कण्ड्‌वादिप्रकरणम्‌

कण्डूञ् आशिषि अतो लोप: कण्डूयात्‌ कण्डुयिषीष्ट कण्डूयाञ्चकार कण्डूयाञ्चक्रे लुङि अकण्डूयीत अकण्डूयिष्ट णौ चङि कण्ड्‌वादीनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यमिति वचनात्‌ य इत्येतस्य द्विर्वचन अकण्डूयियत्‌ कण्डूयिष्यति कण्डूयिष्यते अकण्डूयिष्यत्‌ अकण्डूयिष्यत कण्डूयिता कण्डूयितासि कण्डूयितासे सनि कण्डूयियिषति कण्डूयियिषते यङ्‌ नास्ति अनेकाच्त्वात्‌।

व्रीणीङ्‌ व्रीणीयते।

महीङ्‌ महीपते।

तिरस्‌ तिरस्येति।

दु:ख अतो लोप: दु:ख्यति।

सुख सुख्यति।

भिषक्‌ भिषज्यति।

इति कण्ड्‌वादय:।