्रहीत्‌। अग्रहिष्टाम्‌। अग्रहिषु:। अग्रही:। अग्रहिष्टम्‌। अग्रहिष्ट। अग्रहिषम्‌। अग्रहिष्व। अग्रहिष्म। णौ चङि अजिग्रहत्‌। अजिग्रहताम्‌। अजिग्रहन्‌। अजिग्रह:। अजिग्रहतम्‌। अजिग्रहत। अजिग्रहम्‌। अजिग्राव। अजिग्रहाम। लृटि ग्रहिष्यति। ग्रहीष्यत:। ग्रहीष्यन्ति। ग्रहीष्यसि। ग्रहीष्यथ:। ग्रहीष्यथ। ग्रहीष्यामि। ग्रहीष्याव:। ग्रहीष्याम:। अग्रहीष्यत्‌। अग्रहीष्यताम्‌। अग्रहीष्यन्‌। अग्रहीष्य:। अग्रहीष्यतम्‌। अग्रहीष्यत। अग्रहीष्यम्‌। अग्रहीष्याव। अग्रहीष्याम। ग्रहीता। ग्रहीतारौ। ग्रहीतार:। ग्रहीतासि। ग्रहीतास्थ:। ग्रहीतास्थ। ग्रहीतास्मि। ग्रहीतास्व:। ग्रहीतास्म:। सनि रुदविदमुषग्रहि (पा०सू० १/२/८) इत्यादिना सन: कित्वं सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌ प्रतिषेध: जिघृक्षति। अजिघृक्षत। जिघृक्षतु। जिघृक्षेत्‌। जिघृक्ष्यात्‌। जिघृक्षाञ्चकार। अजिघृक्षीत्‌। अजिघृक्षेत्‌। जिघृक्षिष्यति। अजिघृक्षिष्यत्‌। जिघृक्षिता। यङि जरीगृह्यते इत्यादि। स्वरितेत्वादात्मनेपदम्‌। गृह्णीते। गृह्णाते। गृह्णते। गृह्णीषे। गृह्णाथे। गृह्णीध्वे। गृह्णे। गृह्णीवहै। गृह्णीमहै। अगृह्णीत। अगृह्णाताम्‌। अगृह्णत। अगृह्णीथा:। अगृह्णीथाम्‌। अगृह्णीध्वम्‌। अगृहि। अगृह्णीवहि। अगृह्णीमहि। लोटि गृह्णीताम्‌। गृह्णाताम्‌। गृह्णताम्‌। गृह्णीष्व। गृह्णीथाम्‌। गृह्णीध्वम्‌। गृह्णै। गृह्णावहै। गृह्णामहै। लिङि गृह्णीत। गृह्णीयाताम्‌। गृह्णीरन्‌। गृह्णीथा:। गृह्णीयाथाम्‌। गृह्णीध्वम्‌। गृह्णीय। गृह्णीवहि। गृह्णीमहि। आशिषि ग्रहो लिटि दीर्घ: ग्रहीषीष्ट। ग्रहीषीयास्ताम्‌। ग्रहीषीरन्‌। ग्रहीषीष्ठा:। ग्रहीषीयास्थाम्‌। ग्रहीषीध्वम्‌। ग्रहीषीय। ग्रहीषीवहि। ग्रहीषीमहि। जगृहे। जगृहाते। जगृहिषे। अजृहाथे। जगृहिध्वे। जगृहे। जगृवहे। जगृमहे। इटो दीर्घो न भवति अलिटीति प्रतिषेधात्‌ अग्रहीष्ट। अग्रहिषाताम्‌। अग्रहीषत। अग्रहीष्ठा:। अग्रहिषाथाम्‌। धि च (पा०सू० ८/२/२५) इति सलोप: अग्रहीध्वम्‌। अग्रहीढ्वम्‌। अग्रहीषि। अग्रहीवहि। अग्रहीमहि। लृटि ग्रहीष्यति। ग्रहीष्यते। ग्रहीष्येते। ग्रहीष्यन्ते। ग्रहीष्यसे। ग्रहीष्येथे। ग्रहीष्यध्वे। ग्रहीष्ये। ग्रहीष्यावहे। ग्रहीष्यामहे। लृङि अग्रहीष्यत्‌। अग्रहीष्येताम्‌। अग्रहीष्यन्त। अग्रहीष्यथा:। अग्रहीष्येथाम्‌। अग्रहीष्यध्वम्‌। अग्रहीष्ये। अग्रहीष्यावहि। अग्रहीष्यामहि। लुटि ग्रहीता। ग्रहीतारौ। ग्रहीतार:। ग्रहीतासे। ग्रहीतासाथे। ग्रहीताध्वे। ग्रहीताहे। ग्रहीतास्वहे। ग्रहीतास्महे। तथा कर्मणिलकारा: गृह्यते। अगृह्यत। अगृह्यताम्‌। गृह्येत। आशिषि चिण्वदिड्विकल्प: ग्राहिषीष्ट। चिण्वदिडभावे वलादिलक्षणस्य लिङि दीर्घ:। एवमितरत्रापि ग्रहीषीष्ट। लिटि जगृहे। लुङि त शब्दे परत: चिण्भावकर्मणो: (पा०सू० ३/१/६६) इति चिण्‌ चिणो लुग्‌ (पा०सू० ६/४/१०४) इति शब्दस्य लुक्‌ अग्राहि। इतरत्र सिचो वा चिण्वदिट्‌ अग्राहिषाताम्‌। अग्राहिषताम्‌। लृटि ग्राहिष्यते ग्रहिष्यते। लृङि अग्राहिष्यत अग्रहिष्यत। लुटि ग्राहिता ग्रहीता।


इति श्नाविकरणक्र्यादय:।