धातुप्रत्ययपञ्जिका

दीपज्वालाचलैर्वर्णैरभिव्यञ्जितमञ्जसा।
स्फोटाह्वयमहं वन्दे रूपं विष्णोर्गुहाशयम्‌।।

बालेषु पाणिनीयाब्धिप्रवेशभृशभीरुषु।
मयैतदन्तर्विष्टेन क्षिप्यन्ते शब्दबिन्दव:।।

स्वरूपमर्थं धातूनां व्यवस्थामपि तिङ्विधे:।
वक्तुं वैयाकरणभेदमयमस्मत्‌ समुद्यम:।।

तत्र तावद्धात्वर्थविशेषद्वारेण लकारोत्पत्तिं प्रति निमित्तभूत: काल: उपदिश्यते। स च नित्वाद्यापित्वाच्चाकाशकल्प:। एकोऽपि यद्यपि काल: तथापि वर्तमानो भूतो भविष्यन्निति ये व्यपदेशभेदा:, ते तस्य क्रियाद्वारका:। स च कालो मूर्तिमद्भि: सर्वैरवयवै: संयुक्त:। तत्संयुक्तेषु द्रव्येषु क्रियायापि भेदोऽपि समवैतीति संयुक्तेन समवायेन क्रियागतो वर्तमानादिव्यवहार: उपचारात्‌ काले प्रवर्तते। यथैकस्मिन्‌ पुरुषे क्रियाभेदादनेका: संज्ञा दृश्यन्ते। तदुक्तम्‌-

यथैकस्मिन्‌ क्रियाभेदात्‌ तदाद्याख्या प्रवर्तते।
क्रियाभेदात्तथैकस्मिन्‌ भूताद्याख्या प्रवर्तते।।

आदिग्रहणेन वर्तमानादेर्ग्रहणम्‌। स च भूतादिभेदेन त्रिविधोऽपि शब्दव्युत्पत्यर्थमार्यैरनेकधा कल्पित:। तद्यथा भूतसामान्यं भूतविशेषाश्च। के पुनस्ते विशेषा: वर्तमानसमीपभूत: अनद्यतनभूत:। अहरुभयतर्धरात्रादेषोऽनद्यतन काल इति केचित्‌। अतीतायाश्च रात्रे: पश्चिमो याम: आगामिन्याश्च रात्रे: प्रथमो यामो दिवस: स काल एषोऽद्यतनकाल: इत्यन्ये। तत्प्रतिषेधेनानद्यतन:। तत: परोक्षानद्यतनभूत:। तत्रैव लोकविज्ञातवक्तृदर्शनयोग्य: परोक्षानद्यतनभूत्‌ इति, क्रियाप्रबन्धानद्यतनभूत:, सामीप्यानद्यतनभूत:, रात्रिविशेषे जागरणं सन्त्यनद्यतनभूत: अद्यतनानद्यतनव्यामिश्रभूत इति। वर्तमान: पुनरेक एव। केचिदाहु:-

प्रवृत्तोपरतश्चैव वृत्ताविरत एव च।
नित्यप्रवृत्त: सामीप्यो वर्तमानश्चतुर्विध:।। इति।

प्रवृत्तोपरतो यथा अनृतं न भाषते। वृत्ताविरत: प्रासादं करोति। नित्यप्रवृत्त: तिष्ठन्ति पर्वता:। सामीप्यो द्विविध:, भूतसामीप्यो भविष्यत्सामीप्यश्च। पूर्वं वर्तमानग्रहणेन भूतभविष्यन्तौ विशेषितौ इदानीं तु ताभ्यां वर्तमान इति शेष: विशेषित:। कदा देवदत्त आगतोसि। एष आगच्छामि। आगच्छन्तमेव मां विद्धि। अयममहमगम:, एषोऽस्म्यागत:। कदा देवदत्त आगमिष्यसि। एष आगच्छामि। अगच्छन्तमेव मां विद्धि। आगमिष्यामि। आगन्तास्मि। अत्रैतान्येवोदाहरणानि। तथा भविष्यत्सामान्यं भविष्यद्विशेषाश्चेति। के पुनर्विशेषा:। अनद्यतनभविष्यद्वर्तमानसमीपभविष्यन्मुहूर्तोपरि भविष्यत्क्रियाप्रबन्धानद्यतनभविष्यत्-सामीप्यानद्यतनभविष्यदाशंसा भविष्यदद्यतनानद्यतनव्यामिश्रभविष्यन् इति। तत्र भूतसामान्ये लुङ्‌ इति लुङ्‌वद् भवति तत्रैव वर्तमानसमीपभूते ‘वर्तमानसामीप्ये वर्तमानवद्वे’ति अतिदेशाल्लङ्लुङौ भवत:। अनद्यतनभूते तु ‘अनद्यतने लङि’ति लङ्‌विधि: तत्रैवाभिज्ञावचनेलृडिति लृड्‌ भवति। अभिजानासि तत्र वत्स्याव:। परोक्षानद्यतनभूते परोक्षे लिडिति लिट्‌। तत्रैव लोकविज्ञाते लान्तस्य शब्दस्य प्रयोक्तु: शक्यदर्शने कार्यान्तरव्यासङ्गाददर्शने सति परोक्षे लङुपसंख्यायते लिडपवाद:। तत्रैवोत्तमविषये चित्तविक्षेपप्रत्यक्षेऽपि लिडुपसंख्यायते। केचिदाहु:-

कृतस्य स्मरणे कर्तुरत्यन्तापह्नवेऽपि च।
कर्मकर्त्रोरदृश्यत्वे त्रिषु विद्यात्‌ परोक्षताम्‌।। इति।

कृतस्य स्मरणे कर्तुर्यथा सुप्तोऽहं किल विललाप। अत्यन्तापह्नवे त्वया कलिङ्गेषु सुखमुषितमित्युक्ते नाहं कलिङ्गान्‌ जगामेति। कर्मकर्त्रोरदृश्यत्वे जघान कंसं किल वासुदेव:। क्रियाप्रबन्ध: क्रियाणां सातत्येनानुष्ठानम्‌, कालानां सामीप्यं तुल्यजातीयेनाव्यवधानं यावज्जीवं भृशमन्नमदात्‌। यावज्जीवं भृशमन्नं दास्यतीति क्रियाप्रत्यय:। सामीप्यं तु येयं पौर्णमास्यतिक्रान्ता: एतस्यामुपाध्यायः अग्नीनादधीत। सोमेनायष्ट। येयं पौर्णमास्यागामिनी तस्यामुपाध्यायः अग्नीनाधास्यति सोमेन यक्ष्यत इति लङ्‌लुटो: प्राप्तयो: लुङ्‌लृटौ विधीयेते। रात्रिशेषे जागरणं सातत्येनाद्यतनभूते तु वसेरेव धातोलुङ्विधीयते। अत्यन्तापह्नवानद्यतनभूते तूदाहृत:। अद्यतनानद्यतन व्यामिश्रभूते तु अद्यह्यवेत्येवं रूपे भूतसामान्न्यविहितो लुङ्‌ विधीयते। तथा भविष्यत्‌ सामान्ये ‘लृट्‌ शेषे’ चेति लृट्‌ भवति। तत्रैव यावत्‌ पुराशब्दोपपदत्वे यावत्‌ पुरा निपातयोर्लडिति लट्‌। कदा कर्हि शब्दोपपदत्वे विभाषा कदा कर्ह्योरिति विभाषा। किं वृत्तेलिप्सायामिति विभक्त्यन्ते डतरडतमान्ते च किं शब्द उपपदे लिप्सायां गम्यमानां विभाषा लड्‌ भवति। तत्रैव लिप्स्यमानसिद्धौ गम्यमानायां वा लड्विधि:। लोडर्थ लक्षणे च लोडर्थ: प्रैषादिकर्म लक्ष्यते। येन धात्वर्थेन तत्र वर्तमानाद्धातोर्भविष्यत्काले विभाषा लट्‌ प्रत्ययो भवति। तस्मिन्नेव विषये मुहूर्तोपरि भविष्यत्काले विभाषा लिङ्चोर्ध्वमौहूर्तिक इति लिङ्‌ चकाराल्लट्‌ च। विभाषा ताभ्यामुत्पत्ते लृङ्‌लृटावपि भवत:। भविष्यद्यनद्यतने तु अनद्यतने लुडिति लुट्‌। वर्तमानसमीप-भविष्यत्युदाहरणं दर्शितम्‌। क्रियाप्रबन्धानद्यतनभविष्यति तत्सामीप्यभविष्यति च नानद्यतनवदित्यादिना लुट: प्रतिषेधात्‌ लृडेव भवति। अशंसाभविष्यति वर्तमानसामीप्येत्यधिकारे आशंसायां भूतवच्चेति भूतवद्वर्तमानवच्च लुङ्‌लुटौ भवत:। अद्यतनानद्यतन व्यामिश्रभविष्यत्यद्य श्वो वेत्येवंरूपे लृडेव भवति। तथा गर्हायां लडपि जात्वो: इति जातुशब्दोपपदत्वे गर्हायां गम्यमानायां कालसामान्ये कालविशेषविहितान्‌ प्रत्यायान्‌ बाधित्वा लड्विधानम्‌ विभाषा कथं लिङ्चेति। कथंशब्द उपपदे गर्हायामेव लिङ्‌ भवति चकारात्‌ लट्‌। विभाषाग्रहणाद्यथा स्वकालविहिता अपि प्रत्यया भवन्ति। किं वृत्तेर्लिङ्‌लृटावित्यनेन सूत्रेण विभक्त्यन्ते डतरडतमान्ते च किं शब्द उपपदे गर्हायामेव नित्यं लिङ्‌लृटौ प्रत्ययौ भवत:। तथा अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि अनवक्लृप्तिरसंभावना अमर्ष: अक्षमा तयोरर्थयो: किं वृत्ते चाकिं वृत्ते च लिङ्‌लिटावेव विधीयेते। तथा हेतुहेतुमतोरर्थयोर्वर्तमानाद्धातो: हेतुहेतुमतोर्लिङित्यनेन लिङ्‌ विधीयते। विभाषेयमिष्यते भविष्यति काले च। एवं विभाषा कथमिलिङ्‌ चेत्यारभ्य यावद्धेतुहेतुमतोर्लिङित्येतत्‌ सूत्रम्‌ यत्र यत्र लिङ्गग्रहणं श्रूयते अनुवर्तते च तत्सर्वंलिङ्निमित्तं तत्र क्रियातिपत्तिविवक्षायां लिङ्‌निमित्ते लृङ्‌ क्रियातिपत्तौ इति भविष्यत्काले नित्यं लृङ्‌ भवति। भूतातिपत्तौ च काले भूते चेत्यनेन सूत्रेण उताप्यो: समर्थयोर्लिङिति यावत्‌ भूते क्रियातिपत्तौ विभाषा लृङ्‌भवति। तत: परस्मिन्‌ लिङ्‌निमित्ते नित्यं भूतक्रियातिपत्तौ लृङ्‌ भवति। तथा विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्‌विधानं तत्र विधिर्नियोग:। कटं भवान्‌ कुर्यादिति। निमन्त्रणं नियोगकरणम्‌। असत्यामपि तदिच्छायाम्‌। अकरणे सत्यधर्मोत्पत्ते:। नियमेन अवश्यम्भावेन यत्करणं तन्नियोगकरणम्‌ इह भुञ्जीत भवानिति। आमन्त्रणं कामाचार इच्छाप्रकार: तेन यदामन्त्रणम्‌। एतदुक्तं भवति यदिच्छयैव करणं नानिच्छया। अकरणेऽपि दोषाभावात्‌ तदामन्त्रणमिति। इह भवान्‌ भुञ्जीतेति। अधीष्ट: सत्कारपूर्वको व्यापार: सम्प्रश्न: सम्प्रधारणं कर्तव्यालोचना। किन्नु खलु भो व्याकरणमधीयीय छन्दोऽधीयीय इति विध्यादिषु आशिषि च लोड्विधानम्‌। तत्र प्रेषणं प्रैष:, कामचारानुज्ञा अतिसर्ग:, निमित्तभूतस्य कालस्यावसर: प्राप्तकालता। आशिषि च लिङ्‌विधि:। माङ्युपपदे माङि लुङिति लुङ्‌विधि स्मशब्दसहिते माङ्युपपदे लङ्‌लुङौ भवत:। इत्येषा काललकारनिर्णयार्था दिक्‌।।