अदादिप्रकरणम्

अद भक्षणे। लडादि पूर्ववत्‌। कर्तरि शप्‌ अदिप्रभृतिभ्य: शप: (पा०सू० २/४/७२) इति तस्य लुक्‌ खरि च (पा०सू० ८/४/५५) इति चर्त्वम्‌ अत्ति। अत्त:। अदन्ति। लुङि इतश्च (पा०सू० ३/४/१००) लोप: अपृक्ताधिकारे अद: सर्वेषाम्‌ (पा०सू० ७/३/१००) इत्यट्‌ आडजादीनाम्‌ (पा०सू० ६/४/७२) इत्याट्‌ आटश्च (पा०सू० ६/१/९०) इति वृद्धि: आदत्‌। आत्तम्‌। आदन्‌। लोटि तिबादिपूर्ववत् ‘एरु: (पा०सू० ३/४/८६) इति तेस्तुशब्द: आशिषि तस्य तुह्योस्तातङ्‌ङाशिष्यन्यतरस्याम्‌ (पा०सू० ७/१/३५) इति वा तातङ्‌ अत्त अत्ताद्। अत्तम्‌। अदन्तु। सेर्हिरादेश: हुझल्भ्योहेर्धि: (पा०सू० ६/४/१०१) इति हेर्धिरादेश: अद्धि अत्ताद्‌। अत्तम्‌। अत्त मेर्नि: (पा०सू० ३/४/८९) इति निरादेश: आडुत्तमस्य पिच्च (पा०सू० ३/४/९२) अदानि। नित्यं ङित: (पा०सू० ३/४/९९) इति सलोप: अदाव। अदाम। विध्यादि लिङि यासुट्‌परस्मैपदेषु (पा०सू० ३/४/१०३) इति यासुट्‌ लिङ: सलोपोनन्त्यस्य (पा०सू० ७/२/७९) इति सलोप: अद्यात्‌। अद्याताम्‌। झेर्ज्जुस्‌ (पा०सू० ३/४/१०८) उस्यपदान्तात्‌ (पा०सू० ६/१/९६) इति पररूपत्वम्‌ अद्यु:। आशिषि किदाशिषि (पा०सू० ३/४/१०४) इति यासुट्‌ स्को: संयोगाद्योरन्ते च (पा०सू० ८/२/२९) इति सलोप: लिङ: सलोपोनन्त्यस्य (पा०सू० ७/२/७९) इति न भवति तस्य सार्वधातुविषयत्वात्‌ अद्यात्‌। अद्यास्ताम्‌। अद्यासु:। लिटि लिट्यन्यतरस्याम्‌ (पा०सू० २/४/४०) अदेर्घस्लादेशो भवतीति घस्लादेश: लृदित्करणमङर्थम्‌ अभ्यासकार्यं जघास। कित्वाद् गमहन० (पा०सू० ६/४/९८) इत्यादिना उपधालोप: इण्को: (पा०सू० ८/३/५७) शासिवसिघसीनां च (पा०सू० ८/३/६०) इति षत्वं जक्षतु:। जक्षु:। जघसिथ। भारद्वाजीयो विकल्प: थलि नास्ति तासावसत्वात्‌ क्रादिनियमादेवमितामिट्‌ घस्लादेशाभावपक्षे आद। आदतु:। आदु:। थलि तासावसत्वात्‌ उपदेशेत्वत: (पा०सू० ७/३/६२) ऋतो भारद्वाजस्य (पा०सू० ७/३/६३) इति इड्विकल्पे प्राप्ते इडत्यर्तिव्ययतीनाम्‌ (पा०सू० ७/२/६६) इति नित्यमिट्‌ आदिथ। लुङि लुङ्‌ सनोर्घस्लृ (पा०सू० २/४/३७) इति घस्लादेशस्य लृदित्वात्‌ अङ् अघसत्‌। अघसताम्‌। अत्स्यति। अत्ता। सनि घस्लादेश: स: स्यार्धधातुक इति तत्त्वं जिघत्सति।

हन हिंसागत्यो:। पूर्ववल्लडादय: हन्ति। ङित्वादनुनासिकलोप: हत:। अजादौ क्ङिति गमहन० (पा०सू० ६/४/९८) इत्युपधालोप: होहन्तेर्ञ्णिन्नेषु (पा०सू० ७/३/५९) इति नकारे परत: कुत्वविधानसामर्थ्यात्‌ स्थानिवद्भावो न भवति घ्नन्ति। हंसि। हथ:। हथ। हन्मि। हन्व:। हन्म:। लङि इतश्च (पा०सू० ३/४/१००) लोप: हल्ङ्यादिलोप: अहन्‌। अहताम्‌। अघ्नन्‌। पुनरप्यहन्नित्यादि अहतम्‌। अहत्‌। अहनम्‌। अहन्व। अहन्म लोटि हन्तु। तातङि ङित्वादनुनासिकलोप: हतात्‌। हताम्‌। घ्नन्तु। सेर्हि: हन्तेर्ज: (पा०सू० ६/४/३६) इति जभावे कृते अतो हे: (पा०सू० ६/४/१०५) इति हेर्लुकि प्राप्ते असिद्धवदत्राभात्‌ (पा०सू० ६/४/२२) इत्यसिद्धो जभाव: जहि। हतात्‌। हतम्‌। हत। हनानि। हनाव। हनाम लिङि हन्यात्‌। हन्याताम् आशिषि आर्धधातुके हनो वध लिङि (पा०सू० २/४/४२) इति वधादेश: अतो लोप: (पा०सू० ६/४/४८) वध्यात्‌। वध्यास्ताम्‌। वध्यासु:। लिटि होहन्तेर्ञ्णिन्नेषु (पा०सू० ७/३/५४) इति अधिकृत्य अभ्यासाच्च (पा०सू० ७/३/५५) इति कुत्वं जघान। उपधालोप: कुत्वं जघ्नतु:। जघ्नु:। जघनिथ। जघन्थ। लुङि लुङि चेति वधादेश: तस्यादन्तत्वेन सिच इडागम: अतो लोपस्य स्थानिवत्त्वात् हलन्तविकल्पवृद्ध्यभाव: शेषं पूर्ववत्‌ अवधीत्‌। अवधिष्टाम्‌। णौ चङि हनस्तोऽचिण्ण्लो: (पा०सू० ७/३/३२) इति तत्वम्‌ अजीघतत्‌ ऋद्धनो स्ये (पा०सू० ७/२/७०) इतीट्‌ हनिष्यति। सनि ‘अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ: पूर्ववदभ्यासात्परस्य कुत्वं जिघांसति। यङि ‘हन्तेर्हिसायां घ्नीभावो वक्तव्य:’ जेघ्नीयते हिंसायाम्‌ अन्यत्राभ्यासस्य नुक्‌ तत: परस्य कुत्वं जङ्घन्यते। स्वाङ्गकर्मकात् आङो यमहन: (पा०सू० १/३/२८) इत्याङ्‌पूर्वादात्मनेपदम् अनुनासिकोपधलोपौ पूर्ववत्‌ आहते। अघ्नाते। आघ्नते। आहसे। आघ्नाथे। आहध्वे। आहने। आहन्वहे। आहन्महे। लङि आहत। आघ्नाताम्‌। आघ्नत। लोटि आहताम्‌। आघ्नाताम्‌। आघ्नताम्‌। लिङि सीयुट्‌ सलोप: उपधालोप: कुत्वम् आघ्नीत। आघ्नीयाताम्‌। आघ्नीरन्‌। आशिषि पूर्ववद्वधादेश: इट्‌ च आवधिषीष्ट लिटि आजघ्ने। लङि लुङि चेति वर्तमाने आत्मनेपदेष्वन्यतरस्याम्‌ (पा०सू० ३/१/५४) इति वा वधादेश: आवधिष्ट तदभावे हन: सिजिति सिच: कित्वादनुनासिकलोप: ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सिचोलोप: आहत। आहसाताम्‌। तथा कर्मणि लकारा: हन्यते। अहन्यत। हन्यताम्‌। हन्येत। आशिषि चिण्वदिड्विकल्प: अत उपधाया इति वृद्धि: कुत्वं घानिषीष्ट। इडभावे हंसीष्ट। वधादेशपक्षे चिण्वदिट्यपि अतो लोपस्यासिद्धत्वादुपधावृद्धिर्न भवति वधिषीष्ट। लिटि जघ्ने। लुङि तशब्दे परत: चिण्‌भावकर्मणो: (पा०सू० ३/१/६६) इति च्ले: चिण्‌ तस्य ‘चिणो लुग्‌’ इति लुक्‌ अघानि अवधि। अघानिषाताम्‌ अहसाताम्‌ अवधिसाताम्‌। हनिष्यते घानिष्यते। अहनिष्यत। अघानिष्यत। हन्ता। घानिता।

।। अनिटौ परस्मैभाषौ।।

द्विष अप्रीतौ। गुण: द्वेष्टि। ङित्वाद्गुणाभाव: द्विष्ट:। द्विषन्ति। लङि इतश्च (पा०सू० ३/४/१००) लोप: तिप्सिपोर्हल्ङ्यादिलोप: षकारस्य जश्त्वचर्त्वे अद्वेट्‌ अद्वेड्‌। अद्विष्टाम्‌। लङ: शाकटायनस्यैव (पा०सू० ३/४/१११) द्विषश्च (पा०सू० ३/४/११२) इति वा झेर्जुस्‌ अद्विषु:। अद्विषन्‌। लोटि द्वेष्टु। लिङि द्विष्यात्‌। द्विष्याताम्‌। आशिषि द्विष्यास्ताम्‌। लिटि दिद्वेष। दिद्विषतु:। दिद्वेषिथ। लुङि च्ले: क्स: अद्विक्षत्‌। द्वेक्ष्यतीत्यादि। तथा आत्मनेपदी द्विष्टे। द्विषाते। अद्विष्ट। अद्विषाताम्‌। द्विष्टाम्‌। द्विषाताम्‌। लिङि सीयुट्‌ सलोप: द्विषीत। द्विषीयाताम्‌। आशिषि द्विक्षीष्ट। लिङ्‌सिचावा० (पा०सू० १/२/११) इत्यादिना कित्वं लिटि अभ्यासे चर्च (पा०सू० ८/४/८४) इत्यत्र प्रकृतिजशां प्रकृतिजशो भवन्तीति दकारस्य दकार: दिद्विषे। लुङि च्ले: क्स: अद्विक्षत इत्यादि।

दुह प्रपूरणे। झलि पदान्ते च दादेर्धातोर्घ: (पा०सू० ८/२/३२) इति हकारस्य घत्वं झषस्तथोर्धोध: (पा०सू० ८/२/४०) झलां जश्‌ झशि (पा०सू० ८/४/५३) इति जश्त्वं घकारस्य गकार: अनचि च (पा०सू० ८/४/४७) इति द्वित्वं लघूपधगुण: दोग्धि। ङित्वादगुणत्वं दुग्ध:। दुहन्ति। मध्यमैकवचने घत्वभष्त्वचर्त्वानि धोक्षि। दुग्ध:। दुग्ध। दोह्मि। दुह्व:। दुह्म:। लङितिप्सिपोर्हल्ङ्यादिलोप: गुण: घत्वभष्भावजश्त्वचर्त्वविकल्पा: अधोक्‌। अदुग्धाम्‌। अदुहन्‌। पुनरपि अधोक्‌। लोटि दोग्धु। दुग्धात्‌। दुग्धाम्‌। दुहन्तु। सेर्हिरादेशे हेर्धिरादेश: ङित्वादगुणत्वं दुग्धि। लिङि दुह्यात्‌। दुह्याताम्‌। आशिषि दुह्यात्‌। दुह्यास्ताम्‌। लिटि दुदोह। दुदुहतु:। दुदुहु:। क्रादिनियमादिट्‌ दुदोहिथ। लुङि च्ले: क्स: अद्दुक्षत्‌। णौ चङि अदूदुहत्‌। धोक्ष्यति। दुग्धे। दुहाते। अदुग्ध। अदुहाताम्‌। दुग्धाम्‌। दुहाताम्‌। दुहीत। दुहीयाताम्‌। आशिषि धुक्षीष्ट। कित्वादगुणत्वं दुदुहे। अधुक्षत।

दिह उपचये। इकारस्य एकारो गुण: देग्धि। शेषं पूर्ववत्‌ देग्धि। दिग्ध:। दिहति। धेक्षि। दिग्ध:। दिहते इत्यादि।

लिह आस्वादने। हो ढ: (पा०सू० ८/२/३१) तकारस्य धत्वं ढलोप: तस्यासिद्धत्वात्‌ लघूपधगुण: लेढि। ङित्वाद्गुणाभाव: ढलोपदीर्घ:। लीढ:। लिहन्ति। लेक्षि लङि पदान्तविषये ढत्वजश्त्वचर्त्वानि अलेट्‌ अलेड्‌। अलीढाम्‌। अलिहन्‌। लोटि लेढु लीढात्‌। लीढाम्‌। लिहन्तु। सेर्हि: हेर्धि: ष्टुत्वं ढलोप: दीर्घ: लीढि। लीढाम्‌। लीढम्‌। लीढ। लिङि लिह्यात्‌। लिह्याताम्‌। लिह्यु:। कित्वात्‌ अगुणत्वं लिह्यात्‌। लिह्यास्ताम्‌। लिलेह। लिलिहतु:। लिलिहु:। लिलेहिथ। लुङि च्ले: क्स: अलिक्षत्‌। लेक्ष्यतीत्यादि। लीढे। लिहाते। लिहते। लिक्षे। अलीढ। अलिहाताम्‌। आशिषि अलिहत। लीढाम्‌। लिहाताम्‌। लिहताम्‌। लिहीत। लिहीयाताम्‌। लिहीरन्‌। आशिषि लिक्षीष्ट। लिलिहे। अलिक्षत इत्यादि। एषां दुहादीनां त्रयाणां लुङि वर्तमानानां तवर्गादात्मने पदे परत: क्सप्रत्ययस्यापीति वर्तमाने लुग्वा दुहदिह० (पा०सू० ७/३/७३) इत्यादिना क्सस्य वा लुग्भवति अदुग्ध। अदुग्धा:। अदुग्ध्वम्‌ इत्यादि ऊह्यम्‌ आतामादावात्मनेपदे क्सस्याचीति क्स प्रत्ययान्तलोपश्च अधुक्षाताम्‌। आतो ङित: (पा०सू० ७/२/८१) इत्येष विधिर्न भवति अधुक्षाथाम्‌। अधुक्षि इत्याद्यूह्यम्‌।

।। अनिट उभयतो भाषा:।।

चक्षिङ्‌ व्यक्तायां वाचि। शपो लुक्‌ संयोगादिलोप: तकारस्य ष्टुत्वम्‌ आचष्टे। आचक्षाते। आचक्षते। तथा थास: से (पा०सू० ३/४/८०) संयोगादिलोप: षढो: क: सि (पा०सू० ८/२/४१) इति कत्वम्‌ इण्को: (पा०सू० ८/३/५७) इति षत्वम् आचक्षे। लङि आचष्ट। आचक्षाताम्‌। आचक्षत। लोटि आचष्टाम्‌। आचक्षाताम्‌। आचक्ष्व। लिङि लिङ: सीयुट्‌ (पा०सू० ३/४/१०२) सलोप: आचक्षीत्‌। आचक्षीयाताम्‌। आचक्षीरन्‌। आशिषि चक्षिङ्‌ ख्याञ् इति ख्यादेश: तस्य ङित्वादुभयपदित्वम्‌ एर्लिङि (पा०सू० ६/४/६७) वान्यस्य संयोगादे: (पा०सू० ६/४/६८) इति एत्वविकल्प: आख्यायात्‌। आख्येयात्‌। आख्यासीष्ट। आख्यासीयास्ताम्‌। लिटि वा लिटि (पा०सू० २/४/५५) इति ख्याञादेशविकल्प: तेन त्रैरूप्यम् आचख्यौ। आचख्ये। आचचक्षे। लुङि अस्यतिवक्तिख्यातिभ्योऽङ्‌ (पा०सू० ३/१/५२) इति च्लेरङ्‌ आतो लोप इटि च (पा०सू० ६/४/६४) इत्याकारलोप: आख्यात्‌। आख्येताम्‌। आख्यन्‌। आख्यत। आख्याताम्‌। आख्यन्त। णौ चङि अचिख्यपत्‌। सनि चिख्यासति।

ईर गतौ। शपो लुक्‌ टेरेत्वं प्रेर्ते प्रेराते प्रेरते अनु।

ईड स्तुतौ। तकारस्य ष्टुत्वं डकारस्य चर्त्वं को अग्निमीट्टे। ईडाते। ईडते सुपाणिम्‌। ईश: से (पा०सू० ७/२/७७) ईडजनोर्ध्वे च (पा०सू० ७/२/७८) इडागम: ईडिषे। ईडाथे। ईडिध्वे। लङि आड्‌वृद्धि: अग्निमैट्ट। ऐडाताम्‌। ऐडत। लोटि ईट्टाम्‌। ईडाताम्‌। ईडताम्‌। लिङि अग्निमीडीत। ईडीयाताम्‌। ईडीरन्‌। आशिषि ईडिषीष्ट। लिटि ईडाञ्चक्रे। लुङि ऐडिष्ट। ईडिष्यत इत्यादि।

ईश ऐश्वर्ये। ईष्टे। ईशाते। ईशते। ईश: से (पा०सू० ७/२/७७) इतीट्‌ ईडिषे। ईशाथे। षत्वजश्त्वष्टुत्वानि ईड्‌वे। लङि ऐष्ट। ऐशाताम्‌। ऐशत। लोटि ईष्टाम्‌। ईशाताम्‌। ईशताम्‌। ईशीत। ईशीयाताम्‌। ईशीरन्‌। ईशिषीष्ट। ईशिषीयास्ताम्‌। ईशिषीरन्‌। ईशाञ्चक्रे। ऐशिष्ट। ऐशिशत। ईशिष्यते। ऐशिष्यत। ईशिता। ईशिषते।

आस उपवेशने। आस्ते। आसाते। आसते। लङि आस्त लोटि आस्ताम्‌। लिङि आसीत। आशिषि। आसिषीष्ट। लिटि दयायासश्च (पा०सू० ३/१/३७) इत्याम्‌ आसाञ्चक्रे। लुङि आसिष्ट।

आङ: शासु इच्छायाम्‌। आशास्ते। आयुराशास्ते। आशासाते। आशासते। मध्यमबहुवचने धि च (पा०सू० ८/२/२५) इति सोर्लोप: आशाध्वे।

वस आच्छादने। वस्ते। वसाते। वसते।

कसि गतिशासनयो:। उदाहरणमूह्यम्‌।

णिसि चुम्बने। वा निंस० (पा०सू० ८/४/३३) इत्यादिना उपसर्गात्परस्य वा णत्वं प्रणिंस्ते।

निजि शुद्धौ। निङ्क्ते। निञ्जाते। निञ्जते।

शिजि अव्यक्ते शब्दे। शिङ्क्ते। शिञ्जाते। शिञ्जते।

वृजि वर्जने। वृङ्क्ते। वृञ्जाते। वृञ्जते। लङि अवृङ्क्त। अवृञ्जाताम्‌। अवृञ्जत।

पृचि संपर्के। पृङ्क्ते। पृञ्चाते। पृञ्चते।

अजि वर्जने। अङ्क्ते अञ्जाते। अञ्जते एतेषामिदित्वात्‌ नुम्।

षूङ्‌ प्राणिगर्भविमोचने। सूते। अजादावुवङ्‌ सुवाते। सुवते। असूत। असुवाताम्‌। असुवत। सूताम्‌। सुवाताम। सुवताम्‌। उत्तमैकवचने आडुत्तमस्य (पा०सू० ३/४/९२) इत्याट्‌ पित्त्वादङित्वे सू ए इति स्थिते सार्वधातुके भवन् गुणो भूसुवोस्तिङि (पा०सू० ७/३/८८) इति निषिध्यते एवं वस्मसोरपि सुवै सुवावहै सुवामहै।

शीङ्‌ स्वप्ने। शीङ: सार्वधातुके गुण: (पा०सू० ७/४/२१) शेते। शयाते। शेरते। इत्यत्रात्मनेपदेष्वनत इत्यदादेशस्य शीङो रुट्‌ (पा०सू० ७/१/६) इति रुडागम:। लङि अशेत। अशयाताम्‌। अशेरत्‌। शयीत। शयिषीष्ट। शिश्ये। अशयिष्ट। शयिष्यते। यङि अयङ्‌पि क्ङितीत्ययङ्‌ शाशय्यते चङि अशीशयत्‌। चक्षिङ्‌।

।। वृङ्‌ वर्जं सेट आत्मनेभाषा:।।

द्यु अभिगमने। शपो लुक्‌ उतो वृद्धिर्लुकि हलि (पा०सू० ७/३/८९) इति गुणविषये वृद्धि: द्यौति। द्युत:। उवङ् द्युवन्ति। लङि अद्यौत्‌। अद्युताम्‌। अद्युवन्‌। लोटि द्यौतु। द्युतात्‌। द्युताम्‌। द्युवन्तु। लिङि। द्युयात्‌। द्युयाताम्‌। द्युयु:। आशिषि दीर्घ: द्यूयात्‌। द्यूयास्ताम्‌। लिटि दुद्याव। लुङि सिचि वृद्धि: अद्यौषीत्‌ इत्यादि।

यु मिश्रणे। पूर्ववद्वृद्धि: यौति। युत:। युवन्ति। अयौत् यौतेर्णौ चङि सन्वद्भावात्‌ ओ: पुयण्‌ ज्यपरे (पा०सू० ७/४/८०) इतीत्वम्‌ अयीयवत्‌।

रु शब्दे। रौति। रुत:। रुवन्ति।

णु स्तुतौ। प्रणौति। प्रणुत:। प्रणुवन्ति।

टुक्षु शब्दे। क्षौति। क्षुत:। क्षुवन्ति।

क्ष्णु तेजने। क्ष्णौति। क्ष्णुत:। क्ष्णुवन्ति। सम्पूर्वात्‌ सम: क्ष्णुव: (पा०सू० १/३/६५) इत्यात्मनेपदं संक्ष्णुते। संक्ष्णुवाते। संक्ष्णुवते।

स्तु प्रस्रवणे। प्रस्तौति प्रस्तुत: प्रस्तुवन्ति एतेषां युप्रभृतीनां वलादावार्धधातुके इडागमविधानात्‌ लुङि अयावीत्‌। अयाविष्टाम्‌। अयाविषु:। अरावीत्‌। अराविष्टामित्यादिरूपाणि। तथा लृलुटो: यविष्यति। अयविष्यत्‌। यविता। रविष्यति। अरविष्यत्‌। रविता इत्यादीनि रूपाणि। यौते: सनि सनीवन्तर्द्ध० (पा०सू० ७/२/४९) इतीट्‌पक्षे सन्यत: (पा०सू० ७/४/७९) ओ: पुयण्ज्यपरे (पा०सू० ७/४/८०) इत्यभ्यासस्य इत्वं यियविषति। इडभावे इको झल्‌ (पा०सू० १/२/९) इति कित्वात्‌ गुणाभाव:। अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ:। युयूषति। रुप्रभृतीनां श्र्युक: किति सनि ग्रहगुहोश्च (पा०सू० ७/४/११) इतीट्‌ प्रतिषेधात्‌ रुरूषति। नुनूषतीत्यादिसमानम्‌। रौतिस्तुत्यो: पितिसार्वधातुके तुरुस्तुशम्यम: सार्वधातुके (पा०सू० ७/३/९५) इति ईड्विकल्प: रवीति। स्तवीति इत्यादि शेषं नेयम्‌।

कु शब्दे। कौति। कुत:। कुवन्ति इत्यादि। यङि चोकूयते।

सु ऐश्वर्यदीप्त्यो:। पूर्ववत्‌ द्यौति।

।। कौतिसौतिवर्जं सेट: परस्मैभाषा:।।

ऊर्णुञ् आच्छादने। पूर्ववद्वृद्धिः प्रोर्णौति प्रौर्णोति। ऊर्णोतेर्विभाषा (पा०सू० ७/२/६) इति पक्षे गुण: प्रोर्णुत:। प्रोर्णुवन्ति। लङि गुणोऽपृक्ते (पा०सू० ७/३/९१) इति इड् विकल्पवृद्ध्यपवादो गुण: आड्‌ वृद्धि: प्रौर्णोत्‌। प्रौर्णुताम्‌। प्रौर्णुवन्‌। लोटि प्रोर्णोतु। प्रोर्णुतात्‌। प्रोर्णुताम्‌। प्रोर्णुवन्तु। प्रोर्णुयात्‌। प्रोर्णुयाताम्‌। प्रोर्णुयु:। आशिषि अकृत्सार्वधातुकयोर्दीर्घ: (पा०सू० ७/४/२५) प्रोर्णूयात्‌। प्रोर्णूयास्ताम्‌। प्रोर्णूयासु:। लिटि ऊर्णोतेराम्‌ प्रतिषेधार्थम्‌ ऊर्णुवद्भाव उच्यते अजादेर्द्वितीयस्यैकाचो द्विर्वचनं प्रोर्णुनाव। प्रोर्णुनुवतु:। प्रोर्णुनुव:। प्रोर्णुनविथ। ङित्वपक्षे प्रोर्णुनुविथ लुङि सिच इडागम: विज इट्‌ (पा०सू० १/२/२) विभाषोर्णो: (पा०सू० १/२/३) इति तस्य पक्षे ङित्वम्‌ ऊर्णोतेर्विभाषा (पा०सू० ७/२/६) इति पक्षे वृद्धि:। तेन त्रैरूप्यं ऊर्णावीत्‌। ऊर्णाविष्टाम्‌। ऊर्णाविषु:। और्णवीत्‌। और्णाविष्टाम्‌। और्णाविषु:। और्णवीत्‌। और्णविष्टाम्‌। और्णविषु:। ऊर्णविष्यति। और्णविष्यत्‌। ऊर्णुविता ऊर्णविता। सनि सनीवन्तर्ध: (पा०सू० ७/२/४९) इत्यादिना इट्‌पक्षे प्रोर्णुनविषति। प्रोर्णुनुविषति। इडभावे प्रोर्णुनूषति। वाच्य ऊर्णोर्णवद्भावो यङ्‌प्रसिद्धि: प्रयोजनमिति वचनात्‌ ‘ऊर्णोतीनामुपसंख्यानम्‌’ (वा०) इति यङ्‌ प्रोर्णूनूयते। तथात्मनेपदे प्रोर्णुते। प्रोर्णुवाते इत्यादि। आशिषि प्रोर्णुविषीष्ट। लिटि उपसर्गात्सुनोति (पा०सू० ८/३/६५) इति प्रोर्णुनुवे। लुङि प्रोर्णविष्ट प्रोर्णुविष्ट। प्रोर्णुविष्यते। प्रोर्णुविष्यते इत्यादि।

ष्टुञ् स्तुतौ। स्तौति। स्तुत:। स्तुवन्ति। उपसर्गादिण: परस्य उपसर्गात्‌ सुनोति (पा०सू० ८/३/६५) इति षत्वं अभिष्टौति। लङि अड्‌व्यवायेऽपीति षत्वम् अभ्यष्टौत्‌। अभ्यैष्टुताम्‌। अभ्यष्टुवन्‌। लोटि स्तौतु। स्तुतात्‌। स्तुताम्‌। स्तुवन्तु। लिङि स्तुयात्‌। स्तुयाताम्‌। स्तुयु:। आशिषि दीर्घ: स्तूयात्‌। स्तूयास्ताम्‌। शर्पूर्वा: खय: शिष्यते अचो ञ्णिति’(पा०सू० ७/२/११५) अन्ये लुप्यन्ते तुष्टाव। तुष्टुवतु:। तुष्टवु:। थलि क्र्यादिसूत्रेण प्रतिषेध: तुष्टोथ। एवं क्र्यादिसूत्रपठितानां थलि करोतेस्तु सुटोन्यत्र लुङि स्तुसुधूञ्भ्य: परस्मैपदेषु (पा०सू० ७/२/७२) इतीट्‌ सिचि वृद्धि: इट ईटि (पा०सू०८ २/२८/) अस्तावीत्‌। अस्ताविष्टाम्‌। णौ चङि अतुष्टुवत्। स्तोष्यतीत्यादि। स्तुते। स्तुवाते। स्तुवते। अस्तुत। अस्तुवाताम्‌। अस्तुवत। स्तुताम्‌। स्तुवाताम्‌। स्तुवताम्‌। स्तुवीत। स्तुवीयाताम्‌। स्तुवीरन्‌। आशिषि स्तोषीष्ट। स्तोषीयास्ताम्‌। ध्वमि मूर्धन्य: स्तोषीढ्वम्‌। लिटि तुष्टुवे। तुष्टुवाते। ध्वमि प्राग्वदिट्‌प्रतिषेधो मूर्धन्यश्च तुष्टुढ्‌वे। लुङि अस्तोष्ट। अस्तोषाताम्‌। ध्वमि अस्तोढ्‌वं शेषं नेयम्‌।

ब्रूञ् व्यक्तायां वाचि। पिति सार्वधातुके ब्रुव ईट्‌ (पा०सू० ७/३/९३) ब्रवीति। ब्रूत:। ब्रुवन्ति। अब्रवीत्‌। अब्रूताम्‌। ब्रवीतु ब्रूतात्‌। ब्रूताम्‌। ब्रूयात्‌। ब्रूयाताम्‌। ब्रूयु:। आशिषि ब्रुवो वचि: सम्प्रसारणम्‌। उच्यात्‌। उच्यास्ताम्‌। तथा ब्रूते। ब्रुवाते। अब्रूत। अब्रूवाताम्‌। ब्रूताम्‌। ब्रुवाताम्‌। ब्रवीत। ब्रवीयाताम्‌। आशिषि वक्षीष्ट। वक्षीयास्ताम्‌। सम्प्रसारणमेकादेश: ऊवे। ऊवाते। लुङि अस्यतिवक्तिख्यातिभ्योऽङ्‌ (पा०सू० ३/१/५२) इतीत्यङ्‌ वच उम्‌ (पा०सू० ७/४/२०) इत्युमागम: अवोचत। आतो ङित: (पा०सू० ७/२/८१) अवोचेताम्‌। वक्ष्यति। अवक्ष्यत। लटि ब्रुव: पञ्चानामादित आहो ब्रुव: (पा०सू० ३/४/८४) इत्याहादेशपक्षे तिबादीनां णलादय:। आह। आहतु:। आहु:। सिपस्थलि इति हकारस्य थकार: आत्थ।

।। एकस्सेट्‌ इतरावनिटौ उभयतोभाष:।।

इण्‌ गतौ। णकार:। इणो यण्‌ (पा०सू० ६/४/८१) इति विशेषणार्थ:। शपो लुक्‌ सार्वधातुकगुण: एति। ङित्त्वादगुणत्वम्‌ इत:। इको यणादेशं बाधित्वा इयङि प्राप्ते इणो यण्‌ (पा०सू० ६/४/८१) इति पुनर्यणादेश: यन्ति। लङि ऐत्‌। ऐताम्‌। इणो यणादेशस्य असिद्धवदत्राभात्‌ (पा०सू० ६/४/२२) इत्यसिद्धत्वादाट्‌ आयन्‌। एतु। इतात्‌। इताम्‌। यन्तु। इयात्‌। इयाताम्‌। ईयु:। आशिषि दीर्घ: ईयात्‌। ईयास्ताम्‌। उपसर्गात्परस्य उपसर्गाद्ध्रस्व (पा०सू० ७/४/२३) ऊहतेर्लिङि इति ह्रस्व: उदियात्‌। लिटि तिपि णल्परत्त्वात्‌ वृद्धौ सत्यां द्विर्वचनेऽचीति स्थानिवद्भावाधिकारस्य द्विरुक्ति: अभ्यासस्यासवर्णे (पा०सू० ६/४/७८) इति इयङ् इयाय। किति लिटि दीर्घगुण: कितीति दीर्घ: ईयतु:। ईयु:। ईयिथ इणो गा लुङि (पा०सू० २/४/४५) इति गाङादेश: गातिस्था० (पा०सू० २/४/७७) इत्यादिना सिचो लुक्‌ अगात्‌। अगाताम्‌। आत: (पा०सू० ३/४/११०) इति झेर्जुस्‌ अगु:। णौ चङि णौ गमिरबोधने (पा०सू० २/४/४६) इति अजीगमत बोधने तु प्रत्यायियत्‌ एष्यतीत्यादि सनि सनिचेति गमिरादेश:। गमेरिट परस्मैपदेषु (पा०सू० ७/२/५८) इतीडागम: जगमिषति। बोधने तु प्रतीषिषति। प्रयोजनमिदमेव सनोकारस्य नान्यत्‌।

।। अनिट्‌ परस्मैभाष:।।

इङ्‌ अध्ययने। इङिकावध्युपसर्गं न व्यभिचरत: टेरेत्वम्‌ अधीते। अधीयाते। अधीयते। आड्‌ वृद्धि: अध्यैत। अध्यैयाताम्‌। अध्यैयत। अधीताम्‌ अधीयाताम्‌। लिङि अधीयीत। अधीयाताम्‌। अधीयीरन्‌। अशिषि अध्येषीष्ट। अध्येषीयास्ताम्‌। अध्येषीरन्‌। ध्वमि अध्यैषीढ्वम्‌। लिटि इङश्च (पा०सू० २/४/४८) गाङ्‌ लिटि (पा०सू० २/४/४९) इति गाङादेश: आतो लोपस्य स्थानिवद्भावात्‌ द्विर्वचनं अधिजगे। अधिजगाते। अधिजगिरे। लुङि विभाषा लुङ्‌लृङो: (पा०सू० २/४/५०) इति गाङादेशपक्षे गाङ्‌कुटादिभ्य (पा०सू० १/२/१) इति सिचो ङित्वं घुमास्थागापाजहातिसां हलि (पा०सू० ६/४/६६) इति ईत्वं अध्यगीष्ट। अध्यगीषाताम्‌। अध्यगीषत। गाङभावपक्षे अध्यैष्ट। अध्यैषाताम्‌। अध्यैषत। णौ चङि णौ च संश्चङो: (पा०सू० ६/१/३१) इति गाङादेश पक्षे ङित्वादीत्वं1382 अध्यगीष्यत न भवति अध्येष्यत। अध्येताम्‌। सनि सनि च (पा०सू० २/४/४७) इङश्च (पा०सू० २/४/४८) इति गमिरादेश: अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ: अधिजिगांसते।

।। अनिडात्मनेभाषा:।।

इक स्मरणे। ककार: अधीगर्थदयेशां० (पा०सू० २/३/५२) कर्मणीति विशेषणार्थ: अध्येति। अधीत:। अधीयन्ति। ये तु इण्वदिट्‌ इति सामान्येनादेशमिच्छन्ति तन्मते इणो यण्‌ (पा०सू० ६/४/८१) इति यणादेश: अधियन्ति। लङि अध्यैत्‌। अध्यैताम्‌। अध्यैयन्‌। इयङादेश: यणादेशपक्षे अध्यायन्‌। लोटि अध्यैतु। अधीतात्‌। अधीताम्‌। अधियन्तु। वा लिङि अधीयात्‌। अधीयाताम्‌। अधीयु:। आशिषि अधीयात्‌। अधीयास्ताम्‌। अधीयासु:। लिटि अधीयाय। अधीयतु:। अधीयु:। दीर्घ इण: किति (पा०सू० ७/४/६९) इति दीर्घ: अधीययिथ अधीयेथ। लुङि इण्वदिक इत्यतिदेशात् गाङादेश: गातिस्था० (पा०सू० २/४/७७) इति सिचो लुक्‌ अध्यगात्‌। अध्यगाताम्‌। अध्यगु:। णौ चङि अतिदेशादेव णौ गमिरबोधने (पा०सू० २/४/४६) इति गमिरादेश: अध्यजीगमत्‌। अध्येष्यति। अध्यैष्यत्‌। अध्येता। सनि अतिदेशात्‌ सनि चेति गमिरादेश: अधिजिगमिषति।

वी गतिप्रजनकान्त्यशनखदनेषु। शपो लुक्‌ सार्वधातुकगुण: वेति। ङित्वादगुणत्वं वीत:। अजादाववियङ्‌ वियति। अवेत्‌। अवीताम्‌। अवीयन्‌। आवेतु। वेतु। वीताद्‌। वीताम्‌। वियन्तु। वीयात्‌। वियाताम्‌। वीयु:। आशिषि वीयात्‌। वीयास्ताम्‌। वीयासु:। लिटि विवाय। एरनेकाचो० (पा०सू० ६/४/८२) इति यण विव्यतु:। अत्र स्थानिवद्भावाद्द्विर्वचनं विव्यु:। विवयिथ। वेविथ। लुङि सिचि वृद्धि: अवैषीत्‌। णौ चङि प्रजनार्थे प्रजने वीयतेरित्यात्वपक्षे पुक्‌ प्रावीवयत्‌। अन्यत्र प्रावीवयत्‌। वेष्यतीत्यादि।

वा गतिगन्धनयो:। वाति। वात:। वान्ति। लङि अवात्‌। अवाताम्‌। लङ: शाकटायनस्यैव (पा०सू० ३/४/१११) इति झेर्जुस्‌ अवु:। अन्यत्र अवात्‌। वातु वाताद्‌। वाताम्‌। वान्तु। लिङि वायात्‌। वायाताम्‌। वायु:। आशिषि वायात्‌। वायास्ताम्‌। वायासु:। लिटि आत औ णल: (पा०सू० ७/१/३४) ववौ। ववतु:। ववु:। ववाथ वविथ। लुङि सगिटौ अवासीत्‌। अवासिष्टाम्‌। अवासिषु:। वास्यति। अवास्यत्‌। इत्यादि।

या प्रापणे।

भा दीप्तौ।

पा रक्षणे।

रा दाने।

ला आदाने।

दाप लवने।

मा माने। एते पूर्ववत्। अयं तु विशेष: पातेर्णौ चङि पातेर्लुग्वक्तव्य इति पुकं बाधित्वा लुगागम: अपीपलत्‌। लातेस्तु ला लीलोर्नुग्लुकावन्यतरस्यां स्नेहनिपातने (पा०सू० ७/३/३९) इति लुगागम: अलीललत्‌। मातेराशिषि एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं मेयात्‌। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यं मित्सति। यङि घुमास्थादीत्वं मेयीयते।

ष्णा शौचे। सत्वं निमित्ताभावात्‌ णत्वनिवृत्ति: स्नाति। अस्नात्‌। स्नातु। स्नायात्‌। आशिषि वान्यस्य संयोगादे: (पा०सू० ६/४/६८) इति वा एत्वं स्नायात्‌। स्नेयात्‌। लिटि सस्नौ। सस्नतु:। सस्नु:। सस्नाथ सस्निथ। लुङि अस्नासीत्‌। अस्नासिष्टाम्‌। स्नास्यति। अस्नास्यत्‌। स्नाता। सिष्णासति। सास्नायते।

श्रा पाके।

द्रा कुत्सायां गतौ।

प्सा भक्षणे।

ख्या प्रकथने।

प्रा पूरणे। पूर्ववत्‌।

विद ज्ञाने। वेत्ति। वित्त:। विदन्ति इत्यादि। विदो लटो वा (पा०सू० ३/४/८३) इति वा णलादय: वेद। विदतु:। विदु:। वेत्थ। विदथु:। विद। वेद। विद्व। विद्म। लङि अवेत्‌। अवित्ताम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस् अविदु:। वेत्तु वित्तात्‌। वित्ताम्‌। विदन्तु। विद्यात्‌। विद्याताम्‌। विद्यु:। विद्यात्‌। विद्यास्ताम्‌। लिटि उषविदजागृभ्योऽन्यतरस्याम्‌ (पा०सू० ३/१/३८) इति वा विदाञ्चकार। अदन्तत्वादगुणत्वं विवेद। विवेदतु:। विविदु:। विवेदिथ। लुङि सिच इट्‌ अवेदीत्‌। वेदिष्यति। अवेदिष्यत्‌। वेदिता। सनि रुदविद० (पा०सू० १/२/८) इत्यादिना नित्यं कित्वं विविदिषति। सम्पूर्वात्‌ समो गम्यृच्छि० (पा०सू० १/३/२९) इत्यादिनात्मनेपदम्‌। संवित्ते। संविदाते। शीङो रुट्‌। वेत्तेर्विभाषा (पा०सू० ७/१/७) इति झादेशस्यातो वा रुडागम: संविदते संविद्रते। लङि समवित्त। समविदाताम्‌। समविदत समविद्रत। लोटि संवित्ताम्‌। संविदाताम्‌। संविदताम्‌। संविद्रताम्‌। संविदीत। संविदीयाताम्‌। संविदीरन्‌। आशिषि संविदिषीष्ट। संविदिषीयास्ताम्‌। संविदिषीरन्‌। लिटि संविविदे। संविविदाते। लुङि समवेदिष्ट इत्यादि। लोटि विदांकुर्वन्त्वित्यन्यतरस्याम्‌ (पा०सू० ३/१/४१) इति वचनात्‌ विदाङ्करोतु विदाङ्कुरुतात्‌। विदाङ्कुरुताम्‌। विदाङ्कुर्वन्तु इत्यादि भवति।

अस भुवि। अस्ति। सार्वधातुके ङिति श्नसोरल्लोप: (पा०सू० ६/४/१११) स्त:। अच्परे यपरे च उपसर्गप्रादुर्भ्यामस्तिर्यच्परस्य इति षत्वं विषन्ति। प्रादुष्षन्ति। सिचितासस्त्योर्लोप इति सलोप: असि। स्थ:। अस्मि। स्व:। लङि अस्ति सिचोऽपृक्ते (पा०सू० ७/३/९६) इतीट्‌ आट्‌वृद्धि: आसीत्‌। आस्ताम्‌। आसन्‌। लोटि अस्तु स्तात्‌। स्ताम्‌। सन्तु। एधि। अत्र सेर्हिरादेश: हुझल्भ्यो हेर्धि: (पा०सू० ६/४/१०१) इति हेर्धिरादेश: घ्वरसोरेद्धावभ्यासलोपश्च (पा०सू० ६/४/११९) इत्येत्वं धि च (पा०सू० ८/२/२५) इति सलोप: एधि। लिङि षत्वं प्रादुष्यात्‌। आशिषि अस्तेर्भू: (पा०सू० २/४/५२) भूयात्‌। शेषं भवतिवत्‌ अनुप्रयोगविषय भू भावो नास्ति।

मृजूष्‌ शुद्धौ। गुणविषये मृजेर्वृद्धि: (पा०सू० ७/२/११४) व्रश्चादिना षत्वं तकारस्य ष्टुत्वं मार्ष्टि। ङित्वात्‌ वृद्ध्यभाव: मृष्ट:। मृजन्ति। मृजेरजादौ संक्रमे विभाषा वृद्धिरिष्यत इति वचनात् पक्षे वृद्धि: मार्जन्ति मृजन्ति। षत्वकत्वषत्वानि मार्क्षि। मृष्ट:। मृष्ट। मार्ज्मि। मृज्व:। मृज्म:। लङि तिप्सिपोर्हलङ्यादिलोप: रात्सस्य (पा०सू० ८/२/२४) इति नियमात् संयोगान्तलोपाभाव: न्यमार्ष्ट। न्यमृष्टाम्‌। न्यमृजन्‌। पुनरपि न्यमार्ष्ट। लोटि मार्ष्टु। मृष्टात्‌। मृष्टाम्‌। मृजन्तु। लिङि मृज्यात्‌। आशिषि मृज्यात्‌। मृज्यास्ताम्‌। लिटि ममार्ज। ममृजतु:। ममृजु:। ममार्जतु:। ममार्जु:। ऊदित्वादिड्विकल्प: ममर्जिथ। ममार्ष्ठ। लुङि अमार्जीत्‌। अमार्जिष्टाम्‌। अमार्जिषु:। इडभावे अमार्क्षीत्‌। अमार्ष्टाम्‌। अमार्क्षु:। णौ चङि अमीमृजत्‌। अममार्जत्‌। लृलुटो: मार्क्ष्यति। मार्जिष्यति। अमार्क्ष्यत्‌। अमार्जिष्यत्‌। मार्ष्टा। मार्जिता। सनि मिमार्जिषति मिमृक्षति। यङि अभ्यासस्य रीक्‌ मरीमृज्यते।

वच परिभाषणे। वक्ति। वक्त:। वचन्ति। अवक्‌ अवट्‌। अवक्ताम्‌। अवचन्‌। वक्तु वक्तात्‌। वक्ताम्‌। वचन्तु। वच्यात्‌। वच्यास्ताम्‌। वच्यासु:। आशिषि कित्वं सम्प्रसारणं वच्यादिसूत्रेण उच्यात्‌। उच्यास्ताम्‌। उच्यासु:। लिटि अभ्यासस्य सम्प्रसारणम्‌ उवाच। किति सम्प्रसारणम्‌ एकादेश: ऊचतु:। ऊचु:। उवचिथ उवक्थ। शेषं नेयम्‌।

रुदिर् अश्रुविमोचने। रुदादयो जक्षिपर्यन्ता वक्ष्यमाणा पञ्च तेभ्य: परस्य वलादे: सार्वधातुकस्य रुदादिभ्य: सार्वधातुके (पा०सू० ७/२/७६) इतीट्‌। तत एवापृक्ते अपर: अस्तिसिचोपृक्त इत्यधिकृत्य रुदश्च पञ्चभ्य: (पा०सू० ७/३/९८) अड्‌गार्ग्यगालवयो: (पा०सू० ७/३/९९) इति इडिटौ भवत:। रोदिति। रुदत:। रुदन्ति। अरोदीत्‌। अरुदिताम्‌। अरुदन्‌। रोदितु रुदितात्‌। रुदिताम्‌। रुदन्तु। लिङि रुद्यात्‌। रुद्याताम्‌। रुद्यु:। आशिषि रुद्यात्‌। रुद्यास्ताम्‌। लिटि रुरोद। रुरुदतु:। रुरुदु:। रुरोदिथ। लुङि अरोदीत्‌। इरितो वा (पा०सू० ३/१/५७) इत्यङ्‌ अरुदत्‌। णौ चङि अरूरुदत्‌। रोदिष्यतीत्यादि। रुदविद० (पा०सू० १/२/८) इत्यादिना नित्यं सन: कित्वं रुरुदिषति।

ञिष्वप्‌ शये। स्वपिति। स्वपित:। स्वपन्ति। लङि अस्वपीत्‌। अस्वपत्‌। स्वपितु स्वपितात्‌। स्पपिताम्‌। स्वपन्तु। स्वप्यात्‌। स्वप्याताम्‌। आशिषि कित्वात्‌ सम्प्रसारणं सुप्यास्ताम्‌। सुष्वाप। कित्वात्संप्रसारणं सुषुपतु:। सुषुपु:। सुष्वपिथ सुष्वप्थ। लुङि अस्वाप्सीत्‌। णौ चङि स्वापेश्चङि (पा०सू० ६/१/१८) इति सम्प्रसारणम् असूषुपत्‌। स्वप्स्यतीत्यादि। सनि रुदविद (पा०सू० ६/१/१८) इति कित्वात्‌ सम्प्रसारणं सुषुप्सति। यङि स्वपिस्यमिव्येञां यङि (पा०सू० ६/१/१९) इति सम्प्रसारणं सोषुप्यते।

श्वस प्राणने। श्वसिति। अश्वसीत्‌। अश्वसत्‌। श्वसितु। श्वस्यात्‌। शश्वास। शश्वसतु:। शश्वसु:। शश्वसिथ। लुङि हलन्तलक्षणाया वृद्धे: नेटि (पा०सू० ७/२/४) इति नित्यप्रतिषेधप्रसक्तौ अतो हलादेर्लघो: (पा०सू० ७/२/७) इति विकल्पवृद्धिप्रतिषेध: प्राप्त: स च ह्यन्तक्षणश्वस० (पा०सू० ७/२/५) इति निषिध्यते तेन नेटि (पा०सू० ७/२/४) इति नित्यप्रतिषेधो निरङ्कुश: अश्वसीत्‌। श्वसिष्यतीत्यादि।

अन च। रेफवदुपसर्गात्‌ परस्य अनिते: (पा०सू० ८/४/१९) इति णत्वं प्राणिति। प्राणित:। प्राणन्ति। लङि अटिटौ भवत: प्राणीत्‌। प्राणत्‌। प्राणिताम्‌। प्राणन्‌। प्राणितु प्राणितात्‌। प्राणिताम्‌। प्राणन्तु। प्राण्यात्‌। प्राण्याताम्‌। प्राण्यात्‌। प्राण्यास्ताम्‌। लिटि प्राण। प्राणतु:। प्राणु: लुङि प्राणीत्‌। प्राणिष्टाम्‌। प्राणिषु:। णौ चङि उभौ साभ्यासस्य (पा०सू० ८/४/२०) इति णत्वं प्राणिणत्‌। प्राणिष्यतीत्यादि।

जक्ष भक्ष हसनयो:। जक्षिति। जक्षित:। जक्षित्यादीनां वेवीङ्‌पर्यन्तानां जाक्षित्यादय: षड्‌ (पा०सू० ६/१/६) इत्यभ्यस्तसंज्ञायां लकारे अदभ्यस्तात्‌ (पा०सू० ७/४/१) इति झेरदादेश: ङि1467ल्लकारे तु सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्‌ एवमुत्तरत्रापि जक्षति। लङि अजक्षीत्‌। अजक्षत्‌। अजक्षिताम्‌। अजक्षु:। जक्षितु जक्षितात्‌। जक्षिताम्‌। जक्षतु। जक्ष्यात्‌। शेषं नेयम्‌। रुदिस्वपिश्वसिप्राणिजक्षीणां सार्वधातुके वलादाविट्‌ अपृक्तेस्तु विधेयावीडागमौ।

जागृ निद्राक्षये। जाग्रोऽविचिण्णलङित्सु (पा०सू० ७/३/८५) इति वृद्धिविषयो गुणप्रतिषेधविषये च गुणो विधीयते। अत्र वृद्धिविषये चिण्णलौ गुणवृद्धिप्रतिषेधविषये ङित: पर्युदस्यति अविचिण्णलङिस्वित्यनेन विप्रत्ययस्तु औणादिक: जागर्ति। सार्वधातुकमपित्‌ (पा०सू० १/२/४) इति ङित्वं तेन गुणाभाव: जागृत:। यणादेश: जाग्रति। लङि तिप्सिपोर्हल्ङ्यादिलोप: गुण: रपरत्वं रेफस्य विसर्जनीय: अजाग:। अजागृताम्‌। जसि च (पा०सू० ७/३/१०९) इति गुण: अजागरु:। अजागरत्वम्‌। लोटि जागर्तु जागृतात्‌। जागृताम्‌। जाग्रतु। सेर्हि: तस्यापित्वात्‌ ङित्वं तेन गुणाभाव: जागृहि। लिङि जागृयात्‌। जागृयाताम्‌। जागृयु:। आशिषि किदाशिषि (पा०सू० ३/४/१०४) यासुट: कित्वात्‌ गुणाभाव: जागृयात्‌। जागृयास्ताम्‌। लिटि उषविद० (पा०सू० ३/१/३८) इत्यादिना आं जागराञ्चकार। आमभावे जजागर णलि वृद्धि: कित्वात्‌ गुण: जजागरतु:। जजागरु:। जजागरिथ। लुङि इडागम: ह्म्यन्तक्षण० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध: अजागरीत्‌। अजागरिष्टाम्‌। णौ चङि अजजागरत्‌। जागरिष्यतीत्यादि। यङ्‌ नास्ति अनेकाच्त्वात्‌ इट्‌प्रतिषेधश्च।

दरिद्रा दुर्गतौ। दरिद्राति। हलादौ सार्वधातुके क्ङिति इद्‌दरिद्रस्य (पा०सू० ६/४/११४) इति इकारान्तादेश: दरिद्रित:। श्नाभ्यस्तयोरात: (पा०सू० ६/४/११२) इत्याकारलोप: दरिद्रति। लङि अदरिद्रात्‌। अदरिद्राताम्‌। अदरिद्रु:। लोटि दरिद्रातु दरिद्रितात्‌। दरिद्रिताम्‌। दरिद्रतु। लिङि दरिद्रियात्‌। दरिद्रियाताम्‌। दरिद्रियु:। उसि पररूपत्वम्‌ आशिषि दरिद्रातेरार्धधातुके लोप: सिद्धस्सिद्धश्च प्रत्ययविधावितिवचनादाल्लोप: दरिद्र्यात। दरिद्र्यास्ताम्‌। लिटि इकारस्य कास्यनेकाच इति वक्तव्यम्‌ (वा०)। चुलुम्पाद्यर्थमिति वचनात्‌ दरिद्राञ्चकार। लुङि अद्यतन्यां वेति वचनादाल्लोपपक्षे अदरिद्रीत्‌। इतरत्र यमरम० (पा०सू० ७/२/७३) इत्यादिना सगिटौ अदरिद्रासीत्‌। णौ चङि अदरिद्रत्‌। अग्लोपित्वाद् न सन्वद्भाव: लृलुटोराल्लोप: सत्यपि स्वरान्तत्त्वेऽनेकाच्त्वात् अनिट्‌त्वाभाव: दरिद्रिष्यति। अदरिद्रिष्यत्‌। दरिद्रिता। सनीवन्तर्ध० (पा०सू० ७/२/४९) इत्यत्र तनिपत दरिद्राणाम्‌ इति इड्विकल्प: दिदरिद्रासति। दिदरिद्रिषति। न दरिद्रायते। लोपो दरिद्राणे च नेष्यते। दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा।

चकासृ दीप्तौ। चकास्ति। चकास्त:। चकासति। लङि तिपि वसुस्रंसुध्वंस्वनडुहांद: (पा०सू० ८/२/७२) तिप्यनस्तेरिति सकारस्य दत्त्वम्‌ अचकात्‌। अचकास्ताम्‌। अचकासु:। सिपि धातोरुर्वा इति दत्वरुत्वे अचकात्‌। अचकास्ताम्‌। लोटि चकास्तु चकास्तात्‌। चकास्ताम्‌। चकासतु। लिङि चकास्यात्‌। आशिषि चकास्यात्‌। चकास्यास्ताम्‌। लिटि पूर्ववदां चकासाञ्चकार। लुङि अचकासीत्‌। णौ चङि नाग्लोपि० (पा०सू० ७/४/२) इत्युपधाह्रस्वप्रतिषेध: अचीचकासत्‌। चकासिष्यतीत्यादि।

शासु अनुशिष्टौ। शपो लुक्‌ शास्ति। हलादौ क्ङिति शास इदंहलो: (पा०सू० ६/४/३४) इति उपधाया इत्वम्‌ इण्को: (पा०सू० ८/३/५७) शासिवसि (पा०सू० ८/३/६०) इत्यादिना षत्वं ष्टुत्वं च शिष्ट:। शासति। शास्सि प्रदिश:। लङि तिपि पूर्ववधत्वं अशात्‌। अशिष्टाम्‌। अशासु:। सिपि पूर्ववधत्वरुत्वे अशात्‌। अशास्त्वम्‌। लोटि शास्तु। शिष्टात्‌। शिष्टाम्‌। शासतु। सेर्हिरादेश: शासे: शाहौ (पा०सू० ६/४/३५) इति शादेश:। तस्य असिद्धवदत्राभात्‌ (पा०सू० ६/४/२२) इत्यसिद्धत्वात्‌ हुझल्भ्यो हेर्धि: (पा०सू० ६/४/१०१) इति धिरादेश: शाधि लिङि इत्वषत्वे शिष्यात्‌। शिष्याताम्‌। आशिषि शिष्यात्‌। शिष्यास्ताम्‌। लिटि कित्वं शशास। लुङि सर्तिशास्त्यर्तिभ्यश्च (पा०सू० ३/१/५६) इति च्लेरङ्‌ पूर्ववदित्वषत्वे अशिषत्‌। अशिषताम्‌। णौ चङि उपधाह्रस्वप्रतिषेध: अशशासत्‌। शासिष्यतीत्यादि। विदिरुद्यस्तादेशा: श्वसादयश्च सेट:।

।। ऊदिद्वर्जमितरेऽनिट: परस्मैभाषा:।।

दीधीङ्‌ दीप्तिदेवनयो:। आदिधिते। एरनेकाचो० (पा०सू० ६/४/८२) इति यण्‌ आदिध्याते। आदीध्यते। लङि आदिधीत। आदीध्यताम्‌। आदिध्यत। लोटि अदिधीताम्‌। आदिध्यताम्‌। लिङि यीवर्णयोर्दीधीवेव्यो: (पा०सू० ७/४/५३) इतीकार सीयुट्‌ सकार लोप: अदिधीत। पूर्ववदीकारलोप:। आदीधीयाताम्‌। आदीधीरन्‌। आशिषि इडागम: पूर्ववदन्तलोप: आदीधिषीष्ट। लिटि आदिदीध्ये। लुङि आदिधिष्ट। आदीधिषाताम्‌। णौ चङि आदिदीधत्‌। आदीधिष्यत्। आदीधिता। आदीधिषते।

वेवीङ्‌ वेतिना तुल्ये। तुल्य: प्रोच्यते।

।। सेटावात्मनेभाषौ।।

वश कान्तौ। व्रश्चादिना षत्वं वष्टि। ग्रहिज्यादिसूत्रेण सम्प्रसारणं षत्वष्टुत्वे उष्ट:। उशन्ति। लङि षत्वजश्त्वचर्त्वानि अवट्‌। आड्‌ वृद्धि: औष्टाम्‌। औशन्‌। लोटि वष्टु उष्टात्‌। उष्टाम्‌। उशन्तु। उढ्ढि। लिङि उश्यात्‌। उश्याताम्‌। उश्यु:। आशिषि उश्यात्‌। उश्यास्ताम्‌। उश्यासु:। लिटि अभ्यासस्य सम्प्रसारणं उवाश। ग्रहिज्यादिना सम्प्रसारणं ऊशतु:। ऊशु:। उवशिथ। लुङि अवशीत्‌। अवाशीदित्यादि। यङि न वश: (पा०सू० ६/१/२०) इति प्रतिषेधात्‌ सम्प्रसारणाभाव: वावश्यते।

शास्ति शासने।

सस स्वप्ने। उदाहरणमूह्यम्‌।

।। सेट: परस्मैभाषा:।।

चर्करीतं च। परस्मैपदमदादिवच्च द्रष्टव्यम्‌। चर्करीतं इति यङ्‌लुक्‌ पूर्वाचार्यसंज्ञा।

ह्नुङ्‌ अपनयने। ङित्वाद्गुणाभाव:। निह्नुते। इको यणपवाद उवङ्‌ निह्नुवाते।

झस्यादादेश: निह्नुवते। न्यह्नुत। निह्नुताम्‌। निह्नुवीत। आशिषि निह्नोषिष्ट। ध्वमि निह्नोषिषीढ्वम्‌। लिटि निजुह्नुवे। ध्वमि वा मूर्धन्य: निजिह्नुविध्वे। निजिह्नुविड्‌ढ्‌वे। क्र्यादिनियमादिट्‌ लुङि न्यह्नोष्ट। न्यह्नोषाताम्‌। णौ चङि अजुह्नुवत्‌। निह्नोष्यति। न्यह्नोष्ट। न्यह्नोषाताम्‌। णौ चङि अजुह्नुवत्‌। निह्नोष्यते। न्यह्नोष्यत। निह्नोता। निजिह्नुषते। यङि निजोह्नुयत इत्यादि।

इति हरियोगिन: प्रोलनाचार्यस्य कृतौ धातुप्रत्ययपञ्चिकायां लुग्विकरणा अदादय: समाप्ता:।।