राष्ट्रिय-संस्कृत-संस्थानम्

                                                                         (मानितविश्वविद्यालयः)

                                                 (भारतशासनस्य मानवसंसाधनविकासमंत्रालयाधीनः)

राष्ट्रियसंस्कृतसंस्थानम् भारते विदेशेषु च संस्कृताध्ययनस्य संर्वधनाय अग्रगण्यं संस्थानम् अस्ति। 1970 तमे वर्षे स्थापितः अयं विश्वविद्यालयः विश्वस्य वृहत्तमः संस्कृतविश्वविद्यालयः अस्ति।  साम्प्रतं भारतवर्षे अयं एक एव बहुपरिसरीयो संस्कृतविश्वविद्यालयः अस्ति।

 
 

गतिविधयः

संस्थानस्य उद्देश्यानुगुणम् इमे गतिविधयः प्रचलन्ति –

शिक्षणम्

संस्थानस्य अङ्गभूतेषु परिसरेषु संस्थानेन निर्मितस्य पाठ्यक्रमस्य आधारेण प्राकशास्त्रिकक्षातः आचार्यकक्षां यावत् पारम्परिकं संस्कृत-शिक्षणं भवति। संस्थानेन सञ्चालिताः सम्बध्दाः च संस्थाः अपि उक्तपाठ्यक्रमानुसारेण अध्यापनकार्य सम्पादयन्ति।

प्रशिक्षणम्

परिसरेषु शिक्षणाभ्यासेन सह प्रतिशैक्षिकसत्रं शिक्षक-प्रशिक्षण-पाठ्यक्रमस्य सञ्चालनं भवति। तत्र संस्कृते बी.एड. इत्यस्य समकक्षः शिक्षाशास्त्री इति उपाधिः प्रदीयते। अपि च केषुचित् परिसरेषु शिक्षाचार्यः (एम.एड.) इति कक्षा प्रारब्धा।

शोधः

समस्तेषु परिसरेषु छात्राणां शोधकार्यार्थं पञ्जीयनं संस्थानेन आयोजित-अखिल-भारतीय-शोध-प्रवेश-परीक्षायां सफलताधारेण अथवा नेट (NET) उत्तीर्णताधारेण भवति, शोधकार्य़स्य सफल-समापने तेभ्यः पीएच. डी. इत्यस्य समकक्षः विद्यावारिधिः इति उपाधिः दीयते।

संस्थानं संस्कृतवाङ्गमयस्य विविधेषु अङ्गेषु शोधकार्यस्य उत्तरादायित्वं निर्वहति। दुर्लभ-संस्कृत-पाण्डुलिपीनां सम्पादनं प्रकाशनं च करोति। इलाहाबादस्य-श्रीगङ्गानाथझा-परिसरस्य एकमात्रम् उद्देश्यं यत् चितानां शाखानां विषयेषु शोधकार्यं सम्पादनं च।

प्रकाशनम्

संस्थानस्य परिसरैः सम्पादितानां शोधग्रन्थानां पाण्डुलिपीनां च प्रकाशनम्।संस्थानेन संस्कृत-विमर्श-नामकः शोधपत्रिका प्रकाश्यते। उशती नाम्ना साहित्यिकपत्रिका गङ्गानाथ-परिसरतः प्रकाशिता भवति। संस्थानं मौलिक-संस्कृतग्रन्शानां प्रकाशनाय लेखकेभ्यः प्रकाशकेभ्यः च 80% प्रतिशतम् आर्थिकसहयोगं प्रददाति। प्रकाशकेभ्यः विरलानां दुलर्भसंस्कृतग्रन्थानां प्रकाशनार्थम् आर्थिक-सहायतां ददाति।

संस्थानं समये समये विभिन्नानां ग्रन्थमालानां प्रकाशनं करोति। इदानीम् एताः ग्रन्थमालाः प्रकाशिताः चालिताश्च –

रजत-जयन्ती-ग्रन्थमाला

स्वर्ण-जयन्ती-ग्रन्थमाला

संस्कृतवर्षस्मृतिग्रन्थमाला

लोकप्रियग्रन्थमाला

शास्त्रीयग्रन्थमाला

दुर्लभग्रन्थानां पुनर्मुद्रण-ग्रन्थमाला

संस्कृत-पाण्डुलिपीनां संग्रहणं संरक्षणं च

संस्थानं संस्कृतपाण्डुलिपीनां संग्रहं संरक्षणं च करोति। मूल्याधारेण संस्थानां कृते पाण्डुलिपीनां छायाप्रतीः अपि उपस्थापयति गङ्गानाथ-परिसरस्य पाण्ङुलिपिसंग्रहालयेविविध-शास्त्राणां पञ्चाशत् सहस्रपरिमिताः (50,000) पाण्ङुलिपयः सन्ति। तथा च जम्मू-पुरी-गुरुवायूर-परिसरेषु अपि दुर्लभ-पाण्ङुलिपयः वर्त्तन्ते।

पत्राचारमाध्यमेन अनौपचारिकमाध्यमेन च संस्कृत-शिक्षणम्, शिक्षक-प्रशिक्षणम् तथा स्वाध्यायसामग्री-निर्माणम् -

सम्प्रति निम्नलिखिताः कार्यक्रमाः प्रचलन्ति -

पत्राचार-माध्यमेन संस्कृत

देशेषु विदेशेषु च प्रारम्भिक-संस्कृतशिक्षणार्थिणां कृते हिन्दी-आंग्लमाध्यमेन संस्कृतभाषाशिक्षणार्थं द्विवर्षीयः पत्राचार-पाठ्यक्रमः सञ्चलति।

अनौपचारिकसंस्कृतशिक्षणम्

संस्थानम् अखिल-भारतीयस्तरे अनौपचारिक-संस्कृत-शिक्षण-केन्द्र-माध्यमेन-दीक्षा नाम्नी क्रमिक-संस्कृत-स्वाध्याय-सामग्रीं संचालयति।

संस्कृत भाषा-शिक्षक प्रशिक्षणम्

संस्थानं संस्कृतभाषाशिक्षणार्थम् अखिलभारतीयस्तरे शिक्षक-प्रशिक्षण-कार्यक्रमम् आयोजयति।

शास्त्रीय-ग्रन्थनाम् उन्नतशिक्षणम्

संस्थानं भाषासंस्कृतशिक्षणस्य मुद्रित-सामग्रीं निर्माति। तस्याः प्रचारं प्रसारमपि विदधाति।

स्वाध्यायसामगीनिर्माणम्

संस्थानं भाषासंस्कृतशिक्षणस्य मुद्रित-सामग्रीं निर्माति। तस्याः प्रचारं प्रसारमपि विदधाति।

इलेक्ट्रॅनिक-माध्ययेन संस्कृत-कार्यक्रमाणां प्रसारणम्

संस्थानं इन्दिरा गान्धी राष्ट्रीय-मुक्तविश्वविद्यालयस्य ज्ञानदर्शनस्य भाषा-मन्दाकिनी चैनल-माध्ययेन प्रतिदिनं संस्कृत-कार्यक्रमं प्रसारयति। डी.डी. भारती इति चैनल-माध्ययेन संस्कृतभाषाप्रशिक्षण-कार्यक्रमस्य प्रसारणं सप्ताहे त्रिवारं सस्थानेन संचालयति।

पारम्परिक-पद्धत्या संस्कृतशिक्षणार्थं पाठ्यक्रमनिधारणम्

संस्थानं स्वपरिसरेषु सम्द्धसंस्थासु च परिम्परिकपद्धत्या संस्कृतशिक्षणार्थ प्रथमातः आचार्यं यावत् पाठ्यक्रमान् निर्धारयति।

परीक्षा

संस्थानंसमस्तापाठ्यक्रमाणां परीक्षां संचालयति। पूर्वमध्यमा (अष्टम कक्षा), मध्यमा (दशमकक्षा) उत्तरमध्यमा प्राकशास्त्री (द्वादश कक्षा) शास्त्री (बी.ए.) आचार्यः (एम.ए.) इति कक्षाणां प्रमाणपत्रम् / उपाधिं छात्रेभ्यः प्रददाति।
शिक्षाशास्त्री शिक्षाचार्यः पाठ्यक्रमार्थ प्रवेशस्य हेतोः अखिलभारतीय-पूर्वशिक्षाशास्त्री परीक्षा (पी.एस.एस.टी.) संचालयति।
परिसरेषु सम्बद्धसंस्थासु शोधार्थिनां विविधशास्त्राणां शोधप्रबन्धानां मूल्यांकनं ततः मौखिकी परीक्षानन्तरं विद्यावारिधिः (पीएच.डी.) इति उपाधिं प्रददाति।

परिसराणां स्थापाना

संस्थानंपारम्परिकपद्धत्या संस्कृतशिक्षणार्थ देशस्य विविधेषु प्रान्तेषु स्वपरिसराणांस्थापनाम्अधिग्रहणं संचालनं च करोति। इदानीसंस्थानस्य दश परिसराः सन्ति।

छात्रवृत्तिः

संस्थानंस्वपरिसरेषु भिन्नशिक्षणसंस्थासु च अध्ययनरतानां संस्कृतसुयोग्यछात्राणां कृतेछात्रवृत्तिं वितरति। तत्र द्विविधा छात्रवृत्तिर्भवति-
1. उच्चमाध्यमिकोत्तरा (स्नातकोत्तरं यावत्)
2. शोधच्छात्रवृत्तिः