|
|
राष्ट्रिय-संस्कृत-संस्थानम् |
|
(मानितविश्वविद्यालयः) |
|
|
(भारतशासनस्य मानवसंसाधनविकासमंत्रालयाधीनम्) |
|
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
![]() |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
राष्ट्रिय-संस्कृत-संस्थानं भारतसर्वकारेण नवदेहल्यां 1970 तमे वर्षे अक्टूबर-मासस्य 15 दिनांके संस्थापितं, सोसाइटी- पञ्जीकरण-अधिनियमः - 1860 (अधिनियमः xxi,1860) द्वारा निबन्धितञ्च। स्वायत्तसङ्घटनस्यास्य सम्पूर्णव्ययभारः भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयेन निरूष्यते। संस्थानमिदं संस्कृतस्य प्रसाराय विकासाय च शीर्षतमनिकायरूपेण कार्यरतम् अस्ति। तथा च संस्कृताध्ययनस्य विकासाय, विभिन्नानां योजनानां कार्यक्रमाणां च निर्माणे क्रियान्वयने च मानवसंसाधनविकासमन्त्रालयस्य साहाय्यं करोति। संस्कृत-भाषायाः रक्षणाय, प्रसारणाय, विकासाय, संस्कृत-आयोगस्य विविधानां संस्तुतीनां प्रभावपूर्णं क्रियान्वयनार्थ संस्थानं स्वायत्तनिकायस्य भूमिकां निभालयति। राष्ट्रिय-संस्कृत-संस्थानम् इदं विश्वविद्यालय-अनुदान-आयोगस्य अनुसंशानुसारेण बहुपरिसरीय-मानितविश्वविद्यालयरुपेण मानवसंसाधनविकासमंत्रालयेन उदघोषितम्। अधिसूचना संख्या- 9-28/2000 यू. 3, दिनांक 7 मई 2002, विश्वविद्यालय-अनुदान-आयोगेन अपि समुद्घोषितम्- अधिसूचना संख्या एफ.6-31/2001 (CP-I) दिनांक 13.6.2002, एफ. 9-28/2000- पू. 3 दिनांक 1.1.2009, एफ 9-28/2000 यू.3, दिनांक 30.06.2009. उद्देश्यम्- सम्प्रति राष्ट्रिय-संस्कृत-संस्थानं विश्वस्य बृहत्तमः बहुपरिसरीयः मानितसंस्कृतविश्वविद्यालयः वर्तते। संस्थायाः बहिर्नियमानुसारेण पारम्परिक-संस्कृत-विद्यायाः अनुसन्धानस्य च प्रचारं प्रसारं पल्लवनं प्रोत्साहनम् अस्य उद्देश्यम्। तत् प्रतिपालयत् संस्थानम् एतानि कार्याणि सम्पादयति –
राष्ट्रिय-संस्कृत-संस्थानस्य सञ्चालनं निम्नलिखितद्वारेण प्रर्वतते-
भारतशासन-मानव-संसाधन-विकास-मन्त्री पदेन संस्थानस्य कुलाध्यक्षः भवति। कुलपतिः संस्थानस्य प्रमुखः शैक्षणिक-प्रशासनिक-अधिकारी भवति। 28 अगस्त 1996 संस्कृतदिवसे संस्थानेन स्वकीये नवीन-भवने कार्यं प्रारब्धम्। साम्प्रतं संस्थानस्य नवदेहलीस्थ मुख्यालयमतिरिच्य समग्रे भारते दशपरिसराः वर्तन्ते। भवनमिदं पुस्तकालयः, संगकणकेन्द्रम् सभागारः, अतिथिप्रकोष्ठः, विक्रयविभाग, भाषानुशीलनकेन्द्रम् आदिभिः प्रसरति। इतः एव भारतसर्वकारस्य मानवसंसाधनमन्त्रालयसाहाय्येन संस्कृतस्य सर्वविधं क्रियाकलापं सम्पादयति। आचार्यः रामकरणशर्मा संस्थानस्य संस्थापकः निदेशकः आसीत्। सम्प्रति आचार्यः राधावल्लभ त्रिपाठी संस्थानस्य कुलपतिः विद्यते।
|
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||