चुरादिप्रकरणम्‌

चुर् स्तेये। सत्यापपाश० (पा०सू० ३/१/२५) इत्यादिना स्वार्थे णिच्‌। सनाद्यन्ता धातव: (पा०सू० ३/१/३२) इति धातुसंज्ञा पूर्ववल्लडादय:। कर्तरि शप्‌ (पा०सू० ३/१/६८) गुणायादेशौ। चोरयति। लङि चोरयत्‌। लोटि चोरयतु। लिङि चोरयेत्‌। आशिषि णेरनिटि (पा०सू० ६/४/५१) इति णिलोप: चोर्यात्‌। कास्प्रत्यया० (पा०सू० ३/१/३५) इत्यादिना आम्‌ णिलोपे प्राप्ते अयामन्ताल्वायेत्विष्णुषु (पा०सू० ६/४/५५) इति णेरयादेश:। चोरयाञ्चकार। लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना च्लेरङ्‌ णिलोप:। उपधाह्रस्व: द्विर्वचनम्‌ हलादिशेष: भत्वक्षभावे दीर्घो लघो: (पा०सू० ७/४/९४) इति दीर्घ:। अचूचुरत्‌ लृलुटो: चोरयिष्यति। अचोरयिष्यत्‌। चोरयिता। सनि चुचोरयिषति। यङ्‌ नात्यलोकाच्चत्वात्‌ कर्तभिप्राये क्रियाफले णिचश्च (पा०सू० १/३/७४) इत्यात्मनेपदम्‌। चोरयते। अचोरयत। चोरयताम्‌। चोरयेत। आशिषि इडागम: चोरयिषीष्ट। चोरयाञ्चक्रे। लुङि अचूचुरत्‌। चोरयिष्यत्‌ इत्यादि। एवमुत्तरत्रापि आगणपरिप्राप्ते वेदितव्यम्‌।