पाणिनीयधातुपाठस्य व्याख्यानं शाब्दिकाभरणम्‌

पूर्वोक्तविवरणेन स्फुटं यत्‌ पाणिनीयं धातुपाठमाश्रित्य नैका: वृत्तय: विरचिता:। तासु अनेका: वृत्तय: लुप्ता: नैका: प्रकाशिताश्च। काश्चन अप्रकाशिताश्चापि सन्ति। लुप्तानां नाममात्रेणैवोल्लेख: उपलभ्यते। यथा सुनाग-भीमसेन-प्रभृतीनाम्‌ आचार्याणां वृत्तय: काशिकामाधवीयधातुवृत्तिक्षीरतरङ्गिणीक्रियारत्नसमुच्चयामरटीकासर्वस्वप्रभृतिषु ग्रन्थेषूल्लिखिता:, परञ्च अद्यत्वे नैवोपलभ्यन्ते।

सम्प्रति प्रकाशितासु धातुवृत्तिषु क्षीरतरङ्गिणी-धातुप्रदीप-दैव-पुरुषकार- माधवीयधातुवृत्तिप्रभृतय: मुख्या:। एता: वृत्ती: अतिरिच्य पाणिनीयधातु-पाठस्योपरि अतीव महत्त्वपूर्णा हरियोगिना विरचिता चैका वृत्ति: शाब्दिकाभरणनाम्नी प्राप्यते। एषा धातुवृत्ति: प्रकाशितेभ्य: दैव-पुरुषकार-माधवीयाधतुवृत्ति-प्रभृतिग्रन्थेभ्य: प्राचीना। अस्या: वृत्तेरुल्लेख: पुरुषकार-माधवीयाधातुवृत्त्यादिग्रन्थेषु बहुत्र वर्तते तद्यथा

पुरुषकारे शाब्दिकाभरणकर्तु: हरियोगिन: उल्लेख:
१. श्रातेरनुकरणमिति हरियोगी।1
२. हरियोगी तु अत्र ‘संज्ञापूर्वो विधिरनित्य: इत्येतदाश्रित्य क्षेणोतीत्युदाहर्षीत्‌।2
३. धनपाल-हरियोगि-पूर्णचान्द्रास्तु दरतीत्येवाहु:।3
४. रुट लुट इति हरियोगी।4

माधवीयाधातुवृत्तौ शाब्दिकाभरणस्य हरियोगिनश्चोल्लेख:
१. शाब्दिकाभरणे तु गुण एवोदाहृत:।5
२. रुट लुट लुठ प्रतीघाते---------हरियोगिनस्तु आद्यावेव।6

सिद्धान्तकौमुद्याम्‌ आभरणकारस्योल्लेख:
१. णिसि चुम्बने। आभरणकारस्तु इति तालव्यान्त: इति बभ्राम।7

शब्दकौस्तुभे आभरणकारस्योल्लेख:
१. अत्राभरणकार: - गुपादिसूत्रे गुप्तिज्किन्मानित्युपक्रम्य गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति भाष्ये वार्तिके चोक्तत्वात्किति: परस्मैपदिषु पठितोऽप्यात्मनेपदी बोध्य:। न च गुपादिष्विति बहुवचनं वक्ष्यमाणमान्बधाद्यपेक्षमिति वाच्यम्‌, भाष्ये विशिष्य कितेरप्युपक्रमादित्याह एतदनुसारी वर्तमानोऽपि ‘स्वाश्रयं कश्चिकित्सतु’ इति खण्डनस्य व्याख्यावसरे ‘चिकित्सतामिति तु युक्तम्‌’ इत्याह।