स्वार्थानुमाननामा

तृतीय: परिच्छेद:

{हेतुविचार:}

{हेतुलक्षणम्‌}

पक्षधर्मस्तदंशेन व्याप्तो हेतु:; 

{तत्त्रिरूपत्वम्}

त्रिधैव स:।

अविनाभावनियमात्‌;

{हेत्वाभासा:}

हेत्वाभासास्ततोऽपरे।।1।।

कार्यं स्वभावैर्यावद्भिरविनाभावि कारणे।

हेतु: स्वभावे भावोऽपि भावमात्रानुरोधिनि।।2।।

{अनुपलब्धिविचार:}

अप्रवृत्ति: प्रमाणानाम्‌ अप्रवृत्तिफलाऽसति।

असज्ज्ञानफला, काचिद् हेतुभेदव्यपेक्षया।।3।।

विरुद्धकार्ययो: सिद्धिरसिद्धिर्हेतुभावयो:।

दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा।।4।।

तद्विरुद्धनिमित्तस्य योपलब्धि: प्रयुज्यते।

निमित्तयोर्विरुद्धत्वाभावे* सा व्यभिचारिणी**।।5।।(पा0टि0- **भावो हि व्यभिचारवान्‌-रा0)

इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम्‌।

अन्यथा व्यभिचारि* स्यात्‌ भस्मेवाशीतसाधने।।6।।(पा0टि0 - *व्यभिचारी-रा0

हेतुना य: समग्रेण कार्योत्पादोऽनुमीयते।

अर्थान्तरानपेक्षत्वात्‌ स स्वभावोऽनुवर्णित:।।7।।

सामग्रीफलशक्तीनां परिणामानुबन्धिनि।

अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात्‌।।8।।

एकसामग्र्यधीनस्य रूपादे रसतो गति:।

हेतुधर्मानुमानेन धूमेन्धनविकारवत्‌।।9।।

शक्तिप्रवृत्त्‍या न विना रस: सैवान्यकारणम्‌।

इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गजा*।।10।।

हेतुना योऽसमग्रेण* कार्योत्पादोऽनुमीयते।

तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत्‌।।11।।

(पा0टि0-*जायते कार्यलिङ्गत:-रा0; त्वसग्रेण-क0।)

विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात्‌।

हेतुज्ञानं* प्रमाणाभं* वचनाद् रागितादिवत्‌।।12।। (पा0टि0-*हेतुज्ञानप्रमाणाभं-रा0)

न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता।

सम्भाव्यव्यभिचारित्वात्‌* स्थालीतण्डुलपाकवत्‌।।13।। (पा0टि0- *0व्यभिचारत्वात्‌-क0

{शेषवदनुमाननिरासनम्‌}

यस्यादर्शनमात्रेण व्यतिरेक: प्रदर्श्यते।

तस्य संशयहेतुत्वाच्छेषवत्‌ तदुदाहृतम्‌।।14।।

हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णित:।

असिद्धविपरीतार्थव्यभिचारिविपक्षत:।।15।।

{व्याप्तिविचार:}

व्यभिचारिविपक्षेण वैधर्म्यवचनं च यत्‌।

यद्यदृष्टिफलं तच्च तदनुक्तेऽपि गम्यते।।16।।

न च नास्तीति वचनात्‌ तन्नास्त्येव यथा यदि।

नास्ति स ख्याप्यते न्यायस्तदा* नास्तीति गम्यते**।।17।।

(पा0टि0-*चायमुक्तौ नेति गतिस्तदा-रा0 ** तद्व्यर्थमिति शेष:)

यद्यदृष्टौ निवृत्ति:* स्याच्छेषवद् व्यभिचारि किम्‌।

व्यतिरेक्यपि हेतु: स्यान्न वाच्याऽसिद्धियोजना।।18।।(पा0टि0-*यद्यदृष्ट्या-क0)

विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात्‌।

प्रमाणान्तरबाधा चेन्नेदानीं नास्तिताऽदृश:।।19।।

तथान्यत्रापि सम्भाव्यं प्रमाणान्तरबाधनम्‌।

दृष्टाऽयुक्तिरदृष्टेश्च स्यात्‌ स्पर्शस्याविरोधिनी।।20।।

देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तय:।

तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चय:।।21।।

आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधक:।

स एवानुपलम्भ: किं हेत्वभावस्य साधक:।।22।।

तस्मात्‌ तन्मात्रसम्बद्ध:* स्वभावो भावमेव वा।

निवर्तयेत्‌, कारणं वा कार्यमव्यभिचारत:।।23।। (पा0टि0 - *0सम्बन्ध:-रा0)

अन्यथैकनिवृत्त्यान्यविनिवृत्ति: कथं भवेत्‌।

नाश्ववानिति मर्त्येन* न भाव्यं गोमतापि किम्‌।।24।।(पा0टि0-*सन्देहे किं न वा पशुसंशय:रा0)

सन्निधानात्‌ तथैकस्य कथमन्यस्य सन्निधि:।

गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम्‌।।25।।

तस्माद् वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रय:।

तदभावे च तन्‍नेति वचनादपि तद्गति: *।।26।। (पा0टि0- *तद्गते:-क0।)

तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिन:।

ख्याप्येते, विदुषां वाच्यो हेतुरेव हि केवल:।।27।।

तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तित:।

अर्थापत्त्‍या द्वितीयेऽपि स्मृति: समुपजायते।।28।।

हेतुस्वभावाभावोऽत: प्रतिषेधे च कस्यचित्‌।

हेतु:, युक्तोपलम्भस्य तस्य चानुपलम्भनम्‌।।29।।

इतीयं त्रिविधोक्ताप्यनुपलब्धिरनेकधा*।

तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगत:।।30।। (पा0टि0- *त्रिविधाप्युक्तानु0-0)

कार्यकारणभावाद् वा स्वभावाद् वा नियामकात्‌।

अविनाभावनियमोऽदर्शनान्न न दर्शनात्‌।।31।।

अवश्यंभावनियम:* क: परस्यान्यथा* परै:। (पा0 टि0- *0नियमोऽन्यथा परस्य क:-रा0)

अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत्‌।।32।।

अर्थान्तरनिमित्तो हि धर्म: स्यादन्य एव स:।

पश्चाद् भावान्न हेतुत्वं फलेऽप्येकान्तता कुत:।।33।।

कार्यं धूमो हुतभुज: कार्यधर्मानुवृत्तित:।

तस्याभावे* तु स भवन्‌* हेतुमत्तां विलङ्घयेत्‌।।34।। (पा0टि0-* स भवस्तदभावेपि-क0।)

नित्यं सत्त्‍वमसत्त्‍वं वाऽहेतोरन्यानपेक्षणात्‌।

अपेक्षातश्च* भावानां कादाचित्कस्य सम्भव:।।35।। (पा0टि0-*अपेक्षया हि-क0)

अग्निस्वभाव: शक्रस्य मूर्धा यद्यग्निरेव स:।

अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत्‌!।।36।।

धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान्‌।

अधूमहेतोर्धूमस्य भावे स स्यादहेतुक:।।37।।

अन्वयव्यतिरेकाद् यो यस्य दृष्टोऽनुवर्तक:।

स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भव:।।38।।

{सामान्यविचार:}

स्वभावेऽप्यविनाभावो भावामात्रानुरोधिनि।

तदभावे स्वयम्भावस्याभाव: स्यादभेदत:।।39।।

सर्वे भावा: स्वभावेन स्वस्वभावव्यवस्थिते:।

स्वभावपरभावाभ्यां यस्माद्* व्यावृत्तिभागिन:**।।40।। (पा0टि0-* **व्यवृत्तिभागिनो यत:रा0।)

तस्माद् यतो* यतोऽर्थानां व्यावृत्तिस्तन्निबन्धना:**।

जातिभेदा: प्रकल्प्यन्ते तद्विशेषावगाहिन:।।41।।

(पा0टि0-* **तस्माद् व्यावृत्तिरर्थानां यतश्च तन्निबन्धना:-रा0

तस्माद् विशेषो* यो येन धर्मेण** सम्प्रतीयते।

न स शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थिति:।।42।।

(पा0टि0- * **यो येन धर्मेण विशेष: पाठा0)

एकस्यार्थस्वभावस्य प्रत्यक्षस्य सत: स्वयम्‌।

कोऽन्यो भागो* न दृष्ट:** स्याद् य: प्रमाणै: परीक्ष्यते।।43।।

(पा0टि0-* **न दृष्टो भागा:-पाठा0)

नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम्‌।

शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्‌।।44।।

तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुण:।

भ्रान्तेर्निश्चीयते* नेति** साधनं सम्प्रवर्तते।।45।। (पा0टि0- * **भ्रान्तेर्न निश्चय इति-रा0)

वस्तुग्रहेऽनुमानाच्च धर्मस्यैकस्य निश्चये।

सर्वग्रहो* ह्यपोहे तु** नायं दोष: प्रसज्यते।।46।।

(पा0टि0-* **सर्वधर्मग्रहोऽपोहे-पाठा0।प्र0वा0 : 18)

तस्मादपोहविषयमिति* लिङ्गं* प्रकीर्तितम्‌।

अन्यथा धर्मिण: सिद्धावसिद्धं** किमत: ** परम्‌।।47।।

(पा0टि0 -*विषयं लिङ्गमिति-रा0 ** ‘‘नैनोपाधिविश्ष्टिस्य भेदिनोर्थस्य ग्राहिका। उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे’’।।-रा0।।)

क्वचित्‌ सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम्‌।

कथमन्यापोहविषयम्‌ ? तन्मात्रापोहगोचरम्‌।।48।।

निश्चयारोपमनसोर्बाध्यबाधकभावत:।

समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते।।49।।

यावन्तोंऽशसमारोपास्तन्निरासे* विनिश्चया:*। (पा0टि0-*निश्चयास्तन्निरासत:-रा0)

तावन्त एव शब्दाश्च* तेन ते भिन्नगोचरा:*।।50।।(पा0टि0-*शब्दाभिव्यवच्छेदगोचरा:-रा0)

अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि।

बुद्ध्या वा नान्यविषय इति पर्यायता भवेत्‌।।51।।

यस्यापि नानोपाधेर्धीर्ग्राहिकार्थस्य भेदिन:।

नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे*।।52।। (पा0टि0 - * नानोपाधिविशिष्टस्य भेदिनोऽर्थस्य ग्राहिका। उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे’’।।-रा0।)

सर्वात्मनोपकार्यस्य* को भेद: स्यादनिश्चित:।

तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रह:।।53।।(पा0टि0 -*सर्वात्मना कृते ग्राहे-रा0।)

धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि।

नोपकारस्ततस्तासां तदा स्यादनवस्थिति:।।54।।

एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे*।

दृष्टे तस्मिन्नदृष्टाश्च तद्ग्रहे सकलग्रह:*।।55।।

(पा0टि0- *ऽदृष्टा: तस्मिन्न सन्ति ते; सर्वोपकारं ह्येकं—रा0।)

{न्यायमीमांसामतनिराकरणम्‌}

यदि भ्रान्तिनिवृत्त्‍यर्थं गृहीतेऽप्यन्यदिष्यते।

तद्व्यवच्छेदविषयं सिद्धं तद्वत्‌ ततोऽपरम्‌।।56।।

असमारोपविषये* वृत्तिरेपि च* निश्चयै:।

यन्न निश्चीयते रूपं तत्‌ तेषां विषय: कथम्‌।।57।।(पा0टि0- *तद्विपक्षसमारोपविषये यदि-रा0।)

प्रत्यक्षेण गृहीतेऽपि विशेषेंऽशविवर्जिते।

यद्विशेषावसायेऽस्ति प्रत्यय: स प्रतीयते।।58।।

तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि।

शब्दाश्च निश्चयाश्चैव निमित्तमनुरुन्धते।।59।।

द्वयोरेकाभिधानेऽपि विभक्तिर्व्यतिरेकिणी।

भिन्नमर्थमिवान्वेति वाच्यलेशविशेषत:*।।60।। (पा0टि0 -* वाच्यते स विशेषत:-रा0)

भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयो:।

पदं संकेतभेदस्य ज्ञातृवाञ्छानुरोधिन:।।61।।

भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनो:।

शब्दयोर्न तयोर्वाच्ये विशेषस्तेन कश्चन।।62।।

जिज्ञापयिषुरर्थं तं तद्धितेन कृतापि वा।

अन्येन वा यदि ब्रूयात्‌ भेदो नास्ति तत: पर:।।63।।

तेनान्यापोहविषये तद्वत्पक्षोपवर्णनम्‌*।

प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतो:।।64।।(पा0टि0-* तद्दोषोपवर्णनम्‌-रा0)

येषां वस्तुवशा वाचो न विवक्षापराश्रया:।

षष्ठीवचनभेदादि चोद्यं तान्‌ प्रति युक्तमत्‌।।65।।

यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते।

अनपेक्षितबाह्यार्थं तत्‌ तथा वाचकं वच:।।66।।

दारा: षण्णगरीत्यादौ भेदाभेदव्यवस्थिते:।

खस्य स्वभाव: खत्वं चेत्यत्र वा किं निबन्धनम्‌।।67।।

पररूपं स्वरूपेण यया संव्रियते धिया।

एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिन:*।।68।। (पा0टि0-*कारिकेयं रा0 संस्करणे इत्थं दृश्यते-‘‘एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिना:। रूपं परेषां व्यावृत्तं सा धी: संवृतिरुच्यते।।इति।)

तया संवृतनानात्वा: संवृत्या भेदिन: स्वयम्‌।

अभेदिन इवाभान्ति भावा* रूपेण केनचित्‌।।69।। (पा0टि0-*भेदा-रा0)

तस्या अभिप्रायवशात्‌ सामान्यं सत्‌ प्रकीर्तितम्‌।

तदसत्‌ परमार्थेन यथा सङ्कल्पितं तया*।।70।।

(पा0टि0-*यथा तयोपकल्पितं तदसत्‌ परमार्थत:-रा0।)

व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते।

ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत्‌।।71।।

तस्मान्मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रह:।

इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका।।72।।

एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने।

भेदेऽपि नियता: केचित्‌ स्वभावेनेन्द्रियादिवत्‌।।73।।

ज्वरादिशमने काश्चित्‌ सह प्रत्येकमेव वा।

दृष्टा यथा वौषधयो नानात्वेऽपि न चापरा:।।74।।

अविशेषान्न सामान्यमविशेषप्रसङ्गत:।

तासां क्षेत्रादिभेदेऽपि ध्रौव्याच्चानुपकारत:।।75।।

तत्स्वभावग्रहाद्* या* धीस्तदर्थेवाप्यनर्थिका। (पा0टि0- *तत्त्वभवविकल्पा-रा0)

विकल्पिकाऽतत्कार्यार्थभेदनिष्ठा प्रजायते।।76।।

तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यत:।

व्यावृत्तमिव निस्तत्त्‍वं परीक्षानङ्गभावत:।।77।।

अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपका:।

अभिन्ना* इव चाभान्ति* व्यावृत्ता: पुनरन्यत:।।78।। (पा0टि0- *तेनाभिन्न इवाभान्ति-पाठा0)

त एव तेषां सामान्यसमानाधारगोचरै:।

ज्ञानाभिधानैर्मिथ्यार्थो* व्यवहार:* प्रतन्यते।।79।। (पा0टि0- *नैर्व्यवहारो मिथ्यार्थ:-रा0।)

स च सर्व: पदार्थानामन्योन्याभावसंश्रय:।

तेनान्यापोहविषयो वस्तुलाभस्य* चाश्रय:*।।80।। (पा0टि0- *तदत्कार्यकारिणाम्‌-रा0।)

यत्रास्ति* वस्तुसम्बन्धो* यथाक्तानुमितौ यथा।

नान्यत्र भ्रान्तिसाम्येऽपि दीपतेजो मणौ यथा।।81।। (पा0टि0-*वस्तुलाभाश्रयो यत्र-रा0)

तत्रैककार्योऽनेकोऽपि* तदकार्यान्यताश्रयै:। (पा0टि0- *तत्रानेकोऽपि कार्येका न तत्कार्यपराश्रयै:)

एकत्वेनाभिधाज्ञानै:* व्यवहार: प्रतार्यते।।82।।(पा0टि0- *ज्ञानाभिधानैरेकत्वात्‌-रा0।)

ततोऽनेककृदेकोऽपि तद्भावपरिदीपने*(पा0टि0- *ततश्चैकोऽप्यनेककृत्‌ तद्भावपरिदीपनात्‌)

अतत्कार्यार्थभेदेन नानाधर्मा* प्रतीयते।।83।।(पा0टि0- *नानाधर्म:-रा0। एवं वृत्तावपि।)

यथाप्रतीति कथित: शब्दार्थोऽसावसन्नपि।

सामानाधिकरण्यं च वस्तुन्यस्य न सम्भव:।।84।।

धर्मधर्मिव्यवस्थानं भेदोऽभेदश्च यादृश:।

असमीक्षिततत्त्‍वार्थो यथा लोके प्रतीयते।।85।।

तं तथैव समाश्रित्य साध्यसाधनसंस्थिति:।

परमार्थावताराय विद्वद्भिरवकल्प्यते।।86।।

संसृज्यन्ते न भिद्यन्ते स्वतोऽर्था: पारमार्थिका:।

रूपमेकमनेकं च तेषु बुद्धेरुपप्लव:।।87।।

भेदस्ततोयं* बौद्धेऽर्थे सामान्यं भेद इत्यपि।

तस्यैव चान्यव्यावृत्त्‍या धर्मभेद: प्रकल्प्यते।।88।। (पा0टि0- *ततोपि-रा0।)

साध्यसाधनसंकल्पे वस्तुदर्शनहानित:।

भेद: सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम्‌।।89।।

समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथञ्चन।

भेदानां बहुभेदानां तत्रैकस्मिन्नयोगत:।।90।।

तद्रूपं सर्वतो भिन्नं तथा तत्प्रतिपादिका।

न श्रुति: कल्पना वास्ति सामान्येनैव वृत्तित:।।91।।

शब्दा: संकेतितं प्राहुर्व्यवहाराय स स्मृत:।

तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न।।92।।

अपि प्रवर्त्तेत पुमान्‌ विज्ञायार्थक्रियाक्षमान्‌।

तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रिया: *।।93।। (पा0टि0- *भिधयका:-पाठा0)

तत्रानर्थयाक्रियायोग्या जातिस्तद्वानलं* स च।

साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम्‌।।94।।

(पा0टि0- *अत्रानर्थक्रियायोग्या नास्ति तद्वानलं-रा0।)

तत्कारिणामतत्कारिभेदसाम्ये न किं कृत:।

तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा।।95।।

तदन्यपरिहारेण प्रवर्त्तेतेति च ध्वनि:।

उच्यते तेन तेभ्योऽस्याऽव्यवच्छेदे* कथं च स:।।96।।

(पा0टि0-*तेन तेभ्योऽव्यवच्छेद प्रवर्तेत-रा0)

व्यवच्छेदोऽस्ति चेदस्य नन्वेतावत्‌ प्रयोजनम्‌।

शब्दानामिति किं तत्र सामान्येनापरेण व:।।97।।

ज्ञानाद्यर्थक्रियां तांस्तां दृष्ट्‌वा भेदेऽपि कुर्वत:।

अर्थांस्तदन्यविश्लेषविषयैर्ध्वनिभि: सह।।98।।

संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने*

परस्यापि न सा बुद्धि: सामान्यादेव केवलात्‌।।99।।(पा0टि0-*पूर्वदृष्टान्यदर्शने-रा0)

नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गत:।

तदा कदाचित्‌ सम्बद्धस्यागृहीतस्य तद्वत:।।100।।

तद्वात्तनिश्चयो न स्याद् व्यवहारस्तत: कथम्‌ ?

एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम्‌।।101।।

तदेकं वस्तु किं तासां नानात्वं समपोहति।

नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते।।102।।

अनेकमपि यद्येकमपेक्ष्याभिन्नबुद्धिकृत्‌।

ताभिर्विनापि प्रत्येकं क्रियामाणां धियं प्रति।।103।।

तेनैकेनापि सामर्थ्यं* तासां नेत्यग्रहो धिया। (पा0टि0- *सामान्यात्‌-रा0)

नीलादेर्नेत्रविज्ञाने पृथक्‌ सामर्थ्यदर्शनात्‌।।104।।

शक्तिसिद्धि: समूहेऽपि नैवं व्यक्ते: कथञ्चन।

तासामन्यतमापेक्ष्यं तच्चेच्छक्तं न केवलम्‌।।105।।

तदेकमुपकुर्युस्ता: कथमेकां धियं च न।

कार्यञ्च* तासां प्राप्तोऽसौ जननं यदुपक्रिया।।106।। (पा0टि0- *कार्यञ्च-सर्वत्र।)

अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम्‌।

प्रतिभासो धिया भिन्न: समाना इति तद्ग्रहात्‌।।107।।

कथं ता भिन्नधीग्राह्या: समाश्चेदेककार्यता।

सादृश्यं ननु धी: कार्यं तासां सा च विभिद्यते।।108।।

एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी।

एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता।।109।।

सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिन:।

अदृष्टे: प्रतिषेधाच्च संकेतस्तद्विदर्थिक:।।110।।

अतत्कारिविवेकेन प्रवृत्त्‍यर्थतया श्रुति:।

अकार्यकृतितत्कारितुल्यरूपावभासिनीम्‌।।111।।

धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम्‌।

जनयन्त्यप्यतत्कारिपरिहाराङ्गभावत:।।112।।

वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता।

ततोऽन्यापोहविषया तत्कर्त्राश्रितभावत:।।113।।

अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम्‌।

अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रह:।।114।।

सङ्केतासम्भवस्तस्मादिति केचित्‌ प्रचक्षते।

तेषामवृक्षास्संकेते व्यवच्छिन्ना न वा; यदि।।115।।

व्यवच्छिन्ना:, कथं ज्ञाता: प्राग्वृक्षग्रहणादृते।

अनिराकरणे तेषां संकेते व्यवहारिणाम्‌।।116।।

न स्यात्‌ तत्परिहारेण प्रवृत्तिर्वृक्षभेदवत्‌।

अविधाय निषिध्यान्यत्‌ प्रदर्श्यैकं पुर: स्थितम्‌।।117।।

वृक्षोऽयमिति संकेत: क्रियते तत्‌ प्रपद्यते।

व्यवहारेऽपि तेनायमदोष इति चेत्‌; तरु:।।118।।

अयमप्ययमेवेति प्रसङ्गो न निवर्त्तते।

एकप्रत्यवमर्शाख्ये ज्ञाने; एकत्र हि स्थित:।।119।।

प्रपत्ता* तदतद्धेतूनर्थान्‌ विभजते स्वयम्:।

तद्बुद्धिवर्तिनो भावान्‌ भातो** हेतुतया धिय:।120।। (पा0टि0-*प्रतिपत्ता-पाठा0 **भावो-पाठा0)

अहेतुरूपविकलानेकरूपानिव स्वयम्‌।

भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते।।121।।

तं तस्या: प्रतियती* धी:* भ्रान्त्यैकं वस्त्विवेक्षते।

क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन्‌।।122।। (पा0टि0- * **धीर्विकल्पिका-रा0।)

बुद्धे: प्रयुज्यते शब्दस्तदर्थस्यावधारणात्‌।

व्यर्थोऽन्यथा प्रयोग: स्यात्‌; तज्ज्ञेयादिपदेष्वपि।।123।।

व्यवहारोपनीतेषु व्यवच्छेद्योऽस्ति कश्चन।

निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य* तम्‌**।।124।।(पा0टि0-* ** तन्निवर्तनात्‌-रा0।)

तद्भेदे भिद्यमानानां समानाकारभासिनि।

स चायमन्यव्यावृत्त्‍या गम्यते तस्य वस्तुन:।।125।।

कश्चिद् भाग इति प्रोक्तो रूपं नास्यापि किञ्चन।

तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्तनम्‌।।126।।

न तत्र गम्यते कश्चिद् विशिष्ट:* केनचित्‌* पर:।

न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ।।127।। (पा0टि0- *केनचिद् भेदवान्‌-रा0)

अरूपो रूपवत्त्‍वेन दर्शनं बुद्धिविप्लव:।

तेनैवापरमार्थोऽसावन्यथा न हि वस्तुन:।।128।।

व्यावृत्तिर्वस्तु भवति भेदोऽस्यास्मादितीरणात्‌।

एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनि:।।129।।

लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन।

यस्याभिधानतो वस्तुसामर्थ्यादखिले गति:।।130।।

भवेन्नानाफल: शब्द एकाधारो भवत्यत:।

विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्त्तते।।131।।

यदान्यत्‌*; तेन स व्याप्त एकत्वेन च भासते।

सामानाधिकरण्यं स्यात्‌ तदा बुद्ध्यनुरोधत:।।132।। (पा0टि0-*यदान्यं-पाठा0)

वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वने:।

स्यात्‌ सत्यं स* हि तत्रेति* नैकवस्त्वभिधायिनि।।133।। (पा0टि0- *सति तवे हि-रा0।)

बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात्‌।

तेनान्यापोहविषया: प्रोक्ता: सामान्यगोचरा:।।134।।

शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात्‌।

एकत्वाद् वस्तुरूपस्य भिन्नरूपा मति: कुत:।।135।।

अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ।

अभेदव्यवहारश्च भेदे स्युरनिबन्धना:।।136।।

सर्वत्र भावाद् व्यावृत्तेर्नैते दोषा: प्रसंगिन:।

एककार्येषु भावेषु* तत्कार्यपरिचोदने।।137।। (पा0टि0-*भेदेषु-पाठा0।)

गौरवाशक्तिवैफल्याद् भेदाख्याया: समा श्रुति:।

कृता वृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना।।138।।

न भावे सर्वभावानां स्वस्वभावव्यवस्थिते:।

यद् रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत्‌।।139।।

अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते।

अर्थाभेदेन च विना शब्दाभेदो न युज्यते।।140।।

तस्मात् तत्कार्यतापीष्टाऽतत्कार्यादेव भिन्नता।

चक्षुरादौ* यथा रूपविज्ञानैकफले* क्वचित्‌।।141।।

(पा0टि0-*चक्षुरादावनेकत्र रूपविज्ञानके रा0)

अविशेषेण तत्कार्यचोदनासम्भवे सति।

सकृत्‌ सर्वप्रतीत्यर्थं कश्चित्‌ सांकेतकीं श्रुतिम्‌।।142।।

कुर्याद् ऋतेऽपि तद्रूपसामान्याद् व्यतिरेकिण:।

एकवृत्तेरनेकोऽपि यद्येकश्रुतिमान्‌ भवेत्‌।।143।।

वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते।

नित्यस्यानुपकार्यत्वात्‌ नाधार:; प्रविसर्पत:।।144।।

शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु।

न सम्भवति साप्यत्र तदभावेऽप्यवस्थिते:।।145।।

न स्थिति: साप्ययुक्तैव भेदाभेदविवेचने।

विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि यत्‌।।146।।

तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम्‌।

प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते।।147।।

सामान्यस्याविकार्यस्य तत्सामान्यवत: कुत:।

अञ्जनादेरिव व्यक्ते: संस्कारो नेन्द्रियस्य**।।148।।(पा0टि0- *ऽक्षस्य न भवेत्‌-रा0)

प्रतिपत्तेरभिन्नत्वात्‌* तद्भावाभावकालयो:।

व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते।।149।। (पा0टि0-*तत्प्रतिपत्ते0-रा0)

प्राप्तो गोत्वादिना तद्वान्‌ प्रदीपादि: प्रकाशक:।

व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते।।150।।

तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धय:।

एकत्र तत्सतोऽन्यत्र* दर्शनासम्भवात्‌ सत:।।151।।(पा0टि0- *दृष्टस्यान्यत्र-रा0।)

अनन्यत्वेऽन्वयाभावादन्यत्वेऽप्यनपाश्रयात्‌।

न याति न च तत्रासीदस्ति पश्चान्न चांशवत्‌।।152।।

जहाति पूर्वं नाधारमहो व्यसनसन्तति:।।

अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि।।153।।

स्वस्मादचलत: * स्थानाद् वृत्तिरित्यतियुक्तिमत्‌*

यात्रासौ वर्त्तते भावस्तेन सम्बध्यतेऽपि त।।154।।

(पा0टि0- *स्वस्थानादचलतोऽन्यत्र वृत्तिरयुक्तिमत्‌-रा0।)

तेद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम्‌!।

व्यक्त्यैवैकत्र* सा** व्यक्ताऽभेदात्‌ सर्वत्रगा यदि**।।155।।

(पा0टि0- *व्यक्तेवैकत्र-पाठा0**व्यक्ताथ सर्वगा जातिरिष्यते-रा0।)

सर्वत्र दृश्येताभेदात्‌ सापि न* व्यक्तयपेक्षिणी। (पा0टि0- *जातिर्दृश्येत सर्वत्र न च सा-पाठा0)

व्यञ्जकस्याप्रतीतौ न व्यङ्ग्यं सम्यक्‌ प्रतीयते*।।156।।

(पा0टि0- *व्यञ्जकाप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते-पाठा0।)

विपर्यय: पुन: कस्मादिष्ट: सामान्यतद्वतो:।

पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचक:।।157।।

भेदान्न हेतु: कर्मास्य न जाति: कर्मसंश्रयात्‌।

श्रुत्यन्तरनिमित्तत्वात्‌ स्थित्यभावाच्च* कर्मण:*।।158।। (पा0टि0- *कर्मणे न निमित्तता-रा0)

असम्बन्धन्न सामान्यं नायुक्तं शब्दकारणात्‌*

अतिप्रसंगात्‌; कर्मापि नासत्‌, ज्ञानाभिधानयो:।।159।। (पा0टि0- *शब्दकारणम्‌-पाठा0।)

अनैमित्तिकतापत्ते:; न च शक्तिरनन्वयात्‌।

सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत्‌।।160।।

व्यक्तं सत्तादिवन्नो चेन्न पश्चादविशेषत:।

क्रियोपकारापेक्षस्य व्यञ्जकत्वेऽविकारिण:।।161।।

नापेक्षातिशयेऽप्यस्य* क्षणिकत्वात्‌ क्रिया कुत:।

तुल्ये भेदे यया जाति: प्रत्यासत्त्‍या प्रसर्पति।।162।।(पा0टि0- *अतिशये वा प्यस्य-रा0।)

क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम्‌।

{साङ्ख्यमतनिराकरणम्‌}

न निवृत्तिं विहायास्ति यदि भावान्वयोऽपर:।।163।।

एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदत:?

यद्येकात्मतयानेक: कार्यस्यैकस्य कारक:।।164।।

आत्मैकत्रापि वास्तीति व्यर्था: स्यु: सहकारिण:।

नापैत्यभिन्नं तद् रूपं विशेषा: खल्वपायिन:।।165।।

एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भव:।

स पारमार्थिको भावो य एवार्थक्रियाक्षम:।।166।।

स च नान्वेति, योऽन्वेति न तस्मात्‌ कार्यसम्भव:।

तेनात्मनापि* भेदे हि हेतु:* कश्चिन्न चापर:।।167।।(पा0टि0- *तेनात्मना भिमपि-पाठा0)

स्वभावोऽयम्‌, अभेदे तु स्यातां नाशोद्भवौ सकृत्‌।

भेदोऽपि तेन नैवं चेद् य एकस्मिन्‌ विनश्यति।।168।।

तिष्ठत्यात्मा न तत्यातो न स्यात्‌ सामान्यभेदधी:।

निवृत्तेर्नि:स्वभावत्वात्‌ न स्थानास्थानकल्पना।।169।।

उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा।

यत्‌ तस्य जनकं रूपं ततोऽन्यो जनक: कथम्‌।।170।।

भिन्ना विशेषा जनका:; अस्त्यभेदोपि* तेषु चेत्‌।

तेन तेऽजनका: प्रोक्ता:; प्रतिभासोऽपि भेदक:।।171।। (पा0टि0 -* अप्यभेदोऽपि-रा0।)

अनन्यभाक्‌ स एवार्थस्तस्य व्यावृत्तयोऽपरे।

तत्‌ कार्यं कारणं चोक्तं तत्‌ स्वलक्षणमिष्यते।।172।।

तत्त्‍यागाप्तिफला: सर्वा: पुरुषाणां प्रवृत्तय:।

यथाऽभेदाविशेषेऽपि न सर्वं सर्वसाधनम्‌।।173।।

तथाभेदाविशेषेऽपि* न सर्वं सर्वसाधनम्‌।।

भेदे हि कारकं किञ्चिद वस्तुधर्मतया भवेत्‌।।174।।(पा0टि0 -* तथाऽभेदाविशेषेऽपि-रा0)

अभेदे तु विरुध्येते तस्यैकस्य क्रियाक्रिये।

भेदोऽप्यस्त्यक्रियातश्चेत्‌* न कुर्यु: सहकारिण:।।175।।(पा0टि0-* भेदेश्चेदक्रियाहेतु:-क0।)

पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुन:।

अत्यन्तभेदाभेदौ तु* स्यातां तद्वति वस्तुनि।।176।। (पा0टि0 - *हि-पाठ0)

अन्योन्यं वा तयोर्भेद: सदृशासदृशात्मनो:।

तयोरपि भवेद् भेदो यदि येनात्मना तयो:।।177

भेद: सामान्यमित्येतद् यदि भेदस्तदात्मना।

भेद एव; तथा च स्यान्नि:सामान्यविशेषता।।178।।

भेदसामान्ययोर्यद्वद् घटादीनां परस्परम्‌।

यमात्मानं पुरस्कृत्य पुरुषोऽयं प्रवर्तते।।179।।

तत्साध्यफलवाञ्छावान्‌ भेदाभेदौ तदाश्रयो।

चिन्त्येते स्वात्मना भेद:; व्यावृत्त्‍या च समानता।।180।।

अस्त्येव वस्तु नान्वेति प्रवृत्त्‍यादिप्रसङ्गत:।

{जैनमतनिराकरणम्‌}

एतेनैव यदह्रीका:* किमप्यश्लीलमाकुलम्‌*।।181।।(पा0टि0-*यदाह्रीका:-रा0; *प्ययुक्तमा0-रा0)

प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात्‌।

सर्वस्योभयरूपत्वे तद्विशेषनिराकृते:।।182।।

चोदितो दधि खादेति किमुष्टं नाभिधावति।

अथास्त्यतिशय: कश्चिद् येन भेदेन वर्त्तते।।183।।

स एव दधि* सोऽन्यत्र* नास्तीत्यनुभयं परम्‌।

सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी।।184।। (पा0टि0- *विशेषोन्यत्र-रा0।)

भेदसंहारवादस्य तदभेदादसम्भव:*। (पा0टि0 -* तदभावासम्भव:-पाठा0।)

{शब्दविचार:}

रूपाभावादभावस्य* शब्दा रूपाभिधायिन:।।185।। (पा0टि0-* द्रव्याभवा0-रा0

नाशंक्या एव सिद्धास्तेऽतो व्यवच्छेदवाचका:।

उपाधिभेदापेक्षो वा स्वभाव: केवलोऽथ वा।। 186।।

उच्यते साध्यसिद्ध्यर्थं नाशे कार्यत्वसत्त्‍ववत्‌।

सत्तास्वभावो हेतुश्चेत्‌ सा* सत्ता साध्यते कथम्‌।। 187।। (पा0टि0-* न-पाठा0)

अनन्वयो* हि भेदानां* व्याहतो हेतुसाध्ययो:?

भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि।। 188।।(पा0टि0- *भेदेनानव्यात्‌ सोऽयं-रा0)

न कश्चिदर्थ: सिद्ध: स्यादनिषिद्धं च तादृशम्‌।

उपात्तभेदे साध्येऽस्मिन्‌ भवेद्धेतुरनन्वय:।। 189।।

सत्तायां तेन साध्यायां विशेष: साधितो भवेत्‌।

अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने।।190।।

तन्मात्रव्यापिन: साध्यस्यान्वयो न विहन्यते।

नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रय:।।191।।

धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम्‌!

सिद्ध: स्वभावो गमको व्यापकस्तस्य* निश्चित:*।।192।।

(पा0टि0- *ऽतो गम्यस्तस्य व्यापक:-रा0।)

गम्य:* स्वभावस्तस्यायं* स्वनिवृत्तौ* निवर्तक:।

(पा0टि0 - *सिद्ध: स्वभावनियत:-रा0; *निवृत्तौ वा-पाठा0।)

{अहेतुकविनाश:}

अनित्यत्वे यथा कार्यमकार्यं वाऽविनाशिनि।।193।।

अहेतुत्वाद् विनाशस्य स्वभावादनुबन्धिता।

सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते।।194।।

बाहुल्येऽपीति* चेत्‌* तस्य हेतो: क्वचिदसम्भव:।

एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थिते:।।195।। (पा0टि0-*बाहुल्येऽपि हि-पाठा0)

सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम्‌।

असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावत:।।196।।

यत्र नाम भवत्यस्मादन्यत्रापि स्वभावत:।

या काचिद् भावविषयाऽनुमितिर्द्विविधैव* सा*।।197।।(पा0टि0 - *द्विधैवानुमितिस्तत:-पाठा0)

स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात्‌ तयो:।

{अनुपलब्धिचिन्ता}

प्रवृत्तेर्बुद्धिपूर्वत्वात्‌ तद्भावानुपलम्भने।।198।।

प्रवर्त्तितव्यं नेत्युक्ताऽनुपलब्धे: प्रमाणता।।

शास्त्राधिकारेऽसम्बद्धा* बहवोऽर्था अतीन्द्रिया:।।199।।(पा0टि0*शास्त्राधिकारासम्बद्धा-रा0)

अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धित:।

सदसन्निश्चयफला नेति स्याद् वाऽप्रमाणता।।200।।

प्रमाणमपि काचित्‌ स्याद् लिङ्गातिशयभाविनी।

स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृत:।।201।।

कार्ये तु कारकाज्ञानमभावस्यैव साधकम्‌।

स्वभावानुपलम्भश्च स्वभावेऽर्थस्य लिङ्गिनि।।202।।

तदभाव: प्रतीयेत हेतुना यदि केनचित्‌।

दृश्यस्य दर्शनाभावकारणाऽसम्भवे सति।।203।।

भावस्यानुपलब्धस्य* भावाभाव: प्रतीयते।

विरुद्धस्य च भावस्य भावे तद्भावबाधनात्‌।।204।।(पा0टि0- *नुपलम्भस्य-रा0)

तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चय:।

अनादिवासनोद्भूतविकल्पपरिनिष्ठित:।।205।।

शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रय।

तस्मिन्‌ भावानुपादाने साध्येऽस्यानुपलम्भनम्‌।।206।।

तथा हेतुर्न तस्यैवाभाव: शब्दप्रयोगत:।

परमार्थैकतानत्वे शब्दानामनिबन्धना।।207।।

न स्यात्‌ प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु।

अतीताजातयोर्वापि न च स्यादनृतार्थता।।208।।

वाच: कस्याश्चिदित्येषा बौद्धार्थविषया मता।

शब्दार्थापह्नवे साध्ये धर्माधारनिराकृते:।।209।।

न साध्य: समुदाय: स्यात्‌ सिद्धो धर्मश्च केवल:।

सदसत्पक्षभेदेन शब्दार्थानपवादिभि:।।210।।

वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्ध: फलोदय:।

अर्थक्रियाऽसमर्थस्य विचारै: किं परीक्षया।।211।।

षण्ढस्य रूपे* वैरूप्ये* कामिन्या: किं परीक्षया।

शब्दार्थ: कल्पनाज्ञानविषयत्वेन कल्पित:।।212।। (पा0टि0-*रूपवैरूप्ये-पाठा0)

धर्मो वस्त्वाश्रयासिद्धिरस्योक्ता* न्यायवादिना। (पा0टि0- *रस्यक्तो-पाठा0)

{आगमविचार:}

नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह।।213।।

नार्थसिद्धिस्ततस्ते हि वक्त्त्रभिप्रायसूचका:।

आप्तवादाविसंवादसामान्यादनुमानता* ?।।214।।

(पा0टि0-*कारिकांशोऽयं 217 कारिकायामप्यक्षरशो दृश्यते)

सम्बद्धानुगुणोपायं  पुरुषार्थाभिधायकम्‌।

परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम्‌।।215।।

प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनम्‌।

दृष्टादृष्टार्थयोरस्याविसंवादस्तदर्थयो:।।216।।

आप्तवादाविसंवादसामान्यादनुमानता।

बुद्धेरगत्याभिहिता निषिद्धाप्यस्य गोचरे।।217।।

हेयोपादेयतत्त्‍वस्य सोपायस्य प्रसिद्धित:।

प्रधानार्थाविसंवादानुमानं परत्र वा।।218।।

पुरुषातिशयापेक्षं यथार्थमपरे विदु:।

इष्टोऽयमर्थ: प्रत्येतुं शक्य: सोऽतिशयो यदि।।219।।

{पौरुषेयत्वविचार:}

अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा।

दुर्लभत्वात्‌ प्रमाणानां दुर्बोधेत्यपरे विदु:।।220।।

सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम्‌*

सात्मीभावात्‌ तदभ्यासाद् हीयेरन्नास्रवा: क्वचित्‌।।221।। (पा0टि0-*तिशयं श्रित:-रा0)

निरुपद्रवभूतार्थस्वभावस्य विपर्ययै:।

न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपातत:।।222।।

सर्वासां दोषजातीनां जाति: सत्कार्यदर्शनात्‌।

साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भव:।।223।।

मोहो निदानं दोषाणामत एवाभिधीयते।

सत्कायदृष्टिरन्यत्र; तत्प्रहाणे प्रहाणत:।।।224।।

{अपौरुषेयत्वविचार:}

{वेदप्रामाण्यनिराकरणम्‌}

गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात्‌।

अपौरुषेयं सत्यार्थमिति केचित्‌ प्रचक्षते।।225।।

गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात्‌।

अपौरुषेयं मिथ्यार्थं किं नेत्यन्ये प्रचक्षते।।226।।

अर्थज्ञापनहेतुर्हि संकेत: पुरुषाश्रय:।

गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसम्भव:।।227।।

सम्बन्धापौरुषेयत्वे स्यात्‌ प्रतीतिरसंविद:।

संकेतात्‌ तदभिव्यक्तावसमर्थान्यकल्पना।।228।।

गिरामेकार्थनियमे न स्यादर्थान्तरे गति:।

अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भव:।।229।।

अपौरुषेयतायाश्च* व्यर्था स्यात्‌ परिकल्पना। (पा0टि0- *अपौरुषेयतायाच्च-रा0)

वाच्यश्‍च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थिते:।।230।।

असंस्कार्यतया पुम्भि: सर्वथा स्यान्निरर्थता।

संस्कारोपगमे मुख्यं गजस्नानमिदं* भवेत्‌।।231।। (पा0टि0-*गजस्नाननिभं-रा0)

{सम्बन्धविचार:}

सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता।

नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रय:।।232।।

अर्थैरत: स शब्दानां संस्कार्य: पुरुषैर्धिया।

अर्थैरेव सहोत्पादे न स्वभावविपर्यय:।।233

शब्देषु युक्त:; सम्बन्धे नायं दोषो विकल्पिते।

नित्यत्वादाश्रयापायेऽप्यनाशो यदि जातिवत्‌*।।234।। (पा0टि0- *सम्मत:-रा0)

नित्येष्वाश्रयसामर्थ्यं किं येनेष्ट: स चाश्रय:।

ज्ञानोत्पादनहेतूनां* सम्बन्धात्‌ सहकारिणाम्‌।।235।।

(पा0टि0-*ज्ञानोत्पादेन हेतूनां-रा0। एवं वृत्तावपि।)

तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते।

घटादिष्‍वपि युक्तिज्ञै:; अविशेषेऽविकारिणाम्‌।।236।।

व्यञ्जकै: स्वै: कृत:* कोऽर्थो व्यक्तास्तैस्ते यतो मता:।

सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता।।237।।(पा0टि0-*कुत:-रा0 एवं वृत्तावपि)

ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गति:।

भिन्नत्वाद् वस्तुरूपस्य सम्बन्ध: कल्पनाकृत:।।238।।

सद् द्रव्यं स्यात्‌ पराधीनं सम्बन्धोऽन्यस्य वा कथम्‌।

वर्णा निरर्थका: सन्त: पदादिपरिकल्पितम्‌।।239।।

अवस्तुनि कथं वृत्ति: सम्बन्धस्यास्य वस्तुन:।

अपौरुषेयतापीष्टा कर्तॄणामस्मृते: किल।।240।।

सन्त्यस्याप्यनुवक्तार इति धिग्‌ व्यापकं तम:।

{कुमारिलमतखण्डनम्‌}

यथायमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम्‌।।241।।

वक्तुं समर्थ: पुरुषस्तथान्योऽपीति कश्चन।

अन्यो वा रचितो ग्रन्थ: सम्प्रदायाद् ऋते परै:।।242

दृष्ट: कोऽभिहितो येन सोऽप्येवं नानुमीयते।

यज्जातीयो यत: सिद्ध: सोऽविशिष्टोऽग्निकाष्ठवत्‌*।।243।।

(पा0टि0-*स तस्मादग्निकाष्ठवत्‌-पाठा0)

अदृष्टहेतुरप्यन्यस्तद्भव: सम्प्रतीयते।

तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात्‌।।244।।

हेतव: प्रवितन्यन्ते सर्वे ते व्यभिचारिण:।

सर्वथाऽनादिता सिध्येदेवं नापुरुषाश्रय:।।245।।

तस्मादपौरुषेयत्वे स्यादन्योप्यनराश्रय:।

म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि।।246।।

अनादित्वाद् तथाभाव:; पूर्वसंस्कारसन्तते:।

तादृशेऽपौरुषेयत्वे क: सिद्धेऽपि गुणो भवेत्‌।।247।।

अर्थसंस्कारभेदानां दर्शनात्‌ संशय: पुन:।

अन्याविशेषाद् वर्णानां साधने कि फलं भवेत्‌।।248।।

वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भत:।

अनेकावयवात्मत्वे पृथक्‌ तेषां निरर्थता।।249।।

अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत्‌।

प्रत्येकं सार्थकत्वेऽपि मिथ्यानेकत्वकल्पना।।250।।

एकावयवगत्या च वाक्यार्थप्रतिपद् भवेत्‌।

सकृच्छुतौ च सर्वेषां कालभेदो न युज्यते।।251।।

{स्फोटनिरसनम्}

एकत्वेऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात्‌।

अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत्‌!।।252।।

नित्योपलब्धिर्नित्यत्वेऽप्यनावरणसम्भवात्‌।

अश्रुतिर्विकलत्वाच्चेत्‌ कस्यचित्‌ सहकारिण:।।253।।

काममन्यप्रतीक्षाऽस्तु*, नियमस्तु विरुध्यते। (पा0टि0- *काममन्यप्रतीक्षो:-रा0।)

सर्वत्रानुपलम्भ: स्यात्‌ तेषामव्यापिता यदि।।254।।

सर्वेषामुपलम्भ: स्यात्‌ युगपद् व्यापिता यदि।

संस्कृतस्योपलम्भे च क: संस्कर्त्ताऽविकारिण:।।255।।

इन्द्रियस्य* स्यात्‌* संस्कार: श्रृणुयान्निखिलं च तत्‌। (पा0टि0- *इन्द्रिये स्याद्धि-पाठा0)

संस्कारभेदभिन्नत्वादेकार्थनियमो* यदि।।256।।(पा0टि0-*संस्कारभेदाद् भिन्न-रा0)

अनेकशब्दसंघाते श्रुति: कलकले कथम्‌?

ध्वनय: केवलं तत्र श्रूयन्ते चेन्न वाचका:।।257।।

ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमति* बह्विदम्‌* (पा0टि0- *0मविवक्षित्‌-रा0)

स्थितेष्वन्येषु शब्देषु श्रूयते वाचक: कथम्‌।।258।।

कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत्‌।

ध्वनय: मम्मता यैस्ते दोषै: कैरप्यवाचका:।।259।।

ध्वनिभिर्व्यज्यमानेऽस्मिन्‌ वाचकेऽपि कथं न ते!।

वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदत:।।260।।

तेषां च न व्यवस्थानं क्रमान्तरविरोधत:।

देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात्‌।।261।।

अनित्याव्यापितायां च दोष: प्रागेव कीर्त्तित:।

व्यक्तिक्रमोऽपि वाक्यं न नित्यव्यक्तिनिराकृते:।।262।।

व्यापारादेव तत्सिद्धे: करणानां च कार्यता।

स्वज्ञानेनान्यधीहेतु: सिद्धेऽर्थे व्यञ्जको मत:।।263।।

यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात्‌।

करणानां समग्राणां व्यापारादुपलब्धित:।।264।।

नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात्‌।

तद्रूपावरणानां च व्यक्तिस्ते विगमो यदि।265।।

अभावे करणग्रामसामर्थ्यं किं नु* तद्भवेत्‌। (पा0टि0- *न-पाठा0)

शब्दाविशेषादन्येषामपि व्यक्ति: प्रसज्यते।।266।।

तथाभ्युपगमे सर्वकारकाणां* निरर्थता। (पा0टि0-*कारणानां-पाठा0)

साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम्‌।।267।।

अनुदाहरणं सर्वभावानां क्षणभङ्गत:।

दूष्य: कुहेतुरन्योऽपि; बुद्धेरपुरुषाश्रये।।268।।

बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितै: समम्‌।

आनुपूर्व्याश्च वर्णेभ्यो भेद: स्फोटेन चिन्तित:।।269।।

कल्पनारोपिता सा स्यात्‌ कथं वाऽपुरुषाश्रया।

सत्तामात्रानुबन्धित्वात्‌ नाशस्यानित्यता ध्वने:।।270।।

अग्नेरर्थान्तरोत्पत्तौ भवेत्‌ काष्ठस्य दर्शनम्‌।

अविनाशात्‌ स, एवास्य विनाश इति चेत्‌, कथम्‌।।271।।

अन्योन्यस्य* विनाशोऽस्तु* काष्ठं कस्मान्न दृश्यते।

(पा0टि0-*अन्योऽर्थोऽन्यस्य नाशोस्तु-रा0)

तत्परिग्रहतश्चेन्न तेनानावरणं यत:।।272।।

विनाशस्य विनाशित्वम्‌; स्यादुत्पत्तेस्तत: पुन:।

काष्ठस्य दर्शनम्‌; हन्तृघाते चैत्रापुनर्भव:।।273।।

यथात्राप्येवमिति चेत्‌ हन्तुर्नामरणत्वत:।

अनन्यत्वे विनाशस्य स्यान्नाश: काष्ठमेव तु।।274।।

तस्य* सत्त्‍वादहेतुत्वं* नातोऽन्या विद्यते गति:। (पा0टि0-*तस्यासत्त्वा0-रा0।)

अहेतुत्वेऽपि नाशस्य नित्यत्वाद् भावनाशयो:।।275।।

सहभावप्रसङ्गश्चेदसतो नित्यता कुत:!।

असत्त्‍वेऽभावनाशित्वप्रसङ्गोऽपि न युज्यते।।276।।

नाशेन यस्माद् भावस्य न विनाशनमिष्यते।

नश्यन्‌ भावोऽपरापेक्ष* इति* तज्ज्ञापनाय सा।।277।।(पा.टि.-*भव: परापेक्षो न तस्य ज्ञाप.-रा0)

अवस्थाऽहेतुरुक्तास्या भेदमारोप्य चेतसा।

स्वतोऽपि भावेऽभावस्य विकल्पश्चेदयं सम:।।278।।

न तस्य किञ्चिद् भवति न भवत्येव केवलम्‌।

भावे ह्येष विकल्प: स्याद् विधेर्वस्त्वनुरोधत:।।279।।

न भावो भवतीत्युक्तमभावो भवतीति**

अपेक्ष्येत** पर: कार्यं यदि विद्येत किञ्चन।।280।।(पा0टि0- *भक्तीत्यपि-पाठा0 **अपेक्षेत-रा0)

यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते।

एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावत:।।281।।

सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम्‌।

यथा केषाञ्चिदेवेष्ट: प्रतिघो जन्मिनां तथा।।282।।

नाश: स्वभावो भावानां नानुत्पत्तिमतां यदि।

स्वभावनियमाद्धेतो: स्वभावनियम: फले।।283।।

नानित्ये रूपभेदोऽस्ति भेदकानामभावत:।

प्रत्याख्येयाऽत एवैषां सम्बन्धस्यापि नित्यता।।284।।

सम्बन्धदोषै: प्रागुक्तै: शब्दशक्तिश्च दूषिता।

{भाट्टमतनिराकरणम्‌}

नाऽपौरुषेयमित्येव यथार्थज्ञानसाधनम्‌।।285।।

दृष्टोऽन्यथापि वह्न्यादिरदुष्ट: पुरुषागसा।

न ज्ञानहेतुतैव स्यात्‌ तस्मिन्नकृतके मते।।286।।

नित्येभ्यो वस्तुसामर्थ्यात्‌ न हि* जन्मास्ति कस्यचित्‌। (पा0टि0-*0-रा0)

विकल्पवासनोद्भूता: समारोपितगोचरा:।।287।।

जायन्ते बुद्धयस्तत्र केवलं नार्थगोचरा:।

मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वच:।।288।।

सत्यार्थं व्यतिरेकस्य विरोधिव्यापनाद् यदि।

हेतावसम्भवेऽनुक्ते* भावस्तस्यापि* शङ्क्यते।।289।।

(पा0टि0- *हेतावसम्भवे भावस्तत्तस्यापि-रा0।)

विरुद्धानां पदार्थानामपि व्यापकदर्शनात्‌।

नासत्तासिद्धिरित्युक्तं सर्वतोऽनुपलम्भनात्‌।।290।।

असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता।

अन्वयो व्यतिरेको वा सत्त्‍वं वा साध्यधर्मिणि।।291।।

तन्निश्चयफलैर्ज्ञानै: सिद्ध्यन्ति यदि साधनम्‌।

यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता।।292।।

स एवास्य सपक्ष: स्यात्‌ सर्वो हेतुरतोऽन्वयी* (पा0टि0- *हेतुरनन्वयी-रा0। एवं वृत्तावपि)

समयत्वे हि मन्त्राणां कस्यचित्‌ कार्यसाधनम्‌*।।293।।(पा0टि0- *कार्यदर्शनम्‌-रा0)

अथापि भावशक्ति: स्यादन्यथाप्यविशेषत:*

क्रमस्यार्थान्तरत्वं च पूर्वमेव निराकृतम्‌।।294।।(पा0टि0-*दन्यत्राप्य0-पाठा0)

नित्यं तदर्थसिद्धि: स्यादसामर्थ्यमपेक्षणे।

सर्वस्व साधनं ते स्युर्भावशक्तिर्यदीदृशी।।295।।

प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते।

संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदक:।।296।।

प्रयोक्तृभेदान्नियम: शक्तौ न समये भवेत्‌।

अनाधेयविशेषाणां किं कुर्वाण: प्रयोजक:।।297।।

प्रयोगो यद्यभिव्यक्ति: सा प्रागेव निराकृता।

व्यक्तिश्च बुद्धि: सा यस्मात्‌ स फलैर्यदि युज्यते।।298।।

स्याच्छ्रोतु: फलसम्बन्धो वक्ता हि व्यक्तिकारणम्‌।

अनभिव्यक्तशब्दानां करणानां प्रयोजनम्‌।।299।।

मनोजपो वा व्यर्थ: स्याच्छब्दो हि श्रोत्रगोचर:।

पारम्पर्येण तज्जत्वात्‌ तद्व्यक्ति: सापि चेन्मति:।।।300।।

तेऽपि तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात्‌।

स्वसामान्यस्वभावानामेकभावविवक्षया।।301।।

उक्ते: समयकाराणामविरोधो न वस्तुनि।

आनुपूर्व्यामसत्यां स्यात्‌ सरो रस इति श्रुतौ।।302।।

न कार्यभेद इति चेद् ? अस्ति सा पुरुषाश्रया।

यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनि:।।303।।

जायते, तदुपाधि: स श्रुत्या समवसीयते।

तज्ज्ञानजनितज्ञान: स श्रुतावपटुश्रुति:।।304।।

अपेक्ष्य तत्स्मृतिं पश्चात्‌* स्मृतिमाधत्त आत्मनि*

इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम्‌।।305।।(पा0टि0-*पश्चादाधत्ते स्मृतिमास्मनि-इत्येवमपि पाठ:)

कार्यकारणता वर्णेष्वानुपूर्वीति* कथ्यते। (पा.टि.-*वर्णे ह्यनुपूर्वीति-रा0)

अन्यदेव ततो रूपं तद्वर्णानां पदे* पदे*।।306।।(पा.टि.-*पदं पदम्‌-पाठा.)

कर्तृसंस्कारतो भिन्नं सहितं कार्यभेदकृत्‌।

सा चानुपूर्वी वर्णानां प्रवृत्ता* रचनाकृत:*।।307।। (पा0टि0- *तद्धेतुग्राहिचेतसाम्‌-रा0)

इच्छाऽविरुद्धसिद्धीनां स्थितक्रमविरोधत:।

कार्यकारणतासिद्धे: पुम्भ्यो* वर्णक्रमस्य च।।308।। (पा0टि0- *पुंसां-पाठा0)

सर्वो वर्णक्रम: पुम्भ्यो दहनेन्धनयुक्तिवत्‌।

असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम्‌*।।309।।(पा0टि0- *पुंसां च क्रमकारिणाम। अतो-रा0)

पुंसां* ज्ञानप्रभावाभ्यामन्येषां तदभावत:।

येऽपि तन्त्रविद: केचिद् मन्त्रान्‌ काँश्चन कुर्वते।।310।। (पा.टि.-*पुंसां च मकारिणाम्। अतो-रा.)

प्रभो: * प्रभावस्तेषां* स तदुक्तन्यायवृत्तित:।

कृतका: पौरुषेयाश्च मन्त्रा वाच्या: फलेप्सुना।।311।। (पा0टि0- *प्रभुप्रभाव0-पाठा0)

अशसक्तिसाधनं पुंसामनेनैव निराकृतम्‌।

बुद्धीन्द्रियोक्तिपुंस्त्वादिसाधनं यत्तु वर्ण्यते।।312।।

प्रमाणाभं यथार्थास्ति न हि शेषवतो गति:।

अर्थोऽयं नायमर्थो न* इति शब्दा वदन्ति न।।313।।(पा0टि0-*अयमर्थे नायमर्थ-पाठा0।)

कल्प्योऽयमर्थ: पुरुषैस्ते च रागादिसंयुता:।

तत्रैकस्तत्त्‍वविन्नान्य* इति भेदश्च किंकृत:।।314।। (पा0टि0- *स एकस्तव0—रा0)

तद्वत्‌ पुंस्त्वे कथमपि ज्ञानी कश्चित्‌ कथं न व:।

यस्य* प्रमाणविसंवादि* वचनं सोऽर्थविद् यदि।।315।।(पा0टि0-*प्रमाणमविसंवादि-रा0।)

न ह्यत्यन्तपरोक्षेषु प्रमाणस्यास्ति सम्भव:।

यस्य प्रमाणसंवादि वचनं तत्कृतं वच:।।316।।

स आगम इति प्राप्तं निरर्थाऽपौरुषेयता।

यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भव:।।317।।

अतीन्द्रियार्थवित्‌ कश्चिदस्तीत्यभिमतं भवेत्‌।

स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यत:।।318।।

न वेदयति वेदोऽपि वेदार्थस्य कुतो गति:।

तेनाग्निहोत्रं जुहुयात्‌ स्वर्गकाम इति श्रुतौ।।319।।

खादेत्‌ श्वमांसमित्येव नार्थ इत्यत्र का प्रमा।

प्रसिद्धो लोकवादश्चेत्‌ तत्र कोऽतीन्द्रियार्थदृक्‌।।320।।

अनेकार्थेषु शब्देषु येनार्थोऽयं विवेचित:।

स्वर्गोर्वश्यादिशब्दश्च दृष्टोरूढार्थवाचक:।।321।।

शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना।

प्रसिद्धिश्च* नृणां वाद: प्रमाणं स च नेष्यते।।322।। (पा0टि0-*प्रसिद्धश्च-रा0।)

ततश्च भूयोऽर्थगति: किमेतद् द्विष्ठकामितम्‌।

अथ प्रसिद्धिमुल्लंघ्य कल्पने न निबन्धनम्‌।।323।।

प्रसिद्धेरप्रमाणत्वात्‌ तद्ग्रहे किं निबन्धमम्‌।

उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये।।324।।

यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते।

अन्यथासम्भवाभावात्‌ नानाशक्ते: स्वयं ध्वने:।।325।।

अवश्यं शंकया भाव्यं नियामकमपश्यताम्‌।

एष स्थाणुरयं मार्ग इति वक्तीति कश्चन।।326।।

अन्य: स्वयं ब्रवीमीति तयोर्भेद: परीक्ष्यताम्‌।

सर्वत्र योग्यस्यैकार्थद्योतने नियम: कुत:।।327।।

ज्ञाता वातीन्द्रिया: केन विवक्षावचनाद् ऋते।

विवक्षानियमे हेतु: संकेतस्तत्प्रकाशन:।।328।।

अपौरुषेये सा नास्ति तस्य सैकार्थता कुत:!

स्वभावनियमेऽन्यत्र न योज्येत तया पुन:।।329।।

संकेतश्च निरर्थ: स्याद् व्यक्तौ च नियम: कुत:!

यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र क:।।330।।

द्योतयेत्‌ तेन संकेतो नेष्टामेवास्य योग्यताम्‌।

{जैमिनीयमतनिरास:}

यस्मात्‌ किलेदृशं सत्यं यथाग्नि: शीतनोदन:।।331।।

वाक्यं वेदैकदेशत्वादन्यदप्यपरोऽब्रवीत्‌।

रसवत्‌ तुल्यरूपत्वादेकभाण्डे च पाकवत्‌।।332।।

शेषवद् व्यभिचारित्वात्‌ क्षिप्तं न्यायविदेदृशम्‌।

नित्यस्य पुंस: कर्तृत्वं नित्यान्‌ भावानतीन्द्रियान्‌।।333।।

ऐन्द्रियान्‌ विषमं हेतुं भावानां विषमां स्थितिम्‌।

निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम्‌।।334।।

विरुद्धमागमापेक्षेणानुमानेन वा वदत्‌।

विरोधमसमाधाय शास्त्रार्थं चाप्रदर्श्य स:।।335।।

सत्यार्थं प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम्‌।

सिध्येत्‌ प्रमाणं यद्येवम्‌, अप्रमाणमथेह किम्‌।।336।।

न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि।

नायं स्वभाव: कार्यं वा वस्तूनां वक्तरि ध्वनि:।।337।।

न च तद्व्यतिरिक्तस्य विद्यतेऽव्यभिचारिता।

प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत्‌।।338।।

परस्परविरुद्धार्था कथमेकत्र सा भवेत्‌।

वस्तुभिर्नागमास्तेन कथञ्चिन्नान्तरीयका:।।339।।

प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चय:!।

तस्मान्न तन्निवृत्त्‍यापि भावाभाव: प्रसिध्यति।।340।।

तेनासन्निश्चयफलाऽनुपलब्धिर्न सिध्यति।