संस्थानं समये समये विभिन्नानां ग्रन्थमालानां माध्यमेन पुस्तक प्रकाशनं करोति। साम्प्रतम् एताः ग्रन्थमालाः संस्थानेन सञ्चाल्यन्ते –
रजत-जयन्ती-ग्रन्थमाला
स्वर्ण-जयन्ती-ग्रन्थमाला
संस्कृतवर्षस्मृतिग्रन्थमाला
लोकप्रियग्रन्थमाला
शास्त्रीयग्रन्थमाला
दुर्लभग्रन्थानां पुनर्मुद्रण-ग्रन्थमाला
संस्कृत-पाण्डुलिपीनां संग्रहणं संरक्षणं च
संस्थानं संस्कृतपाण्डुलिपीनां संङ्ग्रहं संरक्षणं च करोति। शुल्कग्रहणपूर्वकं संस्थाभ्यः पाण्डुलिपीनां प्रतिलिपिञ्च वितरति।
गङ्गानाथझा-परिसरस्य पाण्ङुलिपिसंङ्ग्रहालये विविध-शास्त्रसम्बध्दाः पञ्चाशत् सहस्रपरिमिताः (50,000) पाण्ङुलिपयः सन्ति। तथा च
जम्मू-पुरी-गुरुवायूर-परिसरेषु अपि दुर्लभ-पाण्ङुलिपयः वर्तन्ते।
पत्राचारमाध्यमेन अनौपचारिकमाध्यमेन च संस्कृत-शिक्षणम्, शिक्षक-प्रशिक्षणम् तथा स्वाध्यायसामग्री-निर्माणम् -
सम्प्रति निम्नलिखिताः कार्यक्रमाः प्रचलन्ति -
दूरस्थशिक्षा
दूरस्थशिक्षामाध्यमेन विविधपाठ्यक्रमानां सञ्चालनार्थं संस्थानमुख्यालये मुक्तस्वाधयायपीठस्य विविधेषु परिसरेषु च स्वाध्यायकेन्द्राणां संस्थापनं कृतम्।
पत्राचार-माध्यमेन संस्कृतम्
देशे विदेशे च प्रारम्भिक-संस्कृतशिक्षणार्थिणां कृते हिन्दीमाध्यमेन आंग्लमाध्यमेन च संस्कृतभाषाशिक्षणार्थं द्विवर्षीयः पत्राचार-पाठ्यक्रमः सञ्चाल्यते।
अनौपचारिकसंस्कृतशिक्षणम्
संस्थानम् अखिल-भारतीयस्तरे अनौपचारिक-संस्कृत-शिक्षण-केन्द्र-माध्यमेन दीक्षा नाम्नी क्रमिक-संस्कृत-स्वाध्याय-सामग्रीं संञ्चालयति।
संस्कृत भाषा-शिक्षकम् प्रशिक्षणम्
संस्थानं संस्कृतभाषाशिक्षणार्थम् अखिलभारतीयस्तरे शिक्षक-प्रशिक्षण-कार्यक्रमम् प्रतिवर्षम् आयोजयति।
शास्त्रीय-ग्रन्थनाम् उन्नतशिक्षणम्
संस्थानं संस्कृतभाषाशिक्षणाय मुद्रित-सामग्रीं तथैव DVD इत्यादीनि द्दृश्यश्रव्यसाधनानि च निर्माति। तस्याः प्रचारं प्रसारमपि विदधाति।
इलेक्ट्रानिक-माध्यमेन संस्कृत-कार्यक्रमाणां प्रसारणम्
संस्थानं इन्दिरा गान्धी राष्ट्रीय-मुक्तविश्वविद्यालयस्य(IGNOU) ज्ञानदर्शनस्य भाषा-मन्दाकिनी चैनल-माध्यमेन प्रतिदिनं
संस्कृत-कार्यक्रमं प्रसारयति। डी.डी. भारती इति चैनल-माध्यमेन संस्कृतभाषाप्रशिक्षण-कार्यक्रमस्य प्रसारणं
सप्ताहे त्रिवारं सस्थानेन सञ्चाल्यते।
पारम्परिक-पद्धत्या संस्कृतशिक्षणार्थं पाठ्यक्रमनिर्धारणम्
संस्थानं स्वपरिसरेषु सम्बद्धसंस्थासु च पारम्परिकपद्धत्या संस्कृतशिक्षणार्थ प्रथमातः आचार्यं यावत् पाठ्यक्रमान् निर्धारयति।
परीक्षा
संस्थानं समस्तापाठ्यक्रमाणां परीक्षां संचालयति। पूर्वमध्यमा (अष्टमकक्षा), मध्यमा (दशमकक्षा) उत्तरमध्यमा /प्राक् शास्त्री (द्वादशकक्षा) शास्त्री (बी.ए.) आचार्यः
(एम.ए.) इति कक्षाणां प्रमाणपत्रम् / उपाधिं छात्रेभ्यः प्रददाति।
शिक्षाशास्त्री शिक्षाचार्यः पाठ्यक्रमार्थ प्रवेशस्य हेतोः अखिलभारतीय-पूर्वशिक्षाशास्त्रीपरीक्षां (पी.एस.एस.टी.)/पूर्वशिक्षाचार्यपरीक्षां(पी.एस.ए.टी.) आयोजति।
परिसरेषु सम्बद्धसंस्थासु शोधार्थिनां विविधशास्त्राणां शोधप्रबन्धानां मूल्यांङ्कनं ततः मौखिकपरीक्षानन्तरं विद्यावारिधिः (पीएच.डी.) इति उपाधिं प्रददाति।
परिसराणां स्थापाना
संस्थानं पारम्परिकपद्धत्या संस्कृतशिक्षणार्थं देशस्य विविधेषु
प्रान्तेषु स्वपरिसराणि संस्थापयति,अधिगृह्यणाति,सञ्चालयति च ।साम्प्रतं संस्थानस्य दश परिसराः देशस्य विविधप्रान्तेषु सन्ति।
छात्रवृत्तिः
संस्थानं स्वपरिसरेषु भिन्नशिक्षणसंस्थासु च अध्ययनरतानां संस्कृतसुयोग्यछात्राणां कृते छात्रवृत्तिं प्रयच्छति। तत्र द्विविधा छात्रवृत्तिर्भवति-
1. उच्चमाध्यमिकोत्तराछात्रवृत्तिः (स्नातकोत्तरं यावत्)
2. शोधच्छात्रवृत्तिः